________________
९२
सूत्रकृताङ्ग सूत्रम् १/३/१/१७०
॥१॥ "खिजइ मुहलावण्णं वाया घोलेइ कंठमझमि ।
कहकहकहेइ हिययं देहित्ति परं भणंतस्स ।। ॥२॥ गतिभ्रंशो मुखे दैन्यं, गात्रस्वेदो विवर्णता।
मरणे यानि चिह्नानि, तानि चिलानि याचके ।। इत्यादि, एवं दुस्त्यजं याच्यापरीषहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्तीति । श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति 'पृथगजनाः' प्राकृतपुरुषा अनार्यकल्पा 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा
ये एते यतयः जल्लाविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ताःपूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभि-कृष्यादिभिरातः-तत्कर्तुमसमर्था उद्विग्नाः सन्तोयतयः संवृत्ता इति, तथैते दुर्भगाः' सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रव्रज्यामभ्युपगता इति। मू. (१७१) एते सद्दे अचायंता, गामेसु नगरेसु वा ।
तत्य मंदा विसीयंति, संगाममिव भीरुया ।। वृ. 'एतान्' पूर्वोक्तानाक्रोशरूपान्तथा चौरचारिकादिरूपान्शब्दान सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः 'तत्र' तस्मिन् आक्रोशे सति ‘मन्दा अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः 'संग्रामे रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशः पटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्मनादल्पसत्त्वाः संयमे विषीदन्ति ।। मू. (१७२) अप्पेगे खुधियं भिक्खुं, सुणी डंसति लूसए।
तत्य मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥ वृ. वधपरीषहमधिकृत्याह-'अप्पेगे इत्यादि,अपिसंभावने, एकः कश्चिच्छ्वादिलूषयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधियं तिक्षुधितं-बुभुक्षितंभिक्षामटन्तंभिक्षु 'दशति' भक्षयति दशनैरङ्गावयवंविलुम्पति, 'तत्र' तस्मिन् श्वादिभक्षणेसति मन्दा' अज्ञाअल्पसत्त्वतया विषीदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनो' जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्चैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्रामकण्टकानाम् पुनरपि तानधिकृत्याहमू. (१७३) अप्पेगे पडिभासंति, पडिपंथियमागता ।
पडियारगता एते, जे एते एव जीविणो । वृ.अपिःसंभावने, 'एके केचनापुष्टधर्माणः-अपुण्यकर्माणः 'प्रतिभाषन्ते'ब्रुवते, प्रतिपयःप्रतिकूलत्वं तेन चरन्ति प्रातिपन्थिकाः-साधुविद्वेषिणस्तदावमागताः कथञ्चिप्रतिपथे वा हटा अनार्या एतद्ब्रुवते, सम्भाव्यतऐतदेवंविधानां, तद्यथा-प्रतीकारः-पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो य एते' यतयः ‘एवंजीविन' इति परगृहाण्यटन्त अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुञ्चितशिरसः सर्वभोगवञ्चिता दुःखितं जीवन्तीति ।। मू. (१७४) अप्पेगे वइ जुंजंति, नगिणा पिंडोलगाहमा।
मुंडा कंडूविणटुंगा, उज्जला असमाहिता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org