________________
श्रुतस्कन्धः-१, अध्ययनं-११,
२१५
सर्वज्ञप्रणीतं नः' अस्माकं हे महा मुने ! 'ब्रूहि' कथयेति । मू. (९९) जइ नो केइ पुच्छिज्जा, देवा अदुव माणुसा ।
तेसिं तु कयरं मग्गं, आइक्खेज्ज? कहाहि नो ।। वृ. यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मप्रत्ययेनैव प्रवृत्ति स्यात् तथाप्यन्येषां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह-यदा कदाचित् ‘नः' अस्मान् ‘केचन' सुलभबोधयः संसारोद्विग्नाः सम्यग्मार्ग पृच्छेयुः, के ते? 'देवाः' चतुर्निकायाः तथा मनुष्याः तथा मनुष्याःप्रतीताः, बाहुल्येनतयोरेव प्रश्नसद्-भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ।। मू. (५००) जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा।
तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे ॥ वृ.एवं पृष्टः सुधर्मस्वाम्हायह-यदि कदाचित् 'वः' युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यगमार्गं पृच्छेयुस्तेषांपृच्छताम् ‘इम मिति वक्ष्यमाणलक्षणंषडजीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिज्जेति प्रतिकथयेत् ।
‘मार्गसारम्' मार्गपरमार्थं यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः श्रृणुत यूयमिति, पाठान्तरं वा "तेसिंतुइमंमग्गंआइक्खेज्ज सुणेह मे'त्ति उत्तानार्थम् । पुनरपि मार्गामिष्टवं कुर्वन्सुधर्मस्वाम्याहमू. (५०१) अनुपुब्वेण महाघोरं, कासवेण पवेइयं ।
जमादाय इओ पुव्वं, समुदं ववहारिणो । वृ.यथाऽहम् ‘अनुपूर्वेण' अनुपरिपाट्या कथयामितथा शृणुत, यदिवायथा चानुपूर्व्या सामग्याचा मार्गोऽवाप्यते तच्छृणुत, तद्यथा-'पढमिल्लुगाणउदए' इत्यादि तावद्यावत् ‘बारसविहे कसाए खविएउवसामिएवजोगेहि । लब्भइ चरित्तलंभो" इत्यादि, तथा 'चत्तारि परमंगाणी'त्यादि किंभूतंमागं ? तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत्दुरध्यवसेयत्वात् 'महाघोरं महाभयानक 'काश्यपो' महावीरवर्धमानस्वामी तेन ‘प्रवेदितं प्रणीतंमार्गकथयिष्यामीति,अनेन स्वमनीषिकापरिहारमाह, यं शुद्ध मार्गम् ‘उपादाय' गृहीत्वा 'इत' इति सन्मार्गोपादानात् 'पूर्वम्' आदावेवानुष्ठितत्वाद्दुस्तरं संसारं महापुरुषास्तरन्ति, अस्मिन्नेवार्थे दृष्टान्तमाह -
व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चन्नगरं यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकावाधसुखैषिणः सम्यग्दर्शनादिनामार्गेण मोक्ष जिगमिषवोदुस्तरंभचौघं तरन्तीति मू. (५०२) अतरिंसु तरंतेगे, तरिस्संति अनागया।
तं सोचा पडिवक्खामि, जंतवो तं सुणेह मे।। घृ.मार्गविशेषणायाह-यंमागंपूर्वमहापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् ‘अतार्षुः' तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाः संख्येयाः सत्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽनागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति ।
तदेवं कालत्रयेऽपिसंसारसमुद्रोत्तारकं मोक्षगमनैककारणंप्रशस्तंभावमार्गमुत्पन्नदिव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org