________________
१३३
श्रुतस्कन्धः -१, अध्ययनं - ४, उद्देशकः - २ वागुरापतितः परवशो मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वर्चःशोधनादावपि नियोज्यते।
____ तथा कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारमयमैथुनपरिग्रहाभिज्ञ एंव केवलम्, एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-सस्त्रीवशगोदासमृगप्रेष्यशुभ्योऽप्यधमत्वान्न कश्चित्, एतदुक्तं भवति-सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा-न स कश्चिदिति, उभयभ्रष्टत्वात्, तथाहि-न तावप्रव्रजितोऽसौ सदनुष्ठानरहितत्वात्, नापि गृहस्थः ताम्बूलादिपरिभोगरहितत्वाल्लोचिकामात्रधारित्वाञ्च, यदिवा एहिकामुष्मिकानुष्ठायिनां मध्येन कश्चिदिति ।
साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाहमू. (२९६) एवंखु तासु वित्रप्पं, संथवं संवासं च वज्जेज्जा ।
तजातिआ इमे कामा, वजकरा य एवमक्खाए । वृ. एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्-उक्तं, तद्यथा-यदि सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्धं 'संस्तवं' परिचयं तत्संवासंच स्त्रीभिःसहैकत्र निवासंचात्महितमनुवर्तमानः सर्वापायभीरु त्यजेत्' जह्यात्, यतस्ताभ्यो-रमणीभ्यो जाति-उत्पत्तिर्येषां तेऽमी कामास्तजातिकारमणीसम्पर्कोत्तास्तथा 'अवा' पापं वजं वा गुरुत्वादधःपातकत्वेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा वेत्येवम् ‘आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति । मू. (२९७) एयं भयं न सेयाय, इइ से अप्पगं निलंभित्ता।
नो इत्थिं नो पसुंभिक्खू, नो सयं पाणिणा निलिझेना ।। वृ. सर्वोपसंहारार्थमाह-'एवम्' अनन्तरनीत्या भयहेतुत्वात्स्त्रीभिर्विज्ञप्तं तथा संस्तवस्तत्संकासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुत्वात्तस्येत्येवं परिज्ञाय स भिक्षुरव- गतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तद्दर्शयति-न स्त्रियं नरकवीथीप्रायां नापिपशुं ‘लीयेत' आश्रयेत स्त्रीपशुभ्यांसह संवासं परित्यजेत्, ‘स्त्रीपशुपण्डकविवर्जिताशय्ये तिवचनात, तथास्वकीयेन पाणिना' हस्तेनावाच्यस्य 'न निलिज्जेज'त्ति न सम्बाधनं कुर्यात्, यतस्तदपि हस्तसम्बाधानं चारित्रंशबलीकरोति, यदिवा स्त्रीपश्चादिकं स्वेन पाणिना न स्पृशेदिति अपि चमू. (२९८) सुविसुद्धलेसे मेहावी, परकिरिअंघ वजए नाणी।
मणसा वयसा कायेणं, सव्वफाससहे अनगारे ।। वृ. सुष्टु-विशेषेणशुद्धा-स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य स तथासएवम्भूतो मेघावी' मर्यादावर्ती परस्मै-स्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'वर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुन्निाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्, एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत् ।
तथाहि-औदारिककामभोगार्थं मनसान गच्छति नान्यंगमयति गच्छन्तमपरं नानुजानीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org