SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३८० सूत्रकृताङ्ग सूत्रम् २/३/-/६७८ एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवं विधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम् । मू. (६७९)अहावरं पुरक्खायंइहेगतियासत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तजोणियातस्संभवा तदुवकमा कम्मोववनगा कम्मनियाणेणंतत्यवुकमारुखजोणिएहिं रुक्खेहिं अज्झारोहत्ताए विउद्घति, ते जीवा तेसिं रुस्खजोणियाणं रुक्खाणं सिणेहमाहारेति । तेजीवाआहारेति पुढवीसरीरंजाव सारूविकडंसंतं, अवरेवियणंतेसिं रुक्खजोणियाणं अन्झारुहाणं सरीरा नानावना जावमक्खायं । वृ.साम्प्रतंवृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह-अथापरमेतत्पुराऽऽख्यातंयद्वक्ष्यमाणमिल्के सत्वावृक्षयोनिका भवन्ति, तत्रय तेपृथिवीयोनिका वृक्षास्तेष्वेवप्रतिप्रदेशतयायेऽपरेसमुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्मकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषुचवृक्षयोनिकेषु वृक्षेषुकर्मोपादाननिष्पादितेषुउपर्युरिअध्यारोहन्तीत्यध्यारुहाः-वृक्षोपरिजातावृक्षा इत्यभिधीयन्ते, तेच वल्लीवृक्षाभिधानाः कामवृक्षाभिधाना वाद्रष्टव्याः, तदभावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वच्चत्वारि सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, तेच तत्रोत्पत्राः स्वयोनिभूतं वनस्पतिशरीरमाहारयन्ति, तथा पृथिव्यप्तेजोवाय्वादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसात्कृतं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथम सूत्रम्, । मू. (६८०) अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जावकम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसुअज्झारोहेसुअज्झारोहताए विउद्घति, तेजीवा तेसिं रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेति। ते जीवा पुढवीसरीरं भाव सारूविकडं संतं, अवरेवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावना जावमक्खायं। वृ. द्वितीयं त्विदम्-अथापरं पुराऽऽख्यातं ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतित्वेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्नाअध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम्। मू. (६८१) अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा अज्झारोहजोणिएसु अज्झारोहत्ताए विउद॒ति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy