________________
श्रुतस्कन्धः- १, अध्ययनं-४, उद्देशकः - २
१३१ पलक्षणं द्रष्टव्यं,तथा 'शूर्प' तन्दुलादिशोधनं तथोदूखलं तथा किञ्चन क्षारस्य-सर्जिकादेालनकमित्येव-मादिकमुपकरणं सर्वमप्यानयेति किञ्चान्यतमू. (२९०) चंदालगं च कारगंच, वच्चघरंच आउसो! खणाहि ।
सरपाययं च जायाए, गोरहगं च सामनेराए।। वृ. 'चन्दालक्' इति देवतार्चनिकाधर्थं ताम्रमयं भाजनं, एतच्च मथुरायां चन्दालकत्वेन प्रतीतमिति, तथा 'करको' जलधारोमदिराभाजनंवातदानयेति क्रिया, तथा 'वर्चीगृहं' पुरीषोत्सर्गस्थानंतदायुष्मन् ! मदर्थं स्वन' संस्कुरु, तथा शरा-इषवः पात्यन्ते-क्षिप्यन्ते येन तच्छरपातंधनु:तत् ‘जाताय' मत्पुत्राय कृते ढौकय, तथा गोरहगति त्रिहायणंबलीवर्दचढौकयेति, सामनेराए'त्ति श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय त्वत्पुत्राय गन्त्र्यादिकृते भविष्यतीति ।। मू. (२९१) घडिगं च सडिंडिमयंच, चेलगोलं कुमारभूयाए।
वासं समभिआवण्णं, आवसहं च जाण भत्तं च ॥ वृ. तथा घटिकांमृन्मयकुल्लडिकां 'डिण्डिमेन' पटहकादिवादिनविशेषेण सह, तथ 'चेलगोलं'तिवात्मकंकन्दुकं 'कुमारभूताय' क्षुल्लकरूपाय राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृटकालोऽयम् अभ्यापन:-अभिमुखं समापन्नोऽत 'आवसथं' गृहं प्रादृट्कालनिवासयोग्यंतथा 'भक्तंच तन्दुलादिकंतत्कालयोग्यं 'जानीहिं निरूपयनिष्पादय, येन सुखेनैवानागतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तम् -
“मासैरटभिरह्ना च, पूर्वेण वयसाऽऽयुषा ।
तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते ।। मू. (२९२) आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्ठाए।
अदु पुत्तदोहलहाए, आणप्पा हवंति दासा वा ।। वृ. तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्यां मञ्चिका, तामेव विशिनष्टि नवं-प्रत्यग्रं सूत्रं वल्कवलितं यस्यांसा नवसूत्राताम् उपलक्षणार्थत्वाद्वध्रचविनद्धां वा निरूपयेति वा एवं च-मौजे काष्ठपादुके वा संक्रमणार्थं' पर्यटनार्थं निरूपय, यतो नाहं निरावरणपादा भूमौ पदमपिदातुंसमर्थेति ।अथवा-पुत्रेगर्भस्तेदौहदः पुत्रदौहृदः-अन्तवर्तीफलादावभिलाषविशेषस्तस्मैतत्सम्पादनार्थं स्त्रीणां पुरुषाः स्ववशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा अलज्जितैर्योग्यत्वादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रभिः संसारावतरणवीथीभिरादिश्यन्त इति।। मू. (२९३) जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि ।
अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ।। वृ.अन्यच्च-जातः-पुत्रः स एवफलं गृहस्थानां, तथाहि-पुरुषाणां कामभोगाः फलं तेषामपि फलं-प्रधानकार्य पुत्रजन्मेति, तदुक्तम् - ॥१॥
"इदं तत्स्नेहसरवस्वं, सममाढ्यदरिद्रयोः।
अचन्दनमनौशीरं, हृदयस्यानुलेपनम्॥ यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा । हित्वा सांख्यं च योगंच, तन्मे मनसि वर्तते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org