________________
४६४
शब्दनयस्वरूपं त्विदं, तद्यथा-शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्गचचनसाधनोपग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्त्वन्यदेव भवति, तद्यथा- पुष्यस्तारका नक्षत्रमेवं संख्याभिन्नं जलमापो वर्षा ऋतु, साधनभेदस्त्वयं- एहि मन्ये रथेन यास्यसि, नहि यातस्ये पिता, अस्यायमर्थः एवं त्वं मन्यसे यथाऽहं रथेन चास्यामीत्यत्र मध्यमोत्तमपुरुषव्योर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा-तिष्टति प्रतिष्ठते रमते उपरमतीत्यादि, कालभेदस्तु अग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्यायमर्थः अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थः णिनिप्रत्ययो भवितेत्यस्य सम्बन्धाद्भूतकालातां परित्यज्य भविष्यत्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति
सूत्रकृताङ्ग सूत्रम् २/-/-/८०६
तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गाद्यभिन्नांस्तु पर्यायान् अनेकविषयत्वेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्यर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति, तथाहि घटना घटः कुटनात्कुटः कौ भातीति कुम्भो नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मव- द्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति ।
7
एवंभूताभिप्रायस्त्वयं यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निव्यापरः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यक्यवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति । तदेवं सर्वेऽपि नयाः प्रत्येकं मिथ्याध्ष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इति कृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः ।
तत्रापि ज्ञाननय एहिकामुष्मिकयोर्ज्ञानमेव फलसाधकत्वेनेच्छति न क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतफलसिद्धयेऽमिति एतदुभययुक्त एव साधुरभिप्रेतमर्थं साधयति, उक्तं च"सव्वेसिंपि नयाणं बहुविहवत्तव्वयं नि सामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठओ साहू ॥
-
119 11
श्रुतस्कन्धः - २ समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धटीका परिसमाप्ता ।
२ द्वितीयं अङ्गसूत्रम् सूत्रकृत समाप्तम्
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org