________________
श्रुतस्कन्धः - २, अध्ययनं - २,
३४९
तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ।। अथैकः कश्चिव्यतिपथेन- अभिमुखेन चरतीति प्रातिपथिक स्तद्भावं प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभि ख्यापयतीति ।। अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं' खचखननत्वं प्रतिपाद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृत्वातमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन् खत्रं खनन् प्राणिनां छेत्ता भेत्ता विलुम्पयिता भवतीति एतच्च कृत्वाऽऽहारमाहायतीति एतचोपलक्षणमन्यांश्च कामभोगान् स्वतो भुङ्गेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति । अथैकः कश्चिदसदनुष्ठायी घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् । अथैकः कश्चिदधर्मकर्मवृत्ति उरभ्रा उरणकास्तैश्चरति यः स औरधिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्येोरभ्रं वाऽन्यं वा त्रसं प्राणीनं स्वमांसपुष्टयर्थं व्यापादयित, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ।
अत्रान्तरे सौकरिकपदं तच्च स्वबुध्धया व्याख्येयं, सौकरिकाः, श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चत् क्षुद्रसत्वो 'वागुरिकभावं' लुब्धकत्वं 'प्रतिसंधाय' प्रतिपद्य वागुरया 'मृगं' हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थं स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेता भेत्ता भवति, शेषं पूर्ववत् ।। अथैकः कश्चिदधमोपायजीवी शकुना लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रतिसंधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ।। अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्यं जलचरंप्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात्, शेषं सुगमम् । अथैकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृत्वा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ।। अथैकः कश्चित्कूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं प्राणिनं व्यापादये, तस्य च हननादिकाः क्रियाः कुर्यादिति ।
अथैकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति पद्य' सारमेयपापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा 'परं' मृगसूकराकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिदनार्यो निर्विवेकः 'सोवणियंतियभावं' ति श्वभिश्चरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः पर्यंन्तवासीत्यर्थ, शौवनिकश्चासावान्तिकश्च शीवनिकान्तिकः क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति, तदसौ तद्भावं प्रतिसंधाय दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिकं त्रसं प्राणिनं हन्ता भवति, अयं च ताच्छीलिकस्तृन् लुटूप्रत्ययो वा द्रष्टव्यः, तृचि तु साध्याहारं प्राग्वद्याख्येयं तद्यथा- पुरुषं व्यापादयेत् तस्य च हन्ता छेत्ता इत्यादि, तृनलुट्प्रत्ययौ प्रागपि योजनीयाविति । तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति ॥
उक्ताऽ सदाजीवनोपायभूता वृत्तिः, इदानीं क्वचित्कुतश्चिन्निमित्तादभ्युपगमं दर्शयतिमू. (६६४) से एगइओ परिसामज्झाओ उट्ठित्ता अहमेयं हणामित्तिकट्टु तित्तिरं वा वट्टगं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International