________________
४००
सूत्रकृताङ्ग सूत्रम् २/४/-/७०३
तेस्व मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपीत्येवं क्रोधमानमयालोमा यावन्मिध्यादर्शनशल्यसद्भावश्चतेषामवगन्तव्यः, तत्सद्भावाञ्चतेदिवा रात्रीवासुप्ताजाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह -
'तंजहा इत्यादि,तेह्यसंज्ञिनःक्वचिदपि निवृत्तेरभावात्तात्ययिककर्मबन्धोपेता भवंति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्यापाररहितास्तथापिसर्वेषां प्राणिनांदुःखोत्पादनतया तथाशोचनतया-शोकोत्पादनत्वेन तथा 'जूरणतया जूरणं-वयोहानिरूपंतत्करणशीलतया तथा त्रिभ्यो-मनोवाक्कायेभ्य-पातनंत्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए त्ति परिदेवनतया तथा 'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरप्रतिविरता भवन्ति, तत्सद्भावाच्चतप्रत्ययिकेन कर्मणा बध्यन्ते।तदेवं विप्रकृष्टविषयमपि कर्मबन्धप्रदर्शोपसंजिहीर्षुराह-इतिरुपप्रदर्शने खलुशब्दोवाक्यालङ्कारे विशेषणेवा, किं विशिनष्टि
__ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषांनतर्को नसंज्ञानप्रज्ञान मनो न वाक्न स्वयं कर्तुंनान्येनकारयितुंनकुर्वन्तमनुमन्तुंवाप्रवृत्तिरस्ति,तेचाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिक्लेशादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निसंसर्वकालमेवप्राणातिपाते कर्तव्येतद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्तइति, उपाख्यानंचासंज्ञिनोऽपियोग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथा।
किमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यत्ववनियतरूपा एवाहोस्वित्संझिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवंचोदिते सत्याहाचार्य-सव्वजोणियावि खलु'इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनोय एवं प्रतिपादयन्ति-'पुरुषः पुरुषत्वमश्नुते पशुरपि पशुत्व'मिति, तदत्रापिसंज्ञिनःसंज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंजिन इति, तन्मतव्यवछेदार्थमाह-सव्वजोणियावी'त्यादि, यदिवाकिं संज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवानेत्येवमसंज्ञिनोऽपिसंज्ञिकर्मबन्धंग्राक्तनेसत्येवकुर्वान्त्याहोस्विन्नेत्येतदा-शङ्कयाह
_ 'सव्वजोणियावी' त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतोभयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, तेचनारकतिर्यङनरामराअपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशेषणे, एतद्विशिनष्टि-तजन्मापेक्षया सर्वयोनयोऽपि सत्वाः पर्याप्तपेक्षया यावन्मनःपर्याप्तिननिष्पद्यतेतावदसंज्ञिनः करणतःसन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेवजन्मनि, अन्यजन्मापेक्षयात्वेकेन्द्रियादयोऽपिसन्तः पश्चात्संज्ञिनो भवन्तीति, तथा भूतकर्म-परिणामात, न पुनर्भव्याभव्यत्ववत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतो नानयोयभिचारः, ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रसंज्ञिनो भवन्त्यसंज्ञिनश्च भूत्वां संझिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा
संश्यपिकश्चिन्मूर्छाद्यवस्थायामसंज्ञित्वं प्रतिपद्यते, तदपगमेतुपुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संझ्यसंज्ञिनोः कर्मपरतन्त्रत्वादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगम
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org