________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशकः- १
९१
'शूराः' शूरंमन्याः-सुभटाः, ततः सङ्गङ्ग्रामेसमुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्घाते सति तत्र च सर्वस्या-कुलीभूतत्वात्।
माता पुत्रंनजानाति कटीतो भ्रश्यन्तस्तनन्धयमपिनसम्यक्प्रतिजागर्तीत्येवंमातापुत्रीये सङ्गङ्ग्रामे परानीकसुभटेन जेत्राचक्रकुन्तनाराचशक्त्यादिभि परि-समन्तात् विविधम्-अनेकप्रकारं क्षतो-हतश्छिन्नो वा यथाकश्चिदल्पसत्त्वो भङ्गमुपयाति दीनो भवतीतियावदिति दान्तिकमाहमू. (१६७) एवं सेहेवि अप्पुढे, भिक्खायरियाअकोविए।
सूरं मन्नति अप्पाणं, जाव लूहं न सेवए। वृ. 'एवमितिप्रक्रान्तपरामर्शार्थः, यथाऽसौशूरंमन्य उत्कृष्टिसिंहनादपूर्वकंसङ्ग्रामशिरस्युपस्थितः पश्चाजेतारं वासुदेवमन्यवायुध्यमानंदृष्ट्वादैन्यमुपयाति, एवं शैक्षकः' अभिनवप्रव्रजितः परीषहैः अस्पृष्टः अच्छुप्तः किं प्रज्यायांदुष्करमित्येवं गर्जन् 'भिक्षाचर्यायां भिक्षाटने अकोविदः' अनिपुणः,उपलक्षणार्थत्वादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितत्वा-दप्रवीणः,सएवम्भूत आत्मानं तावच्छिशुपालवत्शूरंमन्यते यावओतारमिव 'रू' संयमं कर्मसंश्लेषकारणा- भावात् 'नसेवते' न भजत इति, तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति॥ मू. (१६८) जया हेमंतमासंमि, सीतं फुसइ सव्वगं।
तत्थ मंदा विसीयंति, रजहीणा व खत्तिया ।। वृ, संयमस्य रूक्षत्वप्रतिपादनायाह-'जया हेमंते' इत्यादि, 'यदा कदाचित् 'हेमन्तमासे' पौषादौ 'शीतं' सहिमकणवातं 'स्पृशति' लगति 'तत्र' तस्मिन्नसह्ये शीतस्पर्शे लगति सति एके 'मन्दा' जडागुरुकर्माणो विषीदन्ति दैन्यभावमुपयान्ति राज्यहीना राज्यच्युताः यथा-क्षत्रिया राजान इवेति उष्णपरीषहमधिकृत्याहमू. (१६९) पुढे गिम्हाहितावेणं, विमणे सुपिवासिए।
तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ।। वृ. 'ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापस्तेन 'स्पृष्टः' छुप्तोव्याप्तः सन् ‘विमनाः' विमनस्कः, सुष्ठु पातुमिच्छा पिपासा तां प्राप्तोनितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्र' तस्मिन्नुष्णपरीषहोदये 'मन्दा' जडाअशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह
मत्स्याअल्पोदकेविषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवंसत्त्वाभावात्संयमात्भ्रश्यन्त इति, इदमुक्तं भवति-यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति, एवमल्पसत्त्वाश्चारित्रप्रतिपत्तावपि जल्लमलक्लेदक्लिन्नगात्रा बहिरुष्णाभितप्ताः शीतलान जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुस्मरन्ते-व्याकुलितचेतसः संयमानुष्ठान प्रति विषीदन्ति। मू. (१७०) सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया।
कम्मत्ता दुब्भगा घेव, इचाहंसु पुढोजणा। वृ.साम्प्रतंयाच्जापरीषहमधिकृत्याह-'सदा दत्ते' इत्यादि, यतीनां सदा सर्वदादन्तशोधनाद्यपिपरेण दत्तम् एषणीयम्-उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनात नां यावज्जीवं परदत्तैषणा दुःखं भवति, अपिचेयं 'याच्या' याच्यापरीषहोऽल्पसत्त्वैर्दुखेन ‘प्रणोद्यते' त्यज्यते, तथा चोक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org