________________
श्रुतस्कन्धः-१, अध्ययनं-१५,
२७९
इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तप्रतिपादिकाया युक्तेरसंभवादिति । मू. (६१४) मिजई महावीरे, जस्स नत्यि पुरेकडं।
वाउव्व जालमचेति, पिया लोगंसि इथिओ॥ वृ.किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेषकर्मानजात्यादिना मीयते' परिच्छिद्यते, नभ्रियतेवा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन न म्रियते-न पूर्यते, किमिति?, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृतं' जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य ‘नास्ति' न विद्यते पुरस्कृतं, पुरस्कृतकर्मोपादानाभावाच्च न तस्यजातिजरामरणैर्मरणं संभाव्यते ।
तदाश्रवद्वारनिरोधाद्, आश्वाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वालां' दहनामिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं लोके' मनुष्यलोके हावभावप्रधानत्वात् 'प्रिया' दयितास्तत्रियत्वाञ्च दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाचेति, तथा चोक्तम॥१॥ "स्मितेन भावेन मदेन लज्जया, परामुखैरर्घकटाक्षवीक्षितैः ।
वचोभिरीष्यार्कलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः ।। ॥२॥ स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धिभेदे स्त्रिय एव मूलम् ।
अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ।। इत्येवं तत्स्वरूपं परिज्ञाय तज्जयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति?, अत्रोच्यते, केषाञ्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः -- ॥१॥
“न मांसभक्षणे दोषो, न मधेन च मैथुने।
प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला॥ इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुर्याम एवधर्मः इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानिइदंतुनिरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि,अथवा सर्वाण्यपि व्रतानि तुल्यानि, एकखण्डने सर्वविराघनमितिकृत्वा येन केनचिन्निर्देशो न दोषायेति ।।
-अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाहमू. (६१५) इथिओ जे न सेवंति, आइमोक्खा हु ते जणा।
तेजणा बंधणुम्मुक्का, नावकंखंति जीवियं ।। वृ.येमहासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणया स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलषन्तित एवंभूताजना इतरजनातीताः साधव आदौप्रथमं मोक्षः-अशेषद्वन्दोपरमरूपो येषांते आदिमोक्षाः-प्रधानभूतमोक्षाख्यपुरुषार्थोथताः, आदिशब्दस्य प्रधानवाचित्वात्, न केवल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org