________________
श्रुतस्कन्धः-२, अध्ययनं-५,
४०७
-तथाऽन्यैरप्यभिहितम्॥१॥ उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति ।
यस्यामकार्यं कार्यं स्यात्कर्म कार्यं च वर्जयेद् ।। इत्यादि मू. (७१३) एएहिं दोहि ठाणेहिं, ववहारो न विजई।
एएहि दोहिं ठाणेहिं, अणनयारं तु जाणए। वृ.किमित्येवंस्थाद्वादः प्रतिपाद्यत इत्याह-द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात्, तथाहि-क्षुप्रीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमईमपि कुर्यात् मच्छादिसदभावतयाचदेहपातेसत्यवश्यंभावीत्रसादिव्याघातोऽकालमरणेचाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमश्च-“सब्बत्थसंजमं संजमाओअप्पाणमेवरक्खेज्जा" इत्यादिनाऽपितदुपभोगेकर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपि निष्पाद्यमानेषडजीवनिकायवधस्तद्वधेचप्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यव-हरणं व्यवहारो नयुज्यते, तथा ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ।
पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाहमू. (७१४) जमिदं ओरालमाहारं, कम्मगंच तहेव य।
सव्वत्थ पीरियं अस्थि, नथि सव्वत्थ वीरियं ।। मू. (७१५) एएहिं दोहिं ठाणेहिं, ववहारो न विजई।
एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए। दृ. यदिवा योऽयमनन्तमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिपादयितुकामः पूर्वपक्षद्वारेणाह-'जमिद'मित्यादि, यदिदंसर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निर्वृत्तमौदारिकमेतदेवोरालं निस्सारत्वाद्एतच्च तिर्यमनुष्याणां भवति, तथा चतुर्दशपूर्वविदा क्वचित्संशयादावाहियत् इत्याहारम्, एतदग्रहणाच्च वैक्रियोपादानमपि द्रष्टव्यं,तथा कर्मणा निवृत्तंकार्मणम्, एतत्सहचरितं तैजसमपिग्राह्यम्।औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाभ्यां सह युगपदुपलब्धः कस्यचिदेकत्वाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-तदेवतद्' यदेवौदारिकं शरीरंतेएवतैजसकार्मणेशरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञांनो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवं शरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञांनो निवेशयेत् ।
युक्तिश्चात्र यद्येकान्तेनाभेदएवततइदमौदारिकमुदारपुद्गलनिष्पत्रंतथैत्कर्मणा निर्वर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमित्तंचेत्येवं भेदेन संज्ञा निरुक्तंकार्यंचनस्यात्।अधात्यन्तिको भेद एव ततो घटवभिन्नयोर्देशकालयोरप्युपलब्धिःस्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिञ्च संज्ञाभेदाभेद इति स्थितं।
तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदी प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-सव्वत्थ वीरिय मित्यादि, 'सर्वं सर्वत्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org