________________
३४८
सूत्रकृताङ्ग सूत्रम् २/२/-१६६३
भवइ ।। से एगइओ गोधायभावं पडिसंधाय तमेव गोणं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।।से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजवियहंता जाव उवक्खाइत्ता भवइ॥
से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।। से एगइओ सोवणियंतियभावं पडिसंधाय तमेव मणुस्सं वा अन्नयरं वा तसं पाणं हताजाव आहारं आहारेति, इति से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ।
वृ.स एकः कदाचिन्निस्त्रिंशः साम्प्रतापेक्षीअपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवर्ती आत्मनिमित्तं वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-स्वजनास्तन्निमित्तंतथाऽगारनिमित्तं-गृहसंस्करणार्थ सामान्येन वाकुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञातएव ज्ञातकःपरिचितस्तमुद्दिश्य तथा सहवासिकं वा-प्रातिदेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः -
तानि च दर्शयितुमाह-'अदुवे' त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षयापक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, सचाकार्याध्यवसायेन विवक्षितस्थानकालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तंगच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरापेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिको भवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मस्वजनार्थं संधिच्छेदको भवति-चौर्यप्रतिपद्यते, अथवोर मेषैश्चरत्यौरभ्रमिकः अथवासौकरिका भवति, अथवा शकुनिभिपक्षिभिश्चरतीति शाकुनिकः अथवावागुरया-मृगादिबन्धनरज्ज्वाचरतिवागुरिकःअथवा मत्यैश्चरति मात्स्यिकः, अथवा गोपालभावंप्रतिपद्यते, अथवा गोघातकः स्याद्, अथवाश्वमिश्चरति शौवनिकः शुनांपरिपालको भवतीत्यर्थः,अथवा 'सोवणियं तिश्वभिपापर्द्धिकुर्वन्मृगादीनामन्तंकरोतीत्यर्थः।
तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति-तत्रैकः कश्चिदात्माद्यर्थं अपरस्य गन्तुामान्तरं किञ्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय' सहगन्तृभावेनानुकूल्यंप्रतिपद्य विवक्षितवञ्चनावसरकालाद्यपेक्षीतमेवगच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः तथा छेत्ता खङ्गादिना हसतपादादेः तथा भेत्ता वज्रमुष्टयादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथाविलुम्पयिताकशाप्रहारादिभिरत्यन्तदुःखोत्पादनेनतथाअपद्रावयिता जीविता-धपरोपणतो भवतीत्येवमादिकं कृत्याऽऽहारमाहारयत्यसौ, एतदुक्तं भवतिगलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्यतंबहुविधैरुपायैर्विश्रम्भे पातयित्वाभोगार्थी मोहान्धः साम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारिदकां भोगक्रिया विधत्ते । इत्येवमसी महभिरैः कर्मभिः-अनुष्ठानैर्महापातकभूतैतिीव्रानुभावैर्दीर्घस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहिअयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानंतथा बन्धयति तथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यङनरामररूपतयाऽऽख्यात इति।
तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातयित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org