SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं ५, - इदानीं तस्यैव वस्तु ईषद्विशेषितत्वेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाहनत्थि लोए अलोए वा, नेवं सन्नं निवेसए । अत्थि लोए अलोए वा, एवं सन्नं निवेसए । मू. (७१६) वृ. 'लोकः' चतुर्दशरज्वात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनंत्विदं, तद्यथा- प्रतिभासमानं वस्त्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा ?, तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणूनां प्रतिमासनासंभवात्, सर्वारातीयमागस्य च परमाण्वात्मकत्वात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यत्वात्, तथा चोक्तम् 109 11 ४०९ “यावधैश्यं परस्तावद्भागः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम् ॥ ॥१॥ इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमानस्यावयविन एवाभावात्, तथाहि असौ स्वावयवेषु प्रत्येकं सामस्त्येन वा वर्त्तेत ? अंशांशिभावेन वा ?, न सामस्त्येनावयविबहुत्वप्रसङ्गात्, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात् तस्माद्विचार्यमाणं न कथञ्चिद्वस्त्वात्मभावं लभते, ततः सर्वमेवैतन्मायास्वप्नेन्द्रजालमरुमरीचिकाविज्ञानसध्शं, तथा चोक्तम् "यथा यथाऽर्थश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते स्वयमर्थेभ्यो, रोचन्ते तत्र के वयम् ॥ इत्यादि । तदेवं वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञां निवेशयेत् । किंत्वस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसध्शः पञ्चास्तिकायात्मको वा, तद्वयतिरिक्तश्चालोकोऽप्यस्ति, सम्बन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र- यदि सर्वं नास्ति तत सर्वान्तः पातित्वाप्रतिषेधकोऽपि नास्तीत्यतस्तदभावाप्रतिषेधाभावः अपि च सति परमार्थभूते वस्तुनि मायास्वप्नेन्द्र- जालादिव्यवस्था, अन्यथा किमाश्रित्य को वा मायादिकं व्यवस्थापयेदिति । अपिच , ॥१॥ "सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सद् ॥ इत्यादि । यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते तदप्यार्हतमतानभिज्ञेन, तन्मतं त्वेवंभूतं, तद्यथा-नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथञ्चिल्लोकोऽस्त्येवमलोकोऽपीति स्थितम् । पू. (७१७) नत्थि जीवा अजीबा वा, नेवं सन्नं निवेसए । अस्थि जीवा अजीवा वा, एवं सन्नं निवेसए ॥ बृ. . तदेवं लोकालोकास्तित्वं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तित्वप्रतिपादनायाह-‘नत्थि जीवा अजीवेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गल कालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्त्तनालक्षणा न विद्यन्त इत्येवं संज्ञां परिज्ञानं नो निवेशयेत्, नास्तित्वनि-बन्धनं त्विदंप्रत्यक्षेणानुपलभ्यमानत्वाज्जीता न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं ग्निंसर्वं' यद्भूतं यच्च भाव्यमित्यागमात् तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy