SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं ७, ४५१ प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस्य वणिजः षट्पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः । तदनन्तरमेव स्थगितानि च नगरद्वाराणि तेषां च तत्कालात्ययान्न निर्गमनमभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयित्वा स्थिताः, ततो निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टाः यथा सम्यक् निरुपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरुपयद्भिरुपलभ्य षट्वणिकपुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्नलोऽकाण्डापतितकुलक्षयोदभ्रान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा यथा मा कृथा देवास्माकं कुलक्षयं, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः क्रियतामयमस्माकमनुग्रह इति । 7 एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानमिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान्, तानप्यसौ राजान मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं तथापि राजा तमनाध्त्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत्, तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं पार्थितवान्, तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान्, तद्यथा देवाकाण्ड एवास्माकं कुलक्षयः समुपस्थितः स तस्माच्च भवन्त एव त्राणायलम्, अतः क्रियतामेकमपुत्रविमोचने न प्रसाद इति भणित्वा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्स्य दान्तिकयोजनेयं, तद्यथा साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थं विज्ञापितोऽपि न षडपि पुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रिद्विसंख्यान् पुत्रानिति, तत एकविमोक्षणेनात्मानं कुतार्थमिव मन्यमानः स्थितोऽसौ एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्निमित्तः कुशलानुबन्ध एवेत्येत्सूत्रेणैव दर्शयितुमाह 'तसेहि'मित्यादि, त्रस्यन्तीति त्रसाः- द्वीन्द्रियादयस्तेभ्यः सकाशाशिधाय निहाय वा परित्यज्येतियावत् कं ? - दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च ' त्रसप्राणातिपातविरमणव्रतं 'तेषां' दशविरतनां कुशल हेतुत्वात्कुशलमेव भवति ।। यच्च प्रागभिहितं तद्यथा तमेवत्रसंस्थावरपर्यायापन्नं नागरकमिव बहिस्थं व्यापादयतोवश्यंभावी व्रतभङ्ग इत्येतत् परिहर्तुकाम आह मू. (८०१) तसावि वुच्छंति तसा तससंभारकडेणं कम्मुणा नामं च णं अब्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायट्ठिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरतए पञ्चायंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy