________________
२३६
सूत्रकृताङ्ग सूत्रम् 9/१२/-/५४१
सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिझरेभ्यो नम्र वन्ति । तथा वाताः सततगतयो न वान्ती । किंबहुनोक्तेन?, कृत्स्नोऽप्ययंलोको वन्ध्यः' अर्थशून्यो 'नियतो निश्चितः अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते तन्मायास्वप्नेन्द्रजालकल्पमिति । मू. (५४२) जहाहि अंधे सह जोतिणावि, रूवाइ नो पस्सति हीननेत्ते।
संतपि ते एवमकिरियवाई, किरियं न पस्संति निरुद्धपन्ना ।। वृ.एतत्परिहर्तुकाम आह-यथा ह्यन्धो-जात्यन्धः पश्चाद्वा हीननेत्रः अपगतचक्षु 'रूपाणि घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति' नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तक्रियां चास्तित्वादिकां परिस्पन्दादिकां वा न पश्यन्ति । किमिति? --
___ यतो निरुद्धा-आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहिआगोपालगनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्धाटनपटीयानादित्योद्गमः प्रत्यहं भवन्नुपलक्ष्यते, तक्रियाच देशाद्देशान्तरावाप्तयाऽन्यत्र देवदत्तादौ प्रतीताऽनुभीयते ।चन्द्रमाश्च प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृध्ध्या प्रवर्धमानः संपूर्णावस्था यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितश्च प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्च वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता।
सर्वमिदं मायास्वप्नेन्द्रजालकल्पमिति, तदसत्, यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात्, यश्चमायां प्रतिपादयेत् यस्य च प्रतिपाधते सर्वशून्यत्वे तयोरेवाभावात्कुतस्तद्वयवस्थितिरिति ?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्थाप्यते तस्या अभावेतस्याप्यभावः स्यात्ततःस्वप्नमभ्युपगच्छता भवता तन्नान्तरीयकतयाजाग्रदवस्थाऽ वश्यमभ्युपगता भवति, तदभ्युपगमेचसर्वशून्यवहानि, नच स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनु. भूतादेः सद्भावात्, तथा चोक्तम् - ॥१॥ “अणुहूयदिट्टचिंतिय सुयपयइवियारदेवयाऽनूया।
सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ।। इन्द्रजालव्यवस्थाऽप्यपरसत्यत्वे सति भवति, तदभावेतु केन कस्य चन्द्रजालंव्यवस्थाप्येत् ?,द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकस्मिंश्च चन्द्रमस्युपलंभकसद्भावे चघटते न सर्वशून्यत्वे, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्रतिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि -
शशोऽप्यस्तिविषाणमप्यस्ति किंवत्र शशमस्तकसमवायिविषाणंनास्तीत्येतत्प्रतिपाद्यते, तदेवं सम्बन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्त्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति ।
अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवेदिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनस्त्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्तश्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थं परिच्छेदं चिदधति, तदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org