________________
४४
सूत्रकृताङ्ग सूत्रम् १/१/२/४७
एवमेगे नियायट्ठी, धम्ममाराहगा वयं।
अदुवा अहम्ममावजे, न ते सव्वजुयं वए। वृ. 'एव'मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः 'नियायट्टी'त्ति नियागो-मोक्षः सद्धर्मो वा तदर्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तां तावन्मोक्षाभावः,तएवं प्रवर्तमाना अधर्म' पापमापद्येरन्, संभावनायामुत्पन्नेन लिङप्रत्ययेनैतदर्शयति-एतदपरं तेषामनर्थान्तरं संभाव्यते यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तेः पापोपादानमिति। ____ अपिच-तएवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वै प्रकारैऋजुः-प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जुः-संयमः सद्धर्मो वा तं सर्वर्जुकं ते न व्रजेयुः' न प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तषष्टिभेदा भवन्ति, तेच भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथाजीवादयो ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तषष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्था, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यःसदसदवक्तव्य इत्येतैः सप्तमिप्रकारैर्विज्ञातुंनशक्यन्ते, नचविज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति?।
किंवातेन ज्ञातेन?,असन्जीवइति कोवेत्ति? किंवातेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येकं सप्तविकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथासतीभावोत्पत्तिरिति कोजानाति? किंवाऽनयाज्ञातया?, एवमसतीसदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवति, तत्र सन् जीव इति को वेत्तीत्यस्यायमर्थो-न कस्यचिद्विविष्टं ज्ञानमस्ति योऽतीन्द्रियान्जीवादीनवभोत्स्यते, न च तैतिः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति?, तस्मादज्ञानमेव श्रेय इतिपुनरपि तदुषणाभिधित्सयाऽऽहमू. (४८) एवमेगे वियकाहिं, नो अन्नं पञ्जुवासिया।
अप्पणो य वियकाहिं, अयमंजूहिं दुम्मई ॥ वृ. 'एवम्' अनन्तरोक्तया नीत्या एके-केचनाज्ञानिका 'वितर्काभिः' मीमांसाभिः स्वोत्प्रेक्षिताभिरसत्कल्पनाभि परम् अन्यमार्हतादिकंज्ञानवादिनं 'नपर्युपासते'नसेवन्तेस्ववलेपग्रहग्रहस्ताः वयमेव तत्त्वज्ञानाभिज्ञा नापरः कश्चिदित्येवं नान्यं पर्युपासत इति । तथा आत्मीयैर्वितकैरेवमभ्युपगतवन्तो।
यथा 'अयमेव' अस्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्ग 'अंजूरिति निर्दोषत्वाव्यक्तः-स्पष्टः, परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकुटिलः, यथाव्यितार्थाभिधायित्वात्, किमिति (ते) एवमभिदधति? – “हि'यस्मादर्थे यस्मात्ते 'दुर्मतयो' विषर्यस्तबुद्धय इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org