________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - २
४३
श्रेय इति। एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावदुरुतरदोषसंभवः, तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ।। __ एवमज्ञानवादिमतमनूचेदानीं तद्दूषणायाहमू. (४४) अन्नाणियाणं वीमंसा, अन्नाणे न विनियच्छइ।
अप्पणो य परं नालं, कुतो अन्नाणुसासिउं? || वृ.न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दत्वाद्वा मत्वर्थीयः, गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम्-अज्ञानमेव श्रेय इत्येवंवादिनां, योऽयं 'विमर्श' पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञान विषये न नियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावत्, तथाहि-यैवंभूता मीमांसा विमर्शो वा किमेतज्ज्ञानं सत्यमुतासत्यमिति?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतोविमर्शस्तेषां नबुध्यते, एवंभूतस्यपर्यालोचनस्यज्ञानरूपत्वादिति
__ अपिच-तेऽज्ञानवादिन आत्मनोऽपि ‘परं' प्रधानमज्ञानवादमिति 'शासितुम्' उपदेष्टुं 'नालं' न समर्था, तेषामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कृतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानामज्ञानवादमुपदेष्टुमलं-समर्थ । भवेयुरिति ? । यदप्युक्तं-'छिन्नमूलत्वात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिकं,' तदप्ययुक्तं, यतोऽनुभाषणमपि ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं परचेतोवृत्तीनांदुरन्वयत्वादज्ञानमेव श्रेय इति,' तदप्यसत्, यतोभवतैवाज्ञानमेव श्रेय इत्येवंपरोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्यैरप्यभ्यधायि ॥१॥ “आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च।
नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ।। तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासनेकर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाहमू. (४५) बने मूढे जहा जंतू, मूढे नेयाणुगामिए।
दोवि एए अगकोविया, तिव्वं सोयं नियच्छइ ।। वृ. 'वने' अटव्यां यथा कश्चिन्मूढो 'जन्तुः प्राणी दिकपरिच्छेदं कर्तुमसर्थ स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा द्वावपि अकोविदौ सम्यगज्ञानानिपुणौ सन्तौ 'तीव्रम्' असह्य स्रोतो' गहनं शोकं वा 'नियच्छतो' निश्चयेन गच्छतः-प्राप्नुतः, अज्ञानावृतत्वात् । एवं तेऽप्यज्ञान- वादिन आत्मीयं मार्ग शोभनत्वेन निर्धारयन्तः परकीयं चाशोभनत्वेन जानानाः स्वयं मूढाः सन्तः परानपि मोहयन्तीति अस्मिन्नेवार्थे दृष्टान्तान्तरमाहमू. (४६) अंधो अंधं पहं निंतो, दूरमद्धानु गच्छइ ।
आवझे उप्पहं जंतू, अदुवा पंथानुगामिए।। वृ.यथाअन्धः स्वयमपरमन्धंपन्थानंनयन् ‘दूरमध्वानं विवक्षितादध्वनः परतरंगच्छति, तथोत्पथमापद्यते जन्तुरन्धः अथवा परं पन्थानमनुगच्छेत्, न विवक्षितमेवाध्वानमनुयायादिति ।। एवं दृष्टान्तं प्रसाध्य दान्तिकमर्थं दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org