________________
४०८
सूत्रकृताङ्ग सूत्रम् २/५/-७१५ विद्यत' इतिकृत्वा सांख्याभिप्रायेणसत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात्अतःसर्वसर्वात्मकमित्येवं व्यवस्थिते सर्वत्र घटपटादौ अपरस्य-व्यक्तस्य वीर्यं शक्तिविद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवंसंज्ञांनोनिवेशयेत्, तथा सर्वेभावाः स्वभावेन, स्वस्वभावव्यवस्थिता'इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य वीर्यशक्तिरित्येवमपि संज्ञांनोनिवेशयेत्।युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्वसर्वात्मकं देशकालाकारप्रतिबन्धात्तुनसमानकालोपलब्धिरिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, नच टेऽनुपपन्न नाम, नच सर्वंमिथ्येत्यभ्युपपत्तुंयुज्यते, यतो दृष्टहानिरष्टिकल्पना घ पापीयसी।
किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यञ्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृति प्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकत्वाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमानेसत्त्वरजस्तमसामप्येकत्वंस्यात्, तद्भदेच सर्वस्यतद्वदेवभेद इति।तथा यदप्युच्यते'सर्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चुपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादेचाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वाङ्मात्रं,तथाहि-यदि सर्वथा कारणे कार्यमस्ति नतर्युत्पादोनिष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यत, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्ति स्यात्, न चैतद्दष्टमिष्टं वा।
- अपिच-एवंसर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवंचनशाल्यङ्कुरार्थी शालीबीजमेवादद्याद् अपि तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतोनासत्कार्यवादइति। तदेवंसर्वपदार्थानां सत्त्वज्ञेयत्वप्रमेयत्वादिभिधर्मः कथञ्चिदेकत्वं तथा प्रतिनियतार्थकार्यतयायदेवार्थक्रियाकारितदेवपरमार्थतः सदितिकृत्वा कथञ्चिभेद इति सामान्यविशेषात्मकं वस्त्विति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्कका अपि द्रष्टव्याः, ततश्च सर्वं वस्तु सप्तमङ्गीस्वभावं ।
तेचामी-स्वद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याधपेक्षया स्यान्नास्ति, अनयोरेव धर्मयोटैगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्तिच स्यान्नास्ति चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षयापरस्यतुसामस्त्येन स्वपरद्रव्याधपेक्षयाविवक्षितत्वात्स्यादस्तिचावक्तव्यंचेति, तथैकस्यांशश्यपरद्रव्याद्यपेक्षया परस्यतु परद्रव्याद्यपेक्षयाऽन्यस्यतुयोगपद्येनस्वपरद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्तिच नास्ति चावक्तव्यं चेति, इयंच सप्तमङ्गी यथायोगमुत्तरत्रापि योजनीयेति
___ तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं प्रतिपादयितुकाम आह-यदिवा सर्वत्रवीर्यमस्ति नास्ति सर्वत्र वीर्य'मित्यनेन सामान्येन वस्त्वस्तित्वमुक्तं, तथाहि-सर्वत्र वस्तुनो 'वीर्य' शक्तिरर्थक्रियासामार्थ्यमन्तशः स्वविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा ननिवेशयेत्, सर्वत्र वीर्यनास्तीतिनोएवंसंज्ञा निवेशयेदिति, अनेनाविशिष्टं वस्त्वस्तित्वंप्रसाधितम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org