Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
Catalog link: https://jainqq.org/explore/022303/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ K.MAYEKERI | सदृशं पवित्रमिह । ज्ञानेन हि माणिकचन्द- दिगम्बर जैनग्रन्थमाला & २३ मूलाचारः सटीकः । द्वितीया भागः । । Page #2 -------------------------------------------------------------------------- ________________ माणिकचन्द्र-दिगम्बर जैनग्रन्थमालायाःत्रयोविंशतितमो ग्रन्थः । श्रीमहट्टकेराचार्यविरचितो मूलाचारः। (द्वितीयो भागः।) श्रीवसुनन्दिश्रमणकृतया टीकया समेत प्रकाशिका मा० दि० जैनग्रन्थमालासमितिः । श्रावण, श्रीवीरनिर्वाणसंवत् २४४९. वि० सं० १९८० Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक,नाथूराम प्रेमी, मंत्री, मा० दि० जैन-ग्रन्थमाला. हीराबाग, बम्बई । मुद्रक, चिंतामण सखाराम देवळे, 'मुंबईवैभव प्रेस,' सँढर्ट रोड, गिरगांव-बम्बई। Page #4 -------------------------------------------------------------------------- ________________ अधिकार-सूची। पृष्ठसंख्या. ८ द्वादशानुप्रेक्षाधिकारः ... ९ अनगारभावनाधिकारः १० समयसाराधिकारः ११ शीलगुणप्रस्ताराधिकारः १२ पर्याप्तिनामाधिकारः प्रशस्तिपाठ. ::::: : Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ श्रीवट्टकेरस्वामिहतो मूलाचारः। श्रीवसुनन्दिसिद्धान्तचक्रवर्तिविरचितटीकासहितः । द्वादशानुप्रेक्षाधिकारः। सिद्ध णमंसिदूण य झाणुत्तमखवियदीहसंसारे। दह दह दो दो य जिणे दह दो अणुपेहणा वुच्छं ॥१॥ सिद्धान् नमस्कृत्य च ध्यानोत्तमक्षपितदीर्घसंसारान् । ... दश दश द्वौ द्वौ च जिनान् दश द्वे अनुप्रेक्षा वक्ष्ये ॥१॥ टीका-सिद्धान् लब्धात्मस्वरूपान् । नमांसत्वा प्रणम्य । किंविशिष्टान् ? ध्यानेनोत्तमेन क्षपितो दीर्घसंसारो यैस्ते ध्यानोत्तमक्षपितदीर्घसंसारास्तान शुक्लध्यानविध्वस्तमिथ्यात्वासंयमकषाययोगान् । दश दश वीप्सावचनं चैतत् विंशतितीर्थकरान्, द्वौ द्वौ चतुरश्चतुर्विंशतितीर्थकराँश्च जिनान् प्रणम्य । दश द्वे च द्वादशानुप्रेक्षा वक्ष्य इति संबंधः । ध्यानमध्ये या द्वादशानुप्रेक्षाः सूचितास्तासां प्रपंचोऽयमिति ॥ १॥ १.ध्यानमध्ये या द्वादशानुप्रेक्षाः सूचितास्तासां प्रपंचोयमिति प्रतिज्ञावाक्येन सूचितास्तासां प्रपंचोऽयमिति, प्रेस-पुस्तके पाठः। Page #7 -------------------------------------------------------------------------- ________________ मूलाचारे प्रतिज्ञावाक्येन सूचितानुप्रेक्षानामान्याह;अद्धवमसरणमेगत्तमण्णसंसारलोगमसुचित्तं । आसवसंवरणिज्जरधम्मं बोधिं च चिंतेज्जो ॥२॥ अधुवमशरणमेकत्वं अन्यत्संसारलोकं अशुभत्वं । आस्रवसंवरनिर्जराधर्म बोधिं च चिंतयेत् ॥ २॥ टीका-अध्रुवमनित्यमशाश्वतं । अशरणमत्राणं । एकत्वमसहायत्वं द्वितीयस्याभावो न मे द्वितीयः । अन्यत्वं पृथक्त्वं शरीरादप्यन्योऽहमिति भावनं । संसारश्चतुर्गतिपरिभ्रमणं प्रदेशानामुद्वर्तनं परिवर्तन च । लोकं वेत्रासनझल्लरीमृदंगसंस्थानं । अशुभत्वमशुचित्वं सर्वदुःखस्वरूपं । आस्रवं कर्मागमद्वारं मिथ्यात्वादिकं । संवरं कर्मागमद्वारनिरोधनं सम्यक्त्त्वादिकं । निर्जरां कर्मनिर्गमनं । धर्ममुत्तमक्षमादिलक्षणं । बोधिं सम्यक्त्वादिलाभं चान्तकाले संन्यासेन प्राणत्यागं चिन्तयेत् । एवंप्रकारा द्वादशानुप्रेक्षा ध्यायेदिति ॥ २॥ ___ तासु मध्ये तावदनित्यताभेदमाह;ठाणाणि आसणाणि य देवासुरमणुयइड्डिसोक्खाई । मादुपिदुसयणसंवासदा य पीदी वि य अणिचा ॥ ३ ॥ स्थानानि आसनानि च देवासुरमनुजर्द्धिसौख्यानि । मातृपितृस्वजनसंवासता च प्रीतिरपि च अनित्यानि ॥३॥ टीका-स्थानानि ग्रामनगरपत्तनदेशपर्वतनदीमटवादीनि, अथवा देवेन्द्रचक्रधरबलदेवस्थानानि, अथवेक्ष्वाकुहरिवंशादिस्थानानि, तिष्ठति सुखेन जीवा येषु तानि स्थानानि । आसन्ते सुखेन विशन्ति येषु तान्यासनानि राज्याङ्गानि सिंहासनादीनि, अथवा अशनानि नानाप्रकारभोजनानि उत्तरत्राशनशब्देन चाशनादीनां ग्रहणात्, देवाश्चासुराश्च मनुष्याश्च देवासुरमनुष्यास्तेषां १ 'चेशशनादीनां ' इति पाठः प्रेस-पुस्तके । Page #8 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । ऋद्धिर्विभूतिर्हस्त्यश्वरथपदातिद्रव्यसुवर्णादिकायाः पूर्वावस्थाया अतिरेकः, सौख्यानि शुभद्रव्येन्द्रियजनितानंदरूपाणि । माता जननी, पिता जनकः, स्वजना बान्धवास्तैः संवासता सहकत्रावस्थानं । प्रीतिरपि तैः सह स्नेहोऽपि । अनित्या इति संबंधः । एतानि सर्वाणि स्थानादीन्यनित्यानि नात्र शाश्वतरूपा बुद्धिः कर्तव्येति ॥ ३॥ तथा;सामग्गिदियरूवं मदिजोवणजीवियं बलं तेज । गिहसयणासणभंडादिया अणिञ्चेति चिंतेज्जो ॥४॥ सामग्रीन्द्रियरूपं मतियौवनजीवितं बलं तेजः । गृहशयनासनभांडादीनि अनित्यानीति चिंतयेत् ॥ ४॥ टीका–सामग्री राज्यगृहाद्युपकरणं हयहस्तिरथपदातिखगकुंतलपरशुबीजकोशादीनि, इन्द्रियाणि चक्षुरादीनि, रूपं गौरवर्णादिरमणीयता, मतिर्बुद्धिः पूर्वापरविवेचनं, यौवनं द्वादशवर्षेभ्य ऊर्ध्व वय:परिणामः, जीवितमायुः, बलं सामर्थ्य, तेजः शरीरकान्तिः प्रतापो वा, पुरुषैरानीतानर्थान् गृह्णन्तीति गृहाः स्त्रियस्तत्सहचरितप्रासादादयश्च, शयनानि तूलिकापर्यंकादीनि सुखकारणानि, आसनानि वेत्रासनपीठिकादीनि सुखहेतूनि शरीरादीनि वा पुत्रमित्रदासीदासादीनि च, भांडादीनि च शुंठिमरिचहिंगुवस्त्रकर्पासरूप्यताम्रादीनि सर्वाण्यनित्यानि अध्रुवाणि इत्येवं चिन्तयेत् ध्यायेदिति ॥ ४ ॥ अशरणस्वरूपमाह;हयगयरहणरबलवाहणाणि मंतोसधाणि विज्जाओ। मच्चभयस्स ण सरणं णिगडी णीदी य णीया य ॥५॥ हयगजरथनरबलवाहनानि मंत्रौषधानि विद्याः। मृत्युभयात् न शरणं निकृतिः नीतिः च निजाश्च ॥ ५॥ Page #9 -------------------------------------------------------------------------- ________________ मूलाचारे wwwmmmmmmmmmm~~~~~~~~~ टीका-अश्वगजरथनरबलवाहनानि मंत्रौषधानि च विद्याश्च प्रज्ञप्त्यादयो मृत्युभयाद्युपस्थितान्न शरणं न त्राणं न रक्षा, निकृतिर्वचना, नीतिश्चाणक्यविद्या “ स्वपक्षपरपक्षवृद्धिहानिप्रतिपादनोपायो नीतिः" । सा च सामोपप्रदानभेददंडरूपा । तत्र प्रियहितवचनमंग स्वाजन्यं च साम, नानाद्रव्यप्रदानमुपप्रदानं, त्रासनभर्त्सनादिर्भेदः, ताडनं छेदनं दंडः, निजा बांधवा भ्रात्रादयश्चैवमादीनि मृत्युभये सत्युपस्थिते शरणं न भवंतीति चिन्तनीयमिति ॥ ५॥ तथा;जम्मजरामरणसमाहिदह्मि सरणं ण विज्जदे लोए । जरमरणमहारिउवारणं तु जिणसासणं मुच्चा ॥ ६ ॥ जन्मजरामरणसमाहिते शरणं न विद्यते लोके। जरामरणमहारिपुवारणं तु जिनशासनं मुक्त्वा ॥६॥ टीका-जन्मोत्पत्तिः, जरा वृद्धत्वं, मरणं मृत्युः, एतैः समाहिते संयुक्ते सुष्ठु संकलिते शरणं रक्षा न विद्यते लोकेऽस्मिञ्जगति, जरामरणमहारिपुवारणं, जिनशासनं मुक्त्वाऽन्यच्छरणं न विद्यते लोके इति संबंधः ॥ ६ ॥ तथा;मरणभयसि उवगदे देवा वि सइंदया ण तारंति । धम्मो ताणं सरणं गदित्ति चिंतहि सरणतं ॥ ७ ॥ मरणभये उपगते देवा अपि सेंद्रा न तारयति । धर्मस्त्राणं शरणं गतिरिति चिंतयाशरणत्वं ॥ ७ ॥ टीका-मरणभय उपगत उपस्थिते देवा अपि सेन्द्रा देवेन्द्रसहिताः सुरासुराः न तारयन्ति न त्रायन्ते तस्माद्धर्मो जिनवराख्यातस्त्राणं रक्षणं शरणमाश्रयो गतिश्चेति भावय चिंतयाशरणत्वं, यस्मान्न कश्चिदन्य आश्रयः, धर्मो पुनः शरणं रक्षकोऽगतिकानां गतिरिति कृत्वा धर्म शरणं जानीहीति ॥ ७ ॥ Page #10 -------------------------------------------------------------------------- ________________ दादशानुप्रेक्षाधिकारः। एकत्वस्वरूपमाह;सयणस्स परियणस्स य मज्झे एक्को रुवंतओ दुहिदो। वजदि मच्चुवसगदो ण जणो कोई समं एदि ॥ ८॥ स्वजनस्य परिजनस्य च मध्ये एकः रुजातः दुःखितः। व्रजति मृत्युवशगतः न जनः कश्चिदपि समं पति ॥ ८॥ टीका-स्वजनस्य भ्रातृव्यपितृव्यादिकस्य, परिजनस्य दासमित्रादिकस्य च मध्ये, एकोसहायः, रुजार्तो व्याधिग्रस्तो दुःखितः व्रजति मृत्युवशंगतो न जनः कश्चित् तेन सममेति गच्छति ॥ ८॥ तथा;एक्को करेइ कम्मं एक्को हिंडदि य दीहसंसारे। एक्को जायदि मरदि य एवं चिंतेहि एयत्तं ॥९॥ एकः करोति कर्म एकः हिंडते च दीर्घसंसारे। एक: जायते म्रियते च एवं चिंतय एकत्वं ॥ ९ ॥ टीका-एकः करोति शुभाशुभं कर्म, एक एव च हिण्डते भ्रमति दीर्घसंसारे, एको जायते, एकश्च म्रियते, एवं चिन्तय भावयैकत्वमिति ॥ ९॥ अन्यत्वस्वरूपमाह;मादुपिदुसयणसंबंधिणो य सव्वे वि अत्तणो अण्णे । इह लोग बंधवा ते ण य परलोगं समं णेति ॥ १० ॥ मातृपितृस्वजनसंबंधिनश्च सर्वेपि आत्मनः अन्ये। इह लोके बांधवास्ते न च परलोकं समं यन्ति ॥ १० ॥ टीका–मातृपितृस्वजनसंबंधिनः सर्वेऽपि आत्मनोऽन्ये पृथग्भूता इह Page #11 -------------------------------------------------------------------------- ________________ मूलाचारे लोके बांधवा किंचित्कार्यं कुर्वन्ति ते न परलोकं समं यन्ति गच्छन्तिनामुत्र लोके बान्धवास्ते भवन्तीत्यर्थः ॥ १० ॥ तथा;अण्णो अण्णं सोयदि मदोत्ति मम णाहओत्ति मण्णंतो। अत्ताणं ण दु सोयदि संसारमहण्णवे बुडं ॥ ११ ॥ अन्यः अन्यं शोचयति मृत इति मम नाथ इति मन्यमानः आत्मानं न तु शोचयति संसारमहार्णवे बुडितं ॥ ११ ॥ टीका--अन्यः कश्चिदन्यं जीवं शोचयति मृतो मम नाथ इति मन्यमानः, आत्मानं न तु शोचयति संसारमहार्णवे संसारमहासमुद्रे मग्नमिति ॥११॥ शरीरादप्यन्यत्वमाह;अण्णं इमं सरीरादिगं पि जं होज बाहिरं दव्वं । णाणं दंसणमादात्ति एवं चिंतेहि अण्णत्तं ॥ १२ ॥ अन्यत् इदं शरीरादिकमपि यत् भवेत् बहिर्द्रव्यं । ज्ञानं दर्शनमात्मा इति एवं चिंतय अन्यत्वं ॥ १२ ॥ टीका-शरीरमप्यन्यदिदं, किं पुनर्यद्वहिर्द्रव्यं नान्यदिति ? तस्माज्ज्ञानं दर्शनमात्मेत्येवं चिन्तयान्यत्वमिति ॥ १२ ॥ संसारस्य स्वरूपं विवृण्वन्नाह;मिच्छत्तेणो छण्णो मग्गं जिणदेसिदं अपेक्खंतो। भमिहदि भीमकुडिल्ले जीवो संसारकंतारे ॥ १३ ॥ मिथ्यात्वेन आछन्नो मार्ग जिनदेशितं अपश्यन् । भ्रमति भीमकुटिले जीवः संसारकांतारे ॥ १३॥ Page #12 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । ८ टीका – मिथ्यात्वेनाछन्नोऽश्रद्धानतमसा समंतादावृतः मार्गः सम्यग्दर्शनज्ञानचारित्राणि ' तं जिनदर्शितं जिनेन प्रतिपादितमपश्यन् अज्ञानाद्भ्रमत्ययं जीवः, संसारकान्तारे संसाराटव्यां, भीमे भयानके, कुटिलेऽतीवगहने मोहवल्यादिनिबद्ध इति ॥ १३ ॥ ७ चतुर्विधं संसारस्वरूपमाह; - दब्वे खेत्ते काले भावे य चदुब्बिहो य संसारो । चदुगदिगमणणिबद्धो बहुप्ययारेहिं णादन्वो ॥ १४ ॥ द्रव्यं क्षेत्रं कालः भावश्च चतुर्विधश्च संसारः । चतुर्गतिगमननिबद्धः बहुप्रकारैः ज्ञातव्यः ॥ १४ ॥ टीका–संसरणं संसारः परिवर्तनं तच्चतुर्विधं द्रव्यपरिवर्तनं क्षेत्रपरिवर्तनं कालपरिवर्त्तनं भावपरिवर्तनं, भवपरिवर्त्तनं चात्रैव दृष्टव्यमन्यत्र पंचविधस्योपदेशादिति । तत्र द्रव्यपरिवर्त्तनं द्विविधं नोकर्मपरिवर्त्तनं कर्मपरिवर्त्तनं चेति । तत्र नोकर्मपरिवर्त्तनं नाम त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्या ये पुद्गला एकेन जीवेनैकस्मिन् समये गृहीताः स्निग्धरूक्षवर्णगंधादिभिन्नास्तत्रिमन्दमध्यभावेन च यथावस्थिता द्वितीयादिषु समयेषु निर्जीर्णास्ततो गृहीतानंतवारानतीत्य मिश्रकाँश्चानंतवारान्प्रगृह्य मध्ये गृहीताँश्चानंतवारान् समतीत्य तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमापयन्ते यावत्तावत्समुदितं नोकर्मद्रव्यपरिवर्तनमिति । कर्मद्रव्यपरिवर्त्तनंमुच्यते - एकस्मिन् समये जीवेनैकेनाष्टविधकर्मभावेन ये पुद्गला गृहीताः समयाधिकामावलिकामतीत्य द्वितीयादिषु समयेषु निर्जीर्णास्ततो गृहीतानगृहीतान्मिश्रानंतवारानतीत्य त एव कर्मस्कन्धास्तेनैव विधिना तस्य जीवस्य कर्मभावमापद्यन्ते यावत्तावत्कर्मद्रव्यपरिवर्त्तनमिति । क्षेत्रपरिवर्तनमुच्यते - सूक्ष्मनिगोत जीवोऽपर्याप्तकः सर्वजघन्यप्रदेशशरीरो लोकस्याष्टमध्यप्रदेशान् स्वशरीरमध्यप्रदेशान् कृत्वोत्पन्नः क्षुद्रभवग्रहणं जीवित्वा मृतः स एव पुनस्तेनैवावगाहन द्विरुत्पन्नस्तथा त्रिस्तथा चतुरित्येवं यावदंगुलस्य Page #13 -------------------------------------------------------------------------- ________________ मूलाचारे संख्येयभागप्रमिताकाशप्रदेशास्तावत्कृत्वस्तत्रैव जनित्वा पुनरेकैकप्रदेशाधिकभावेन सर्वो लोक आत्मनो जन्मनो जन्मक्षेत्रभावमुपनीतो भवति यावत्तावत् क्षेत्रपरिवर्तनमिति । कालपरिवर्तनमुच्यते-उत्सपिण्याः प्रथमसमये जातः कश्चिज्जीव: स्वायुषः परिसमाप्तौ मृतः स एव पुनर्द्वितीयाया उत्सर्पिण्या द्वितीयसमये जातः स्वायुषः क्षयान्मृतः स एव पुनस्तृतीयस्या उत्सर्पिण्यास्तृतीयसमये जातः स एवानेन क्रमेणोत्सर्पिणी परिसमाप्ता तथाऽवसर्पिणी च एवं जन्मनैरन्तर्यमुक्तं, मरणस्यापि तथैव ग्राह्य, यावत्तावत्कालपरिवर्तनमिति । भावपरिवर्तनमुच्यतेपंचेन्द्रियः संज्ञी पर्याप्तको मिथ्यादृष्टिः कश्चिज्जीव: सर्वजघन्यां स्वयोग्यां ज्ञानावरणप्रकृतेः स्थितिमन्तःकोट्यकोटीसंज्ञिकामापद्यते, तस्य कषायाध्यवसायस्थानानि असंख्येयलोकप्रमितानि षट्स्थानपतितानि तत्स्थितियोग्यानि भवन्ति, तत्र सर्वजघन्यकषायाध्यवसायस्थाननिमित्तान्यनुभवाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि भवन्ति, एवं सर्वजघन्यां स्थितिं सर्वजघन्यं च कषायाध्यवसानं सर्वजघन्यमेव चानुभागवंधस्थानमास्कन्दतस्तयोग्यं सर्व जघन्यं योगस्थानं भवति, तेषामेव स्थितिकषायानुभवस्थानानां द्वितीयमसंख्येयभागवृद्धियुक्तं योगस्थानं भवति, एवं चतु:स्थानपतितानि कषायाध्यवसायस्थानानि श्रेण्यसंख्येयभागप्रमितानि योगस्थानानि भवन्ति, तथा तामेव स्थितिं तदेव कषायाध्यवसायस्थानं च प्रतिपद्यमानस्य द्वितीयानुभवाध्यवसायस्थानं भवति तस्य च योगस्थानानि पूर्ववदृष्टव्यानि, एवं तृतीयादिष्वप्यनुभवाध्यवसायस्थानेध्वसंख्येयलोकपरिसमाप्तेः, एवं तामेव स्थितिमापद्यमानस्य द्वितीयकषायाध्यवसायस्थानं भवति तस्याप्यनुभवाध्यवसायस्थानानि योगस्थानानि च पूर्ववद्वेदितव्यानि, एवं तृतीयादिष्वपि कषायाध्यवसायस्थानेषु असंख्येयलोकपरिसमाप्तेर्वद्विक्रमो वेदितव्यः, उक्ताया जघन्यस्थितेः समयाधिकायाः कषायाध्यवसायस्थानानि अनुभागाध्यवसायस्थानानि योगस्थानानि च पूर्ववद्वेदितव्यानि, एवं समयाधिकक्रमण आ उत्कृष्टस्थितस्त्रिंशत्सागरोपमकोट्यकोटीपरिमितायाः कषायाध्यवसायस्थानानि वेदितव्यानि, एवं सर्वेषां कर्मणां मूलप्रकृतीनामुत्तरप्रकृ Page #14 -------------------------------------------------------------------------- ________________ द्वादक्षानुप्रेक्षाधिकारः। तीनां च परिवर्तनक्रमो वेदितव्यस्तदेतत्सर्व समुदितं भावपरिवर्तनमिति । चशब्देन सूचितं भवपरिवर्तनमुच्यते-नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि तेनायुषा तत्र कश्चिदुत्पन्नः पुनः परिभ्राम्य तेनैवायुषा तत्रैव जात एवं दशवर्षसहस्राणां यावन्तः समयास्तावत्कृत्वस्तत्रैव जातो तत्रैव मृतश्च पुनरेकैकसमायधिकभावेन त्रयस्त्रिंशत्सागरोपमाणि परिसमापितानि, ततः प्रच्युत्त्य तिर्यग्गतावन्तर्मुहूर्तायुः समुप्तन्नः पूर्वोक्तेनैव क्रमेण त्रीणि पल्योपमानि तेनैव परिसमापितानि, तथैवं मनुष्यगतौ देवगतौ च नरकगतिवत्, अयं तु विशेषः-एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावद्भवपरिवर्तनमिति । एवं चतुर्विध: पंचविधो वा संसारः चतुर्गतिगमननिबद्धो नरकतिर्यअनुष्यदेवगतिभ्रमणहेतुको बहुप्रकारैः षट्सप्तादिभेदैर्ज्ञातव्य इति ॥ १४॥ तथा षड्डिधसंसारमाह,-. किं केण कस्स कत्थ व केवचिरं कदिविधो य भावो य । छहिं अणिओगद्दारे सव्वे भावाणुगंतव्वा ॥१५॥ का केन कस्य कुत्र वा कियच्चिरं कतिविधः च भावश्च । षइभिरनियोगद्वारैः सर्वे भावा अनुगंतव्याः ॥ १५॥ टीका-कः संसारः ? संसरणं संसारश्चतुर्गतिगमनरूपः, केन भावेन संसारः? औदयिकौपशमिकक्षायोपशमिकपारिणामिकादिभावेन, कस्य ? संसारिजीव स्याष्टविधकर्मावष्टब्धनारकतिर्यअनुष्यदेवरूपस्य, क संसारः ? मिथ्यात्वासंयमकपाययोगेषु तिर्यग्लोके वा, कियच्चिरं संसारः ? अनाद्यनिधनोऽनादिसनिधनः, कतिविधः ? कतिप्रकार इति । अनेन प्रकारेण संसार एकविधो द्विविधस्त्रिविधश्चतुर्विधः षड्विधः पंचविध इत्यादि, न केवलं संसारः षड्भिरनियोगद्वारैर्ज्ञायते किन्तु सर्वेऽपि भावाः पदार्था अनुगंतव्या इत्यर्थः ॥ १५॥ Page #15 -------------------------------------------------------------------------- ________________ १० संसारे दुःखानुभवमाह;" तत्थ जरामरणभयं दुक्खं पियविप्पओग बीहणयं । अप्पियसंजोगं वि य रोगमहावेदणाओ य ॥ १६ ॥ तत्र जरामरणभयं दुःखं प्रियविप्रयोगं भीषणकं । अप्रियसंयोगमपि च रोगमहावेदनाश्च ॥ १६ ॥ मूलाचारे Wergghug टीका – तत्रैवंविधे संसारे जरामरणभयं जन्मभयं दुःखं, जरामरणभवं जन्मभत्रं वा दुःखं कायिकं वाचिकं मानसिकं, प्रियेण विप्रयोगः पृथग्भाव इष्टवियोगदुःखं, भीषणं च महाभयानकं, अप्रियेण संयोगोऽनिष्टेन सहैकत्र वासोद्भवं दुःखं चाऽपि, रोगान् कासश्वासछर्दिकुष्ठब्याध्यादिजनितवेदनाश्चानुवंतीति संबंधः ॥ १६ ॥ - तथा; जायंतो य मरंतो जलथलखयरेसु तिरियणिरएसु । माणुस्से देवत्ते दुक्खमहस्साणि पप्पादि ॥ १७ ॥ जायमानश्च म्रियमाण: जलस्थलखचरेषु तिर्यङ्करकेषु । मानुषे देवत्वे दुःखसहस्राणि प्राप्नोति ॥ १७ ॥ टीका -- तत्र संसारे जायमानो म्रियमाणश्च जलचरेषु स्थलचरेषु खचरेषु च मध्ये तिर्यक्षु नरकेषु च दुःखसहस्राणि प्राप्नोति, मनुष्यत्वे देवत्वे च पूर्वोक्तानि दुःखसहस्राणि प्राप्नोतीति सम्बन्धः ॥ १७ ॥ तथा; जे भोगा खलु केई देवा माणुस्सिया य अणुभूदा । दुक्खं च णंतखुत्तो णिरए तिरिएसु जोणीसु ॥ १८ ॥ ये भोगाः खलु केचित् दैवा मानुषाश्च अनुभूताः । दुःखं चानंतकृत्वः नरके तिर्यक्षु योनिषु ॥ १८॥ Page #16 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । ११ टीका- ये केचन भोगा देवा मानुषाश्वानुभूताः सेवितास्तेषु भोगेषु अनंतवारान् दुःखं च प्राप्तं नरकेषु तिर्यग्योनिषु च दुःखमनंतवारान् प्राप्तमिति ॥ १८ ॥ तथा; -- संजोगविप्पओगा लाहालाहं सुहं च दुक्खं च । संसारे अणुभूदा माणं च तहावमाणं च ॥ १९ ॥ संयोगविप्रयोगा लाभोऽलाभः सुखं च दुःखं च । संसारे अनुभूता मानं च तथापमानं च ॥ १९ ॥ टीका - अस्मिन् संसारे जीवेन संयोगा इष्टसमागमाः, विप्रयोगा अनिष्टसमागमाः, स्वेष्टवस्तुनो लाभः प्राप्तिः, अलाभोऽप्राप्ति सर्वेऽप्यनुभूतास्तथा सुखं दुःखं चानुभूतं, तथा मानं पूजा, अपमानं परिभवश्वानुभूतमिति ॥ १९ ॥ संसारानुप्रेक्षामुपसंहरन्नाह; -- एवं बहुप्पयारं संसारं विविहदुक्खथिरसारं । णाऊण विचिंतिज्जो तहेव लहुमेव णिस्सारं ॥ २० ॥ एवं बहुप्रकारं संसारं विविधदुःखस्थिर सारं । ज्ञात्वा विचितयेत् तथैव लघुमेव निस्सारं ॥ २० ॥ टीका - एवं बहुप्रकारं संसारं विविधानि दुःखानि स्थिरः सोरो यस्यासौ विविधदुःखस्थिरसारस्तं संसारं ज्ञात्वा लघुमेव शीघ्रं निःसारं चिन्तयेत् भावयेदिति ॥ २० ॥ लोकानुप्रेक्षां विवृण्वन्नाह; — एगविहो खलु लोओ दुविहो तिविहो तहा बहुविहो वा दव्वेहिं पज्जएहिं य चिंतिज्जो लोयसम्भावं ॥ २१ ॥ १' संसारो' इति पाठ: प्रेस - पुस्तके | Page #17 -------------------------------------------------------------------------- ________________ १२ मूलाचारे एकविधः खलु लोकः द्विविधः त्रिविधः तथा बहुविधो वा । द्रव्यैः पर्यायैः च चिंतयेत् लोकसद्भावं ॥ २१ ॥ टीका-बधिरनियोगद्वारैर्लोकोऽपि ज्ञातव्यः । सामान्यनैकविधः, लोक्यन्त उपलभ्यन्ते पदार्था यस्मिन्निति स लोकः । ऊर्ध्वाधःस्वरूपेण द्विविधः, ऊर्ध्वाधस्तिर्यस्वरूपेण त्रिविध उत्पादव्ययधौव्यस्वरूपेण वा त्रिविधः, गतिरूपेण चतुर्विधः, अस्तिकायादिभेदेन पंचविधः, षद्रव्यस्वरूपेण षड्डिधः, पदार्थद्वारेण सप्तविधः, कर्मरूपेणाऽष्टविधः, इत्येवं बहुविधः, द्रव्यैः पर्यायश्च द्रव्यभेदेन पर्यायभेदेन लोकसद्भावं बहुप्रकारं चिन्तयेत् ध्यायेदिति ॥२१॥ लोकस्वरूपमाह;लोओ अकिहिमो खलु अणाइणिहणो सहावणिप्पण्णो जीवाजीवहिं भुडो णिच्चो तालरुक्खसंठाणो ॥२२॥ लोकः अकृत्रिमः खलु अनादिनिधनः स्वभावनिष्पन्नः । जीवाजीवैः भृतः नित्यः तालवृक्षसंस्थानः ॥ २२॥ टीका-लोकोऽकृत्रिमः खलु न केनाऽपि कृतः, खलु स्फुटमेतत्प्रमाणविषयत्वात्, अनादिनिधन आद्यन्तवर्जितः, स्वभावनिष्पन्नो विश्वसारूप्येण स्थितः, जीवाजीवैश्च पदार्थैर्भूतः पूर्णः, नित्यः सर्वकालमुपलभ्यमानत्वात्, तालवृक्षसंस्थानस्तालवृक्षाकृतिः, अधो विस्तीर्णः सप्तरज्जुप्रमाणो मध्ये संकीर्ण एकरज्जुप्रमाणः पुनरपि ब्रह्मलोके विस्तीर्णः पंचरज्जुप्रमाण ऊर्ध्व संकीर्ण एकरज्जुप्रमित इति ॥ २२॥ लोकस्य प्रमाणमाह;धम्मधम्मागासा गदिरागदि जीवपुग्गलाणं च । जावत्तावल्लोगो आगासमदो परमणंतं ॥ २३ ॥ Page #18 -------------------------------------------------------------------------- ________________ द्वादशानुप्रक्षाधिकारः। . धर्माधर्माकाशानि गतिरागतिः जीवपुद्गलानां च। .. यावत्तावल्लोकः आकाशमतः परमनंतम् ॥ २३॥ टीका-धर्माधर्मी लोकाकाशं च यावन्मात्रे जीवपुद्गलानां च गतिरागतिश्च यावन्मानं तावल्लोकोऽतः परमित ऊर्ध्वमाकाशं पंचद्रव्याभावोऽनंतमप्रमाणं केवलज्ञानगम्यमिति ॥ २३॥ पुनरपि कस्य संस्थानमित्याह;हेट्टा मज्झे उवरि वेत्तासणझल्लरीमुदंगणिभो। मज्झिमवित्थारेण दुचोदसगुणमायदो लोओ ॥ २४ ॥ अधो मध्ये उपरि वेत्रासनझल्लरीमृदंगनिभः । मध्यमविस्तारेण तु चतुर्दशगुण आयतो लोकः ॥ २४ ॥ टीका-अधःप्रदेशे मध्यप्रदेशे उपरिप्रदेशे च यथासंख्येन वेत्रासनझल्लरीमृदंगनिभः, अधो वेत्रासनाकृतिमध्ये झल्लाकृतिरूवं मृदङ्गाकृतिरिति, मध्यमविस्तारप्रमाणेन चतुर्दशगुणः, मध्यमविस्तारस्य प्रमाणमेका रज्जुः सा च चतुर्दशभिर्गुणिता लोकस्यायामो भवति, वातवलयादधस्तादारभ्य यावन्मोक्षस्थानं तयोमध्य आयाम इत्युच्यते । स आयामश्चतुर्दशरज्जुमात्र इति । घनाकारेण यदि पुनर्मीयते तदा त्रिचत्वारिंशदधिकत्रिशतरज्जुमात्रो भवतीति ॥२४॥ ___ तत्र लोके जीवाः किं कुर्वन्तीत्याह;तत्थणुहवंति जीवा सकम्मणिव्वत्तियं सुहं दुक्खं । जम्मणमरणपुणब्भवमणंतभवसायरे भीमे ॥ २५ ॥ तत्रानुभवंति जीवाः स्वकर्मनिवर्तितं सुखं दुःखं । जन्ममरणपुनर्भवं अनंतभवसागरे भीमे ॥ २५ ॥ १ 'जीवपुद्गलानां च जीवपुद्गलानां च ' इति द्विरुक्तं प्रेस-पुस्तके। . Page #19 -------------------------------------------------------------------------- ________________ मुलाचारे टीका-तत्र च लोके जीवाः स्वकर्मनिवर्तितं स्वक्रियानिष्पादितं सुखं दु:खं चानुभवन्ति, अनंतभवसागरे च जन्ममरणं पुनर्भवं च पुनरावृत्तिं च भीमे भयानके कुर्वन्तीत्यर्थः ॥ २५ ॥ पुनरप्यसमंजसमाह;मादा य होदि धूदा धूदा मादुत्तणं पुण उवेदि। पुरिसो वि तत्थ इत्थी पुमं च अपुमं च होइ जए ॥२६॥ माता च भवति दुहिता दुहिता मातृत्वं पुनरुपैति । पुरुषोपि तत्र.स्त्री पुमांश्च अपुमांश्च भवति जगति ॥ २६ ॥ टीका-अस्मिंल्लोके संसारे माता च भवति दुहिता सुता, दुहिता च पुनर्मातृत्वमुपैति प्रामोति, पुरुषोऽपि तत्र जगति स्त्री भवति, स्यपि पुमान्, पुरुषोऽपुमान्नपुंसकं च लोके भवतीति संबंधः ॥ २६ ॥ पुनरपि लोकगतसंसारविरूपतां दर्शयन्नाह;होऊण तेयसत्ताधिओ दु बलविरियरूवसंपण्णो। जादो वच्चघरे किमि धिगत्थु संसारवासस्स ॥ २७ ॥ भूत्वा तेजःसत्त्वाधिकस्तु बलवीर्यरूपसंपन्नः। जातः वर्चीगृहे कृमिः धिगस्तु संसारवासम् ॥ २७ ॥ टीका-विदेहस्वामी राजा तेजः-प्रतापः सत्त्वं स्वाभाविकसौष्ठवं ताभ्यामधिकस्तेजःसत्वाधिको भूत्वा तथा बलवीर्यरूपसम्पन्नश्च भूत्वा पश्चात्स राजा व!गृहेऽशुचिस्थाने कृमिः संजातो यत एवं ततः संसारवासं धिगस्तु धिग्भवतु संसारे वासमिति ॥ २७ ॥ पुनरपि लोकस्य स्वरूपमाह;धिग्भवदु लोगधम्म देवा वि य सुरवदीय महड्डीया । भोत्तूण सुक्खमतुलं पुणरवि दुक्खावहा होति ॥२८॥ Page #20 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः। wwwwwwwwwwwwwwww धिग्भवतु लोकधर्म देवा अपि च सुरपतयो महधिकाः। भुक्त्वा च सुखमतुलं पुनरपि दुःखावहा भवंति ॥ २८॥ टीका-धिग्भवतु लोकधर्म लोकस्वरूपं, यस्माद्देवाः सुरपतयोऽपि महर्द्धिका महाविभूतयो भूत्वा सौख्यमतुलं सुखमनुपमं भुक्त्वा पुनरपि दुःखावहा भवन्ति-दुःखस्य भोक्तारो भवन्तीति ॥ २८॥ लोकानुप्रेक्षामुपसंहरन्नाह;णाऊण लोगसारं णिस्सारं दीहगमणसंसारं । लोगग्गसिहरवासं झाहि पयत्तेण सुहवासं ॥ २९ ॥ ज्ञात्वा लोकसारं निस्सारं दीर्घगमनसंसारं। लोकायशिखरवासं ध्यायस्व प्रयत्नेन सुखवासं ॥ २९॥ टीका-एवं लोकस्य सारं निःसारं तु ज्ञात्वा दीर्घगमनं संसारं च ज्ञात्वा संसारं चापर्यन्तमवबुध्य लोकाग्रशिखरवासं मोक्षस्थानं सुखवासं निरुपद्रवं ध्यायस्व चिन्तय प्रयत्नेनेति ॥ २९ ॥ अशुभानुप्रेक्षास्वरूपं निरूपयन्नाह;णिरिएसु असुहमेयंतमेव तिरियेसु बंधरोहादी । मणुएसु रोगसोगादियं तु दिवि.माणसं असुहं ॥३०॥ नरकेषु अशुभमेकांतमेव तिर्यक्षु बंधरोधादयः । - मनुजेषु रोगशोकादयस्तु दिवि मानसं अशुभं ॥ ३० ॥ टीका-नरकेष्वशुभमेकान्ततः सर्वकालमशुभमेव, तिर्यक्षु महिषाश्ववारणाजादिषु रोधादयो बंधनधरणदमनदहनताड़नादयः, मनुष्येषु रोगशोकादयस्तु, दिवि देवलोके मानसमशुभं परप्रेषणवाहनमहर्द्धिकदर्शनेन मनोगतं सुष्ठु दुःखमिति ॥ ३०॥ Page #21 -------------------------------------------------------------------------- ________________ १६ मूलाचारे तथार्थद्वारेण दुःखमाह; — आयासदुक्खवेरभयसोगकलिरागदोसमोहाणं । अहाणमावहो विय अत्थो मूलं अणत्थाणं ॥ ३१ ॥ । आयासदुःखवैरभयशोककलिरागद्वेषमोहानाम् अशुभानामावहोपि च अर्थो मूलमनर्थानाम् ॥ ३१ ॥ टीका- आयासोऽर्थार्जनतत्परता, दुःखमसातवेदनीयकर्मोदयनिमित्तासुखरूपं, वैरं मरणानुबंधः, भयं भयकर्मोदयजनितत्रस्तता, शोकः शोककर्मोदयपूर्व के वियोगजः संतापः, कलिर्वचनप्रतिवचनकृतो द्वन्द्वः, रागो रतिकर्मोदयजनिता प्रीतिः, द्वेषोऽरतिकर्मोदयोद्भूताऽप्रीतिः, मोहो मिथ्यात्वासंयमादिरूप इत्येवमादीनामशुभानामावहोऽवस्थानंः, अर्थः स्त्रीवस्त्रसुवर्णादिरूपः, अथवैतान्य-शुभान्यावहति प्रापयतीति आयासायशुभावहः, अनर्थानां च सर्वपरिभवानां च मूलं कारणमर्थस्तस्मात्तेन यच्छुभं तच्छुभं एव न भवतीति ॥ ३१ ॥ तथा कामसुखमप्यशुभमिति प्रतिपादयति ; दुग्गमदुलहलाभा भयपउरा अप्पकालिया लहुया । कामा दुक्खविवागा असूहा सेविज्जमाणा वि ॥ ३२ ॥ दुर्गमदुर्लभलाभा भयप्रचुरा अल्पकालिका लघुकाः । कामा दुःखविपाका अशुभाः सेव्यमाना अपि ॥ ३२ ॥ टीका – दुःखेन कृच्छ्रेण गम्यन्त इति दुर्गमा विषमस्था दुरारोहाः, दुर्लभो लाभो येषां ते दुर्लभलाभाः स्वेप्सितप्राप्तयो न भवन्ति, भयं प्रचुरं येभ्यस्ते भयप्रचुरा दंडमारणवचनादिभयसहिताः, अल्पकाले भवा अल्पकालिकाः सुष्ठु स्तोककालाः, लघुका निःसाराः, के ते ? कामा मैथुनाद्यभिलाषा दुःखं विपाक फलं येषां बंधनादि ते दुःखविपाका दुःखावसानाः अशुभाः सेव्यमाना अपि, तत्राऽपि न सुखमस्तीति भावः सर्वाशुभमवति ॥ ३२ ॥ Page #22 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । आहारादपि न सुखं भवतीत्याह;असुइविलिविले गम्भे वसमाणो वस्थिपडलपच्छण्णो। मादूइसेभलालाइयं तु तिव्वासुहं पिबदि ॥ ३३ ॥ अशुच्याविले गर्भे वसन वस्तिपटलप्रच्छन्नः। मातृश्लेष्मलालायितं तु तीव्राशुभं पिबति ॥ ३३ ॥ टीका-अशुच्याविले मूत्रपुरीषश्लेष्मपित्तरुधिरादिबीभत्से, गर्भ उदराभ्यंतरे, वसन् सांतष्ठमानः, वस्तिपटलप्रच्छन्नः जरायुरावृतः, मातृश्लेष्मलालायितं जनन्या चर्वितं श्लेष्मलालासमन्वितं रसं तीव्र दुर्गन्धं पिबति यत एवंभूतो मूलाहारस्ततः कयमाहारत् सुखमित्याहारोऽप्यशुभरूप एवेति ॥ ३३॥ शरीरम यशुभमिति निरूपयन्नाह;-- मंसद्विसिंभवसरुहिरचम्मपित्तंतमुत्तकुणिपकुडिं। बहुदुक्खरोगभायण सरीरमसुभं वियाणाहि ॥ ३४ ॥ मांसास्थिश्लेष्मवसारुधिरचर्मपित्तांत्रमूत्रकुणिपकुटीं। बहुदुःखरोगभाजनं शरीरमशुभं विजानीहि ॥ ३४॥ टीका-मांसास्थिश्लेष्मवसारुधिरचर्मपित्तांत्रमूत्रकुणिपाशुचिकुटी गृहमेतेषां बहुदःखरोगभाजनं शरीरमिदशुभमशुचि विजानीहीति ॥ ३४ ॥ तस्मात्;अत्थं कामसरीरादियं पिसव्वमसुभत्ति णादण । णिीवजंतो झायसु जह जहसि कलेवरं असुइं॥३५॥ अर्थ कामशरीरादिकमपि सर्वमशुभमिति ज्ञात्वा । निर्वजमानः ध्यायस्व यथा जहाास कलेवरं अशुचि ॥ ३५॥ Page #23 -------------------------------------------------------------------------- ________________ मलाचार टीका-अर्थ स्त्रीवस्त्रादिकं, कामं मैथुनादिकं, शरीरादिकमपि सर्वमशुभमिति जगति ज्ञात्वा निर्वेदं गच्छन् ध्यायस्व चिन्तय यथा जहांसि कुत्सितकलेवरमशुचि, शरीरवैराग्यं संसारवैराग्यं च सम्यक् चिंतयेति ॥ ३५ ॥ ___ अशुभानुप्रेक्षां संक्षेपयन्नाह;मोत्तूण जिणक्खादं धम्मं सुहमिह दु णत्थि लोगम्मि । ससुरासुरेसु तिरिएसु णिरयमणुएसु चिंतेज्जो ॥ ३६ ॥ मुक्त्वा जिनख्यातं धर्म शुभमिह तु नास्ति लोके । ससुरासुरेषु तिर्यक्षु नरकमनुजेषु चिंतयेत् ॥ ३६ ॥ टीका-ससुरासुरेषु नरकतिर्यमनुष्येषु जिनख्यातं धर्म मुक्त्वा शुभमिहान्यन्नास्ति, एवं चिन्तयेत्, लोके धर्ममन्तरेणान्यच्छुभं न मवतीति जानीहि ॥ ३६॥ __आस्रवानुप्रेक्षां प्रकटयन्नाह;दुक्खभयमीणपउरे संसारमहण्णवे परमघोरे । जंतू जंतु णिमजदि कम्मासवहेदुयं सव्वं ॥ ३७॥ दुःखभयमीनप्रचुरे संसारमहार्णवे परमघोरे । जंतुः यत्तु निमज्जति कर्मास्रवहेतुकं सर्व ॥ ३७ ॥ टीका-दुःखभयान्येव मीना मत्स्यास्त एव प्रचुरा भूता यस्मिन् स दुःखभयमीनप्रचुरस्तस्मिन् संसारमहार्णवे परमघोरे सुष्टु रौद्रे जन्तु वो यस्मानिमज्जति प्रविशति तत्सर्व कर्मास्रवहेतुकं कर्मादाननिमित्तमिति ॥ ३७॥ क आस्रवा इत्याशंकायामाह;रागो दोसो मोहो इंदियसण्णा य गारवकसाया। मणवयणकायसहिदा दु आसवा होंति कम्मस्स ॥३८॥ . १'यभास्य ' प्रेस-पुस्तके पाठः। Page #24 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । रागः द्वेषः मोहः इन्द्रियसंज्ञाश्च गौरवकषायाः । मनोवचनकायसहितास्तु आस्रवा भवंति कर्मणः १९ ३८ ॥ टीका- रागद्वेषमोहपंचेन्द्रियाहारभयमैथुनपरिग्रहसंज्ञाः ऋद्विगौरवरसगौरवसातगौरवकषायाश्च मनोवचनकायसहिता एवं सर्व एते कर्मण आस्रवा भवन्ति — कर्माण्येतैरागच्छन्तीति ॥ ३८ ॥ रागादीन् विवेचयन्नाह; - रंजेदि असुहकुणपे रागो दोसो वि दूसदी णिचं | मोहो वि महारिवु जं णिय मोहेदि सम्भावं ॥ ३९ ॥ रंजयति अशुभकुणपे रागो द्वेषोपि द्वेष्टि नित्यं । मोहोपि महारिपुः यन्नियतं मोहयति सद्भावं ॥ ३९ ॥ टीका - रागो जीवं कुणपे वस्तुनि रंजयति — कुत्सिते द्रव्येऽनुरागं कारयति रागः । द्वेषोऽपि शोभनमपि द्वेष्टि - सम्यग्दर्शनादिषु द्वेषं कारयति । नित्यं सर्वकालं, । मोहोऽपि महारिपुर्महावैरी यस्मान्नियतं निश्चयेन मोहयति सद्भावं जीवस्य परमार्थरूपं तिरयतीति ॥ ३९ ॥ यत एवंभूतो मोहोऽतस्तं कुत्सयन्नाह ; धिद्धी मोहस्स सदा जेण हिदुत्थेण मोहिदो संतो । ण विबुज्झदि जिणवयणं हिदसिवसुहकारणं मग्गं ॥ | धिक् धिक् मोहं सदा येन हृदयस्थेन मोहितः सन् । न विबुध्यते जिनवचनं हितशिवसुखकारणं मार्गम् ॥ ४० ॥ टीका - धिक् धिक् भवतु मोहं-- मोहः प्रलयं गच्छतु । येन मोहेन हृदयस्थेन मोहितो मूढः सन् न विबुध्यते तन्न जानाति जिनवचनं परमागमं । Page #25 -------------------------------------------------------------------------- ________________ मूलाचारे किंविशिष्टं ? हितशिवसुखकारणं मार्ग — एकांतवादिपरिकल्पितसुखनिमित्तमा र्गविपरीतं येन मोहेन न विबुध्यते तं मोहं धिग्भवन्त्विति ॥ ४० ॥ २० रागद्वेषौ कुत्सयन्नाह - जिणवयण सहाणो वि तिव्वमसुहगदिपावयं कुणइ । अभिभूदो जेहिं सदा धित्तेसिं रागदोसाणं ॥ ४१ ॥ जिनवचनं श्रद्दधानोपि तीव्रमशुभगतिपापं करोति । अभिभूतो याभ्यां सदा धिक् तौ रागद्वेषौ ॥ ४१ ॥ टीका - याभ्यां रागद्वेषाभ्यामभिभूतः कदर्थितोऽयं जीवो जिनवचनं श्रद्दधानोऽपि तत्वरुचिसहितोऽप्यशुभगतिहेतुकं तीव्रं पापं करोति श्रेणिकादिवत्, धिग्भवतस्तौ रागद्वेषौ, इति दर्शने सत्यपि रागद्वेषौ पुरुषस्य पापं जनयत इति तयोर्निराकरणे संभ्रमः कार्यइति ॥ ४१ ॥ विषयाणां दुष्टत्वमाह; अणिहुमणसा दे इंदियावसया णिगेहिदुं दुक्खं । मंतोसहिहीणेण वदुट्ठा आसीविसा सप्पा ॥ ४२ ॥ अनिभृतमनसा एतान् इंद्रियविषयान् निग्रहीतुं दुःखं । मंत्रौषधहीनेन इव दुष्टा आशीविषाः सर्पाः ॥ ४२ ॥ टीका - एकाग्रचित्तमन्तरेणैतानिन्द्रियविषयान्निग्रहीतुं दुःखमेतेषां रूपरसगंधस्पर्शशब्दविषयाणामिन्द्रियाणां निग्रहं कर्त्तुं न शक्यते चलचित्तेन । यथा मंत्रौषधिहीनेन दुष्टा आशीविषाः सर्पा वशीकर्तुं न शक्यन्त इति ॥ ४२ ॥ तानि कुत्सयन्नाह ; धित्तोसमंदियाणं जेसिं वसदो दु पावमज्जणिय | पावदि पावविवागं दुक्खमणंतं भर्वगदिसु ॥ ४३ ॥ १' चउग्गदिसु' पाठान्तरम् । Page #26 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः। २१ धिक तानि इन्द्रियाणि येषां वशतस्तु पापमर्जयित्वा । प्राप्नोति पापविपाकं दुःखमनतं भवगतिषु ॥ ४३॥ . टीका-धिग्भवतु तानीन्द्रियाणि, येषामिन्द्रियाणां वशतो वशं गतः पापमर्जयित्वा च पापं संगृह्य प्राप्नोति, तस्य पापस्य विपाकं फलं भवगतिषु च दुःखमनंतं प्राप्नोतीति ॥ ४३ ॥ संज्ञागौरवाणां स्वरूपमाह;सण्णाहिं गारवेहिं अ गुरुओ गुरुगं तु पावमज्जणिय । तो कम्मभारगुरुओ गुरुगं दुक्खं समणुभवइ ।। ४४ ॥ संज्ञाभिः गौरवैश्च गुरुर्गुरुकं तु पापमर्जयित्वा । ततः कर्मभारगुरुः गुरुकं दुःखं समनुभवति ॥४४॥ टीका-आहारादिसंज्ञाभिर्गौरवैश्च गुरुः सन् गुरुकं तु पापमर्जयित्वा • पापभार स्वीकृत्य ततः पापभारेण गुरुर्भूत्वा ततो गुरुकं दुःखं समनुभवतीति॥४४॥ कषायास्रवस्वरूपमाह;कोधो माणो माया लोभो य दुरासया कसायरिऊ। दोससहस्सावासा दुक्खसहस्साणि पावंति ॥ ४५ ॥ क्रोधः मानः माया लोभश्च दुराश्रयाः कषायरिपवः । दोषसहस्रावासाः दुःखसहस्राणि प्रापयति ॥ ४५ ॥ टीका-क्रोधमानमायालोभा दुराश्रया दुष्टाश्रयाः कषायरिपवः दोषसहस्राणामावासाः दुःखसहस्राणि जीवान् प्रापयंति-दुःखसहस्रैः कषाया जीवान् संबंधयन्तीत्यर्थः ॥ ४५॥ Page #27 -------------------------------------------------------------------------- ________________ २२ मूलाचारे• mmmmmmmmmmmmmmmmmm पुनरप्यास्रवानाह;हिंसादिएहिं पंचहिं आसवदारेहिं आसवदि पावं । तेहितो धुव विणासो सासवणावा जह समुद्दे ॥४६ ॥ हिंसादिभिः पंचभिः आस्रवद्वारैः आस्रवति पापं । तेभ्यो ध्रुवं विनाशः सास्रवनौः यथा समुद्रे ॥ ४६ ॥ टीका-हिंसानृतस्तेयाब्रह्मपरिग्रहैः पंचभिरास्रवद्वारैरास्रवति कर्मोपढौकते पापं । तेभ्यश्चाश्रितेभ्यो ध्रुवो निश्चयरूपो विनाशो जीवस्य भवति । यथा सास्रवा नौः पोतः समुद्रे निमज्जति, एवं कर्मास्रवैर्जीवः संसारसागरे निमज्जतीति ॥४६॥ ___ आस्रवानुप्रेक्षामुपसंहरन्नाह;एवं बहुप्पयारं कम्मं आसवदि दुट्ठमढविहं । णाणावरणादीयं दुक्खविवागं ति चिंतेज्जो ॥ ४७ ॥ एवं बहुप्रकारं कर्म आस्रवति दुष्टमष्टविधं । ज्ञानावरणादिकं दुःखविपाकमिति चिंतयेत् ॥ ४७॥ टीका-एवं ज्ञानावरणादिकं कर्माष्टविधं भेदेन बहुप्रकारं दुष्टं वाऽऽस्रवति यस्मात्तस्मात्तमाञवं दुःखविपाकमिति कृत्वा चिन्तयेत् भावयेदिति॥४७॥ यस्मादेवमास्रवैः कर्मास्रवति तस्मात्संवरमाह;तम्हा कम्मासवकारणाणि सव्वाणि ताणि रुंधेज्जो ॥ इंदियकसायसण्णागारवरागादिआदीणि ॥४८॥ तस्मात् कर्मास्रवकारणानि सर्वाणि तानि रोधयेत् । इन्द्रियकषायसंज्ञागौरवरागादिकादीनि ॥ ४८ ॥ टीका-तस्मात्कर्मास्रवकारणानि सर्वाणि यानि तानि निरोधयेत् निवा Page #28 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । २३ रयेत् । कानि तानि ? इन्द्रियकषायसंज्ञागौरवरागादिकानि । यस्मादेतैः कर्मागच्छति तस्मादेतानि सर्वाणि निरोधयेदिति ॥ ४८॥ रुद्धेषु येषु यद्भवति तदाह;रुद्धसु कसायेसु अ मूलादो होति आसवा रुद्धा । दुब्भत्तम्हि णिरुद्धे वणम्मि णावा जह ण एदि ॥४९॥ रुद्धेषु कषायेषु च मूलात् भवंति आस्रवा रुद्धाः। दुर्वहति निरुद्ध वने नौः यथा न एति ॥ ४९ ॥ टीका--रुद्धेषु च कषायेषु च मूलादारभ्य मूलत आस्रवाः सर्वेऽपि रुद्धाः सम्यक् पिहिता भवंति यथा दुर्वहति वने पानीये-दुष्टे वहति स्रोतसि ज़ले, अथ व्रणे--विवरे, दुष्टे वहति, निरुद्धे विधृते, नावं नैति जलं यथा । अथवा नालिकेरादित्वाग्भिर्बद्धा नौः सास्रवा सत्यपि नयति प्राप्नोति परतीरं, अथवा नैति विनाशं । कषायेषु निरुद्वेषु आस्रवा रुद्धा यथा नावं नैति जलं रुद्धेषु, यथा च सासवा नौवहति पानीय निरुद्ध मूलतस्तस्या नावः सर्वेऽपि आस्रवा निरुद्धा भवंति ततः सा नौनयति प्रापयतीष्टस्थानमानयति वा स्वष्टं वस्तु विनाशं च न गच्छति, एवं कषायेषु रुद्धेषु मूलतः सर्वेऽप्यास्रवा निरुद्धा भवति ततो यद्यपि योगादिद्वारैः सास्रवो जंतुस्तथाऽपि रत्नत्रयं मोक्षपत्तनं नयतीति ॥ ४९॥ इन्द्रियसंवरस्वरूमाह;इंदियकसायदोसा णिग्धिप्पंति तवणाणविणएहिं । रज्जूहि णिधिप्पति हु उप्पहगामी जहा तुरया ॥५०॥ इन्द्रियकषायदोषा निगृह्यते तपोज्ञानविनयैः । रज्जुभिः निगृह्यते खलु उत्पथगामिनो यथा तुरगाः ॥ ५० ॥ Page #29 -------------------------------------------------------------------------- ________________ २४ मूलाचारेmmmmmmmmmmmmmmmmmm टीका-इन्द्रियाणि कषाया द्वेषाश्चैते निगृह्यन्ते निरुध्यन्ते यथासंख्य तपसा ज्ञानेन विनयेन । इन्द्रियाणि तपसा निगृह्यन्ते, कषाया ज्ञानभावनया वशीक्रियते, द्वेषो विनयक्रियया प्रलयमुपनीयते । यथोत्पथगामिन उन्मार्गयायिनस्तुरगा अश्वा निगृह्यन्ते वशतामुपनीयन्ते रज्जुभिर्वरत्राभिः खल्विति॥५०॥ चारित्रसंवरस्य स्वरूपमाह;मणवयणकायगुत्तिंदियस्स समिदीसु अप्पमत्तस्स । आसवदारणिरोहे णवकम्मरयासवो ण हवे ॥ ५१ ॥ मनोवचनकायगुप्तेंद्रियस्य समितिषु अप्रमत्तस्य । आस्रवद्वारनिरोधे नवकर्मरजआस्रवो न भवेत् ॥ ५१ ॥ 'टीका-मनोवचनकायैर्गुप्तोन्द्रयस्य समितिषु चे भाषैषणाऽऽदाननिनिक्षेपोच्चारप्रस्रवणसंज्ञिकास्वप्रमत्तस्य सुष्टु प्रमादरहितस्य चारित्रवत आस्रवद्वारनिरोधे यैारैः कागच्छति तेषां निरोधे सति नवकर्मरजस आस्रवो न भवेत्-अभिनवकर्मागमो न भवेदिति ॥ ५१ ॥ पुनरपि संक्षेपत आस्रवं संवरं चाह;मिच्छत्ताविरदीहिं य कसायजोगेहिं जं च आसवदि । दसणविरमणणिग्गहणिरोधणेहिं तु णासवदि ॥५२ ॥ मिथ्यात्वाविरतिभिः च कषाययोगैः यच्च आस्रवति । दर्शनविरमणनिग्रहनिरोधनैस्तु न आस्रवति ॥ ५२॥ टीका-मिथ्यात्वाविरतिकषाययोगैर्यत्कर्मास्रवति तत्कर्म सम्यग्दर्शनविरतिनिग्रहनिरोधनस्तु यथासंख्यं नास्रवति नागच्छतीति ॥ ५२ ॥ १ मिथ्यात्वाविरतिप्रमादकषाययोगैरिति प्रेस-पुस्तके पाठः । मूलपाठोऽपि 'मिच्छत्ताविरदिपमदकसायजोगेहि ' इत्येवं रूपः किन्तु मिथ्यात्वादीनां पंचानां चतुर्भिः सम्यग्दर्शनादिभिः सह याथासंख्यं न संगच्छतेऽतो. निष्कासितः।-संशोधकः। Page #30 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । संवरानुप्रेक्षां संक्षेपयन् तस्याश्च फलं प्रतिपादयन्नाह; - संवरफलं तु णिव्वाणमेत्ति संवरसमाधिसंजुत्तो । णिच्चुज्जुत्तो भावय संवर इणमो विसुद्धप्पा ॥ ५३ ॥ संवरफलं तु निर्वाणमिति संवरसमाधिसंयुक्तः । नित्योद्युक्तो भावय संवरमिमं विशुद्धात्मा ॥ ५३ ॥ २५ टीका - संवरफलं निर्वाणमिति कृत्वा संवरेण समाधिना चाथवा संवरध्यान संयुक्तः सन् नित्योयुक्तश्च सर्वकालं यत्नपरं भावयेमं संवरं विशुद्धात्मा सर्वद्वन्द्वपरिहीणः – संवरं प्रयत्नेन चिन्तयेति ॥ ५३ ॥ निर्जरास्वरूपं विवृण्वन्नाह; — रुद्रासवस्स एवं तवसा जुत्तस्स णिज्जरा होदि । दुविहाय सा विभणिया देसादो सव्वदो चेय ॥ ५४ ॥ रुद्वास्रवस्य एवं तपसा युक्तस्य निर्जरा भवति । द्विविधा च सापि भणिता देशतः सर्वतश्चैव ॥ ५४ ॥ टीका —रुद्वास्रवस्य पिहितकर्मागमद्वारस्यैवं तपसा युक्तस्य निर्जरा भवति — कर्मशातनं भवति । साऽपि च निर्जरा द्विविधा भणिता, देशतः सर्वतश्च कर्मैकदेशनिर्जरा सर्वकर्मनिर्जरा चेति ॥ ५४ ॥ देशनिर्जरास्वरूपमाह; — संसारे संसरंतस्स खओवसमगदस्स कम्मस्स । सव्वस्स वि होदि जगे तवसा पुण णिज्जरा विउला ॥५५॥ संसारे संसरतः क्षयोपशमगतस्य कर्मणः । सर्वस्यापि भवति जगति तपसा पुनः निर्जरा विपुला ॥ ५५ ॥ १' एककमैक' इति प्रेस - पुस्तके पाठः । Page #31 -------------------------------------------------------------------------- ________________ मूलाचारे टीका-संसारे चतुर्गतिसंसरणे, संसरतः पर्यटतः, क्षयोपशमगतकर्मणः किंचित् क्षयमुपगतं किंचिदुपशान्तं किंचित्तत्स्वरूपेण स्थितं कर्म तस्य कर्मणो या निर्जरा सा सर्वस्यैव जीवस्य भवति जगति सा च देशनिर्जरा तपसा पुननिर्जरा विपुला-तपोग्निना भस्मीकृतस्य सर्वस्य कर्मणो निर्जरा सकलेति ॥५५॥ सकलनिर्जरायाः फलं स्वरूपं चाह;जह धादू धम्मतो सुज्झदि सो अग्गिणा दु संतत्तो। तवसा तहा विसुज्झदि जीवो कम्मेंहि कणयं व ॥५६॥ यथा धातुः धम्यमानः शुध्यति सोऽग्निना तु संतप्तः। तपसा तथा विशुध्यति जीवः कर्मभ्यः कनक इव ॥ ५६ ॥ टीका-यथा धातुर्धम्यमानः शुध्यति किट्टकालिमादिरहितो भवति अग्निना तु सन्तप्तः सन्, तथा तपसा विशुध्यति कर्मभ्यो जीवः सर्वकर्मविमुक्तः स्यात्कनक इव । यथा धातुर्धम्यमानोऽग्निना सन्तप्तः कनकः स्यात्तथा जीवस्तपसा संतप्तः सिद्धः संपद्यत इति ॥ ५६ ॥ तपसो माहात्म्यमाह;- - - णाणवरमारुदजुदो सीलवरसमाधिसंजमुज्जलिदो। दहइ तवो भवबीयं तणकट्ठादी जहा अग्गी ॥ ५७ ॥ ज्ञानवरमारुतयुतं शीलवरसमाधिसंयमोज्ज्वलितं। दहति तपो भवबीजं तृणकाष्ठादिकं यथा अग्निः ॥ ५७ ॥ टीका-ज्ञानवरमारुतयुतं मत्यादिज्ञानबृहद्वातसहितं, शीलं व्रतपरिरक्षण, वरसमाधिरेकाग्रचिन्तानिरोधः, पंचनमस्कृतिसहितः संयमः प्राणिदया इन्द्रियनिग्रहश्चैतैरुज्ज्वलितं प्रज्वलितं दीप्तं तपो दहति भवबीजं संसारकारणं । तृणकाष्ठादिकं यथाऽग्निर्दहति तथेति ॥ ५७ ॥ Page #32 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः। २७ vvvvvvvvvvv vvvvvvvvvvvvvvvvvvvvvvvvvvvvv पुनरपि;चिरकालमज्जिदंपिय विहुणदितवसा रयत्ति णाऊण । दुविहे तवम्मि णिचं भावेदव्वो हवदि अप्पा ॥ ५८ ॥ चिरकालमर्जितमपि च विधूयते तपसा रज इति ज्ञात्वा । द्विविधे तपसि नित्यं भावयितव्यो भवति आत्मा ॥५८॥ टीका-चिरकालं संख्या(म)तीतसमयं कर्मार्जितमपि तपसा विधूयत इति ज्ञात्वा तपसि नित्यं निरन्तरमात्मा भावयितव्यो भवतीति ॥ ५८ ॥ भावितात्मा स नु किं स्यादित्याह;णिज्जरियसव्वकम्मो जादिजरामरणबंधणविमुक्को। पावदि सुक्खमणंतं णिज्जरणं तं मणसि कुज्जा ।। ५९ ॥ निर्जीर्णसर्वकर्मा जातिजरामरणबंधनविमुक्तः । प्राप्नोति सुखमनतं निर्जरणं तन्मनसि कृत्वा ॥ ५९ ॥ टीका-ततो निर्जीर्णः सर्वकर्मनिर्मुक्तो जातिजरामरणबन्धनविमुक्तः प्राप्नोति सौख्यमतुलमनंतं, तन्निर्जरणं मनसि कृत्वा विधायेति ॥ ५९ ॥ निर्जरानुप्रेक्षां व्याख्याय धर्मानुप्रेक्षास्वरूपं विवेचयन्नाह;सव्वजगस्स हिदकरो धम्मो तित्थंकरहिं अक्खादो। धण्णां तं पडिवण्णा विसुद्धमणसा जगे मणुया ॥६०॥ सर्वजगतो हितकरो धर्मः तीर्थकरैः आख्यातः। धन्यास्तं प्रतिपन्ना विशुद्धमनसा जगति मनुजाः ॥६०॥ टीका-सर्वस्य जगतो भव्यलोकस्य हितकरो धर्म उत्तमक्षमादिलक्षणस्तीर्थकरैराख्यातः प्रतिपादितस्तं धर्म ये प्रतिपन्नास्तं धर्ममधिष्ठिता ये पुरुषा विशुद्धमनसा शुद्धभावेन ते धन्याः पुण्यवंतः कृतार्था जगतीति ॥ ६० ॥ १ 'धण्णा तं तु पवण्णा' प्रेस-पुस्तके पाठान्तरं । Page #33 -------------------------------------------------------------------------- ________________ २८ मूलाचारे धर्मानुरागे कारणमाह;जेणेह पाविदव्वं कल्लाणपरंपरं परमसोक्खं ।। सो जिणदेसिद्धम्मं भावेणुववज्जदे पुरिसो ॥ ६१॥ येनेह प्राप्तव्यं कल्याणपरंपरा परमसौख्यं । स जिनदेशितं धर्म भावेन उपपद्यते पुरुषः ॥ ६१॥ टीका-येनेह-येन जीवेनास्मिंल्लोके कल्याणपरंपरा मांगल्यनैरन्तर्य परमसौख्यं प्राप्तव्यं स जीवो जिनदेशितं तीर्थकराख्यातं धर्म भावेनोपपद्यते पुरुषः परमार्थतो धर्म अद्दधाति सेवते-पापक्रियां मनागपि नाचरतीति ॥६१॥ धर्मस्य विकल्पानाह;खंतीमद्दवअज्जवलाघवतवसंजमो आकिंचणदा। तह होइ बंभचेरं सच्चं चाओ य दसधम्मा ॥ ६२॥ क्षांतिमार्दवार्जवलाघवतपःसंयमाः अकिंचनता। तथा भवति ब्रह्मचर्य सत्यं त्यागश्च दशधर्माः ॥ ६२ ॥ टीका-क्षान्त्यार्जवमार्दवलाघवतपःसंयमा आकिंचन्यं तथा ब्रह्मचर्य सत्यं त्याणश्चैवं धर्मो दशविधो भवति ज्ञातव्य इति ॥ ६२॥ . धर्मभावनाफलमाह;उवसम दया य खंती वड्डइ वेरग्गदा य जह जह से । तह तह य मोक्खसोक्खं अक्खीणं भावियं होइ॥६३॥ उपशमो दया च क्षांतिः वर्धते वैराग्यता च यथा यथास्य । तथा तथा च मोक्षसौख्यं अक्षीणं भावितं भवति ॥ ६३॥ टीका-उपशम इन्द्रियनिग्रहे पुरुषव्यापारो, दयाऽनुकंपा, क्षान्तिः क्रोधाअनुत्पत्तिरन्यकृतोपद्रवसहनं, एते विरागता च यथा यथा वर्द्धन्ते-वैराग्यकार Page #34 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । २९ wwwwwwwwwwwwwwwwwwwwwwwww णेन वृद्धिं गच्छन्ति यथा यथास्य, जीवस्य तथा तथा तस्य जीवस्य मोक्षसौख्यमक्षयं भावितं भवतीति ॥ ६३॥ ___ धर्मानुप्रेक्षामुपसंहर्तुकाम: प्राह;संसारविसमदुग्गे भवगहणे कह वि मे भमंतेण । दिहो जिणवरदिडो जेहो धम्मोत्ति चिंतेज्जो ॥ ६४ ॥ संसारविषमदुर्गे भवगहने कथमपि मया भ्रमता । दृष्टो जिनवरदिष्टो ज्येष्ठो धर्म इति चिंतयेत् ॥ ६४॥ टीका-संसारविषमदुर्गे भवगहने भवाकुले कथमपि भ्रमता पर्यटता मया जिनवरोपदिष्टो ज्येष्ठः प्रधानो धर्मो दृष्ट इत्येवं चिन्तयदिति ॥ ६४ ॥ बोधिदुर्लभतास्वरूपमाह;-- संसारह्मि अणंते जीवाणं दुल्लहं मणुस्सत्तं । जुगसमिलासंजोगो लवणसमुद्दे जहा चेव ॥६५॥ संसारे अनंते जीवानां दुर्लभं मनुष्यत्वं । युगसमिलासंयोगो लवणसमुद्रे यथा एव ॥६५॥ टीका-संसारेऽनंतेऽत्यन्तदीर्घ जीवानां दुर्लभं मनुष्यत्वं मनुष्यजन्म, यथा लवणसमुद्रे युगसमिलासंयोगः । पूर्वसमुद्रभागे युगं निक्षिप्तं, पश्चिमसमुद्रभागे समिला निक्षिप्ता, तस्याः समिलाया युगविवरे यथा प्रवेशो दुर्लभस्तथा जीवस्य चतुरशीतियोनिलक्षमध्ये मनुष्यतां दुर्लभमेवेति ॥६५॥ मनुष्यत्वे लब्धेऽपि बद्दुर्लभं तदाह;-- देसकुलजम्म एवं आऊ आरोग्ग वीरियं विणओ। सवणं गहणं मादि धारणा य एदेवि दुल्लहा लोए॥६६॥ देशकुलजन्म रूपं आयुः आरोग्यं वीर्य विनयः। श्रवणं ग्रहणं मतिः धारणा च एतेपि दुर्लभा लोके ॥ ६६ ॥ Page #35 -------------------------------------------------------------------------- ________________ मूलाचारे टीका--मनुष्यत्वे लब्धेऽप्यतिदुर्लभ आर्यदेशः, मनुष्यत्वं यतो म्लेच्छखंडेषु भोगभूमावपि विद्यते । आर्यदेशे लब्धेऽपि दुर्लभं कुले जन्म, आर्यदेशे भिल्लववरचांडालादिकुलानामपि संभवात् । विशुद्धकुले लब्धेऽप्यतीव दुर्लभं रूपमवयवसंपूर्णता, शुद्धकुलेऽपि यतो विकलांगदर्शनामिति । रूपे लब्धेऽपि दुर्लभं सष्ठु दीर्घायुश्चिरंजीवित्वं । चिरजीवनादप्यारोग्यं दुर्लभतरं । आरोग्यादपि वीर्य दुर्लभतमं । वीर्यादपि विनयोऽतीव दुर्लभतमः । तस्मादपि श्रवणमा दिसंप्राप्तिः । तस्मादपि ग्रहणमवधारणं सुष्ठु न सुलभं । तस्मादपि पूर्वापरविवेकरूपता मतिः स्मरणादिकमतीव दुर्लभा । ततोऽपि धारणा कालान्तरेऽप्यविस्मरणत्वं दुर्लभा । मनुष्यत्वे लब्धेप्येते सर्वे क्रमेण दुर्लभा लोके जगतीति॥६६॥ एतेभ्योऽपि दुर्लभतममाह;लद्धेसु वि एदेसु य बोधी जिणसासणमि ण हु सुलहा। कुपहाणमाकुलत्ता जं बलिया रागदोसा य ॥ ६७ ॥ लब्धेष्वपि एतेषु च बोधिः जिनशासने न हि सुलभा । कुपथानामाकुलत्वात् यत् बलिष्ठौ रागद्वेषौ च ॥ ६७ ॥ टीका-लब्धेष्वेप्येतेषु बोधिः सम्यक्त्वं दर्शनविशुद्धिस्तत्कारणे च जिनशासने परमागमे नैव सुलभा न सुखेन लभ्यते । कुतः ? कुपथानामाकुलत्त्वात् यतः कुत्सितमार्गदुष्टाभिप्रायैर्धान्तोऽयं लोकः, यस्माच्च रागद्वेषौ बलवन्तौ, अथवा कुपथानामाकुलत्वहेतोर्बलिनौ रागद्वेषौ यत इति ॥ ६७॥ एवं बोधिदुर्लभत्वं विज्ञाय तदर्थपरिणाम कर्तुकाम: प्राह;सेयं भवभयमहणी बोधी गुणवित्थडा मए लद्धा । जदि पाडेदा ण हु सुलहा तम्हाण खमोपमादो मे ॥६॥ सेयं भवभयमथनी बोधिः गुणविस्तृता मया लब्धा । । यदि पतिता न खलु सुलभा तस्मात् न क्षमाप्रमादो मम ॥६८॥ Page #36 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । ३१ rrrrrrrrrrrrromanimronew टीका-सेयं बोधिर्भवभयमथनी संसारभीतिविनाशिनी गुणविस्तरा गुणैविस्तीर्णा सर्वगुणाधारा मया लब्धा प्राप्ता, यदि कदाचित्संसारसमुद्रे पतिता प्रभ्रष्टा न खलु नैव स्फुटं पुनः सुलभाऽर्द्धपुद्गलपरावर्त्तनमन्तरेण तस्मान्नैव क्षमो नैव योग्यः प्रमादो मम-बोधिविषये प्रमादकरणं मम नैव युक्तमिति ॥ ६८॥ बोधिविषये यः प्रभादं करोति तं कुत्सयन्नाह;दुल्लहलाहं लक्ष्ण बोधि जो णरो पमादेजो। सो पुरिसो कापुरिसो सोयदि कुगदिं गदो संतो॥६९॥ दुर्लभलाभां लब्ध्वा बोधिं यो नरः प्रमादयेत् । स पुरुषः कापुरुषः शोचति कुगतिं गतः सन् ॥ ६९॥ टीका-दुर्लभलाभां बोधि संसारक्षयकरणसमर्थी यो लब्ध्वा प्राप्य प्रमादयेत् प्रमादं कुर्यात्सः पुरुषः कापुरुषः कुत्सितः पुरुषः शोचति दुःखी भवति कुगति नरकादिगतिं गतः सन्निति ॥ ६९॥ . बोधिविकल्पं तत्फलं च प्रतिपादयन्नाह;उवसमखयमिस्सं वा बोधि लघृण भवियपुंडरिओ । तवसंजमसंजुत्तो अक्खयसोक्खं तदा लहदि ॥ ७० ॥ उपशमक्षयमिश्रां वा बोधि लब्ध्वा भव्यपुंडरीकः । तपःसंयमसंयुक्तः अक्षयसौख्यं तदा लभते ॥ ७० ॥ टीका-क्षयोपशमविशुद्धिदेशनाप्रायोग्यलब्धीलब्ध्वा पश्चादधःप्रवृत्यपूर्वानिवृत्तिकरणान् कृत्वोपशमक्षयोपशमक्षयरूपां बोधिं लभते जीवः । पूर्वसचितकर्मणोऽनुभागस्पर्द्धकानि यदा विशुझ्या प्रतिसमयमनंतगुणहीनानि भूत्वोदीयन्ते तदा क्षयोपशमलब्धिर्भवति । प्रतिसमयमनंतगुणहीनक्रमणोदीरि Page #37 -------------------------------------------------------------------------- ________________ ३२ मूलाचारे तानुभागस्पर्द्धकजानितजीवपारणामः सातादिसुखकर्मबंधनिमित्तोऽसाताद्यसुखकर्मबंधविरुद्धो विशुद्धिलब्धिर्नाम । षड्व्व्यनवपदार्थोपदेशकाचार्याापलब्धिर्वोपदिष्टार्थग्रहणधारणविचारणशक्तिर्वा देशनालब्धिर्नाम । सर्वकर्मणामुत्कृटस्थितिमुत्कृष्टानुभागं च हत्वाऽन्तःकोट्यकोटीस्थितौ द्विस्थानानुभागस्थानं प्रायोग्यलब्धिर्नाम । तथोपरिस्थितपरिणामैरधःस्थितपरिणामाः समाना अधःस्थितपरिणामैरुपरिस्थितपरिणामाः समाना भवन्ति यस्मिन्नवस्थाविशेषकालेऽधःप्रवर्तनादधः प्रवृत्तिकरणः । अपूर्वापूर्वशुद्धतराः करणाः परिणामा यस्मिन् कालविशेष स्युरसावपूर्वकरणः परिणामः । एकसमयप्रवर्त्तमानानां जीवानां परिणामैर्न विद्यते निवृत्तिभेदो यत्र सोऽनिवृत्तिकरण इति । एवं क्रियां कृत्वाऽनंतानुबंधिक्रोधमानमायालोभप्रकृतीनां सम्यक्त्वसम्यङ्गिथ्यात्त्वमिथ्यावप्रकृतीमां चोपशमादुपशमसम्यक्त्वबोधिर्भवति । तथा तासामेव सप्तप्रकृतीनां क्षयोपशमात् क्षायोपशमिकसम्यक्त्वबोधिर्भवति । तथा तासामेव सप्तानां प्रकृतीनां क्षयात् क्षायिकसम्यक्त्वं भवति । एवमतिदुर्लभतरां त्रिप्रकारां बोधिं लब्ध्वा भव्यपुण्डरीको भव्योत्तमस्तपसा संयमेन च युक्तोऽक्षयसौख्यं ततो लभते सर्वद्वन्दविनिर्मुक्तः सिद्धिमधितिष्ठतीति यतो बोध्यां सर्वोऽपि जीव: सिद्धिं लभते॥७॥ तम्हा अहमवि णिचं सद्धासंवेगविरियविणएहिं । अत्ताणं तह भावे जह सा बोही हवे सुइरं ।। ७१ ॥ तस्मात् अहमपि नित्यं श्रद्धासंवेगवीर्यविनयैः । आत्मानं तथा भावयामि यथा सा बोधिः भवेत् सुचिरं ॥७१॥ टीका-यस्मादेवं विशिष्टा बोधिस्तस्मादहमपि नित्यं सर्वकालं श्रद्धा मानसिकः शासनानुरागः, संवेगो धर्मधर्मफलविषयादनुरागः वीर्य वीर्यान्तरायक्षयोपशमजनितशक्तिः, विनयो मनोवाक्कायानामनुद्धतिर्नम्रता तैरात्मानं तथा भावयामि यथाऽसौ बोधिर्भवेत्सुचिरं सर्वकालमिति ॥ ७१ ॥ Page #38 -------------------------------------------------------------------------- ________________ . द्वादशानुप्रेक्षाधिकारः। किमर्थ बोधि व्यंत इत्याशंकायामाह;बोधीय जीवदव्वादियाई बुज्झइ हु णव वि तचाई। गुणसयसहस्सकलियं एवं बोहिं सया झाहि ॥ ७२॥ बोध्या जीवद्रव्यादीनि बुध्यते हि नवापि तत्त्वानि । गुणशतसहस्रकलितां एवं बोधि सदा ध्याय ॥७२॥ टीका-यतो बोधिमवाप्य जीवाजीवास्रवपुण्यपापबंधसंवरनिर्जरामोक्षाः पदार्था द्रव्याणि अस्तिकायाश्च तत्वानि च बुध्यते बोध्या वा बुध्यते ततो गुणशतसहस्रकलितामेवंभूतां बोधिं सदा सर्वकालं ध्याय भावयेति ॥ ७२ ॥ द्वादशानुप्रेक्षामुपसंहर्तुकामः प्राह;दस दो य भावणाओ एवं संखेवदो समुद्दिट्ठा। जिणवयणे दिट्ठाओ बुहजणवेरग्गजणणीओ ॥ ७३ ॥ दश द्वे च भावना एवं संक्षेपतः समुद्दिष्टाः।। जिनवचने दृष्टा बुधजनवैराग्यजनन्यः ॥७३॥ टीका-एवं दश द्वे चानुप्रेक्षा भावनाः संक्षेपतः समुपदिष्टाः प्रतिपादिता जिनवचने यतो दृष्टा नान्यत्रानेन प्रामाण्यं ख्यापितं तासां स्यात्, बुधजनानां वैराग्यस्य जनन्यो वैराग्यकारिण्योऽनेन रागाभावश्च ख्यापितः श्रुतस्य भवतीति ॥ ७३॥ अनुप्रेक्षाभावने कारणमाह;अणुवेक्खाहिं एवं जो अत्ताणं सदा विभावदि।। सो विगदसवकम्मो विमलो विमलालयं लहदि॥७४॥ Page #39 -------------------------------------------------------------------------- ________________ ३४ ... मूलाचारे अनुप्रेक्षाभिः एवं य आत्मानं सदा विभावयति । स विगतसर्वकर्मा विमलो विमलालयं लभते ॥ ७४॥ .. · टीका-एवमनुप्रेक्षाभिरात्मानं यः सदा भावयेद्योजयेत्सः पुरुषो विगतसर्वकर्मा विमलो भूत्वा विमलालयं मोक्षस्थानं लभते प्रामोतीति ॥ ७४ ॥ द्वादशानुप्रेक्षावसाने कृतकृत्य आचार्यः परिणामशुद्धिमभिदधन्मंगलं फलं वा वाञ्छश्चाह;झाणेहिं खवियकम्मा मोक्खग्गलमोडया विगयमोहा। ते मे तमरयमहणा तारंतु भवाहि लहुमेव ॥ ७५॥ ध्यानैः क्षपितकर्माणः मोक्षार्गलभेदका विगतमोहाः । तेऽस्मान् तमोरजोमथनाः तारयंतु भवात् लघु एव ॥ ७५ ॥. टीका-ये इमा अनुप्रेक्षा भावयित्वा सिद्धिं गतास्ते ध्यानैः क्षपितकर्माणो मोक्षार्गलच्छेदका विगतचारित्रमोहास्तमोरजोमथना मिथ्यात्वमोहनीयज्ञानावरणादिविनाशकास्तारयंतु भवात्संसाराच्छीघ्रमेवास्मानिति ॥ ७५॥ पुनरप्यनुप्रेक्षां याचमानः प्राह;जह मज्झ तह्मि काले विमला अणुपेहणा भवेजण्हू । तह सव्वलोगणाहा विमलगदिगदा पसीदंतु ॥ ७६ ॥ यथा मम तस्मिन् काले विमला अनुप्रेक्षा भवेयुः । तथा सर्वलोकनाथा विमलगतिगताः प्रसीदंतु ॥ ७६ ॥ टीका-यथा येन प्रकारेण मम तस्मिन्नंतकाले विमला अनुप्रेक्षा द्वादश Page #40 -------------------------------------------------------------------------- ________________ द्वादशानुप्रेक्षाधिकारः । marmarrrrrrrrrrrrrrrrrrrr "प्रकारा भवेयुस्तथा ते सर्वलोकनाथा विमलगतिं गताः प्रसीदंतु प्रसन्ना भवंतु द्वादशानुप्रेक्षाभावनां मम दिशंत्विति ॥७६ ॥ इति श्रीमद्दट्टकेराचार्यवर्यविनिर्मितमूलाचारे वसुनंद्याचार्यप्रणीतटीकासहिते द्वादशानुप्रेक्षकनामा: ष्टमः परिच्छेदः समाप्तः । * १ प्रथम-द्वितीयफार्ममुद्रणानन्तरमेकं मूलपुस्तकं सम्प्राप्त, अतोऽत्र फार्मद्वये या अशुद्धयः संजातास्ता अत्र विलिख्यते । अध्यायप्रारंभेऽधोलिखितः श्लोकः "पाठश्च विद्यते अनन्तपदलाभाय यत्पदद्वन्द्वचिन्तनम् । जगदर्हः स वः पायाद्देवस्त्यागदिगम्बरः ॥१॥ द्वादशानुप्रेक्षाधिकारमष्टमं प्रपंचयन् तावदादौ नमस्कारपूर्वकं प्रतिज्ञावाक्यमाह प्रथमपृष्ठे यः पाठोऽस्माभिः स्वबुद्धया संयोजितः स एव मूलपुस्तके वर्तते न तु टिप्पणस्थः । द्वितीयपृष्ठे ' चाशनादीनां ग्रहणात् ' अस्य स्थाने. 'वेत्रासनादीनां ग्रहणात् ' इति पाठः। एकादश त्रयोदशपृष्ठेऽपि अस्माभिः संयोजितपाठ एव न तु टिप्पणस्थः। अष्टादशपृष्ठे तु 'जहासि' स्थाने ' त्यजसि ' इति पाठः। चतुर्विंशतितमे पृष्ठे अस्माभिः स्वबुद्धया यः पाठः कल्पितः स एव मूलपुस्तके न तु टिप्पणगतः । पंचविशतितमे पृष्ठे तु ' सर्वतश्च ' स्थाने ' सर्वतश्चैव' पाठः अन्यश्चास्माभिः योजितः न तु टिप्पणविहितः * ग्रन्थावसानेऽस्य स्थानेऽयं पाठःइत्याचारवृत्तौ वसुनन्दिकृतावतारायामष्टमः प्रस्तावः समाप्तः । -संशोधकः। Page #41 -------------------------------------------------------------------------- ________________ मूलाचारे अनगारभावनाधिकारः। - - अनगारभावनाख्यं नवममधिकार व्याख्यातुकामस्तावदादौ शुभपरिणामनिमित्तं मंगलमाह;वंदित्तु जिणवराणं तिहुयणजयमंगलोववेदाणं । कंचणपियंगुविदुमघणकुंदमुणालवण्णाणं ॥१॥ वंदित्वा जिनवरान त्रिभुवनजयमंगलोपेतान् । कांचनप्रियंगुविद्रुमधनकुंदमृणालवर्णान् ॥ १॥ टीका-जिनवरान् वंदित्वा, किंविशिष्टान् ? त्रिभुवने या जयश्रीर्यच्च मंगलं सर्वकर्मदहनसमर्थं पुण्यं ताभ्यामुपेतास्तत्र स्थितास्ताँस्त्रिभुवनजयमंगलोपेताना प्रकृष्टश्रिया युक्तान् सर्वकल्याणभाजनाँश्च । पुनरपि किंविशिष्टान् ? कांचनं सर्वाधिकं सुवर्ण, प्रियंगुः शिरीषपुष्परूपद्रव्यकान्तिः, विद्रुमः प्रवालद्रव्यं सुरमणीयरक्तभावद्रव्यं, घनः सुष्टु रम्यनवजलधरः, कुन्दो रमणीयपुष्पविशेषः, मृणालं सुरम्यपद्मकोमलनालं, एतेषां वर्णवद्वर्ण येषां ते कांचनप्रियंगुप्रवालधनकुन्दमृणालवर्णास्तान् कांचनप्रियंगुप्रवालघनकुन्दमृणालवर्णान् । अर्हतामुपादानाय वर्णविशेषणमुपात्तं, नामस्थापनाद्रव्यजिनपरिहाराय भावजिनोपादानाय चावशेषविशेषणं । उत्तरसूत्रे वक्ष्यामीति क्रिया तिष्ठति तया सह संबंधः । क्रियासापेक्षं नमस्कारकरणं नित्यक्षणिकयोगचार्वाकमीमांसकैकान्तनिराकरणार्थं चेति ॥१॥ अनगारभावनासूत्रार्थ प्रतिज्ञामाह;अणयारमहरिसीणं णाइंदणरिंदइंदमहिदाणं । वोच्छामि विविहसारं भावणसुत्तं गुणमहंतं ॥२॥ Page #42 -------------------------------------------------------------------------- ________________ L अनगार भावनाधिकारः । अनगार महर्षीणां नागेंद्रनरेंद्रमहितानां । वक्ष्यामि विविधसारं भावनासूत्रं गुणमहत् ॥ २ ॥ ३७ टीका-न विद्यतेऽगारं गृहं ख्यादिकं येषां तेऽनगारास्तेषामनगाराणां महान्तश्च ते ऋषयश्च महर्षयः सम्यगृद्धिप्राप्तास्तेषां महर्षीणां, नागेन्द्रनरेन्द्रेन्द्रमहितानां श्रीपार्श्वनाथ संजयंताद्युपसर्गनिवारणेन प्राधान्यान्नागेन्द्रस्य पूर्वनिपातोऽथवा बहूनां नियमो नास्ति, मोक्षार्हत्वात्तदन्तरं नरेन्द्रस्य ग्रहणं, पश्चादूव्यन्तरादीनां ग्रहणामेतैर्ये पूजितास्तेषामनगाराणां भावनानिमित्तं विविधसारं सर्वशास्त्रसारभूतं सूत्रं गुणैर्महद्वक्ष्यामि, अर्हतः प्रणम्यानगारसूत्रं वक्ष्यामीति संबन्धः ॥ २ ॥ स्वकृतप्रतिज्ञानिर्वहणाय दश संग्रहसूत्राण्याह; - लिंगं वदं च सुद्धी वसदिविहारं च भिक्ख णाणं च । उज्झणसुद्धी य पुणो वक्कं च तवं तथा झाणं ॥ ३ ॥ लिंगस्य व्रतस्य च शुद्धिः वसतिविहारश्च भिक्षा ज्ञानं च । उज्झनशुद्धिः च पुनः वाक्यं च तपः तथा ध्यानं ॥ ३ ॥ * * टीका -- * लिंग निर्मन्थरूपता शरीरस्य सर्वसंस्काराभावोऽचेलकत्वलोचप्रतिलेखनग्रहणदर्शनज्ञानचरित्रतपोभावश्च व्रतान्यहिंसादीनि । शुद्धिशब्दः प्रत्येकमभिसंबध्यते, लिंगस्य शुद्धिर्लिंगशुद्धिर्लिंगानुरूपाचरणं । व्रतानां शुद्धिशुद्धिर्निरीचारता । अत्र प्राकृतलक्षणेन षष्ठ्यर्थे प्रथमानिर्देशः कृतः । वसतिः स्त्रीपशुपांडकाभावापलक्षितप्रदेशः परमवैराग्यकारणस्थानं । विहारो नियतवासो दर्शनादिनिर्मलीकरणनिमित्तं सर्वदेशविहरणं । भिक्षा चतुर्विधाहारः । ज्ञानं यथावस्थितवस्त्ववगमो मत्यादिकं । उज्झनं परित्यागः शरीराद्यममत्वं । शुद्धिशब्दः प्रत्येकमभिसंबध्यते । वसतिशुद्धिर्विहारशुद्धिर्भिक्षाशुद्धिर्ज्ञानशुद्धि-.-. पुष्पमध्यगतः पाठः प्रेस - पुस्तके नास्ति । Page #43 -------------------------------------------------------------------------- ________________ ३८ मूलाचारे रुज्झनशुद्धिः। अत्रापि प्राकृतलक्षणे षष्ठ्यर्थे प्रथमा । पुनरपि च वाक्यं स्त्रीकथा-- दिविरहितवचनं । तपः पूर्वसंचितकर्ममलशोधनसमर्थानुष्ठानं । तथा ध्यानं शोभनविधानेनैकाग्रचिन्तानिरोधनं । अत्रापि शुद्धिर्द्रष्टव्या चशद्वात्सर्वेऽपि स्वगतसर्वभे-- दसंग्रहणार्था द्रष्टव्या इति ॥ ३॥ एतेषां सूत्राणां पाठे प्रयोजनमाह;- . एदमणयारसुत्तं दसविधपद विणयअत्थसंजुत्तं । जो पढह भत्तिजुत्तो तस्स पणस्संति पावाइं ॥ ४ ॥ एतानि अनगारसूत्राणि दशविधपदानि विनयार्थसंयुक्तानि । यः पठति भक्तियुक्तः तस्य प्रणश्यति पापानि ॥ ४ ॥ टीका-एतान्यनगारसूत्राणि दशविधपदानि दशप्रकाराधिकारनिबद्धानि नवैकादशसंख्यानि न भवंति , विनयार्थसंयुक्तानि विनयप्रतिपादकानि सूक्ष्मार्थसंयुक्तानि च यः पठति भक्तियुक्तस्तस्य प्रणश्यन्ति पापानि दुरितानीति ॥४॥ पुनरपि सूत्राणां स्तवनमाह;णिस्सेसदेसिदमिणं सुत्तं धीरजणबहुमदमुदारं । अणगारभावणमिणं सुसमणपरिकित्तणं सुणह ॥५॥ निश्शेषदर्शकानीमानि सूत्राणि धीरजनबहुमतान्युदाराणि । अनगारभावनानीमानि सुश्रमणपरिकीर्तनानि शृणुत ॥५॥ टीका-निःशेषदर्शकानीमानि सूत्राणि सर्वशोभनाचारसिद्धांतार्थप्रति-- पादकान्येतानि सूत्रपदानि, * धीरजनानां तीर्थकरगणधरदेवानां बहुमतानि सुष्टु मतानि बाहुल्येन वाभिमतानि, उदाराणि स्वर्गापवर्गफलदायकानि, अनगार-- भावनानीमानि शोभनश्रमणानां परिकीर्तनानि सुसंयतजनकीर्तनख्यापकानि शृणुत हे साधुजनाः ! बुध्यध्वमिति * ॥ ५॥ १' न चैकादशसंख्यानि सन्ति ' इति प्रेस-पुस्तके पाठः । * पुष्पमध्यगत:: पाठः प्रेस-पुस्तके नास्ति । Page #44 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। ~~~mmmmmmmmmmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwww न केवलमेतानि वक्ष्ये महर्षीणां गुणांश्च वक्ष्यामीत्याह;णिग्गंथमहरिसीणं अणयारचरित्तजुत्तिगुत्ताणं । णिच्छि दमहातवाणं वोच्छामि गुणे गुणधराणं ॥६॥ निर्ग्रथमहर्षीणां अनगारचरित्रयुक्तिगुप्तानाम् । निश्चितमहातपसां वक्ष्यामि गुणान् गुणधराणाम् ॥ ६॥ टीका-निग्रन्थमहर्षीणां सर्वग्रन्थविमुक्तयतीनां, अनगारचरित्रयुक्तिगुप्तानां अनगाराणां योऽयं चारित्रयोगस्तेन गुप्तानां संवृतानां, निश्चिन्तमहातपसां द्वादशविधतपस्युद्युक्तानां गुणधराणां गुणान् वक्ष्यामीति ॥ ६॥ तावल्लिंगशुद्धिं विवेचयन्नाह;- . चलचवलजीविदमिणं णाऊण माणुसत्तणमसारं। .. णिविण्णकामभोगा धम्मम्मि उवद्विदमदीया ॥७॥ चलचपलजीवितमिदं ज्ञात्वा मनुष्यत्वमसारं । निर्विण्णकामभोगा धर्मे उपस्थितमतयः ॥ ७ ॥ टीका-चलमस्थिरं प्रतिसमयं विनश्वरं, चपलं सोपघातं विद्युत्स्फुरणमिवाविदितस्वरूपं, जीवितं प्राणधारणं चलचपलजीवितं आवीचीतद्भक स्वरूपेणायुःक्षयरूपमिदं ज्ञात्वा, मनुष्यत्वं मनुष्यजन्मस्वरूपं, असारं परमार्थरैहितं, निविणकामभोगाः स्वेष्टवस्तुसमीहा काम उपभोगः स्व्यादिकः भोगः सकृत्सेवितस्य पुनरसेवनं तांबूलकुंकुमादि तद्विषयो निर्वेदोऽनभिलाषो येषां ते निर्विणकामभोगाः, धर्मे चारित्रे नैन्थ्यादिरूप उपस्थितम १ 'विद्युत्स्फुरणवदेवविदितस्वरूपं प्रतिपादनमेतदिति ' इति प्रेस-पुस्तके पाठः । २ आवीचीशब्दः प्रेस-पुस्तके नास्ति । ३ 'नासारं परमार्थरूपं ज्ञात्वा' इति प्रेसपुस्तके। ४ 'पुनरपि सेवनं' इति प्रेस-पुस्तके । Page #45 -------------------------------------------------------------------------- ________________ - मूलाचारे तिका गृहीताचेलकत्वस्वरूपा इत्यर्थः, तात्पर्येण नैन्थ्यस्वरूपप्रतिपादनमेतदिति ॥ ७॥ . . पुनरपि तत्स्वरूपमाह;णिम्मालियसुमिणाविय धणकणयसमिद्धबंधवजणं च । पयहंति वीरपुरिसा विरत्तकामा गिहावासे ॥८॥ निर्माल्यसुमनस इव धनकनकसमृद्धबांधवजनं च । प्रजहंति वीरपुरुषाः विरक्तकामा गृहवासे ॥ ८॥ टीका-निर्माल्यसुमनस इवोपभोगितपुष्पनिचयमिव धनं गोश्वमहिष्यादिकं, कनकं सुवर्णादिकं ताभ्यां समृद्धमाढ्यं धनकनकसमृद्धं बांधवजनं स्वजनपरिजनादिकं परित्यजन्ति गृहवासविषये विरक्तचित्ताः सन्तः । यथा शरीरसंस्पृष्टं पुष्पादिकमकिंचित्करं त्यज्यते तथा धनादिसमृद्धमपि बंधुजनं धनादिक चाथवा गृहवासं चेति संबंधः परित्यज्यन्तीति ॥ ८॥ एवं नैर्ग्रन्थ्यं गृहीत्वा तद्विषयां शुद्धिमाह;-.. जम्मणमरणुविग्गा भीदा संसारवासमसुमस्स। रोचंति जिणवरमदं पावयणं वड्डमाणस्स ॥९॥ .. जन्ममरणोद्विमा भीताः संसारवासे अशुभात् । रोचंते जिनवरमतं प्रवचनं वर्धमानस्य ॥ ९॥ टीका-जन्ममरणेभ्यः सुष्द्विग्ना निर्विण्णा भवत्रस्तंहृदयाः संसारवासे यदशुभं दुःखं तस्माच्च भीताः सन्तः पुनर्ये रोचंते समिच्छन्ति जिनवरमतं प्रवचनं, रोचंते वा मतं मुनिभ्यो वृषभादनिां जिनवराणां, मतं वर्द्धमानभट्टारकस्य प्रवचनं द्वादशांगचतुर्दशपूर्वस्वरूपं समिच्छंतीति ॥ ९॥ - १ 'कनक' अयं शब्दः प्रेस-पुस्तके नास्ति । २ बन्धुजन ख-पुस्तके । ३ भय त्रस्तहृदया ख-पुस्तके । Page #46 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । ४१ तथा; पवरवरधम्मतित्थं जिणवरवसहस्स वडूमाणस्स । तिविहेण सद्दति य णत्थि इदो उत्तरं अण्णं ॥ १० ॥ प्रवरवरधर्मतीर्थं जिनवरवृषभस्य वर्धमानस्य । त्रिविधेन श्रद्दधति च नास्ति इत उत्तरमन्यत् ॥ १० ॥ टीका-प्रवराणां वरं प्रवरवरं श्रेष्ठादपि श्रेष्ठं धर्मतीर्थं जिनवरवृषभस्य वर्द्धमानस्य चतुर्विंशतितीर्थकरस्य त्रिप्रकारेण मनोवचनकायशुद्ध्या श्रद्दधति भावयन्ति । इत ऊंर्ध्वं नास्त्यन्यदिति कृत्वास्माद्वर्द्धमानतीर्थकर तीर्थादन्यत्तीर्थं नास्ति यतोऽनया लिंगशुद्ध्या सम्यग्दर्शनशुद्धिर्ज्ञानशुद्धिश्च व्याख्यातेति ॥ १० ॥ तपः शुद्धिस्वरूपं निरूपयन्नाह;उच्छाहणिच्छिदमदी ववसिदववसायबद्धकच्छा य । भावाणुरायरत्ता जिणपण्णत्तम्मि धम्मम्मि ॥ ११ ॥ उत्साहनिश्चितमतयो व्यवसितव्यवसायबद्धकक्षाश्च । भावानुरागरक्ता जिनप्रज्ञप्ते धर्मे ॥ ११ ॥ टीका - उत्साह उद्योगो द्वादशविधे तपसि तन्निष्ठता तस्मिन्नितान्तं निश्चितमतयस्तत्र कृतदराः, व्यवसितव्यवसायाः कृतपुरुषकाराः, बद्धकक्षाः सुसंयमितात्मानः कर्मनिर्मूलनसंस्थापितचेतोवृत्तयः, भावानुरागरक्ताः परमार्थभूतो योऽयमनुरागोऽर्हद्भक्तिस्तेन रक्ता भाविताः, अथवा भावविषयः पदार्थविषयोऽनुरागो दर्शनं ज्ञानं च ताभ्यां रक्ताः सम्यगेकीभूताः, जिनप्रज्ञप्ते धर्मे भावानुरक्तास्तस्मिन् बद्धकक्षाश्चेति ॥ ११ ॥ १ इति उत्तरमू प्रेस - पुस्तके । २ कृतावतारा: ख- पुस्तके । ३ चित्तवृत्तयः -ख-पुस्तके | Page #47 -------------------------------------------------------------------------- ________________ ४२ मूलाचारे चारित्रशुद्धिस्वरूपमाह;धम्ममणुत्तरमिमं कम्ममल पडलपाडयं जिणक्खादं । संवेगजायसङ्ग्रा गिव्हंति महव्वदा पंच ॥ १२ ॥ धर्ममनुत्तरमिमं कर्ममलपटलपाटकं जिनाख्यातं । संवेगजातश्रद्धा गृह्णति महाव्रतानि पंच ॥ १२ ॥ टीका --- धर्ममुत्तमक्षमादिलक्षणमनुत्तरमद्वितीयमिमं कर्ममलपटलपाटन-समर्थ जिनाख्यातं गृह्णन्ति महाव्रतानि च संवेगजातहर्षाः, अथवा धर्मोयं कृत्वा गृह्णन्ति महाव्रतानि पंच । अनेन तात्पर्येण लिंगशुद्धिर्व्याख्याता वेदितव्या ॥ १२ ॥ कानि तानि महाव्रतानीत्याशंकायां व्रतशुद्धिं च निरूपयँस्तावद्वतान्याह ;सञ्चवणं अहिंसा अदत्तपरिवज्जणं च रोचंति । तह बंभचेरगुत्ती परिग्गहादो विमुत्तिं च ॥ १३ ॥ सत्यवचनं अहिंसां अदत्तपरिवर्जनं च रोचंते । तथा ब्रह्मचर्यगुप्तिं परिग्रहात् विमुक्तिं च ॥ १३ ॥ टीका - सत्यवचनं हिंसाविरतिं अदत्तपरिवर्जनं रोचन्ते सम्यगभ्युपगच्छन्ति तथा ब्रह्मचर्यगुप्तिं समिच्छन्ति परिग्रहाद्विमुक्तिं च लिंगग्रहणोत्तरकालं प्रयच्छन्तीति ॥ १३॥ यद्यपि व्यतिरेकमुखेनावगतः प्राणिवधादिपरिहारस्तथापि पर्यायार्थिकशि - ष्यप्रतिबोधनायान्वयमाह; --- पाणिवह मुसावाद अदत्त मेहुण परिग्गर्ह चेव । तिविहेण पडिक्कंते जावज्जीवं दिढधिदीया ॥ १४ ॥ प्राणिवधं मृषावादं अदत्तं मैथुनं परिग्रहं चैव । त्रिविधेन प्रतिक्रामंति यावज्जीवं दृढधृतयः ॥ १४ ॥ टीका - प्रतिक्रामति परित्यजंतीति पृथगभिसंबध्यते, प्राणिवधं परिका Page #48 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । मन्ति परिहरन्तीत्यर्थः, तथा मृषावादं, अदत्तग्रहणं, मैथुनप्रसंगं, परिग्रहं च त्यजन्ति मनोवचनकायैर्यावज्जीवं मरणान्तं दृढधृतयो मुनयः - स्थिरमतियुक्तान साधवः प्राणिवधादिकं सर्वकालं परिहरन्तीति ॥ १४ ॥ व्रतविषयां शुद्धिमाह; — ते सव्वगंथमुक्का अममा अपरिग्गहा जहाजादा । वोसट्टचत्तदेहा जिणवरधम्मं समं र्णेति ॥ १५ ॥ ते सर्वग्रंथमुक्ता अममा अपरिग्रहा यथाजाताः । व्युत्सृष्टत्यक्तदेहा जिनवरधर्मं समं नयंति ॥ १५ ॥ ४३ टीका - ते मुनयः सर्वग्रन्थमुक्ता मिथ्यात्ववेदकषायरागहास्यरत्यरतिशोक-भयजुगुप्सा इत्येतैश्चतुर्दशाभ्यन्तरग्रंथैर्मुक्ताः, अममाः स्नेहपाशान्निर्गताः, अपरिग्रहाः क्षेत्रादिदशविधपरिग्रहान्निर्गताः, यथाजाता नाग्न्यगुप्तिं गताः, व्युत्सृष्टत्यक्तदेहा मर्दनाभ्यंगोद्वर्तनस्नानादिदेहसंस्काररहिता एवंभूता जिनवरधर्म चारित्रं युगपन्नयति भवान्तरं प्रापयन्तीति ॥ १५ ॥ कथं ते सर्वग्रंथमुक्ता इत्याशंकायामाह ; - --- सव्वारंभणियत्ता जुत्ता जिणदेसिदम्मि धम्मम्मि । ण य इच्छंति ममत्तिं परिग्गहे बालमित्तम्मि ॥ १६ ॥ सर्वारंभनिवृत्ता युक्ता जिनदेशिते धर्मे । न च इच्छंति ममत्वं परिग्रहे बालमात्रे ॥ १६ ॥ टीका - यतस्ते मुनयः सर्वारंभेभ्योऽसिमषिकृषिवाणिज्यादिव्यापारेभ्यो निवृत्ता जिनदेशिते धर्मे चोयुक्ता यतः श्रामण्यायोग्यबाल मात्रपरिग्रहबिषये ममत्वं नेच्छन्ति यतस्ते सर्वग्रन्थविमुक्ता इति ॥ १६ ॥ १ बालमात्रमपि प्रेस-पुस्तके | Page #49 -------------------------------------------------------------------------- ________________ ४४ मूलाचारे wwwm _ कथं त्वममा इत्याशंकायामाह;अपरिग्गहा अणिच्छा संतुट्ठा सुविदा चरित्तम्मि । अवि णीए वि सरीरे ण करेंति मुणी ममत्तिं ते ॥१७॥ अपरिग्रहा अनिच्छाः संतुष्टाः सुस्थिताः चारित्र। अपि निजेपि शरीरे न कुर्वति मुनयः ममत्वं ते ॥ १७ ॥ टीका-यस्मादपरिग्रहा निराश्रया अनिच्छाः सर्वाशाविप्रमुक्ताः संतुष्टाः संतोषपरायणाश्चारित्रे सुस्थिताश्चारित्रानुष्ठानपराः, अपि च निजेऽपि शरीरे आत्मीयशरीरेऽपि ममत्वं न कुर्वन्ति मुनयः, अथवाऽविनीते शरीरे ममत्वं न कुर्वान्त ततस्ते निर्ममा इति ॥ १७ ॥ __ अथ कथं ते निष्परिग्रहाः कथं वा यथाजाता इत्याशंकायामाह;ते णिम्ममा सरीरे जत्थत्थमिदा वसंति अणिएदा। . सवणा अप्पडिबद्धा विज्जू जह दिट्ठणट्ठा वा ॥१८॥ ते निर्ममाः शरीरे यत्र अस्तमिता वसंति अनिकेताः। श्रमणा अप्रतिबद्धा विद्युद्यथा दृष्टनष्टा वा ॥१८॥ टीका-यतस्ते शरीरेऽपि निर्ममा निर्मोहाः, यत्रास्तमितो रवियस्मिन् प्रदेशे रविरेस्तं गतस्तस्मिन्नेव वसंति तिष्ठति, अनिकेता न किंचिदपेक्षते, श्रवणा यतयः, अप्रतिबद्धाः स्वतंत्राः, विद्युयथा दृष्टनष्टा ततोऽपरिग्रहा यथाजाताश्चेति ॥१८॥ . वसतिशुद्धिं निरूपयन्नाह,गामेयरादिवासी जयरे पंचाहवासिणो धीरा। . -सवणा फासुविहारी विवित्तएगंतवासी य ॥ १९ ॥ ग्रामे एकरात्रिवासिनः नगरे पंचाहर्वासिनो धीराः। श्रमणाः प्रासुकविहारिणो विविक्तैकांतवासिनश्च ॥ १९ ॥ १ रविरस्तमन ख-पुस्तके । २ पाठोऽयं प्रेस-पुस्तके नास्ति । Page #50 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। ४५ wwwwwwwwwwwwwwwwwwwww टीका-वृत्त्यावृतो ग्रामस्तस्मिन्नेकरात्रं वसन्ति तत्रैकयैव रात्र्या सर्वसंवेदनात्, चतुर्गोपुरोपलक्षितं नगरं तत्र पंचदिवंसं वसन्ति पंच दिनानि नयन्ति यतः पंचदिवसैः सर्वतीर्थादियात्रायाः सिद्धिरुत्तरत्र ममत्वदर्शनात्, धीरा धैर्योपेताः, श्रमणाः, प्रासुकबिहारिणः सावद्यपरिहरणशीलाः, विविक्ते स्त्रीपशुपांडकवर्जिते देश एकान्ते प्रच्छन्ने वसंतीत्येवं शीला विविक्तैकांतवासिनः, यतो विविक्तैकांतवासिनो यतश्च निरवद्याचरणशीला यतो ग्राम एकरात्रिवासिनो नगरे पंचाहर्वासिनश्चोत्तरत्रौदेशिकादिदर्शनान्मोहादिदर्शनाच्च न वसंतीति ॥ १९॥ एकान्तं मृगयतामेतेषां कथं सुखमित्याशंकायामाह;एगंतं मग्गंता सुसमणा वरगंधहत्थिणो धीरा। सुक्कज्झाणरदीया मुत्तिसुहं उत्तमं पत्ता ॥२०॥ . एकांतं मृगयमाणाः सुश्रमणा वरगंधहस्तिनः धीराः । . शुक्लध्यानरतयः मुक्तिसुखमुत्तमं प्राप्ताः ॥ २० ॥ 'टीका-एकांतमेकत्वं विविक्तं मृगयमाणा अन्वेषयंत: सुश्रमणा वरगंधहस्तिन इव धीराः शुक्लध्यानरतय उत्तमं मुक्तिसुखं प्राप्ताः । यथा गंधहस्तिन एकांतमभ्युपगच्छंतः सुखं प्रामुवंति तथा श्रमणा एकांतं मृगयमाणा अपि सुखं प्राप्ता यतः शुक्लध्यानरतय इति ॥ २० ॥ कथं ते धीरा इत्याशंकायामाह;एयाइणो अविहला वसति गिरिकंदरेसु सप्पुरिसा । धीरा अदीणमणसा रममाणा वीरवयणम्मि ॥ २१ ॥ एकाकिनः अविकला वसंति गिरिकंदरेषु सत्पुरुषाः। धीरा अदीनमनसो रममाणा वीरवचने ॥ २१ ॥ १ दिवसान् ख-पुस्तके । २ पांडकशब्दो नपुंसकार्थे ज्ञायते। Page #51 -------------------------------------------------------------------------- ________________ मूलाचारे . Amarrrrrrrrrrrrrrrrrrrrr टीका-एकाकिनोऽसहायाः, अविकला अविह्वला धृतिसंतोषसत्वोत्साहादिसंपन्ना वसंति संतिष्ठते गिरिकंदरासु पर्वतजलेदारितप्रदेशेषु, सत्पुरुषाः प्रधानपुरुषाः, धीराः, अदीनमनसो दैन्यवृत्तिरहिताः, रममाणा क्रीडंतो रतिं कुर्वतो वीरवचने । यत एकाकिनोऽपि वैकल्यरहिता अदीनभावा वीरवचने भेदभावने रतिं कुर्वाणा गिरिकंदरासु यतो वसंति धीराः सत्पुरुषाश्चेति ॥ २१॥ अतश्च ते धीरा;वसधिसु अप्पडिबद्धा ण ते ममत्तिं करेंति वसधीसु । सुण्णागारमसाणे वसंति ते वीरवसदीसु ॥ २२ ॥ वसतिषु अप्रतिबद्धा न ते ममत्वं कुर्वति वसतिषु । शून्यागारस्मशानेषु वसंति ते वीरवसतिषु ॥ २२ ॥ टीका-वसतिष्वप्रतिबद्धाः स मदीय आश्रयस्तत्र वयं वसाम इत्येवमभिप्रायरहिताः, ममत्वं न कुर्वति वसतिषु निवासनिमित्तमोहमुक्तास्ते साधवः, शून्यगृहेषु श्मशानेषु प्रेतवनेषु वसन्ति ते वीरवसतिषु यतो वीराधिष्ठितेषु स्थानेषु महाभयंकरेषु संस्कृतवसतिविषये मुक्तसंगा अपंसंगा वसन्त्यतस्तेन्यः केऽन्ये शूरा इति ॥ २२॥ पुनरपि सत्वव्यावर्णनायाह,पब्भारकंदरेसु अ कापुरिसभयंकरेसु सप्पुरिसा।। वसधी अभिरोचंति य सावदबहुघोरगंभीरा ॥२३॥ प्राग्भारकंदरेषु च कापुरुषभयंकरेषु सत्पुरुषेभ्यः। वसतयोऽभिरोचते श्वापदबहुघोरगंभाराः ॥ २३ ॥ टीका-प्राग्भारेषु पर्वतनितंबेषु कन्दरेषु जलहतिकृतप्रदेशेषुचैवंप्रकारेषु दुर्गप्रदेशेषु, कापुरुषभयंकरेषु सत्वहीनपुरुषभयजनकेषु वसतयोऽभिरोचन्ते १ गिरि ख-पुस्तके पाठः । २ अवसंगा स्न-पुस्तके। ३ 'पुनरपि' शब्दःप्रेस-पुस्तके मास्ति । उपन्या । Page #52 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । सत्पुरुषेभ्यः अवस्थानमभिवांछंति सत्पुरुषाः सत्वाधिकाः श्वापदबहुघोरगंभीरा वसतय इत्यभिसंबंध: सिंहव्याघ्रसर्पनकुलादिबाहुल्येन रौद्रगहनस्थानेष्वावासमभिवांछंतीति ॥ २३॥ ४७ तथा;— एयंतम्मि वसंता वयवग्घतरच्छ अच्छभल्लाणं । आगुंजयमारसियं सुणंति सद्दं गिरिगुहासु ॥ २४ ॥ एकांते वसंतो वृकव्याघ्रतरक्षुक्रक्षभल्लानां । आगुंजितमारसितं शृण्वंति शब्द गिरिगुहासु ॥ २४ ॥ टीका - एकान्ते गिरिगुहासु वसंतः संतिष्ठमाना वृकव्याघ्रतरक्षऋक्षभल्लादीनामागुंजितमारसितं शब्दं शृण्वंति तथाऽपि सत्वान्न विचलंतीति ॥ २४ ॥ तथा;—— रत्तिंचरसउणाणं णाणारुद्ररसिदभीदसद्दझलं । उणावेंति वर्णतं जत्थ वसंता समणसीहा ॥ २५ ॥ रात्रिचरशकुनानां नानारुतरसितभीतशब्दालं । उन्नादयंति वनांतं यत्र वसति श्रमणसिंहाः ॥ २५ ॥ टीका — रात्रौ चरन्तीति रात्रिंचरा उल्कादयस्तेषां शकुनीनां नानारुतानि नानाभातिशब्दांश्च * अलमत्यर्थ उण्णावेंति * उन्नादियंति प्रतिशब्दयन्ति वनातं वनमध्यं, उद्गतशब्दं सर्वमपि वनं गह्वराटवीं कुर्वन्ति यत्र वसन्ति श्रमणसिंहा इति ॥ २५ ॥ तथा; सीहा व णरसीहा पव्वयतडकडयकंदरगुहासु । जिणवयणमणुमणंता अणुविग्गमणा परिवसति ॥ २६ ॥ * पुष्पमध्यगतः पाठः प्रेस - पुस्तके नास्ति । Page #53 -------------------------------------------------------------------------- ________________ मूलाचारे सिंहा इव नरसिंहाः पर्वततटकटककंदरगुहासु। जिनवचनमनुमन्यंतो अनुद्विग्नमनसः परिवसंति ॥ २६ ॥ टीका-सिंहा इव सिंहसदृशा नरसिंहा नरप्रधानाः पर्वततटकटके "पर्वतस्याधोभागस्य सामीप्य तटं ऊर्श्वभागस्य सामीप्यं कटकं” पर्वततटकटककन्दरागुहासु जिनवचनमनुगणयन्तो जिनागमं तत्त्वेन श्रद्दधाना अनुद्विग्नमनस उत्कंठितमानसा: परि-समन्ताद्वसंतीति ॥ २६ ॥ तथा;सावदसयाणुचरिये परिभयभीमंधयारगंभीरे। धम्माणुरायरत्ता वसंति रत्तिं गिरिगुहासु ॥ २७ ॥ श्वापदसदानुचरिते परिभयभीमे अंधकारगंभीरे । धर्मानुरागरक्ता वसंति रात्रौ गिरिगुहासु ॥ २७ ॥ टीका-श्वापदसदानुचरिते सिंहव्याघ्रादिभिः सर्वकालं परिसेविते परिभयभीमे समंताद्भयानकेऽन्धकारे आदित्यकिरणानामपि दुष्प्रवेशे गंभीरे सुष्टु गहने वने इति संबंध: । धर्मानुरागरक्ताश्चारित्रानुष्ठानतत्परा रात्रौ वसंति गिरिगुहास्विति ॥ २७॥ तादृग्भूते वने रात्रौ केन विधानेन वसंतीत्त्याशंकायामाह;सज्झायझाणजुत्ता रत्तिं ण सुवंति ते पयामं तु । सुत्तत्थं चिंतंता णिदाय वसं ण गच्छति ॥ २८॥ . स्वाध्यायध्यानयुक्ता रात्रौ न स्वपंति ते प्रयामं तु । सूत्रार्थ चिंतयंतः निद्राया वशं न गच्छति ॥ २८॥ टीका-स्वाध्यायध्यानयुक्ताः श्रुतभावनायां युक्ता एकाग्रचिंतानिरोधे ध्याने च तत्परमानसा रात्रौ न स्वपंति ते मुनयः, प्रयामं प्रचुर-प्रथमयाम पश्चिमयाम Page #54 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । च वर्जयन्तीत्यर्थः, सूत्रार्थ च सूत्रमर्थं तदुभयं च चिंतयंतो भावयतो निद्रावशं न गच्छंति-न निद्रा-राक्षस्याः पीड्यंत इति ॥ २८ ॥ तत्रासनविधानं च प्रतिपादयन्नाह;पलियंकणिसिज्जगदा वीरासणएयपाससाईया । ठाणुक्कडेहिं मुणिणो खवंति रत्तिं गिरिगुहासु ॥२९॥ पर्यकनिषद्यागता वीरासनैकपार्श्वशायिनः। ... स्थानोत्कुटिकाभ्यां मुनयःक्षपयंति रात्रि गिरिगुहासु ॥ २९॥ टीका-गतशब्दः प्रत्येकमभिसंबध्यते, पर्यंकं गताः पर्यङ्कण स्थिताः, निषद्यां गताः सामान्येनोपविष्टाः, वीरासनं च गता वीराणामासनेन स्थितास्तथैकपार्श्वशायिनस्तथा स्थानेन कायोत्सर्गेण स्थिता उत्कुटिकेन स्थितास्तथा हस्तिशुंडमकरमुखायासनेन च स्थिता मुनयः क्षपयंति नयंति गमयंति रात्रिं गिरिगुहासु नान्यथेति समाधानताऽनेन प्रकारेण प्रतिपादिता भवतीति ॥ २९ ॥ प्रतीकाररहितत्वं निष्काश्त्वं च प्रतिपादयन्नाह;उवधिभरविप्पमुक्का वोसटुंगा णिरंबरा धीरा। णिकिंचण परिसुद्धा साधू सिद्धिं वि मग्गंति ॥ ३०॥ उपधिभरविप्रमुक्ता व्युत्सृष्टांगा निरंबरा धीराः । निष्किचनाः परिशुद्धाः साधवः सिद्धिं आप मृगयंते ॥ ३०॥ टीका-उपधिभरविप्रमुक्ताः श्रामण्यायोग्योपकरणभारेण सुष्ठ मुक्ताः, व्युत्सृटांगास्त्यक्तशरीराः, निरंबरा नाग्न्यमधिगताः, धीरा सुष्ठु शूराः, निष्किचना निर्लोभाः, परिशुद्धाः कायवाङ्गनोभिः शुद्धाचरणाः साधवः, सिद्धिं कर्मक्षयं समिच्छंति मृगयंते, तेनेहलोकाकांक्षा परलोकाकांक्षा च परीषहप्रतीकारश्च न विद्यते तेषामिति ख्यापितं भवति । वसतिशुद्ध्या तपःसूत्रसत्वैकत्वधृतिभावनाश्च प्रतिपादिता इति ॥ ३०॥ Page #55 -------------------------------------------------------------------------- ________________ ५० मूलाचारे विहारशुद्धिं विवृण्वन्नाह;मुत्ता णिराववेक्खा सच्छंदविहारिणो जहा वादो। हिंडंति णिरुबिग्गा जयरायरमंडियं वसुहं ॥ ३१॥ मुक्ता निरपेक्षाः स्वच्छंदविहारिणः यथा वातः। हिंडते निरुद्विग्ना नगराकरमंडितायां वसुधायां ॥ ३१ ॥ टीका-मुक्ताः सर्वसंगरहिताः, निरपेक्षाः किंचिदम्यनीहमानाः, स्वच्छन्दविहारिणः स्वतंत्रा यथा वातो वात इव नगराकरमंडितायां वसुधायां पृथिव्यां हिण्डंते भ्रमंतीति ॥ ३१॥ ननु विहरतां कथं नेर्यापथकर्मबन्ध इत्याशंकायामाह;वसुधम्मि वि विहरंता पडि ण करेंति कस्सइ कयाई। जीवेसु दयावण्णा माया जह पुत्तभंडेसु ॥ ३२॥ वसुधायामपि विहरंतः पीडां न कुर्वति कस्यचित् कदाचित् । जीवेषु दयापन्ना माता यथा पुत्रभांडेषु ॥ ३२॥ टीका-वसुधायां विहरंतोऽपि पृथिव्यां पर्यटतोऽपि पीडां व्यथां न कुर्वति नोत्पादयति कस्यचिज्जीवविशेषस्य कदाचिदपि जीवदयायां प्रवृत्ताः, यथा माता जननी पुत्रपुत्रीषु दयां विदधाति तथैव तेऽपि न कुर्वति कस्यापि कदापि पीडामिति ॥ ३२ ॥ ननु नानादेशेषु विहरतां कथं सावधपरिहार इत्याशंकायामाह;जीवाजीवविहत्तिं णाणुजोएण सुटु णाऊण । तो परिहरंति धीरा सावज जत्तियं किंचि ॥ ३३॥ १'जीवदयायामापन्नाः सर्वप्राणिदयापरा यतः यथा माता जननी पुत्रभांडेषु, जननी यथा पुत्रविषयेऽतीव हितमाचरति तथा तेऽपि साधवः सर्वजीवविषयदयायां प्रवृत्ताः, इति ख-पुस्तके पाठः । ग-पुस्तकेऽप्ययमेव पाठः। Page #56 -------------------------------------------------------------------------- ________________ अनाH ~~~~ वियशाययंद्रसूरि अथ समल। जीवाजीवविभक्तिं ज्ञानोतिन सुष्टु ज्ञात्वा। ततः परिहरंति धीरा सावधं यावत् किंचित् ॥ ३३ ॥ टीका-जीवविभक्तिं जीवविभेदान् सर्वपर्यायान् , अजीवविभक्तिमजीवपुद्गलधर्माधर्माकाशकालस्वरूपं सभेदं सपर्ययं ज्ञानोद्योतेन सुष्टु ज्ञात्वाऽवबुध्य ततः । परिहरांति परित्यजन्ति सावयं यत्किंचित्सर्वदोषजातं सर्वथा परिहरंतीति॥३३॥ सावद्यकारणमपि परिहरंतीत्याह;सावज्जकरणजोग्गं सव्वं तिविहेण तियरणविसुद्धं । वजंति वज्जभीरू जावज्जीवाय णिग्गंथा ॥ ३४॥ सावधकरणयोग्यं सर्व त्रिविधेन त्रिकरणविशुद्धं । वर्जयंति अवद्यभीरवः यावज्जीवं निर्ग्रथाः ॥ ३४ ॥ .. टीका-सावद्यानि सदोषानि यानि करणानीन्द्रियाणि परिणामाः क्रिया वा तैर्योगः संपर्कस्तं सावधकरणयोगं सर्वमपि त्रिविधेन त्रिप्रकारेण कृतकारितानुमतरूपेण त्रिकरणविशुद्धं यथा भवति मनोवचनकायक्रियाशुद्धं यथा भवति तथा वर्जयंति परिहरंत्यवद्यभीरवः पापभीरवो यावज्जीवं यावन्मरणांतं निग्रंथाः परिहरंतीति ॥ ३४ ॥ - किं तत्सावयं यन्न कुर्वन्तीत्याशंकायामाह;तणरुक्खहरिदछेदणतयपत्तपवालकंदमूलाई । फलपुप्फबीयघादं ण करेंति मुणी ण कारेंति ॥ ३५॥ तृणवृक्षहरितछेदनत्वपत्रप्रवालकंदमूलानि । फलपुष्पबीजघातं न कुर्वति मुनयो न कारयति ॥ ३५॥.. टीका-तृणच्छेदं, वृक्षच्छेदं, हरितालिमछिदमं च न कुर्नति न कारयति मुनयः, तथा त्वक्पा चालकदमूसामि छिदति न ठट्यौत, तथा फलपुष्पबीजघातनं न कुर्वति न(कारयति मुनयः ॥ ३५॥) Page #57 -------------------------------------------------------------------------- ________________ मूलाचारे तथा;पुढवीय समारंभं जलपर्वणग्गीतसाणमारंभं । ण करेंति ण कारेंति य कारेंतं णाणुमोदंति ॥ ३६ ॥ पृथिव्याः समारंभं जलपवनाग्नित्रसानामारंभं । न कुर्वति न कारयति च कुर्वतं नानुमोदते ॥ ३६॥ टीका-पृथिव्याः समारंभं खननोत्कीर्णनचूर्णनादिकं न कुर्वतिन कारयंति कुर्वतं नानुमन्यन्ते धीरास्तथा जलपवनाग्नित्रसानामारंभे सेचनोत्कर्षणबीजनज्वालनमर्दनत्रासनादिकं न कुर्वन्ति न कारयंति नानुमन्यंत इति ॥ ३६ ॥ यतः;णिक्खित्तसत्थदंडा समणा सम सवपाणभूदेसु । अप्पडं चिंतता हवंति अव्वावडा साहू ॥ ३७॥ निक्षितशस्त्रदंडाः श्रमणाः समाः सर्वप्राणभूतेषु । आत्मार्थ चिंतयंतो भवंति अव्यापृताः साधवः ॥ ३७॥ टीका-निक्षिप्तशस्त्रदंडाः सर्वहिंसाकारणोपकरणमुक्ता यतः, श्रमणा यतश्च, सर्वप्राणभूतेषु समाः –समाना यतश्चात्मार्थ चिंतयतो भवंत्यव्यापृता व्यापारराहितास्ततस्ते न कस्यचित्कदाचित्पीडां कुर्वतीति ॥ ३७ ॥ विहरंतः कथंभूतं परिणामं कुर्वतीत्याशंकायामाह;उवसंतादीणमणा उवक्खसीला हवंति मज्झत्था । णिहुदा अलोलमसठा अबिझिया कामभोगेसु ॥ ३८॥ उपशांता अदीनमनसः उपेक्षाशीला भवंति मध्यस्थाः। निभृता अलोला अशठा अविस्मिता कामभोगेषु ॥ ३८ ॥ टीका-उपशांता अकषायोपयुक्ताः; अदीनमनसो दैन्यविरहिताः, पथश्रमक्षत्पिपासाज्वरादिपरीषहैरग्लानचित्तवृत्तयः,उपेक्षाशीला:सर्वोपसर्गसहनसमर्था Page #58 -------------------------------------------------------------------------- ________________ ___अनगारभावनाधिकारः । भवन्ति, मध्यस्थाः समदर्शिनः, निभृताः संकुचितकरचरणाः कूर्मवत्, अलोला निराकांक्षाः, अशठा मायाप्रपंचरहिताः, आविस्मिताः कामभोगेषु कामभोगविषये विस्मयरहिताः कृतानादरा इति ॥ ३८ ॥ तथा; जिणवयणमणुगणेता संसारमहब्भयं हि चिंतता। गब्भवसदीसु भीदा भीदा पुण जम्ममरणेसु ॥ ३९ ॥ जिनवचनमनुगणयंतः संसारमहाभयं हि चिंतयंतः। गर्भवसतिषु भीता भीताः पुनः जन्ममरणेषु ॥ ३९॥ टीका-जिनवचनमनुगणयंतोऽहंदागमरांजितमतयः, संसारान्महद्भय : चिन्तयंतः संत्रस्तमनसः, गर्भवसतिषु गर्भवासविषये भीताः सुष्टु त्रस्ताः, पुनरपि जन्ममरणेषु भीता जातिजरामरणविषये च सम्यग्भीता इति ॥ ३९ ॥ कथं कृत्वा गर्भवसतिषु भीता इत्याशंकायामाह;घोरे णिरयसरिच्छे कुंभीपाए सुपञ्चमाणाणं । रुहिरचलाविलपउरे वसिदव्वं गब्भवसदीसु ॥ ४०॥ घोरे नरकसदृशे कुंभीपाके सुपच्यमानानां । रुधिरचलाविलप्रचुरे वस्तव्यं गर्भवसतिषु ॥४० ॥ टीका-घोरे भयानके नरकसदृशे कुंभीपाके “ व्यथां कृत्वा संदहनं कुंभीपाकः” तस्मिन् सुपच्यमानानां सुष्ठु संतप्यमानानां “ कर्तरि षष्ठी" तेन सुपच्यमानैरित्यर्थः, रुधिरचलाविलप्रचुरे रुधिरेण चले आविले वीभत्सेऽथवा वीभसेन प्रचुरे वस्तव्य स्थातव्यं, उदरे गर्भे, एवं विशिष्टे गर्भे या वसतयस्तासु वस्तव्यमस्माभिरहो इति ॥ ४०॥ Page #59 -------------------------------------------------------------------------- ________________ ५४ मूलाचारे गर्भवसतिभ्यो भीताः संतः किमिच्छंतीति;दिट्ठपरमट्ठसारा विण्णाणवियक्खणाय बुद्धीए । णाणकयदीवियाए अगब्भवसदी विमगंति ॥४१॥ दृष्टपरमार्थसारा विज्ञानविचक्षणया बुद्ध्या ॥ ज्ञानकृतदीपिकया अगर्भवसतिं विमृगयन्ते ॥४१॥ टीका-ते साधवो दृष्टपरमार्थसाराः संसारस्य शरीरस्य भोगानां च दृष्टज्ञातं सारं परमार्थरूपं यैस्ते तथाभूताः, विज्ञानेन विचक्षणया बुझ्या मतिज्ञाना दिना सुष्टु कुशलतया विज्ञानविचक्षणया बुझ्या ज्ञानकृतदीपिकया श्रुतज्ञानदीपेन चागर्भवसतिं विशेषेण मृगयंते समीहंत इति ॥ ४१ ॥ विहरतः किं भावयतीत्याह;भावेति भावणरदा वइरग्गं वीदरागयाणं च । णाणेण दंसणेण य चरित्तजोएण विरिएण ॥ ४२ ॥ भावयति भावनारता वैराग्यं वीतरागाणां च । ज्ञानेन दर्शनेन च चारित्रयोगेन वीर्येण ॥ ४२॥ टीका-भावनायां रता वीतरागाणां ज्ञानदर्शनचारित्रयोगैवीर्येण च सह वैराग्यं भावयन्तीति ॥ ४२ ॥ तथा;देहे णिरावयक्खा अप्पाणं दमरुई दमेमाणा। । धिदिपग्गहपग्गहिदा छिदंति भवस्स मूलाई ॥४३॥ देहे निरपेक्षा आत्मानं दमरुचयः दमयंतः। धृतिप्रग्रहप्रगृहीता छिंदंति भवस्य मूलानि ॥४३॥ Page #60 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। mmmmmmm टीका-देहे देहविषये निरपेक्षा ममत्वरहिताः, दमरुचय इंद्रियानिग्रहतत्पराः, आत्मानं दमयंतः, धृतिप्रग्रहप्रगृहीता धृतिवलसंयुक्ताः छिंदंति भवस्य मूलानीति ॥ ४३॥ . विहारशुद्धिं व्याख्याय भिक्षाशुद्धिं प्रपंचयन्नाह;छहट्टममत्तेहिं पारेंति य परघरम्मि भिक्खाए। जमणहूं मुंजंति य ण वि य पयामं रसहाए ॥४४॥ षष्ठाष्टमभक्तैः पारयति च परगृहे भिक्षया । यमनार्थ भुंजते च नापि च प्रकामं रसार्थाय ॥४४॥ टीका-षष्ठाष्टमभक्तैस्तथा दशमद्वादशादिचतुर्थश्च पारयति भुंजते परगृहे भिक्षया कृतकारितानुमतिरहितलाभालाभसमानबुझ्या, यमनार्थ चारित्रसाधनार्थ च क्षुदुपशमनार्थं च यात्रासाधनमात्रं भुंजते, नैवं प्रकामं न च प्रचुरं रसार्थीय, अथवा नैव त्यागं कुवैति सद्रसार्थ यावन्मात्रेणाहारेण स्वाध्यायादिकं प्रवर्त्तते तावन्मानं गृह्णति नाजीर्णाय बह्वाहारं गृहंतीति ॥ ४४॥..... कया शुद्ध्या भुंजत इत्याशंकायामाह;णवकोडीपरिसुद्धं दसदोसविवज्जियं मलविसुद्धं । . भुजति पाणिपत्ते परेण दत्तं परघरम्मि ॥४५॥ नवकोटिपरिशुद्धं दशदोषविवर्जितं मलविशुद्धं । भुंजते पाणिपात्रे परेण दत्तं परगृहे ॥ ४५ ॥ टीका-नवकोटिपरिशुद्धं मनोवचनकायैः कृतकारितानुमतिरहितं शंकितादिदोषपरिवर्जितं नखरोमादिचतुर्दशमलविशुद्धं भुंजते पाणिपात्रेण परेण दत्तं परगृहे, अनेन किमुक्तं भवति? स्वयं गृहीत्वा न भोक्तव्यं, पात्रं च न ग्राह्य, स्वगृहे ममत्वमधिष्ठिते न भोक्तव्यामति ॥ ४५ ॥ Page #61 -------------------------------------------------------------------------- ________________ ५६ मूलाचारे तथा;उद्देसिय कीदयडं अण्णादं संकिदं अभिहडं च । मुत्तप्पडिकूडाणि य पडिसिद्धं तं विवज्जति ॥ ४६ ॥ औद्देशिकं क्रीतं अज्ञातं शंकितं अभिघटं च । सूत्रप्रतिकुलं च प्रतिसिद्धं तत् विवर्जयंति ॥ ४६ ॥ टीका--औद्देशिकं, क्रीतं,अज्ञातमपरिज्ञातं,शंकितं संदेहस्थानगतं प्रासुकाप्रासुकभ्रान्त्या, अभिघटमित्येवमादि सूत्रप्रतिकूलं सूत्रप्रतिषिद्धमशुद्धं च यत्तत्सर्व विवर्जयंतीति ॥ ४६॥ भिक्षाभ्रमणविधानमाह,अण्णादमणुण्णादं भिक्खं णिचुच्चमज्झिमकुलेसु । घरपंतिहिं हिंडंति य मोणेण मुणी समादिति ॥ ४७ ॥ अज्ञातामनुज्ञातां भिक्षा नीचोच्चमध्यमकुलेषु। गृहपंक्तिभिः हिंडते च मौनेन मुनयः समाददते ॥ ४७ ॥ टीका--अज्ञातं यत्र गृहस्थैः साधव आगमिष्यंति भिक्षार्थ नानुमतं *स्वेन च तत्र मया न गंतव्यमिति नाभिप्रेतं अनुज्ञातं गृहस्थैर्यतय आगमिष्यति भिक्षार्थ स्वेन चावग्रहादिरूपेण मया तत्र गंतव्यं नानुमतं, भिक्षां चतुर्विधाहारं, नीचोच्चमध्यमकुलेषु दरिद्रेश्वरसमानगृहिषु गृहपंक्त्या हिंडंति पर्यटंति, मौनेन मुनयः समाददते भिक्षां गृहंतीति ॥ ४७ ॥ तथा रसनेंद्रियजयमाह;सीदलमसीदलं वा सुक्कं लुक्खं सिणिद्ध सुद्धं वा । लोणिदमलोणिदं वा भुंजंति मुणी अणासादं ॥४८॥ १' अशुद्धं ' ख-पुस्तके नास्ति । २ मया गंतव्यमिति प्रेस-पुस्तके । ३ अननुज्ञातं चानुमतं ग-पुस्तके । * पुष्पमध्यगतः पाठः ग-पुस्तके नास्ति। ४ गृहेषु ख-पुस्तके। Page #62 -------------------------------------------------------------------------- ________________ अनगास्भावनाधिकारः । शीतलमशीतलं वा शुष्कं रूक्षं स्निग्धं शुद्धं वा । लवणितमलवणितं वा भुंजते मुनयः अनास्वादम् ॥ ४८ टीका - शीतलं पूर्वाह्नवेलायां कृतं परित्यक्तोष्णभावं भोज्यं, अशीतलं तत्क्षणादेवावतीर्णमपरित्यक्तोष्णभावमोदनादिकं, रूक्षं घृततैलादिरहितं कोद्रवमकुष्टादिकं वा, शुष्कं दुग्धदधिव्यंजनादिरहितं स्त्रिधं घृतादिसहितं शाल्योदनादिकं शुद्धं पिठरादवतीर्णरूपं न च मनागपि विकृतं, लवणयुक्तं अलवणं वा भुंजते मुनयोऽनास्वादं यथा भवति जिह्वास्वादरहितमिति ॥ ४८ ॥ 9 यमनार्थपदस्यार्थे निरूपयन्नाह ; -- ५७ अक्खोमक्खणमेत्तं भुंजंति मुणी पाणधारणणिमित्तं । पाणं धम्मणिमित्तं धम्मं पि चरंति मोक्खटुं ॥ ४९ ॥ अक्षमृक्षणमात्रं भुंजते मुनयः प्राणधारणनिमित्तं । प्राणं धर्मनिमितं धर्ममपि चरंति मोक्षार्थम् ॥ ४९ ॥ टीका - अक्षमृक्षणमात्रं यथा शकटं धुरालेपनमंतरेण न वहत्येवं शरीरमप्यशनमात्रेण विना न संवहतीति मुनयः प्राणधारणनिमित्तं किंचिन्मात्रं भुंजते, प्राणधारणं च धर्मनिमित्तं कुर्वेति, धर्ममपि चरंति मोक्षार्थ मुक्तिनिमित्तमिति ॥ ४९ ॥ लाभालाभविषये समत्वमाह; — लद्धे ण होंति तुट्ठा ण वि य अलद्वेण दुम्मणा होंति । . दुक्खे सुहे य मुणिणो मज्झत्थमणाउला होंति ॥ ५० ॥ लब्धे न भवंति तुष्टा नापि च अलब्धेन दुर्मनसो भवंति । दुःखे सुखे च मुनयः मध्यस्था अनाकुला भवंति ॥ ५० ॥ · १ सम्बन्ध' प्रेस - पुस्तके | Page #63 -------------------------------------------------------------------------- ________________ मूलाचारे टीका - भिक्षाया लाभे आहारादिसंप्राप्तौ न भवंति संतुष्टाः संतोषेपरिगता जिह्वेन्द्रियवशं गता * अद्य लब्धा भिक्षेति न हर्ष विदधति स्वचित्ते * न चाप्यलब्धे भिक्षाया अलाभेऽसंप्राप्तौ सत्यां दुर्मनसो विमनस्का न भवति 'अस्माभि राहारादिकमद्य न लब्धमिति दीनमनसो न भवंति' दुःखे संजाते सुखे च समुद्भूते मुनयो मध्यस्थाः समभावा अनाकुलाश्च भवतीति ॥ ५० ॥ चर्यीयां मुनीनां स्थैर्य निरूपयन्नाह ; ण वि ते अभित्थुणंति य पिंडत्थं ण वि य किंचि जायंति । मोणव्वदेण मुणिणो चरांत भिक्खं अभासंता ॥ ५१ ॥ नापि ते अभिष्टुवंति पिंडार्थं नापि च किंचित् याचंते । मौनव्रतेन मुनयः चरंति भिक्षां अभाषयंतः ॥ ५१ ॥ ५८ टीका - नापि ते मुनयोऽभिष्टुवन्ति नैवोपश्लोकादिभिः स्तुतिं कुर्वेति पिंडार्थं ग्रासनिमित्तं, नैवापि च किंचित् याचंते न चापि प्रार्थयंते द्रव्यादि - कमाहाराय मौनव्रतेन तोषैमादाय मुनयश्चरंति भिक्षार्थमाहारार्थं पर्यटंति, अभाषयंतः खात्कारघंटिकादिसंज्ञां वा न कुर्वेतीति न पौनरुक्त्यमिति ॥ ५१॥ , तथा; देहीति दीणकसं भासं च्छंति एरिसं वोतं । अवि णीदि अलाभेणं ण य मोणं भंजदे धीरा ॥ ५२ ॥ देहीति दीनकलुषां भाषां नेच्छति ईदृशीं वक्तुं । अपि निवर्तते लाभेन न च मौनं भंजते धीराः ५२ ॥ टीका - देहीति मम ग्रासमात्रं दध्वं यूयमिति दीनां करुणां च भाषां नेच्छंति । ईदृशीं वक्तुं सुष्ठु अहं बुभुक्षितो मम पंच सप्त वा दिनानि वर्त्त 1 १ संतोषपराः ख - पुस्ते । * पुष्पमध्यगतः पाठः प्रेस - पुस्तक एव । २ ' जोष ख-पुस्तके | Page #64 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। wwwwwwwwwwww भोजनमंतरेणेति वचनं दीनं यदि मां भोजनं न प्रयच्छत तदा मृतोऽहं शरीरस्य मम सुष्टु कृशता रोगादिभिम्रस्तोऽहं नास्माकं किंचिद्विद्यते याचनादि पूर्वकं वचनं करुणोपेतमिति, अपि निवर्ततेऽलाभे वा लाभे संजाते निवर्तते भिक्षागृहेषु न पुनः प्रविशंति न च मौनं भंजंति न किंचिदपि प्रार्थयते भोजनाय. धीराः सत्वसंपन्ना इति ॥ ५२॥ यदि न याचते किमात्मना किंचित् कुर्वतीत्याशंकायामाह;पयणं व पायणं वा ण करेंति अ व ते करावेंति । पयणारंभणियत्ता संतुहा भिक्खमेत्तेण ॥ ५३॥ पचनं वा पाचनं वा न कुर्वति च नैव ते कारयति । पचनारंभनिवृत्ताः संतुष्टा भिक्षामात्रेण ॥ ५३॥ टीका-पचनं स्वेनौदनादिनिवर्त्तनं पाचनं स्वोपदेशेनान्येन निर्वर्तनं न कुति नापि कारयंति मुनयः, पचनारंभान्निवृत्ता दूरतः स्थिताः संतुष्टाः, भिक्षामात्रेण-कायसंदर्शनमात्रेण भिक्षार्थ पर्यटंतीति ॥ ५३॥ लब्धमपि संनिरीक्ष्य गृहंतीत्येवं निरूपयन्नाह;असणं जदि वा पाणं खज्जं भोजं च लिज्ज पेज्जं वा। पडिलेहिऊण सुद्धं भुंजंति पाणिपत्तेसु ॥ ५४ ॥ अशनं यदि वा पानं खाद्यं भोज्यं च लेां पेयं वा। प्रतिलेख्य शुद्धं भुंजते पाणिपात्रेषु ॥ ५४॥ टीका-अशनं भक्तादिकं, यदि वा पानं दुग्धजलादिकं, खाद्यं लड्डुकादिकं, भोज्यं भक्ष्यं मंडकादिकं, लेडमास्वाद्यं, पेयं स्तोकभक्तपानबहुलं, वा विकल्पवचनः, प्रतिलेख्य शुद्धं भुंजते पाणिपात्रेषु न भाजनादिष्विति ॥ ५४॥। ___ अप्रासुकं परिहरन्नाह;जं होज्ज अविन्वण्णं पासुग पसत्थं तु एसणासुद्धं । मुंजंति पाणिपत्ते लद्धण य गोयरग्गम्मि ॥ ५५ ॥ Page #65 -------------------------------------------------------------------------- ________________ मलाचारे mmmmmmmmmm यत् भवति अविवर्ण प्रासुकं प्रशस्तं तु एषणाशुद्धं । . भुंजते पाणिपात्रे लब्ध्वा च गोचराग्रे ॥ ५५ ॥ ... टीका-यद्भवत्यविवर्णरूपं, प्रासुकं सम्मुर्छनादिरहितं निर्जीव जंतुरहितं च, प्रशस्तं मनोहरं, एषणासमितिविशुद्धं, गोचराग्रे भिक्षावेलायां, लब्ध्वा पाणिपात्रेषु मुंजत इति ॥ ५५॥ तथा;जं होज बेहि तेहि च वेवण्णजंतुसंसिहं। अप्पासुगं तु णच्चा तं भिक्खं मुणी विवज्जति ॥ ५६ ॥ यत् भवति यहं व्यहं विवर्ण जंतुसंश्लिष्टं । अप्रासुकं तु ज्ञात्वा तां भिक्षा मुनयः विवर्जयंति ॥ ५६ ॥ टीका-यद्भवति व्यहजातं व्यहजातं द्विदिनभवं त्रिदिनभवं च, विवर्णरूपं स्वभावचलितं, जंतुसम्मिश्रमागंतुकैः सम्मूर्च्छनजैश्च जीवैः सहितमप्रासुकमिति ज्ञात्त्वा तां भिक्षां मुनयो विवर्जयन्तीति ॥ ५६ ॥ . वर्जनीयद्रव्यमाह;-- जं पुफिय किण्णइदं दहणं पूपपप्पडादीणि । वजंति वज्जणिज्जं भिक्खू अप्पासुयं जं तु ॥ ५७ ॥ यत् पुष्पितं क्लिन्नं दृष्ट्वा अपूपपर्पटादीनि । वर्जयंति वर्जनीयं भिक्षवः अप्रासुकं यत्तु ॥ ५७ ॥ टीका-यत्पुष्पितं नीलकृष्णश्वेतपीतादिरूपजातं, क्लिन्नं कुथितं दृष्ट्वा अपूपर्पटादिकं वर्जनीयं, लब्धमपि. यत्सर्व यत्किंचिदप्रासुकं तददीनमनसो वर्जयंति परिहरंतीति ॥ ५७ ॥ ___ एवम्भूतं तु गृहंतीत्याह;- .. जं सुद्धमसंसत्तं खज्जं भोजं च लेज पेज्जं वा। गिर्हति मुणी भिक्खं सुत्तेण अणिदियं जं तु ॥ ५८ ॥ Page #66 -------------------------------------------------------------------------- ________________ - अनगारभावनाधिकारः। यत् शुद्धमसंसक्तं खाद्यं भोज्यं च लेह्यं पंयं वा । . . गृह्णति मुनयः भिक्षा सूत्रेण अनिंदितं यत् ॥ ५८॥ टीका-यच्छुद्धं विवर्णादिरूपं न भवति, जंतुभिः संसृष्टं च न भवति । खाद्यं भोज्यं लेह्यं पेयं च, सूत्रेणानिन्दितं तद्भक्ष्यं मुनयो गृहंतीति ॥ ५८॥ - आमपरिहारायाह;फलकंदमूलबीयं अणग्गिपक्कं तु आमयं किंचि । णच्चा अणेसणीयं ण वि य पडिच्छंति ते धीरा ॥५९ ॥ फलकंदमूलबीजं अनग्निपक्कं तु आमकं किंचित् । . ज्ञात्वा अनशनीयं नापि च प्रतीच्छति ते धीराः ॥ ५९ ।। टीका-कलानि कंदमूलानि बीजानि चाग्निपक्कानि न भवंति यानि अन्यदप्यामकं यत्किंचित्तदनशनीयं ज्ञात्वा नैव प्रयच्छन्ति नाभ्युपगच्छन्ति ते धीरा इति ॥ ५९॥ यदशनीयं तदाह;जं हवाद आणिवीयं णिवाट्टमं फासुयं कयं चेव ।। णाऊण एसीयं तं भिक्खं मुणी पडिच्छंति ॥६०॥ यत् भवति अबीजं निर्वतिमं प्रासुकं कृतं चैव । ज्ञात्वा अशनीयं तत् भैक्ष्यं मुनयः प्रतीच्छति ॥ ६० ॥ • टीका-यद्भवत्यबीजं निर्बीजं, निर्वर्त्तिमं निर्गतमध्यसारं, प्रासुकं कृतं चैव ज्ञात्वाऽशनीयं तद्भक्ष्यं मुनयः प्रतीच्छंतीति ॥ ६० ॥ ___ भुक्त्वा किं कुर्वतीत्याशंकायामाह;भोत्तण गोयरग्गे तहेव मुणिणो पुणो वि पडिकंता । परिमिदएयाहारा खमणेण पुणो वि पारेति ॥६१॥ Page #67 -------------------------------------------------------------------------- ________________ मूलाचारे भुक्त्वा गोचराये तथैव मुनयः पुनरपि प्रतिकांताः । परिमितैकाहाराः क्षमणेन पुनरपि पारयति ॥ ६१ ॥ ६२ टीका - गोचरा भुक्त्वा भिक्षाचर्यामार्गे भुक्त्वा तथापि मुनयः पुनरपि प्रतिक्रामति दोषनिर्हरणाय क्रियाकलापं कुर्वते, यद्यपि कृतकारितानुमतिरहिता भिक्षा लब्धा तथापि तदर्थं वा शुद्धिं कुर्वन्त्यतीव यतयः, परिमितैकाहाराः परि मित एक एकवेलायामाहारो येषां ते परिमितैकाहाराः क्षमणेनोपवासेनैकस्थानेन वा पुनरपि पारयंति भुंजते इति ॥ ६१ ॥ ज्ञानशुद्धिं निरूपयन्नाह; - ते लवणाणचक्खू णाणुज्जोएण दिट्ठपरमट्ठा । णिस्संकिदणिव्विदिगिंछादबलपरक्कमा साधू ॥ ६२ ॥ ते लब्धज्ञानचक्षुषो ज्ञानोद्योतेन दृष्टपरमार्थाः । निःशंकानिर्विचिकित्सात्मबलपराक्रमाः साधवः ॥ ६२ ॥ टीका - ते मुनयो लब्धज्ञानचक्षुषो ज्ञानोयोतेन दृष्टपरमार्था मतिज्ञानं श्रुतज्ञानं मनःपर्ययावधिज्ञानमुद्योतस्तेन ज्ञातः सर्वलोकसारः, शंकाया श्रुतज्ञानादिनिरूपितपदार्थविषयसंदेहान्निर्गता निःशंका, विचिकिसाया निर्गता निर्विचिकित्सां आत्मबलानुरूपः पराक्रमो येषां त आत्मबल पराक्रमा यथाशक्त्युत्साहसमन्विताः साधव इति ॥ ६२ ॥ पुनरपि किंविशिष्टा इत्याशंकायामाह ; - अणुबद्धतवोकम्मा खवणवसगढ़ा तवेण तणुअंगा । धीरा गुणगंभीरा अभग्गजोगा य दिढचरित्ता य ॥ ६३ ॥ १ अस्मादग्रे चक्षुरिति पदं प्रेस - पुस्तके । २ अस्मादग्रे ताभ्यां सहिताः साधवस्तथाऽऽत्मबलपराक्रमा इति पाठः प्रेस - पुस्तके | Page #68 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। Annnn अनुबद्धतपःकर्माणः क्षमणवशंगताः तपसा तन्वंगाः। धीरा गुणगंभीरा अभन्नयोगाश्च दृढचरित्राश्च ॥ ६३ ॥ टीका-अनुबद्ध संततं तपःकर्म तपोऽनुष्ठानं येषां तेऽनुबद्धतपःकर्माणो द्वादशविधे तपस्युद्यताः, क्षमणवशंगताः, तपसा तनुशरीराः धीराः, गुणगंभीरा गुणसंपूर्णाः, अभग्नयोगाः, दृढचरित्राश्च ॥ ६३ ॥ तथा;आलीणगंडमंसा पायडभिउडीमुहा अधियदच्छा । सवणा तवं चरंता उक्किण्णा धम्मलच्छोए ॥६४॥ आलीनगंडमांसाः प्रकटभ्रकुटीमुखा अधिकाक्षाः। श्रमणाः तपश्चरंत उत्कीर्णा धर्मलक्ष्म्या ॥ ६४॥ टीका--आलीनगंडमांसाः क्षीणकपोलाः प्रकटभृकुटिमुखा अधिकाक्षास्तारकामात्रनयनाश्चर्मास्थिशेषाः श्रमणास्तपश्चरंत एवंभूता अपि संयुक्ता धर्मलक्ष्या ज्ञानभावनयोपेता यतो ने ज्ञानमात्रासिद्धिरिति ॥ ६४ ॥ कथं ज्ञानभावनया संपन्ना इत्याशंकायामाह,आगमकदविण्णाणा अहंगविदू य बुद्धिसंपण्णा। अंगाणि दस य दोषिण य चोदस य धरंति पुवाइं॥६५॥ आगमकृतविज्ञाना अष्टांगविदश्च बुद्धिसंपन्नाः। अंमानि दश च द्वे चतुर्दश च धारयांत पूर्वाणि ॥ ६५ ॥ टीका- न केवलं भिक्षादिशुद्धौ रताः किं तु ज्ञानशुद्धावपि रता यतः आगमेन कृतं विज्ञानं यैस्ते आगमकृतविज्ञानाः श्रुतज्ञानदृष्टपरमार्थाः, अष्टांगविदोंऽगव्यंजनादिनिमिनकुशलाश्चतुर्विधबुद्धिसंपन्नाश्च । कथमागमकृतविज्ञाना इति चेदंगानि दश हे चाचारसूत्रकृतस्थानसमवायव्याख्याप्रज्ञाप्तिज्ञातृकथोपा १ . यतो न ' इति पदं प्रेस-पुस्तके नास्ति । Page #69 -------------------------------------------------------------------------- ________________ मूलाचारे an सकाध्ययनांतःकृद्दशानुत्तरदशप्रश्नव्याकरणविपाकसूत्रदृष्टिवादसंज्ञकानि द्वादशांगानि धारयति तथा दृष्टिवादोद्भूतचतुर्दशपूर्वाण्युत्पादाग्रायणीवीर्यानुप्रवादास्तिनास्तिप्रवादज्ञानप्रवादसत्यप्रवादात्मप्रवादकर्मप्रवादप्रत्याख्यानप्रवादविद्यानुप्रवादकल्याणप्राणवायक्रियाविशाललोकबिन्दुसारसंज्ञकानि धरति जाति यतोऽत आगमकृतविज्ञाना इति ॥ ६५ ॥ न केवलं तानि पठंति शृण्वंति, किं तु;धारणगहणसमत्था पदाणुसारीय बीयबुद्धीय । संभिण्णकोट्ठबुद्धी सुयसागरपारया धीरा ॥६६॥ धारणग्रहणसमर्थाः पदानुसारिणो बीजबुद्धयः। संभिन्नकोष्ठबुद्धयः श्रुतसागरपारगा धीराः॥६६॥ टीका-तेषामंगानां पूर्वाणां चार्थग्रहणसमर्था यथैवोपाध्यायः प्रतिपादयत्यर्थ तथैवाविनष्टं गृहंति प्रतिपद्यते ग्रहणसमर्थाः, गृहीतमर्थ कालांतरण न विस्मरंतीति धारणसमर्थाः । चतुर्विधबुद्धिसंपन्ना इत्युक्ताः के ते इत्याशंकायामाह; पदानुसारिणः, बीजबुद्धयः, संभिन्नबुद्धयः, कोष्ठबुद्धयश्च । द्वादशांगचतुर्दशपूर्वमध्ये एकं पदं प्राप्य तदनुसारेण सर्व श्रुतं बुध्यते पादानुसारिणः । तथा सर्वश्रुतमध्ये एकं बीजं प्रधानाक्षरादिकं संप्राप्य सर्वमवबुध्यन्ते बीजबुद्धयः । तथा चक्रवर्तिस्कन्धावारमध्ये यद्वृत्तमार्याश्लोकमात्राद्विपददंडकादिकमनेकभेदभिन्नं सर्वैः पठितं गेयविशेषादिकं च स्वरादिकं च यच्छुतं यस्मिन् यस्मिन् येन येन पठितं तत्सर्व तस्मिन् तस्मिन्काले तस्य तस्याविनष्टं ये कथयंति ते संभिन्नबुद्धयः। तथा कोष्ठागारे संकरव्यतिकररहितानि नानाप्रकाराणि बीजानि बहुकालेनाऽपि न विनश्यति न संकीर्यते च यथा तथा येषां श्रुतानि पदवर्णवाक्या दीनि बहुकाले गते तेनैव प्रकारेणाविनष्टार्थान्यन्यूनाधिकानि संपूर्णानि संतिष्ठते ते कोष्ठबुद्धयः । श्रुतसागरपारगा: सर्वश्रुतबुद्धपरमार्था अवधिमन:पर्ययज्ञानिनः सप्तर्द्धिसम्पन्ना धीरा इति ॥ ६६ ॥ Page #70 -------------------------------------------------------------------------- ________________ तथा; - अनंगारभावनाधिकारः। ६५ सुदरयणपुण्णकण्णा हेउणयविसारदा विउलबुद्धी । णिउणत्थसत्थकुसला परमपयवियाणया समणा ॥ ६७ ॥ श्रुतरत्नपूर्णकर्णा हेतुनयविशारदा विपुलबुद्धयः । निपुणार्थशास्त्रकुशलाः परमपदविज्ञायकाः श्रमणाः ॥ ६७ ॥ टीका - श्रुतमेव रत्नं पद्मरागादिकं तेन पूर्णौ समलंकृतौ कर्णौ येषां ते श्रुतरत्नपूर्णकर्णाः । हेतुर्द्विविधो बहिर्व्याप्तिलक्षणोऽन्तर्व्याप्तिलक्षणश्च, तत्र बहिर्व्याप्तिलक्षणस्त्रिविधः सपक्षे सत्वं विपक्षे चासत्वं पक्षधर्मत्वमिति । अन्तर्व्याप्तिलक्षण एकविधः, साध्याविनाभाव एकं लक्षणं यस्य स साध्याविनाभावैकलक्षणः । यदंतरेण यनोपपद्यते तत्साध्यं, इतरत्साधनं । अन्यथानुपपत्तिवैकल्यविशेषादसिद्धविरुद्धानैकान्तिका हेत्वाभासाः। तत्र साध्येऽनुपपत्तिरज्ञातश्चासिद्धः, तद्विशेषोऽकिंचित्करः, अन्यथोपपन्नो विरुद्धः, अन्यथाप्युपपन्नोऽनैकांतिकः। श्रुतनिरूपितैकदेशाध्यवसायो नयः सप्तप्रकारो नैगमादिभेदेन, तत्र सामान्यविशेषादिपरस्परापेक्षानेकात्मकवस्तुनिगमनकुशलो नैगमः, यदस्ति न तदयमतिलंघ्य वर्त्तत इति । स्वजात्याविरोधेन नैकट्यमुपनीय पर्यायानाक्रान्तभेदान् समस्तसंग्रहणात्संग्रहः, यथा सर्वमेकं सदविशेषादिति । संग्रहनयाक्षिप्तानां पदार्थानां विधिपूर्वकं व्यवहरणं व्यवहारः, यथा पृथिव्यादयोऽनेकधा व्यवस्थितास्तत्त्वं तत्र संव्यवहारदर्शनादिति । अतीतानागतकोटिविनिर्मुक्तं वस्तु समयमात्रं ऋजु सूत्रयतीति ऋजुसूत्रः, यथा विश्वं क्षणिकं सत्वादिति । यथार्थप्रयोगसंशब्द नाच्छब्दार्थभेदकृत्-कालकारकलिंगानां भेदादिति । प्रत्यर्थमेकैकसंज्ञाभिरोहणादिन्द्रशक्रपुरन्दरंपर्यायशब्दभेदनात्समभिरूढ इति । तत्क्रियापरिणामकाल एव तदित्थंभूतो यथा कुर्वत एव कारकत्वमिति । चत्वारोऽर्थनयास्त्रयः शब्दनयाः, पूर्वे त्रयो द्रव्यनयाः शेषाः पर्यायनया इत्येवंभूते हेतौ नये च विशारदा निपुणा हेतुन १' परपक्षे ' इति ग-पुस्तके | ५ Page #71 -------------------------------------------------------------------------- ________________ मुलाचारे यविशारदाः । विपुलबुद्धयः महामतयः अथवा ऋजुमतयो विपुलमतयश्च मनःपर्ययज्ञानिन इत्यर्थः । निपुणार्थशास्त्रकुशलां निरवशेषार्थकुशलाः सिद्धांतव्याकरणतर्कसाहित्यछन्दःशास्त्रादिकुशलाः, । परमपदस्य विज्ञायका मुक्तिस्वरूपावबोधनपराः श्रमणा मुनय इति ॥ ६७ ॥ ज्ञानमदनिराकरणायाह;- . अवगदमाणत्थंभा अणुस्सिदा अगग्विदा अचंडा य । दंता मद्दवजुत्ता समयविदण्हू विणीदा य ॥ ६८॥ अपगतमानस्तंभा अनुत्सृता अर्विता अचंडाश्च । दांता मार्दवयुक्ताः समयविदो विनीताश्च ॥ ६८ ॥ टीका-अपगतमानस्तंभा ज्ञानगर्वेण मुक्तास्तथाऽगर्विता जात्यादिमदरहिताः, अनुत्सृता अनुत्सुका वा कापोतलेश्यारहिताः, अचंडाश्च क्रोधरहिताः, दाता इंद्रियजयसमेताः, मार्दवयुक्ताः, स्वसमयपरसमयविदः, विनीताश्च पंचविधविनयसंयुक्ता इति ॥ ६८॥ ___ तथा;उवलद्धपुण्णपावा जिणसासणगहिद मुणिदपज्जाला । करचरणसंवुडंगा झाणुवजुत्ता मुणी होति ॥ ६९॥ उपलब्धपुण्यपापा जिनशासनगृहीता ज्ञातव्यस्वरूपाः । करचरणसंवृतांगा ध्यानोपयुक्ता मुनयो भवति ॥६९॥ . टीका-उपलब्धपुण्यपापाः पुण्यप्रकृतीनां पापप्रकृतीनां स्वरूपस्य बोदतारस्तथा पुण्यफलस्य पापफलस्य च ज्ञातारः, जिनशासनगृहीता जिनशासने स्थिता इत्यर्थः, मुणिदपज्जाला-ज्ञाताशेषद्रव्यस्वरूपा अथवा विज्ञातरागस्वरूपाः, करणं त्रयोदशविधं चारित्रं त्रयोदशविधं ताभ्यां संवृतमंगं येषां ते करचरण Page #72 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। ६७ सवृतांगो अत्र प्राकृते णकारस्याभावः कृतः । अथवा करौ हस्तौ चरणौ पादौ तैः संवृतमंगं तेऽवयवप्रावरणा यत्र तत्र निक्षेपणमुक्ताश्च, ध्यानोद्यता भवंतीति ॥ ६९ ॥ उज्झनशुद्धिं निरूपयन्नाह;ते छिण्णणेहबंधा णिण्णेहा अप्पणो सरीरम्मि । ण करंति किंचि साहू परिसंठप्पं सरीरम्मि ॥७०॥ ते छिन्नस्नेहबंधा निस्नेहा आत्मनः शरीरे । न कुर्वति किंचित् साधवः परिसंस्कारं शरीरे ॥ ७० ॥ टीका--उज्झनशुद्धिर्नाम शरीरसंस्कारपरित्यागो बंध्वादिपरिहारो वा संर्वसंगविनिर्मुक्तिर्वा रागाभावो वा तत्र बंधुविषये शरीरविषये च गगाभावं तावदाचष्टे इति ते मुनयः छिन्नस्नेहबंधाः पुत्रकलत्रादिविषये स्नेहहीनाः, न केवलमन्यत्र किं त्वात्मीयशरीरेऽपि निःस्नेहा यतः स्वशरीरे किंचिदपि संस्कार स्नानादिकं न कुर्वति सांधव इति ॥ ७० ॥ ___ संस्कारस्वरूपभेदनिरूपणायाह;मुहणयणदंतधोवणमुव्वट्टण पादधोयणं चेव । संवाहण परिमद्दण सरीरसंठावणं सव्वं ॥७१॥ मुखनयनदंतधावनमुद्वर्तनं पादधावनं चैव । संवाहनं परिमर्दनं शरीरसंस्थापनं सर्व ॥ ७१ ॥ टीका-मुखस्य नयनयोर्दतानां च धावनं शोधनं प्रक्षालनं, उद्वर्तनं सुगंधद्रव्यादिभिः शरीरोद्धर्षणं, पादप्रक्षालनं कुंकुमादिरागेण पादयोर्निर्मलीकरणं, संवाहनमंगमर्दनं पुरुषेण शरीरोपरिस्थितेन मर्दनं परिमर्दनं करमुष्टिभि १ अस्मादने 'चिरकरणचरणसंवृतांगा'. प्रेस-पुस्तके । २ रागाभावातामाचष्टे प्रेस-पुस्तके पाठः। Page #73 -------------------------------------------------------------------------- ________________ मूलाचारे स्ताडनं काष्ठमययंत्रण वा पीडनैमित्येवं सर्व शरीरसंस्थापनं शरीरसंस्कारं साधवों न कुर्वतीति संबंधः ॥ ७१ ॥ तथा;धूवण वमण विरेयण अंजण अभंग लेवणं चेव । णत्थुय वत्थियकम्मं सिरवेज्झं अप्पणो सव्वं ।। ७२॥ धूपलं वमनं विरेचनं अंजनं अभ्यंग लेपनं चैव। . नासिका वस्तिकर्म शिरावेधं आत्मनः सर्व ॥७२॥ टीका-धूपनं शरीरावयवानामुपकरणानां च धूपेन संस्करणं, वमनं कंठशोधनाय स्वरनिमित्तं वा भुक्तस्य छर्दनं, विरेचनमौषधादिनाधोद्वारेण मलनिर्हरणं, अंजनं नयनयोः कज्जलप्रक्षेपणं, अभ्यंगनं सुगंधतैलेन शरीरसंस्करणं, लेपनं चंदनकस्तूरिकादिना शरीरस्य म्रक्षणं, नासिकाकर्म, वस्तिकर्म शलाकावर्तिकादिक्रिया, शिरावेधः शिराभ्यो रक्तापनयनं, इत्येवमाद्यात्मनः सर्व शरीरसंस्कारं न कुर्वतीति ॥ ७२ ॥ यद्येवं व्याध्युत्पत्तौ किं कुर्वन्तीत्याशंकायामाह;उप्पण्णम्मि य वाही सिरवेयण कुक्खिवेयणं चेव । अधियासिंति सुधिदिया कायतिगिंछ ण इच्छंति ७३॥ उत्पन्ने च व्याधौ शिरोवेदनायां कुक्षिवेदनायां चैव। .. अध्यासंते सुधृतयः कायचिकित्सां न इच्छंति ॥७३॥ टीका-उत्पन्नेऽपि व्याधौ ज्वररोगादावुपस्थितेऽपि तथा शिरोवेदनायां कुक्षिवेदनायां चोपस्थितायामन्यस्मिन् शरीरावयवे समुत्पन्ने वेदनायामप्रतीकाररूपायां अध्यासंते सहते उपेक्षां कुर्वन्ति सुधतयो दृढचारित्रपरिणामाः कायचिकित्सं नेच्छन्ति शरीरोत्पन्नव्याधिप्रतीकार न समीहन्ते ज्ञानदर्शनभावनयोपेतो इति॥७३ १ पाठोऽयं ख-पुस्तके नास्ति । २ 'ज्ञानदर्शनादिभावितमतयो यत' इति-ख । Page #74 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । नाप्यार्त्तध्यानं कुर्वन्तीत्यावेदयन्नाह; - णय दुम्मणाण विहला अणाउला होंति चेय सप्पुरिसा । णिप्पडियम्मसरीरा देति उरं वाहिरोगाणं ॥ ७४ ॥ न च दुर्मनसः न विकला अनाकुला भवंति चैव सत्पुरुषाः । निष्प्रतिकर्मशरीरा ददते उरो व्याधिरोगेभ्यः ॥ ७४ ॥ ६९ टीका - नाऽपि दुर्मनसो विमनस्का नैव भवंति, न विकला नापि हिताहितविवेकशून्याः, अनाकुलाः किंकर्तव्यतामोहरहिताः सत्पुरुषाः प्रेक्षापूर्वकारिणः, निष्प्रतीकारशरीराः शरीरविषये प्रतीकाररहिताः, ददते प्रयच्छंति उरो हृदयं, व्याधिरोगेभ्यः सर्वव्याधिरोगान् समुपस्थितान धैर्योपेताः संतः सहन्ते ॥ ७४ ॥ किं सर्वौषधं विरेचनादिकं च नेच्छति नैतत् कथमिदं इच्छंति यत आह;जिणवयणमोसहमिणं विमयसुहविरेयणं अमिदभूदं । जरमरणवाहिवेयण खयकरणं सव्वदुक्खाणं ॥ ७५ ॥ जिनवचनमौषधमिदं विषयसुखविरेचनं अमृतभूतं । 'जरामरणव्याधिवेदनानां क्षयकरणं सर्वदुःखानाम् ॥ ७५ ॥ , - टीका – जिनवचनमेवौषधमिदं, विषयसुखविरेचनमिन्द्रियद्वारागतस्य सुखस्य निर्हरणं, अमृतभूतं सर्वांगसंतपर्णकारणं, जरामरणव्याधिवेदनानां क्षयकरणसमर्थ, सर्वदुःखानां च क्षयकरणं सर्वाणि ज्वरादीनि कारणानि दुःखादीनि च कार्याणि सर्वस्य कृत्स्नस्य कार्यकारणरूपस्य कर्मणो विनाशे समर्थमिति ॥ ७५ ॥ पुनरपि क्रियां कुर्वन्तीत्याह; - जिणवयणणिच्छिदमदीअ - विरमणं अब्भुवेंतिसप्पुरिसा । णय इच्छंति अकिरियं जिणवयणवदिक्कमं कार्टु ॥ ७६ ॥ Page #75 -------------------------------------------------------------------------- ________________ मूलाचारे जिनवचननिश्चितमतयः विरमणं अभितिष्ठति सत्पुरुषाः। न च इच्छंति अक्रियां जिनवचनव्यतिक्रमं कृत्वा ॥७६॥ टीका-जिनवचने निश्चितमतयः सम्यक्तत्वार्थरुचयः, विरमणं चारित्रं “ अपि मरणमिति ” पाठान्तरं, अभितिष्ठति सम्यगभ्युपगच्छंति सत्पुरुषाः सत्वसंपन्नाः, न चैवेच्छंति नैव समीहंते जिनवचनव्यतिक्रमं कृत्वाऽक्रियां शरीरख्याध्यादिप्रतीकाराय जिनागमं व्यतिक्रम्यापासुकसेवनं मनागपि प्राणत्यागेऽपि नेच्छंतीति ॥ ७६ ॥ अन्यच्चेत्थंभूते शरीरे कथमस्माभिः प्रतीकारः क्रियत इत्याशंकायामाह;रोगाणं आयदणं वाधिसदसमुच्छिदं सरीरघरं । धीरा खणमवि रागंण करोति मुणी सरीरम्मि ॥ ७७॥ रोगाणां आयतनं व्याधिशतसम्मूछितं शरीरगृहं । धीराः क्षणमपि रागं न कुर्वति मुनयः शरीरे ॥७७ ॥ टीका-इदं शरीरं रोगाणामायतनं निलयः, व्याधिशतैः सम्मूर्छितं निर्मित, वातपित्तश्लेष्मादयो रोगास्तज्जनिता ज्वरादयो व्याधयोऽतो न पौनरुक्त्यं शरीरगृहं यत एवं भूतमिदं शरीरमतो धीरा मुनयः क्षणमपि राग स्नेहानुबंध न कुर्वति शरीरविषय इति ॥ ७७ ॥ पुनरपि शरीरस्याशुचित्वं प्रतिपादयन्नाह;एदं सरीरमसुई णिचं कलिकलु सभायणमचोक्खं । अंतोछाइद ढिड्डिस खिब्भिसभरिदं अमेज्झघरं ॥७८॥ एतत् शरीरमशुचि नित्यं कलिकलुषभाजनमचौक्षं । अंतश्छादितं डिडिसं किल्बिषभृतं अमेध्यगृहं ॥ ७८॥ टीका-शरीरमिदमशुचि यतो नित्यं कलिकलुषभाजनं रागद्वेषपात्रं, अचौक्षमशुभं सुभलेश्ययापि परिहीनं, छादितं चर्मणा संवृतमन्तरभ्यन्तरं यस्य Page #76 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । ७१ www. ri तदन्तश्छादितं, अन्तःशब्दस्य पूर्वनिपातो ज्ञापकात्, अथवांत्रैर्मासरज्जुभिश्छादितं परिवेष्टितं, हिड्डिसं कर्पाससमानं रुधिराहितमभ्यन्तरस्थं मांसवसाविशेषरूपं, खिब्भिसं-किल्बिषं शुक्रशोणिताशुचिकालेज्जकादिकं तैर्भूतं पूर्ण,अमेध्यगृहं मूत्रपुरीषाद्यवस्थानमिति ॥ ७८॥ किल्विषस्वरूपमाह;वसमज्जमंससोणियपुप्फसकालेजसिंभसीहाणं । ' सिरजालअहिसंकड चम्में णद्धं सरीरघरं ॥ ७९ ॥ . वसामज्जामांसशोणितफुप्फुसकालेजश्लेष्मसिंहानकं । शिराजालास्थिसंकीर्ण चर्मणा नद्धं शरीरगृहं ॥ ७९ ॥ टीका-वसा मांसगतस्निग्धत्वं तैलरूपं, मज्जाऽस्थिगतसारः, मांसं रुधिरकार्य, शोणितं रुधिरं रसकार्य, फुफ्फुसं फेनरूपं निःसारं, कालेज्जकमतीवकृष्णमांसखंडरूपं, श्लेष्मसिंहानकं, शिराजालमस्थीन्यतैः संकीर्ण संपूर्ण, चर्मणा नद्धं त्वक्प्रच्छादितं शरीरगृहमशुचीति सबंधः ॥ ७९ ॥ तथा;बीभच्छं विच्छुइयं थहायसुसाणवञ्चमुत्ताणं । अंसूयपूयलसियं पयलियलालाउलमचोक्खं ॥ ८० ॥ .. बीभत्सं विशौचं थूत्कारसुसाणव!मूत्रैः। अश्रुपूयलसियं प्रगलितलालाकुलं अचौक्षं ॥ ८० ॥ टीका-बीभत्सं द्रष्टुमशक्यं कुथितवणवत्, विच्छुइयं-अनित्यं शाश्वतरूप न भवति अथवा विशौचं सर्वाशुचिद्रव्यर्घटितत्वात् , थूहाय-कंठागतश्लेष्मा अथवा नगरमध्यस्थकचवरोत्कूटसदृशं, सुसाण-नासिकागूथं अथवा श्मशानदृशं, वर्णोऽशुचि, मूत्रं प्रस्रवणमेतैर्बीभत्सं, न केवलं बीभत्समनित्यं चेति । Page #77 -------------------------------------------------------------------------- ________________ मूलाचारे असूय- अश्रूणि नयनप्रच्युतोदकं, पूय-पूयं पक्कवणक्केदरूपं, लसियं-नयनगूथं, प्रगलितलालाकुलं मुखोद्भवं कुथितप्रतिस्रावाकुलमेतैः सर्वैराकुलं बीभत्समचोक्षमदर्शनीयं सर्वाशुचिसमूहवत् श्मशानवद्वेति ॥ ८० ॥ पुनरपि शरीरस्याशुचित्वमाह; कायमल मत्थुलिंगं दंतमल विचिक्कणं गलिदसेदं । किमिजंतुदोस भरिदं सेंदणियाकद्दमसरिच्छं ॥ ८१ ॥ कायमलं मस्तुलिंगं दंतमलं विचित्र्यं गलितस्वेदं । कृमिजंतुदोषभृतं स्यंदनीकर्दमसदृशम् ॥ ८१ ॥ ७२ टीका - कायमल मूत्रपुरीषादिकं, मस्तुलिंगं मस्तकस्थं शुक्रद्रव्यरूपं कुंदान्तरं, दन्तमलं दन्तस्थं दुर्गन्धं मलं, विचिक्कणं विचिक्यं चक्षुषो मलं, गलितस्वेदं प्रस्रवत्स्वेदं,कृमिजंतुभिर्दोषैश्च भृतं संपूर्ण स्येंदणियाकद्दमसरिच्छं-स्यन्दनकर्दुमस दृशं रजकवस्त्रप्रक्षालननिमित्तगर्तकुथितकर्दमसमानं, अथवा कायमलमस्तुलिंगदन्तमलैर्विचिक्यमदर्शनीयं कृमिजंतुदोषपूर्ण स्यंदनकर्दमसदृशं शरीरैमिति संबंधः ॥ ८१ ॥ पुनरपि वृत्तद्वयेन शरीराशुचित्वमाह; - अट्ठि च चम्मं च तहेव मंसं पित्तं च सिंभं तह सोणिदं च । अमेज्झसंघायमिणं सरीरं पस्संति णिव्वेदगुणाणुपेहि ८२ अस्थीनि च चर्म च तथैव मांसं पित्तं च श्लेष्मा तथा शोणितं च । अमेध्यसंघातमिदं शरीरं पश्यंति निर्वेदगुणानुप्रेक्षिणः ॥ ८२ ॥ टीका अस्थीनि च चर्माणि च तथैव तेनैव प्रकारण मांसं पित्तं श्लेष्मा तथा शोणितमित्येवंप्रकारैरमेध्यसंघातभूतमिदं शरीरं पश्यन्ति निर्वेदगुणानुप्रेक्षिणः, ये मुनयो देहसंसारभोगनिर्वेदमापन्ना शरीरमेवंभूतं पश्यन्तीति ॥ ८२ ॥ १ शरीरमिदमिति ख । Page #78 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। ७३ andAAAAAAA तथा;अहिणिछण्णं णालिणिबद्धं कलिमलभरिदं किमिउलपुण्णं मंसविलित्तं तयपडिछण्णं सरीरघरं तं सददमचोक्खं ८३ अस्थिनिच्छन्नं नालिनिबद्धं कलिमलभृतं कृमिकुलपूर्ण । मांसविलितं त्वप्रतिच्छन्नं शरीगृहं तत् सततमचौख्यं॥ ८३॥ टीका-*पूर्वग्रन्थेनोपकरणं प्रतिपादितं यत्तच्छरीरे नियोजयन्नाह आस्थिभिर्निच्छादितं संवृतं, नालिकाभिः शिराभिर्निबद्धं संघटितं, कलिमलभृतं सर्वाशुचिद्रव्यपूर्ण, कृमिकुलनिचितं, मांसविलिप्तं ' मांसेनोपचितं, त्वक्प्रच्छादितं दर्शनीयपथं नीतं, शरीरगृहं तत्सततं सर्वकालमचौख्यमशुचि, नात्र पौनरुक्त्यदोष आशंकनीयः पर्यायार्थिकशिष्यानुग्रहणादथवाऽमध्यगृहं पूर्व सामान्येन प्रतिपादितं तस्य वार्तिकरूपेणेदं तदाऽशुचित्वं सामान्यनोक्तं तस्य च प्रपंचनार्थं वैराग्यातिशयप्रदर्शनार्थं च यत इति ॥ ८३ ॥ - ईदृग्भूते शरीरे मुनयः किं कुर्वन्तीत्याशंकायामाह;एदारिसे सरिरे दुग्गंधे कुणिमपूदियमचोक्खे । सडणपडणे असारे रागं ण करित सप्पुरिसा ॥ ८४॥ एतादृशे शरीरे दुर्गधे कुणपपूतिके अचौख्ये । सडनपतने असारे रागं न कुर्वति सत्पुरुषाः ॥ ८४ ॥ टीका-एतादृशे शरीरे ईदृग्भूते देहे दुर्गन्धे कुणपपूतिके कश्मलेन कुथिते शुचित्वेन विवर्जिते शुचिविवर्जिते शतनपतने सारे रागं स्नेहं न कुर्वते सत्पुरुषाः साधव इति ॥ ८४ ॥ * पुष्पमध्यगतः पाठः प्रेस-पुस्तके नास्ति। Page #79 -------------------------------------------------------------------------- ________________ ७४ मूलाचार उज्झनशुद्धिमुपसंहरन्नाह;जं वंतं गिहवासे विसयसुहं इंदियत्थपरिभोए । तं खु ण कदाइभूदो मुंजंति पुणो वि सप्पुरिसा ।। ८५ ॥ यत् वांतं गृहवासे विषयसुखं इंद्रियार्थपरिभोगात्। तत् खलु न कदाचिद्भूतं भुंजते पुनरपि सत्पुरुषाः ॥ ८५ ॥ टीका यत्किंचिद्धांतं त्यक्तं गृहवासे विषयसुखं गार्हस्थ्यं रूपरसगन्धस्पर्शद्वारोद्भूतं जीवसंतर्पणकारणमिन्द्रियामिन्द्रियकारणेन जनितं परिभोगाश्च ये च ख्यादिका वान्ताः परिभोगनिमित्तं वा तत्सुखं तानिन्द्रियार्थान् ताँश्च परिभोगान् खलु स्फुटं कदाचिदपि भूदो-भूतं समुपस्थितं केनचित्कारणान्तरेण न भुंजते न परिभोगयन्ति सत्पुरुषाः साधवः, यद्वान्तं विषयसुखं तदेव केनचित्कारणान्तरेण समुपस्थितं यदिभवेत्तदापि सत्पुरुषा नभुंजते न सेवन्त इति॥८५॥ तथा;पुव्वरदिकेलिदाइं जा इड्री भोगभोयणविहिं च । ण विते कहंति कस्स वि ण वि ते मणसा विचिंतंति॥८६॥ पूर्वरतिक्रीडितानि यानि ऋद्धिं भागभोजनविधि च । नापि ते कथयंति कस्यापि नापि ते मनसा विचिंतयांत॥८६॥ टीका-पूर्वरत्या क्रीडितानि पूर्वकाले यान्युपभोगितानि स्त्रीवस्त्राभरणराज्यहस्त्यश्वरथादिकानि यानि ऋद्धिर्विभूतिद्र्व्यसुवर्णरूप्यादिसंपत्तिः सौभाग्यादिकं च भोगाः पुष्पचन्दनकुंकुमादिकानि भोजनविधिश्च घृतपूराशोकवर्तिशाल्योदनानि चतुर्विधाहारप्रकारस्तदेतत्सर्वं न ते मुनयः कस्यचिदपि कथयंति नापि मनसा विचिन्तयन्ति, तत्सर्वमुपभुक्तं न वचनेनान्यस्य प्रतिपादयन्ति नाऽपि चित्ते कुर्वन्तीति ॥ ८६ ॥ Page #80 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। ७५ उज्झनशुद्धिं व्याख्याय वाक्यशुद्धिं निरूपयन्नाह;भासं विणयविहणं धम्मविरोही विवज्जए वयणं । पुच्छिदमपुच्छिदं वा ण वि ते भासंति सप्पुरिसा ॥८॥ भाषां विनयविहीनां धर्मविरोधि विवर्जयंति वचनं । पृष्टमपृष्टं वा नापि ते भाषते सत्पुरुषाः॥ ८७ ॥ टीका-भाषां वचनप्रवृत्तिमार्या कर्णाटिकां गौडी लाटी विनयविहीनां खरपरुषादिसमन्वितां वर्जयन्ति, वचनं धर्मविरोधि रम्यमपि वचनं धर्मप्रतिकूलं वर्जयन्ति,अन्यदपि यद्विरुद्धं पृष्टाः संतोऽपृष्टाश्च परेण नियुक्ता अनियुक्ताश्च न ते सत्पुरुषा भाषते ब्रुवत इति ॥ ८७ ॥ कथं तर्हि तिष्ठन्तीत्याशंकायामाह;-- अच्छीहिंय पेच्छंता कण्णेहिंय बहुविहाइं सुणमाणा। अत्थंति मूयभूया ण ते करंति हुं लोइयकहाओ ॥८॥ अक्षिभिः पश्यतः कर्णैः बहुविधानि शृण्वंतः। तिष्ठति मूकभूता न ते कुर्वति हि लौकिककथाः ॥ ८८ ॥ टीका-अक्षिभिनयनैः पश्यन्तो निरूपयन्तः सद्रूपमसद्रूपं वा योग्यम-- योग्यं च वस्तुजातं निरूपयन्तोऽपि दृष्टिरहिता इव तिष्ठति, कर्णैः श्रोत्रन्द्रियैबहुविधानि श्रव्याणि युक्तान्ययुक्तानि च शृण्वन्तो नानाप्रकारशब्दान् कर्णशष्कुल्या गृह्णन्तोऽपि तिष्ठति मूकभूता इव जिह्वानयनकर्णरहिता इव, न ते मुनयो व्यक्तं कुर्वन्ति लौकिकीः कथा लोकव्यापारानिति ॥ ८८॥ कास्ता लौकिक्यः कथा इत्याशंकायामाह;इत्थिकहा अत्थकहा भत्तकहा खेडकव्वडाणं च । रायकहा चोरकहा जणवदणयरायरकहाओ॥ ८९ ।। Page #81 -------------------------------------------------------------------------- ________________ ७६ मूलाचारे स्त्रीकथा अर्थकथा भक्तकथा खेटकर्वटयोश्च । राजकथा चोरकथा जनपदनगराकरकथाः॥ ८९ ॥ टीका-स्त्रीणां कथाः सुरूपास्ताः सौभाग्ययुक्ता मनोरमा उपचारप्रवणा कोमलालापा इत्येवमादिकथनं वनिताकथाः । अर्थस्य कथा अर्थार्जनोपायकथनप्रबंधाः सेवया वाणिज्येन लेखवृत्त्या कृषिकर्मणा समुद्रप्रवेशेन धातुवादेन मंत्रतंत्रप्रयोगेण वा इत्येवमाद्यर्थार्जननिमित्तवचनान्यर्थकथाः । भक्तस्य कथा रसनेन्द्रियलुब्धस्य चतुर्विधाहारप्रतिबद्धवचनानि तत्र शोभनं भक्ष्यं खाद्यं लेा पेयं सुरसं मिष्टमतीवरसोत्कटं जानाति सा संस्कर्तुं बहूनि व्यंजनानि तस्या हस्तगतमशोभनमपि शोभनं भवेत्तस्य च गृहे सर्वमनिष्टं दुर्गन्धं सर्व स्वादुरहितं विरसमित्येवमादिकथनं भक्तकथाः । खेटे नद्यद्रिवेष्टितं नंदीपर्वतैरवरुद्धः प्रदेशः, कर्वटं सर्वत्र पर्वतेन वेष्टितो देशः कथात्र सम्बध्यते कर्वटकथाः खेटकथास्तथा संवाहनद्रोणमुखादिकथाश्च, तानि शोभनानि निविष्टानि सुदुर्गाणि वीरपुरुषाधिष्ठितानि सुयंत्रितानि परचक्राभेयानि बहुधनधान्यार्थनिचितानि सर्वथायोध्यानि न तत्र प्रवेष्टुं शक्नोतीत्येवमादिवाक्प्रलापाः खेटादिकथाः । राज्ञां कथा: नानाप्रजापतिप्रतिबद्धवचनानि स राजा प्रचंडः शूरश्चाणक्यनिपुणश्चारकुशलो -योगक्षेमोद्यतमतिश्चतुरंगबलो निजिताशेषवैरिनिवहो न तस्य पुरतः केनापि स्थीयते इत्येवमादिकं वचनं राजकथाः । चौराणां कथाः-स चौरो निपुणः खातकुशलः स च वर्त्मनि ग्रहणसमर्थः पश्यतां गृहीत्वा गच्छति तेन सर्व आक्रांता इत्येवमादिकथनं चौरकथाः। जनपदो देशः,नगरं प्राकाराग्रुपलक्षितं,आकरो वज्रपद्मरागसुवर्णकुंकुममुक्ताफललवणचन्दनादीनामुत्पत्तिस्थानं तेषां कथास्तत्प्रतिबद्धकथार्जनानयनयानादिवाक्प्रबंधास्तत्र रत्नं सुलभं शोभनमनर्घ मुक्ताफलं तत्र जात्यमुत्पद्यते तत्र कुंकुमादिकं समहर्घमत्रानीतं बहुमूल्यं फलदं तन्नगरं सुरक्षितं प्रासादादिविराजमानं दिव्यव १ उपचारकुशला ख-ग-पुस्तके। २ नद्या पर्वतेनावरुद्धः ख-ग-पुस्तके । Page #82 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । ७७ romo.nn निताजनाधिष्ठितं, स देशो रम्यः सुलभानपानो मनोहरवेषः प्रचुरगन्धमाल्यादिकः सर्वभाषाविदग्धमतिरित्येवमादिवचनप्रबंधो जनपदनगराकरकथाः, तास कथासु न रज्यंति धीरा इत्युत्तरेण संबंधः ॥ ८९ ॥ तथा;णडभडमल्लकहाओ मायाकरजल्लमुट्ठियाणं च । अज्जउललंधियाणं कहासु ण वि रज्जए धीरा ॥ ९० ॥ नटभटमल्लकथाः मायाकरजलमुष्टिकयोश्च । आर्याकुललंघिकानां कथासु नापि रज्यंते धीराः॥ ९० ॥ टीका–नटा भरतपुत्रका रंगोपजीविनः, भटा युद्धसमर्थाः सहस्रादीनां जेतारः, मल्ला अंगयुद्धसमर्था अनेककच्छपबंधादिकरणसमर्थाः, मायां महेन्द्रजालादिकं प्रतारणं कुर्वन्तीति मायाकरा मायाकृतरंगोपजीविनः, जल्ला मत्स्यबधाः शाकुनिकाश्च षट्टिकाम्लेच्छादयश्च, मुष्टिका द्यूतकारा द्यूतव्यसनिनः, अज्जउला-आर्या कुलमाम्नायो दुर्गा येषां ते आर्यकुला हस्तपादशिरःशरीराववयवभेदेन कुशला दुर्गपुत्रिका जीवहिंसनरता अथवा अजाविकारक्षकाः सर्वपशुपालाश्च लंघिको वरत्रवेणूपरिनृत्तकुशला इत्येवमादीनां याः कथास्तद्व्यापारकरणं सरागचेतसा स शोभनतरोऽशोभनतरो वा कुशलोऽकुशलो वेत्येवमादयस्तासु कथासु पूर्वोक्तासु नैव रज्यंति नैवानुरागं कुर्वन्ति धीरा वैराग्यपरा इति ॥ ९० ॥ 'न केवलं कथा वचनेन वर्जयंति किं तु मनसाऽपि न कुर्वन्तीत्याह;विकहा विसोत्तियाणं खणमवि हिदएण ते ण चिंतंति । धम्मे लद्धमदीया विकहा तिविहेण वज्जति ॥ ९१ ॥ १ लंपाका प्रेसपुस्तके। Page #83 -------------------------------------------------------------------------- ________________ ७८ मूलाचारmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm • विकथा विश्रुतीन क्षणमपि हृदयेन ते न चिंतयति । धर्मे लब्धमतयः विकथाः त्रिविधेन वर्जयंति ॥ ९१ ॥ टीका-इत्येवमादिविकथाः स्त्रीभक्तचौरराजकथाः विश्रुतिकथाश्च सम्यग्दर्शनज्ञानचारित्रतपसां प्रतिकूलवचनानि तत्प्रतिबद्धपरिणामांश्च क्षणमपि नयनोन्मेषमात्रमपि हृदयेन चेतसा न ते मुनयश्चिन्तयति न व्यवस्थापयंति धर्मे धर्मविषये लब्धमतयो यतो विकथास्त्रिप्रकारेण मनोवाक्कायैर्वर्जयन्तीति।९१॥ तथा;कुक्कय कंदप्पाइय हास उल्लावणं च खेडं च । मददप्पहत्थवणिं ण करेंति मुणी ण कामेति ॥ ९२ ॥ कौत्कुच्यं कंदायितं हास्यं उल्लापनं च खेडं च । मददर्पहस्तताडनं न कुर्वति मुनयः न कारयति ॥ ९२ ॥ टीका-कुक्कय-कौत्कुच्यं हृदयकंठाभ्यामव्यक्तशब्दकरणं, कंदप्पाइयकंदायितं कामोत्पादकवचनान्यथवा रागोद्रेकात्प्रहाससंमिश्राशिष्टवाक्प्रयोगः कंदर्पः, हासं-हास्यमुपहास्यवचनानि, उल्लावणं-अनेकवैदग्ध्ययुक्तरम्यवचनं, खेडं चोपप्लववचनं अदुष्टहृदयेन परप्रतारणं, मददर्पण स्वहस्तेनान्यहस्तताडनं च मुनयो न कुर्वन्ति न कारयति नाऽप्यनुमन्यन्ते च ॥ ९२ ॥ यतः;ते होंति णिव्वियारा थिमिदमदी पदिद्विदा जहा उदधी। णियमेसु दृढव्वादणो पारत्तविमग्गया समणा ॥ ९३ ॥ ते भवंति निर्विकाराः स्तिमितमतयः प्रतिष्ठिता यथा उदधिः। नियमेषु दृढव्रतिनः पारव्यविमार्गकाः श्रमणाः ॥ ९३ ॥ टीका-यस्मात्ते साधवो भवंति निर्विकाराः कायिकवाचिकमानसिकविकारैवर्जिताः, स्तिमितमतयोऽनुद्वतचेष्टासंकल्पाः, प्रतिष्ठिता यथोदधिः समुद्र Page #84 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । www ७९ इवागाधा अक्षोभाच, नियमेषु षडावश्यकादिक्रियासु दृढवतिनोऽभग्नगृहीतानवग्रहविशेषाः, पारत्र्यविमार्गकाः परलोकं प्रति सूयतसमस्तकार्या इहलोकं निरतिचारं परलोकं सम्यग्विधानेनात्मनः परेषां च निरूपयंतीति ॥ ९३ ॥ कथंभृतास्तर्हि कथाः कुर्वन्तीत्याशंकायामाह; — जिणवयणभासिदत्थं पत्थं च हिदं च धम्मसंजुत्तं । समओवयारजत्तं पारत्तहिदं कथं करेंति ॥ ९४ ॥ जिनवचनभाषितार्थी पथ्यां च हितां च धर्मसंयुक्तां । समयोपचारयुक्तां पारत्र्यहितां कथां कुर्वति ॥ ९४ ॥ टीका - जिनवचनेन वीतारागागमेन भाषितः प्रतिपादितोऽर्थो विषयो यस्याः सा जिनवचनभाषितार्था रत्नत्रयप्रतिपादनसमर्था तां कथां कुर्वते । पुनरपि पथ्यां हितां च धर्मसंयुक्तां समयोपचारयुक्तामागमविनयसहितां परलोकं प्रति हितां कुर्वते । * यद्यपि विषयसुखविवर्जनेन कापुरुषाणामनिष्टा तथापि विपाककाले पथ्यौषधवत् । तथा * यद्यपि जीवप्रदेशसंतापकरणेन न हिता तथापि सम्यगाचरणनिरता । तथा यद्यपि विनयतन्निष्ठा तथापि श्रुतज्ञानप्रतिकूला न भवति तर्कव्याकरणसिद्धांतचरितपुराणादिप्रतिपादिका वा कथा तां कुर्वत इति ॥ ९४ ॥ ये कथामेवंविधां कुर्वन्ति ते किम्भूता इत्याशंकायामाह; — सत्ताधय सप्पुरिसा मग्गं मण्णांत वीदरागाणं । अणयारभावणाए भावेंति य णिञ्चमप्पाणं ॥ ९५ ॥ सत्त्वाधिकाः सत्पुरुषा मार्गे मन्यंते वीतरागाणां । अनगारभावनया भावयंति च नित्यमात्मानम् ॥ ९५ ॥ टीका - सत्वाधिकाः सर्वोपसर्गेरप्यकंप्यभावाः, सत्पुरुषाः यथोक्तचरित' Page #85 -------------------------------------------------------------------------- ________________ ८० मूलाचारे चारित्रा मार्ग सम्यग्दर्शनज्ञानचारित्राणि मन्यतेऽभ्युपगच्छन्ति । केषां मार्गे ? वीतरागाणां निर्दग्धमोहनीयरजसामनगारभावनया च कथितस्वरूपया भावयंति चात्मानमिति ॥ ९५ ॥ . वाक्यशुद्धिं निरूप्य तपःशुद्धिं च निरूपयन्नाह; — णिचं च अप्पमत्ता संजमसमिदीसु झाणजोगेसु । तवचरणकरणजुत्ता हवंति सवणा समिदपावा ॥ ९६ ॥ नित्यं च अप्रमत्ताः संयमसमितिषु ध्यानयोगेषु । तपश्चरणकरणयुक्ता भवंति श्रमणाः शमितपापाः ॥ ९६ ॥ टीका - नित्यं च सर्वकालमपि अप्रमत्ताः पंचदशप्रमादरहिताः संयमें प्राणरक्षणे इन्द्रियनिग्रहे समितिषु ध्याने धर्मध्याने शुक्लध्याने च योगेषु नाना विधावग्रहविशेषेषु द्वादशविधे तपसि त्रयोदशविधे चरणे * करणे च त्रयोदशविधे *शमितपापाः संतः श्रमणा उद्युक्ता भवति । * एवंविशिष्टे सम्यग्ज्ञानदर्शन-चारित्रतपोविषये तदुपकरणे च सर्वपापक्रियानिवृत्ताः सन्तोऽभीक्ष्णमायुक्तत्र भवतीति* ॥ ९६ ॥ बाह्यतपसां मध्ये दुश्वरं तावत्कायक्लेशं तपः प्रतिपादयन्नाह;-- हेमंते धिदिमंता सहति ते हिमरयं परमघोरं । अंगेसु विडमाणं णलिणीवणविणासयं सीयं ॥ ९७ ॥ हेमंते धृतिमंतः सहते ते हिमरजः परमघोरं । अंगेषु निपतत् नलिनीवनविनाशकं शीतं ॥ ९७ ॥ टीका - हेमंते हिमवत्काले परमघोरे दग्धाशेषवनस्पतिविशेषे प्रचंडवातसमूहकंपिताशेषजंतुनिवहे धृतिमतः परमधैर्यप्रावरणसंवृताः, सहन्ते ते मुनयो हिमरजः पतत्प्रालेयसमूहं परमघोरं सुष्ठु रौद्रमंगेषु निपतदाचरणान्मस्तकं याव Page #86 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। rrrrrrrrrrrrrrra rrrrrrrriarrorm त्पतद्धिमं। किंविशिष्टं तद्विमरजः ? नलिनीवनविनाशकं पद्मिनीखंडदहनसमर्थ, उपलक्षणमात्रमेतत् तेन सर्वभूतविनाशकरणसमर्थं सहन्त इति ॥ ९७ ॥ ' अभ्रावकाशं व्याख्यायातापनस्वरूपमाह;जल्लेण मइलिदंगा गिटे उण्णादवेण ढंगः । चेट्ठति णिसिटुंगा सूरस्स य अहिमुहा सूरा ॥ ९८ ॥ जल्लेन मलिनांगा ग्रीष्मे उष्णातपेन दग्धांगाः। तिष्ठति निसृष्टांगा सूर्यस्य च अभिमुखं शूराः ॥ ९८॥ टीका-जलं सर्वांगोद्भूतमलं तेन मलिनांगा वल्मीकसमाना निःप्रतीकारदेहाः; ग्रीष्मे प्रचंडमार्तडगभस्तिहस्तशोषिताशेषाभावे दवदहनसमानतृष्णाक्रांतसमस्तजीवराशौ उष्णातपेन दीप्यमानकिरणजालैर्दग्धांगा दग्धकाष्ठसमानशरीरास्तिष्ठति । निसृष्टांगाः कायोत्सर्गेणाचलितशरीरावयवाः सूरस्य धगधगायमानादित्यस्याभिमुखं शूरा मनागपि न संक्लेशमुद्दहति शीतहदे प्रविष्टा इव संतिष्ठंत इति ॥ ९८॥ • वृक्षमूलं निरूपयन्नाह;धारंधयारगुविलं सहति ते वादवादलं चंडं। रतिदियं गलंतं सप्पुरिसा रुक्खमूलेसु ॥ ९९ ॥ धारांधकारगहनं सहते ते वातवार्दलं चंडं । रात्रिंदिवं गलत् सत्पुरुषा वृक्षमूलेषु ॥ ९९ ॥ टीका-तथा प्रावृट्काले जलपूरिताशेषमार्गे गर्जत्पर्जन्यघोराशनिरववधिरितदिगंते वृक्षमूलेऽनेकसर्पाकीर्णे चंडं रौद्रं वातं वाईलं च प्रवर्षणशीलं मेघजालं च सहते सम्यगध्यासते। किंविशिष्टं ? जलधारांधकारगहनं। पुनरपि किंविशिष्टं ? रात्रिंदिवं च क्षरन्मुशलप्रमाणपतद्धाराभिर्वर्षवृक्षमूले वसंति सहंते च सत्पुरुषाः, न मनागपि चित्तक्षोभं कुर्वन्तीति ॥ ९९ ॥ Page #87 -------------------------------------------------------------------------- ________________ मूलाचारे ~~~rmmmmmmmmmmmmmmmmmmmmmmm तत्र स्थिताः परीषहाँश्च जयंतीत्याह;वादं सीदं उण्हं तण्हं च छुधं च दंसमसयं च । सव्वं सहंति धीरा कम्माण खयं करेमाणा ॥ १०० ॥ वातं शीतं उष्णं तृष्णां च क्षुधां च दशमशकं च । सर्व सहते धीराः कर्मणां क्षयं कुर्वाणाः ॥ १० ॥ टीका-एवं त्रिकालयोगिनः संतो वातं विनाशिताशेषतरुसमूहं सहते तथा शीतं सहते तथोष्णं शोषिताशेषवनसरित्समुद्रं सहते तथा तृष्णां संतापिताशेषांगावयवां सहते तथा क्षुधां महाप्रलयकालसमुत्थिताग्निस्वरूपां सहते तथा दंशमशककृतोपद्रवं सहते तथा सर्पवृश्चिकपिपीलिकावराहादिकृतोपद्रवं च सहते, किं बहुना सर्वमप्युपसर्गजातं कर्मणां क्षयं कुर्वाणाः सहते न तंत्रमंत्रनिमित्तं नेहलौकिकसुखनिमित्तं नापि परलोकभोगाकांक्षयेति ॥ १०० ॥ एवं कायभवं क्लेशसहनं निरूप्य वाग्भवं क्लेशसहनं निरूपयन्नाह;-- दुजणवयण चडयणं सहति अच्छोड सत्थपहरं च । ण य कुप्पंति महरिसी खमणगुणवियाणया साहू॥१०१।। दुर्जनवचनं चटचटत् सहते पैशून्यं शस्त्रप्रहारं च । न च कुप्यंति महर्षयः क्षमणगुणविज्ञानकाः साधवः ॥१०१॥ टीका-दुष्टो जनो दुर्जनस्तस्य वचनं दुर्जनवचनं सर्वप्रकारेणापवादग्रहणशीलमिथ्यादृष्टिखरपरुषवचनं, चटचटत्तप्तलोहस्फुलिंगसमानं सर्वजीवप्रदेशतापकरं, सहते न क्षोभं गच्छन्ति, अछोडं पैशून्यवचनं असद्दोषोद्भावनप्रवणमथवा अछोडणं लोष्ठलगुडादिभिस्ताडनं, शस्त्रप्रहारं खड़ादिभिर्घातं च सहते, इति सर्वमेतत्सहंते न च तेभ्य उपद्रवकारिभ्यः कुप्यन्ति, महर्षयः क्षमागुणविज्ञानका: श्रमणाः सर्वप्रकारैः सहनशीलाः क्रोधादिवशं न गच्छन्तीति ॥ १०१॥ १ विसहन्ते ख. ग.। Page #88 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। ३ अन्यच्च,जइ पंचिंदियदमओ होज्ज जणो रूसिव्वय णियत्तो। तो कदरेण कयंतो रूसिज्ज जए मणूयाणं ॥ १०२॥ यदि पंचेंद्रियदमको भवेत् जनः रोषादिभ्यः निवृत्तः । ततः कतरेण कृतांतः रुष्येत् जगति मनुजेभ्यः ॥ १०२॥ टीका-यदि पंचेन्द्रियदमकः पंचेन्द्रियनिग्रहरतो भवेज्जनस्तदा स रोषादिभ्यो निवृत्तश्च जनो भवेत्तत: कतरेण कारणेन कृतांतो मृत्यू रुष्येत् कोपं कुर्याज्जगति मनुष्येभ्योऽथवा कृतांत आगमस्तत्साहचर्यायतिरपि कृतांत इत्युच्यते तत एवं संबंधः क्रियते यदि सामान्यजनोऽपि पंचेन्द्रियनिग्रहरतो भवेत्तत रोषान्निवृत्त: क्रोधादिकं न करोति कृतांतो यतिः पुन: कतरेण कारणेन सूपद्रवकारिभ्यो मनुष्येभ्यो रुष्यत्कोपं कुर्यात् ? तस्मात्क्षमागुणं जानता चारित्रं सम्यग्दर्शनं चाभ्युपगच्छता न रोषः कर्त्तव्यः ॥ १०२ ॥ .. अन्यच्च;-- जदि वि य करेंति पावं एदे जिणवयणबाहिरा पुरिसा । तं सव्वं सहिदव्वं कम्माण खयं करतेण ॥ १०३ ॥ यद्यपि च कुर्वति पापं एते जिनवचनबाह्याः पुरुषाः । तत् सर्व सोढव्यं कर्मणां क्षयं कुर्वता ॥ १०३ ॥ टीका-यद्यपि च पूर्वकर्मोदयवशात्कुर्वन्ति पापं वधबन्धनादिकं रौद्रं कमते जिनवचनबाह्याः पुरुषा मिथ्यात्वासंयमकषायाभिरताः सर्वमदगर्विताः, तत्सर्वमुपसर्गजातं सहनीयं सम्यग्विधानेनाध्यासितव्यमध्यासयेत् । कर्मणां क्षयं । पूर्वार्जितकर्मफलक्षयं कुर्वताऽऽत्मना सह कर्मणां विश्लेषं कुर्वता सम्यग्दर्शनादिभिरात्मानं भावयतेति ॥ १०३ ॥ १-२ ख-ग-पुस्तके न स्तः । Page #89 -------------------------------------------------------------------------- ________________ ८४ मूलाचारे पुनरपि कषायविजयमाह; - लखूण इमं सुदणिहिं ववसायविरज्जियं तह करेह | जह सुग्गइचोराणं ण उवेह वसं कंसायाणं ॥ १०४ ॥ लब्ध्वा इमं श्रुतनिधि व्यवसायद्वितीयं तथा कुरुत । यथा सुगतिचौराणां नोपेत वशं कषायाणां ॥ १०४ ॥ टीका - लब्ध्वा सम्यगवाप्येमं श्रुतनिधिं द्वादशांगचतुर्दशपूर्वरत्ननिधानं व्यवसायेन चारित्रतपसोद्योगेन सह द्वितीयं तथा कुरुत तेन प्रकारेण यतध्वं, यथा सुगतिचौराणां मोक्षमार्गविनाशकोनां कषायाणां वशं नोपेत तथा यतध्वं येषाञ्च रत्नत्रयविनाशकानां क्रोधादीनां वशं न गच्छेतेति ॥ १०४ ॥ तपःशुद्धिस्वामिनः प्रतिपादयन्नाह ;पंचमहव्वयधारी पंचसु समिदीसु संजदा धीरा । पंचिंदियत्थविरदा पंचमगइमग्गया सवणा ।। १०५ ॥ पंचमहाव्रतधारिणः पंचसु समितिषु संयता धीराः । पंचेंद्रियार्थविरताः पंचमगतिमार्गकाः श्रमणाः ॥ १०५ ॥ टीका - पंच महाव्रतधारिणो जीवदयादिगुणकलिताः पंचसु समितिषु संयताः पंचसमितिसंयुक्तास्तासु वा व्यवस्थिता धीरा अकंपभावमुपगताः पंचेन्द्रियार्थेभ्यो विरता जितेन्द्रियाः पंचमगतिं सिद्धगतिं मृगयमाणा अनंतचतुष्टयेनात्मानं योजयंतः श्रवणा इत्थंभूतास्तपः शुद्धेः कर्त्तारो भवन्ति ॥ १०५ ॥ तथा; ते इंदिए पंचसु ण कयाइ पुणो वि बंधंति । उण्हेण व हारिद्दं णस्सदि राओ सुविहिदाणं ॥ १०६ ॥ १ विनाशिनां ख. ग. । २ गच्छन्ति ग. गच्छन्तु प्रेस - पुस्तके | Page #90 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। त इंद्रियेषु पंचसु न कदाचित् रागं पुनरपि बघ्नंति। उष्णेन इव हारिद्रो नश्यति रागः सुविहितानां ॥ १०६॥ . टीकाते पूर्वोक्ताः श्रमणा इन्द्रियेषु पंचसु रागं कदाचिदपि न पुनर्बनंति यतस्तेषां सुविहितानां शोभनानुष्ठानानां नश्यति रागो यथोष्णेन हारिद्रो रागः । किमुक्तं भवति ? यद्यपि कदाचिद्रागः स्यात्तथापि पुनरनुबन्धं न कुर्वन्ति पश्चात्तापेन तत्क्षणादेव विनाशमुपयाति हरिद्रारक्तवस्त्रस्य पीतप्रभारविकिरणस्पृष्टेवोत ॥ १०६ ॥ तपःशुद्धिं निरूप्य ध्यानशुद्धिं निरूपयस्तावत्तदर्थमिन्द्रियजयमाह;विसएसु पधावंता चवला चंडा तिदंडगुत्तेहिं । इंदियचोरा घोरा वसम्मि ठविदा ववसिदेहिं ॥१०७॥ विषयेषु प्रधावंतश्चपलाञ्चंडाः त्रिदंडगुप्तः। इंद्रियचौरा घोराः वशे स्थापिता व्यवसितैः ॥ १०७ ॥ टीका-विषयेषु रूपरसगन्धस्पर्शशब्देषु प्रधावंतः प्रसरन्तः, चपलाः स्थैर्यवर्जिताः, चंडाः कोपं गच्छन्तः, इन्द्रियचौरास्त्रिदंडगुप्तैर्मनोवाक्कायसंयुतैः व्यवसितैश्चारित्रयोगतन्निष्टैर्वशे व्यवस्थापिता: स्ववशं नीताः सुष्ठु घोरा यद्यपि तथापि प्रलयं प्रापिता मुनिभिरिति ॥ १०७ ॥ दृष्टान्तद्वारेण मनोनिग्रहस्वरूपमाह;जह चंडो वणहत्थी उद्दामो णयररायमग्गम्मि । तिक्खंकुसेण धरिदो णरेण दिढसत्तिजुत्तेण ॥ १०८॥ यथा चंडो वनहस्ती उद्दामो नगरराजमार्गे । तीक्ष्णांकुशेन धृतः नरेण दृढशक्तियुक्तेन ॥ १०८ ॥ टीका-यथा येन प्रकारेण चंडो गलत्रिगंडप्रजातप्रकोपो वनहस्ती उद्दामः Page #91 -------------------------------------------------------------------------- ________________ ८६ मूलाचारे शंखलादिबंधनरहितो नगरराजमार्गे दृढशक्तियुक्तेन नरेण तीक्ष्णाकुशेन करणभूतेन धृत आत्मवशे स्थापित इति ॥ १०८॥ एवम्;तह चंडो मणहत्थी उद्दामो विषयराजमग्गम्मि। णाणंकुसेण धरिदो रुद्धो जह मत्तहत्थिव्व ॥ १०९ ॥ तथा चंडो मनोहस्ती उद्दामो विषयराजमार्गे । ज्ञानांकुशेन धृतो रुद्धो यथा मत्तहस्ती खलु ॥ १०९॥ टीका-तथा तेनैव प्रकारेण चंडो नरकगत्यादिषु नराणां प्रक्षेपणपरो मनोहस्ती उद्दामः संयमादिखलादिरहितो विषयराजमार्गे रूपादिविषयराजवमनि धावन् ज्ञानांकुशेन पूर्वापरविवेकविषयावबोधांकुशेन धृत आत्मवशं नीतः, यथा मत्तहस्ती रुद्धः सन्न किंचित्कर्तुं समर्थो यत्र नीयते हस्तिपकेन तत्रैव याति एवमेव यतिना मनोहस्ती रुद्धः सन् यत्र व्यवस्थाप्यते तत्रैव तिष्ठति . वशीभूतः सन्निति ॥ १०९ ॥ तथा;ण च एदि विणिस्सरिदुं मणहत्थी झाणवारिबंधणिदो । बद्धो तह य पयंडो विरायरज्जूहि धीरेहिं ॥ ११० ॥ न चैति विनिस्सतु मनोहस्ती ध्यानवारिबंधनीतः। बद्धस्तथा च प्रचंडः विरागरज्जुभिः धीरैः ॥ ११० ॥ टीका-यथा रुद्धः सन् मत्तहस्ती वारिबंधेन न शक्नोति विनिःसर्तु निर्गन्तुं न समर्थस्तथा मनोहस्ती ध्यानवारिबंधनं नीतः प्रापितोऽतिशयेन प्रचंडो विरागरज्जुभिर्बद्धो वैराग्यादिवरत्राभिर्धारैः संयमितो निर्गन्तुं न शकोतीति ॥ ११०॥ Page #92 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः। __ ध्यानार्थ नगरं प्राकारादिसमन्वितं रचयन्नाह;धिदिधणिदणिच्छिदमदी चरित्त पायार गोउरं तुंगं । खंतीसुकहकवाडं तवणयरं संजमारक्खं ॥१११ ॥ धृत्यतिशयनिश्चितमतिः चारित्रं प्राकारं गोपुरं तुंगं । क्षांतिसुकृतकपाटं तपोनगरं संयमारक्षम् ॥ १११ ॥ टीका-धृतिः संतोषादिस्तस्यामत्यर्थ निश्चितं मतिज्ञानं धृत्यतिशयनिश्चितमतिर्धेर्योत्साहतत्वरुचिसमन्वितविवेकः चारित्रं त्रयोदशप्रकारपापक्रियानिवृत्तिः, प्राकारः पाषाणमय इष्टकामयो वा परिक्षेपः, गोपुरं तुंगं नगरस्य महदरमुत्तुङ्गकटं यथासंख्येन संबंधः । धृत्यतिशयितनिश्चितमतिरेव प्राकारो यत्र नगरे तत्तथाभूतं तथा चा रित्रमेव गोपुरमुत्तुंगं यत्र तच्चारित्रगोपुरोत्तुंगं । क्षांतिरुपशमः सुकृतं धर्मः क्षांतिसुकृते कपाटे यस्य तत् क्षांतिसुकृतकपाटमथवा शान्तिरेव सुयंत्रितकपाटं तत्र, तपोनगरं, संयमो द्विप्रकार आरक्षः कोट्टपालो यत्र तत्संयमारक्षं इन्द्रियसंयमप्राणसंयमाभ्यामारक्षकाभ्यां पाल्यमानमिति ॥ १११॥ ___ कथं तद्रक्ष्यत इत्याशंकायामाह;रामो दोसो मोहो इंदियचोरा य उज्जदा णिचं । ण च यति पहंसे, सप्पुरिससुरक्खियं णयरं ॥११२॥ रागः द्वेषः मोहः इंद्रियचौराश्चोद्यता नित्यं । न शक्नुवन्ति प्रध्वंसयितुं सत्पुरुषसुरक्षितं नगरं ॥ ११२॥ टीका-यद्यपि तन्नगरं प्रध्वंसायितुं विनाशयितुमुद्यताः सर्वकालं रागद्वेषमोहेन्द्रियचौरास्तथापि तत्तपोनगरं पूर्वोक्तविशेषणविशिष्टं न शक्नुवंति प्रध्वंसयितुं सत्पुरुषसुरक्षितनगरवत्, यथा महायोधैः सुरक्षितं सुदुर्ग सुयंत्रितं नगरं विनाशयितुं समर्थ न परचक्रमेवं तपोनगरं रागादयो न विनाशयितुं समर्था इति ॥ ११२॥ Page #93 -------------------------------------------------------------------------- ________________ मूलाचारे .....mmmmm इदानीं ध्यानरथं प्रकटयन्नाह;एदे इंदियतुरया पयडीदोसेण चोइया संता । उम्मग्गं णिति रहं करेह मणपग्गहं वलियं ॥ ११३ ॥ एते इंद्रियतुरगाः प्रकृतिदोषेण चोदिताः संतः । उन्मार्ग नयंतिं रथं कुरुत मनःप्रग्रहं दृढं ॥ ११३॥ टीका-एते इन्द्रियतुरगा इमानीन्द्रियाण्येवाश्वाः प्रकृत्या स्वभावेन दोषेण रागद्वेषाभ्यां च चोदिताः प्ररिताः संत उन्मार्ग विषयाकुलाटवीं नयंति प्रापयति धर्मध्यानरथं कुरुत मनःप्रग्रहं दृढं । यथा रश्मिनाऽश्वा नियंत्र्यंते वशीक्रियते तथेन्द्रियाणि वशं स्थापयतैकाग्रमनोनिरोधप्रग्रहेण येन ध्यानं मार्गस्थं भवतीति ॥ ११३॥ रागद्वेषादीनां प्रतिपक्षभावनामाह;रागो दोसो मोहो विदीय धीरेहि णिज्जिदा सम्म । पंचेंदिया य दंता वदोववासप्पहारोह ॥ ११४ ॥ रागो द्वेषो मोहो वृत्या धीरौनिर्जिताः सम्यक् । पंचेद्रियाणि च दांतानि व्रतोपवासप्रहारैः ॥ ११४॥ टीका-धीरैः संयतै रागद्वेषमोहाः प्रीत्यप्रीतिमिथ्यात्वानि वृत्त्या दृढरत्नत्रयभावनया निर्जिताः' प्रहताः सम्यग्विधानेन पंचेन्द्रियाणि दांतानि स्ववशं नीतानि व्रतोपवासप्रहारैरिति ॥ १४ ॥ ततः किम्दंतेंदिया महरिसी रागं दोसं च ते खवेदूणं । झाणोवजोगजुत्ता खवेंति कम्मं खविदमोहा ॥ ११५॥ दातेंद्रिया महर्षयो राग द्वेषं च ते क्षपयित्वा । ध्यानोपयोगयुक्ताःक्षपयंति कर्माणि क्षपितमोहाः ॥ ११५ ॥ Page #94 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । टीका-ततो दान्तेन्द्रियाः संतो महर्षयः शुद्धोपयोगयुक्ताः समीचीनध्यानोपगता रागं द्वेषं विकृतिं च क्षपयित्वा प्रलयं नीत्वा क्षपितमोहाः संतः कर्माणि क्षपयति सर्वाणि यतः कषायमूलत्वात्सर्वेषामिति ॥ ११५॥ तदेवमाचष्टेऽनया गाथया;अट्ठविहकम्ममूलं खविद कसाया खमादिजुत्तेहिं । उद्धदमूलो व दुमो ण जाइदव्वं पुणो अत्थि॥ ११६॥ अष्टविधकर्ममूलं क्षपिताः कषायाः क्षमादियुक्तैः। उद्भूतमूल इव द्रुमो न जनितव्यं पुनरस्ति ॥ ११६ ॥ • टीका-अष्टविधस्य कर्मणो मूलं कारणं । किं ते? कषायाः क्रोधादयस्तेषु सत्सु सर्वकर्मप्रकृतीनामवस्थानं ते चे कषायाः क्षमादियुक्तैः क्षमामार्दवार्जवसंतोषपरैः क्षपिता विनाशिताः पुनस्तेषामुत्पत्तिर्नास्ति यथोद्भूतमूलस्य द्रुमस्य निर्मूलितस्य वृक्षस्येव जनितव्यं नास्ति, यथोद्धृतमूलो वृक्षो न जायते कारणाभावात्तथा कर्मनिचयो न पुनरागच्छति कारणाभावादिति ॥ ११६ ॥ तस्मात्;अवहट्ट अट्ट रुई धम्म सुक्कं च झाणमोगाढं । ण च एदि पधंसेदुं अणियट्टी सुक्कलेस्साए ॥११७॥ अपहृत्य आर्त रौद्रं धर्म शुक्लं च ध्यानमवगाढं। न च यति प्रधर्षयितुं अनिवृत्ति शुक्ललेश्यया ॥ ११७॥ टीका-तस्मात्कषायनिर्मूलनायार्त्तव्यानं रौद्रध्यानं चापहृत्य परित्यज्य धर्मध्यानं शुक्लध्यानं च चिन्तयेति शेषः यतः समीचीनध्यानावगाढं शोभनध्याने निविष्टमानसं यतिं शुक्ललेश्यया सहितं शुद्धयोगवृत्या समन्वितं अनिवृत्तिगुणस्थानगतं कषाया न शक्नुवंति न किंचित्कुर्वन्ति प्रधर्षयितुं कदर्थयितुं । अथ १ तेन प्रेस-पुस्तके । २ एवं ख-ग । Page #95 -------------------------------------------------------------------------- ________________ मूलाचारे " वा “ अणियट्टी” पदस्थाने " परीसहा ” इति पाठस्तेन परीषहा न शक्नुवंति प्रधर्षयितुं ध्यानप्रविष्टं मुनिमिति ॥ ११७ ॥ पुनरपि ध्यानस्य स्थैर्यमाह; - जह ण चलइ गिरिराजो अवरुत्तरपुव्वक्खिणेवाए । एवमचलिदो जोगी अभिक्खणं झायदे झाणं ॥ ११८ ॥ यथा न चलति गिरिराजः अपरोत्तरपूर्वदक्षिणवातैः । एवमचलितो योगी अभीक्ष्णं ध्यायति ध्यानं ॥ ११८ ॥ टीका -- यथा न चलति न स्थानाच्च्युतो भवति गिरिराजो मेरुः पूर्वपश्चिमदक्षिणोत्तरवातैः एवमचलितो योगी सर्वोपसर्गादिभिरकंप्यभावोऽभीक्ष्णं निरन्तरं समयं समयं प्रत्यसंख्यातगुणश्रेणिकर्मनिर्जरां कुर्वन् ध्यायेत् ध्यानं समाधिमिति, यद्यप्यत्रैकवचनं जात्यपेक्षया तथापि बहुवचनं द्रष्टव्यं ध्यायंति ध्यानमिति ॥ ११८ ॥ तत एवं ध्यानं प्रध्याय; - द्विविदकरणचरणा कम्मं णिदुद्वंदं धुणित्ताय । जरगरणविष्पमुक्का उवेंति सिद्धिं धुद किलेसा ॥ ११९ ॥ निष्ठापितकरणचरणाः कर्म निधत्तोद्धतं धूत्वा । जरामरणविप्रमुक्ता उपयांति सिद्धिं धुतक्लेशाः ॥ ११९ ॥ टीका - ततो ध्यानं संचिंत्य निष्ठापितकरणचरणाः परमोत्कर्षं प्रापिताः पंचमहाव्रतपंचसमितित्रिगुप्तिपंचनमस्कार षडावश्यकासिकानिषयका यैस्ते मुनयः कर्म निधत्तोद्धतं बद्धपुष्टं बद्धनिकोचितं सुष्ठु स्निग्धं सुष्ठु दुःखदायकं निर्धूतं निर्मूलतः सम्यक् धूत्वा प्रक्षिप्य जातिजरामरणमुक्ताः सिद्धिमनंतज्ञानदर्शनसुखवीर्यरूपामवस्थामुपयांति धुतक्लेशाः संत इति ॥ ११९ ॥ १ बद्धपुष्टबद्धनिकाचितं ग । बद्धपुष्टनिकाचितं ख. । Page #96 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । ९१ अनगाराणां पर्यायनामान्याह;समणोत्ति संजदोत्ति य रिसि मुणि साधुत्ति वीदरागोत्ति। णामाणि सुविहिदाणं अणगार भदंत दंतोत्ति ॥१२०॥ श्रमण इति संयत इति च ऋषिमुनिः साधु इति वीतराग इति। नामानि सुविहितानां अनगारो भदंतः दांतो यतिः ॥ १२० ॥ टीका-*यत्किंचन्मुनयः क्वचिदृषय इत्येवमादिप्रतिपादितास्तेषां कथं पर्यायनामान्यत आह -श्रमण इति श्रमयंत्यात्मानं तपोभिरिति श्रमणाः, संयता इति संयमयंतीन्द्रियाणि कषायाँश्च संयताः,ऋषय इति चार्षयन्ति गमयंति सर्वपापानि ते ऋषयोऽथवार्षयन्ति प्राप्नुवंति सप्तर्झरिति ऋषयः, मन्यते बुध्यते स्वपरार्थसिद्धिमिति मुनयोऽथवा मतिश्रुतावधिमनःपर्ययकेवलज्ञानयुक्ताः मुनयः, साधव इति सम्यग्दर्शनज्ञानचारित्राणि साधयंतीति साधवः, वीतरागा इति वीतो विनष्टो रागो येषां ते वीतरागाः, नामान्येतानि संज्ञारूपाणि सुविहितानां सुचारित्राणां । अनगारा न विद्यतेऽगारादिकं येषां तेऽनगारा विमुक्तसर्वसंगाः, भदंताः सर्वकल्याणानि प्राप्तवंतः, दांताः पंचेन्द्रियाणां निग्रहपराः, त्रयोदशविधे चारित्रे यतंत इति यतयोऽथवोपशमक्षपकश्रेण्यारोहणपरा यतयः । एवं प्रकाराणि यतीनां नामानीति ॥ १२० ॥ एवं दशसूत्राणि व्याख्यायेदानीमनगाराणां स्तवमाह;अणयारा भयवंता अपरिमिदगुणा थुदा सुरिंदेहिं । तिविहेणुत्तिण्णपारे परमगदिगदे पणिवदामि ॥१२॥ अनगारान् भगवतः अपरिमितगुणान् स्तुतान सुरेंद्रैः। त्रिविधैरुत्तीर्णपारान् परमगतिगतान् प्रणिपतामि ॥ १२१ ॥ टीका-एवमनगारान् भगवतोऽनंतचतुष्टयं प्राप्तान प्राप्तवंतश्चापरिमितगुणान् * पुष्पमध्यगतः पाठः ख-ग-पुस्तके अधिकः। . Page #97 -------------------------------------------------------------------------- ________________ ९२ wwwmmmmm मूलाचारे सर्वगुणाधारान् सुरेन्द्रः स्तुतान् परमगतिगतान् परमशुद्धज्ञानदर्शनचारित्रपरिणतानुत्तीर्णपरान् संसारमहोदधिं समुलंध्य स्थिताँस्त्रिप्रकारैर्मनोवचनकायैरहं प्रणिपतामि सम्यक् प्रणमामीति ॥ १२१ ॥ अनगारभावनायोः प्रयोजनमाह;एवं चरियविहाणं जो काहदि संजदो ववसिदप्पा। णाणगुणसंपजुत्तो सो गाहदि उत्तमं ठाणं ॥ १२२ ॥ एवं चर्याविधानं यः करोति संयतो व्यवसितात्मा। ज्ञानगुणसंप्रयुक्तः स गच्छति उत्तमं स्थानं ॥ १२२ ॥ टीका-एवमनेन प्रकारेण चर्याविधानं दशसूत्रैः कथितं यः करोति व्रतादिसंपन्नो व्यवसितात्मा तपस्युद्योगपरो ज्ञानेन मूलगुणैश्च संप्रयुक्तः संयतो गच्छत्त्युत्तमं स्थानमिति ॥ १२२ ॥ यः शृणोतीममनगाराणां स्तवं तस्यापि फलमाह;भत्तीए मए कहियं अणयाराण त्थवं समासेण । जो सुणदि पयदमणसो सो गच्छदि उत्तमं ठाणं॥१२३॥ भक्त्या मया कथितं अनगाराणां स्तवं समासेन । यः शृणोति प्रयत्नमनाः स गच्छति उत्तमं स्थानं ॥१२३ ॥ टीका-भक्त्या मया कथितमिममनगारस्तवं संक्षेपेण यः शृणोति प्रयतमनाः संयतात्मा सन् स गच्छत्युत्तमं स्थानमिति ॥ १२३॥ तथा चएवं संजमरासिं जो काहदि संजदो ववसिदप्पा। दसणणाणसमग्गो सो गाहदि उत्तमं ठाणं ॥ १२४ ॥ १ अनगारभावनायां । १२ तथा क्षेति पाठः ख-ग-पुस्तके नास्ति । Page #98 -------------------------------------------------------------------------- ________________ अनगारभावनाधिकारः । एवं संयमराशिं यः करोति संयतो व्यवसितात्मा । दर्शनज्ञानसमग्रः स गच्छति उत्तमं स्थानं ॥ १२४ ॥ ९३ टीका - यः पुनरेवं संयमराशिं करोति संयतो व्यवसितात्मा दर्शनज्ञानसमग्रः स गच्छत्युत्तमं स्थानमित्यत्र किमत्राद्भुतमस्तीति ॥ १२४ ॥ अनगारभावनां संक्षेपयन्मंगलं च कुर्वन्नाह; - - एवं मए अभिशुदा अणगारा गारवेहिं उम्मुक्का । धरणिधरेहिं य महिया देंतु समाधिं च बोधिं च ॥ १२५ ॥ एवं मया अभिस्तुता अनगारा गौरवैः उन्मुक्ताः । धरणिधरैः च महिता ददतु समाधिं च बोधिं च ॥ १२५ ॥ टीका - एवमनेन प्रकारेण मयाभिष्टुता अनगारा गौरवैरुन्मुक्ता धरणीधरैः पृथिवीपतिभिश्व महिताः पूजिता ददतां प्रयच्छंतु समाधिं मरणकालेऽन्यस्मिँश्च काले संयमपूर्विका भावपंचनमस्कारपरिणतिं बोधिं च दर्शन-विशुद्धिं च नान्यत्किंचिदपि याचेऽहमिति ॥ १२५ ॥ इति श्रीमद्वर्याचार्यवर्यप्रणीते मूलाचारे वसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहिते नवमः परिच्छेदः ॥, १ किमत्राद्भुतमिति ख. ग. २ अपि नास्ति ख. ग. ३ इत्याचार्यश्रीवसुनन्दिविरचितायां आचारवृत्तौ नवमः परिच्छेद समाप्त इति ग - पुस्तके । ख- पुस्तके - ऽप्ययमेव पाठः, तत्र आचार्यशब्दो नास्ति । Page #99 -------------------------------------------------------------------------- ________________ ९४ मूलाचारे समयसाराधिकारः। सर्वस्यागमस्य स्वसमयपरसमयानां च सारभूतं समयसाराख्यमधिकार प्रतिपादयस्तावदादाविष्टदेवतानमस्कारपूर्विकां प्रतिज्ञामाहवंदित्तु देवदेवं तिहुअणमहिदं च सव्वसिद्धाणं । वोच्छामि समयसारं सुण संखेवं जहावुत्तं ॥ १ ॥ वंदित्वा देवदेवं त्रिभुवनमहितं च सर्वसिद्धान् । वक्ष्यामि समयसारं शृणु संक्षेपं यथावृत्तं ॥ १ ॥ टीका-वंदित्तु-वंदित्वा मनोवाक्कायैः प्रणम्य, देवानां देवो देवदेवस्तं सुराधीश्वरं सर्वलोकनाथं, त्रिभुवनमहितं त्रिभुवनैर्भवनवासिवाणव्यंतरज्योतिष्ककल्पवासिमर्त्यप्रधानैर्महितं तथा सर्वसिद्धाँश्च सर्वकर्मविमुक्तांश्च वंदित्वा प्रणम्य वक्ष्ये प्रवक्ष्यामि वक्तुं प्रारभे समयसारं द्वादशांगचतुर्दशपूर्वाणां सारं परमतत्वं मूलगुणोत्तरगुणानां च दर्शनज्ञानचारित्राणां शुद्धिविधानस्य च भिक्षाशुद्धश्च 3 १ एतद्दशमपरिच्छेदारंभेऽधोलिखितं श्लोकद्वयमपि वर्तते; तच्च; नरेन्द्रकीर्ते. ! मलहारिदेव ! सदाननं पश्यति तावकं यः । श्रिया विहीनोऽपि स विष्णुभायः कृती भवेत्स श्रमणप्रधानः ॥ १॥ जनयति मुदमन्तव्यपाथोल्हाणां, ___ हरति तिमिरराशिं या प्रभा भानवीव । कृतनिखिलपदार्थद्योतना भारतीद्धा, वितरतु धुतदोषा साहती भारती वः ॥ २ ॥ एतच्छ्रोकद्वये द्वितीयः श्लोकस्तु सुभाषितरत्नसंदोहस्याद्यः श्लोकः-सम्पादकः । ग-पुस्तके भाषापुस्तके चेमौ श्लोकौ न स्तः।-संशोधकः । २ तं देवदेवं सुराधीश्वरं ख-ग-पुस्तके। Page #100 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। सारभूतं स्तोकं वक्ष्येऽहमेकाग्रचित्तो भूत्वा शृण्ववधारय संक्षिप्तमर्थेन महांतं ग्रंथतोऽल्पं यथावृत्तं येन क्रमेणागतमथवा यथोक्तं पूर्वशास्त्रेषु स्थितं यथा पूर्वाचार्यक्रमणागतं तथा वक्ष्येऽहं न स्वेच्छया, अनेनात्मकर्तृत्वं निराकृत्यानात्मकर्तृत्वं स्थापितं भवतीति ॥ १ ॥ ___ समयो नाम सम्यग्दर्शनज्ञानचारित्रतपांसि तेषाञ्च सारश्चारित्रं कुतो यस्मात्;दव्वं खत्तं कालं भावं च पड्डच्च संघडणं । जत्य हि जददे समणो तत्थ हि सिद्धिं लहुं लहइ ॥२॥ द्रव्यं क्षेत्रं कालं भावं च प्रतीत्य संहननं । यत्र हि यतते श्रमणः तत्र हि सिद्धिं लघु लभते ॥ २॥ टीका--द्रव्यं शरीरमाहारादिकं कर्मागमापगमकारणं च क्षेत्रं निवासो वसतिकादि स्त्रीपशुपाण्डकविवर्जितवैराग्यवर्द्धनकारणस्थानं कालोऽवसर्पिण्युत्सर्पिणीरूपश्चैकोऽपि षविधः सुषमासुषमादिभेदेन तथा शीतोष्णवर्षाकालादिभेदेन त्रिविध: भाव: परिणामः, चशब्दोऽनुक्तसमुच्चर्याथस्तेनान्यदपि कारणं शुद्धचारित्रस्य ग्राह्यं, पडुच्च-आश्रित्य स्वभावमनुबुध्य, संघदणंसंहननं अस्थिबंधबलोद्भूतशक्तिं वीर्यान्तरायक्षयोपशमं वा । यत्र ग्रामेऽरण्ये द्वीपे समुद्रे भोगभूमिकर्मभूमिक्षेत्रे वा ज्ञाने दर्शने तपसि वा यतते सम्यगाचरति सम्यक्चारित्रं प्रतिपालयति समणा-श्रमणः समतैकतावैराग्याद्याधारस्तत्रैव सिद्धिं मोक्षं लघु शीघ्रं लभते प्राप्नोति, शरीरशुद्धिं भिक्षाशुद्धिं चाश्रित्य कालशुद्धिं राव्यादिगमनपरिहारं चाश्रित्य भावशुद्धिं चासंयमादिपरिणामपरिहारं चाश्रित्य शरीरसंहननादिकं चाश्रित्य यश्चारित्रं यत्र वा तत्र वा स्थितो बहुश्रुतोऽल्पश्रुतो वा सम्यग्विधानेन प्रतिपालयति स सिद्धिं लभते शीघ्रं यस्मात्तस्मात्समयसारश्चारित्रं द्रव्याद्याश्रितो यतनेनोच्यत १ संक्षेप ख-ग-पुस्तके । २ निराकृत्याप्तकर्तृत्वं ख-ग-पुस्तके । Page #101 -------------------------------------------------------------------------- ________________ ९६ मूलाचारे ww इति द्रव्यबलं क्षेत्रबलं कालबलं भावबलं चाश्रित्य तपः कर्त्तव्यं, यथा वातपित्तश्लेष्मादिकं क्षोभं नोपयाति तथा यत्नः कर्त्तव्यः सारस्य कथनमेतदिति ॥२॥ तथा वैराग्यमपि समयस्य सारो यतः,धीरो वइरग्गपरो थोवं हि य सिक्खिदूण सिज्झदि हु। ण य सिज्झदि वेरग्गविहीणो पढिदूण सव्वसत्थाइं॥३॥ धीरो वैराग्यपरः स्तोकं हि शिक्षित्वा सिध्यति हि । न च सिध्यति वैराग्यविहीनः पठित्वा सर्वशास्त्राणि ॥ ३॥ टीका-धीरो धैर्योपेतः सर्वोपसर्गसहनसमर्थः वैराग्यपरो रागादिभिविनिर्मुक्तः शरीरसंस्कारभोगनिर्वेदपरो विषयविरक्तभावः स्तोकमपि सामायिकादिस्वरूपं हि स्फुटं शिक्षित्वा सम्यगवधार्य सिध्यति कर्मक्षयं करोति, न चैव हि सिध्यति वैराग्यहीनः पठित्वापि सर्वाण्यपि शास्त्राणि, हि यस्मात्तस्माद्वैराग्यपूर्वकं करोति चारित्राचरणं प्रधानमिति ॥ ३॥ तथा सम्यक्चारित्राचरणायोपदेशमाह;भिक्खं चर वस रणे थोवं जेमेहि मा बहू जंप । दुःखं सह जिण णिद्दा मत्तिं भावेहि सुट्ट वेरग्गं ॥४॥ भिक्षां चर वस अरण्ये स्तोकं जेम मा बहु जल्प । दुःखं सहस्व जय निदां मैत्रीं भावय सुष्टु वैराग्यं ॥ ४ ॥ टीका-भिक्षां चर कृतकारितानुमतिरहितं पिंडं गृहाण, वसारण्ये स्त्रीपशुपांडकादिवर्जितेषु गिरिगुहाकंदरादिषु प्रदेशेषु वस, स्तोकं प्रमाणयुक्तं स्वाहारचतुर्थभागहीनं भुक्ष्वाभ्यवहर, मा च बहु प्रलापयुक्तं जल्प-असारं वचनं कदाचि १ तिष्ठ ख-ग । २ मा चासारं कदाचिदपि वचनं भवान् ब्रूयात् इति ख-ग। Page #102 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । दापमा ब्रूयाः, दुःखं सहस्व केनचित्कारणान्तरेणोत्पन्नामंप्रीतिं पीडारूपां सम्यगनुभव, निद्रां च जय - अकाले स्वापक्रियां वर्जय, मैत्रीं च भावय सर्वैः सत्वैः सह मैत्रीं भावय परेषां दुःखानुत्पत्यभिलाषं कुरु, वैराग्यं च सुष्ठु भावय । यतः सर्वस्य प्रवचनस्य सारभूतमेतदिति ॥ ४ ॥ तथैवंभूतश्च भवेत्;-- ९७ अव्यवहारी एक्को झाणे एयग्गमणो भव णिरारंभी । चत्तकसायपरिग्गह पयत्तचेट्ठो असंगो य ॥ ५ ॥ अव्यवहारी एको ध्याने एकाग्रमना भवेन्निरारंभः । त्यक्तकषायपरिग्रहः प्रयत्नचेष्टः असंगश्च ॥ ५ ॥ टीका - व्यवहरतीति व्यवहारी न व्यवहार्यव्यवहारी लोकव्यवहार रहितो भवेत्तको सहाय भवेज्ज्ञानदर्शनादिकं मुक्त्वा ममान्यन्नास्तीत्येकत्वं भावयेतथा ध्याने धर्मध्याने शुक्लध्याने चैकाग्रमनास्तन्निष्ठचित्तो भवेत्तथा निरांरभ आरंभान्निर्गतः स्यात्तथां त्यक्तकषायः क्रोधमानमायांलोभादिरहितस्तथा त्यक्तपरिग्रहोऽथवा त्यक्तः कषायः परिग्रहो येनासौ त्यक्तकषायपरिग्रह्मे भवेतथा प्रयत्नचेष्टः सर्वथा प्रयत्नपरो भवेत्तथाऽसंगः संगं केनाऽपि मा कुर्या - त्सवथा संगविवर्जितो भवेदिति ॥ ५ ॥ पुनरपि मुख्यरूपेण चारित्रस्य प्राधान्यं न श्रुतस्य यतः; थो सिक्खिदे जिणइ बहुसुदं जो चरित्तसंपुण्णो । जो पुण चरितहीणो किं तस्स सुदेण बहुएण ॥ ६ ॥ स्तोके शिक्षिते जयति बहुश्रुतं यः चारित्र संपूर्णः ॥ यः पुनः चारित्रहीनः किं तस्य श्रुतेन बहुकेन ॥ ६ ॥ १- २ - ३ इमे तथा शब्दाः ख-ग-पुस्तके न संति । ४ मा कृथाः ख-ग पुस्त Page #103 -------------------------------------------------------------------------- ________________ मूलाचारे टीका-स्तोकेऽपि शिक्षिते पंचनमस्कारमात्रेऽपि परिज्ञाते तस्य स्मरण सति जयति बहुश्रुतं दशपूर्वधरमपि करोत्यधः यश्चारित्रसंपन्नो यो यथोक्तचारित्रेण युक्तः, यः पुनश्चारित्रहीनः किं तस्य श्रुतेन बहुना । यतः स्तोकमात्रेण श्रुतेन संपन्नः सन् बहुश्रुतं जयति ततश्चारित्रं प्रधानमत्र ज्ञानस्य दर्शनस्य तपसोपि यतो हेयोपादेयविवेकमन्तरेण श्रद्धानमन्तरेण च सम्यक्चारित्रं न युज्यते ततः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यनेन सह न विरोध इति ॥ ६॥ तथैव प्रतिपादयन्नाह;णिज्जावगो य णाणं वादो झाणं चरित्त णावा हि । भवसागरं तु भविया तरंति तिहिसण्णिपायेण ॥ ७ ॥ निर्जीवकश्च ज्ञानं वातः ध्यानं चारित्रं नौर्हि । भवसागरं तु भव्याः तरंति त्रिसन्निपातेन ॥ ७॥ टीका-नौचारित्रयो रूपकालंकारमाह संसारसमुद्रतरणे-ननु समुद्रतरणे पोतेन भवितव्यं निर्जीवकेन वातेन च तत्कथमत्रेत्याशंकायामाह;-निर्जीवको यः पोते सर्वमुपसर्गजातं पश्यति स निर्जीवको ज्ञानं, वातो ध्यानं, चारित्रं नौः पोतः, भवः संसारः सागरः समुद्रो जलधिः, तु एवकारार्थः । भव्या रत्नत्रयोपेतमनुजास्तरंति समतिकामंति त्रिसंनिपातन त्रयाणां संयोगेन । यथा निर्जीवकवातनौसंयोगेन वणिजः समुद्रं तरंति एवं ज्ञानध्यानचारित्रसंयोगेन संसारं तरंत्येव भव्या इति ॥ ७॥ किमिति कृत्वा त्रयाणां संयोगे मोक्ष इत्याशंकायामाह;णाणं पयासओ तओ सोधओ संजमो य गत्तियरो। तिण्हं पिय संपजोगे होदि हु जिणसासणे मोक्खो॥८॥ १ सहाविरोध इति ख-ग। Page #104 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । ९९ ज्ञानं प्रकाशकं तपः शोधकं संयमश्च गुप्तिकरः । त्रयाणामपि च संयोगे भवति हि जिनशासने मोक्षः ॥ ८ ॥ टीका – यतो ज्ञानं प्रकाशकं द्रव्यस्वरूपप्रदर्शकं हेयोपादेयविवेककारणं, तपः शोधकं शोधयति कर्माणीति शोधकं सर्वकर्मणामपायकारणमात्रं, तपःशब्देन ध्यानं परिगृह्यते तस्य प्रस्तुतत्वादथवा सर्वस्य वा ग्रहणं तन्मध्यपतितत्वात् ध्यानस्य, संयमश्च गुप्तिकरः इन्द्रियनिग्रहो जीवदया च कर्मागमप्रतिबंधकारणमतो ज्ञानेन प्रकाशिते संयमः परिहारो युक्तः परिहारे च ध्यानं निर्विघ्नतया प्रवर्त्ततेऽतस्त्रयाणामपि संयोगे भवति स्फुटं जिनशासने मोक्षो न पूर्वेण विरोधो द्रव्यार्थिकनयाश्रयणादिति ॥ ८ ॥ यदि पुनरेतै रहितानि ज्ञानलिंगतपांसि करोति तदा किं स्यात्;णाणं करणविहीणं लिंगग्गहणं च संजमविहूणं । दंसणरहिदो य तवो जो कुणइ णिरत्थयं कुणइ ॥ ९ ॥ ज्ञानं करणविहीनं लिंगग्रहणं च संयमविहीनं । दर्शनरहितं च तपः यः करोति निरर्थकं करोति ॥ ९ ॥ टीका - ज्ञानं करणविहीनं करणशब्देनात्र षडावश्यकादिक्रिया चारित्रं परिगृह्यते, लिंगं जिनरूपमचेलकत्वादियुक्तता लिंगस्य ग्रहणमुपादानं तत्संयमविहीनं संयमेन विना, दर्शनं सम्यक्त्वं तेन रहितं च तपो यः करोति स पुरुषः कर्मनिर्जरारहितं निरर्थकं करोति । ज्ञानं चारित्रविमुक्तं लिंगोपादानं चेन्द्रियजयरहितं दयारहितं च यः करोति सोऽपि न किंचित्करोतीति तस्मात्सम्यग्दर्शनज्ञानचारित्रयुक्तान्येवेति ॥ ९ ॥ सम्यग्ज्ञानादियुक्तस्य तपसो ध्यानस्य च माहात्म्यमाह; - तवेण धीरा विधुणंति पावं अज्झप्पजोगेण खवंति मोह | संखीणमोहा धुदरागदोसा ते उत्तमा सिद्धिगदिं पयंति Page #105 -------------------------------------------------------------------------- ________________ मूलाचारे wwwwwwwwwwwwwwwwwwwwwww www तपसा धीरा विधुन्वति पापं अध्यात्मयोगेन क्षपयंति मोहं । संक्षीणमोहा धुतरागद्वेषाः ते उत्तमाः सिद्धिगति प्रयांति॥१०॥ टीका-ततो ज्ञानादियुक्तेन तपसा धीराः सर्वसत्त्वसंपन्ना विधुन्वति विनाशयंति पापं चारित्रमोहं कर्माण्यप्यशुभानि, अध्यात्मयोगेन परमध्यानेन क्षपयंति प्रलयं नयंति मोहं मिथ्यात्वादिकं ततः क्षीणमोहा धुतरागद्वेषा विनष्टज्ञानावरणदर्शनावरणान्तराया निर्मूलिताशेषकर्माणश्च, ते संतस्ते साधव उत्तमाः सर्वप्रकृष्टगुणशीलोपेताः सिद्धिं गतिमनंतचतुष्टयं प्रयांति प्राप्नुवंति लोकाग्रमिति ॥ १०॥ पुनरपि ध्यानस्य माहाम्यमाह;लेस्साझाणतवण य चरियविसेसेण सुग्गई होइ । तह्मा इदराभावे झाणं संभावए धीरो ॥ ११ ॥ 'लेश्याध्यानतपोभिश्च चर्याविशेषेण सुगतिर्भवति । तस्मादितराभावे ध्यानं संभावयेद्धीरः ॥ ११ ॥ टीका-विशेषशब्दः प्रत्येकमभिसंबध्यते। लेश्याविशेषेण तेजः पद्मशुक्ललेश्याभिः, ध्यानविशेषेण धर्मध्यानशुक्लध्यानाभ्यां,तपोविशेषेण चारित्रानुकूलका यक्लेशादिभिः,चारित्रविशेषेणचसामायिकशुद्धिपरिहारच्छेदोपस्थापनसूक्ष्मसाम्प राययथाख्यातचारित्रैः सुगतिर्भवति शोभना गतिः शुद्धदेवगतिः सिद्धगतिर्मनुष्यगतिश्च दर्शनादियोग्या । यद्यपि विशेषशब्दश्चारित्रेण सह संगतस्तथापि सर्वैः सह संबध्यत इत्यर्थविशेषदर्शनादथवा न चारित्रेण संबंधः समासकरणाभावात्तस्मात्सर्वैः सह संबंधः करणीयः, मध्ये च विभक्तिश्रवणं यत्तत्प्राकृतबलेन कृतं न तत्तत्र । अथवा सुगतिर्मोक्षगतिरेवाभिसंबध्यते यत एवं तस्मादितरेषामभावेऽपि लेश्यातपश्चारित्राणामभावेऽपि ध्यानं संभावयेद्धीरः सम्यग्ध्यानं प्रयोजयेद्यतः सर्वाण्येतानि ध्यानेऽन्तर्भूतानि । सर्वैर्यद्यपि सुगतिर्भवति तथापि ध्यानं प्रधानं यतः सम्यग्दर्शनाविनाभावि ॥ ११ ॥ Page #106 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । १०१ सम्यग्दर्शनस्य माहात्म्यमाह;सम्मत्तादो णाणं णाणादो सव्वभावउवलद्धी । उवलद्वपयत्थो पुण सेयासेयं वियाणादि ॥ १२ ॥ सम्यक्त्वात् ज्ञानं ज्ञानात् सर्वभावोपलब्धः । उपलब्धपदार्थः पुनः श्रेयः अश्रेयः विजानाति ॥ १२ ॥ टीका - सम्यक्त्वाज्जिनवचनरुचेर्ज्ञानं स्यात्सम्यक्त्वेन ज्ञानस्य शुद्धिर्यतः क्रियतेऽतः सम्यग्ज्ञानं सम्यक्त्वाद्भवति, सम्यग्ज्ञानाच्च सर्वभावोपलब्धिर्भवति यतः सर्वेषां द्रव्याणां पदार्थानामस्तिकायानां सभेदानां सपर्यायाणां च सम्यग्ज्ञानेन परिच्छित्तिः क्रियते । दर्शनस्य विषयो विविक्तो न भवति ज्ञानात् कथं तर्हि तत्पूर्वकं ज्ञानं नैष दोषो विपरीतानध्यवसायाकिंचित्करत्वादीनि स्वरूपाणि ज्ञानस्य सम्यक्त्वेनापनीयंत इति । उपलब्धपदार्थश्व पुनः श्रेयः पुण्यं कर्मापायकारणं चाश्रेयः पापं कर्मबंधकारणं च विजानाति सम्यगवबुध्यत इति ॥ १२ ॥ तथा; सेयासेयविदण्डू उददुस्सील सीलवं होदि । सीलफलेणब्भुदयं तत्तो पुण लहदि णिव्वाणं ॥ १३ ॥ श्रेयश्रेयोवित् उद्धृतदुःशीलः शीलवान् भवति । शीलफलेनाभ्युदयं ततः पुनः लभते निर्वाणं ॥ १३ ॥ टीका - ततः श्रेयसोऽश्रेयसश्च वित् वेत्ता श्रेयोऽश्रेयोवित्सन् उद्धृतदुःशीलः सन् शीलवानष्टादशशीलसहस्राधारः स्यात्ततः शीलफलेनाभ्युदयः संपूर्ण चारित्रं अथवोद्धतदुःशीलो निवृत्तपापक्रियः स्यात्ततश्चारित्रसमन्वितः स्यात्तच्च शीलं तस्माच्चाभ्युदयः स्वर्गादिसुखाद्यनुभवनं ततश्च लभते पुनर्निणं सर्वकर्मापायोत्पन्नसुखानुभवनमिति ततः सर्वेण पूर्वग्रंथेन चारित्रस्य माहात्म्यं दत्तं ॥ १३ ॥ Page #107 -------------------------------------------------------------------------- ________________ मूलाचारे यतश्च सम्यक्चारित्रात्सुगतिस्ततः;सव्वं पि हु सुदणाणं सुट्ट सुगुणिदं पि सुट्ट पढिदं पि । समणं भट्ठचरित्तं ण हु सक्को सुग्गइं णेदुं ॥ १४ ॥ सर्वमपि हि श्रुतज्ञानं सुष्टु सुगुणितमपि सुष्टु पठितमपि । श्रमणं भ्रष्टचारित्रं न हि शक्नोति सुगति नेतुं ॥ १४॥ टीका-चारित्रस्य प्राधान्यं यतः सर्वमपि श्रुतज्ञानं सुष्टु कालादिशुद्ध्या शोभनविधानेन परिणामशुद्ध्या गुणितं परिवर्तितं सुष्टु पठितं च शोभनविधानेन श्रुतं व्याख्यातमवधारितं च सत्, श्रमणं यतिं भ्रष्टचारित्रं चारित्रहीनं नैव खलु स्फुटं शक्तं समर्थ सुगतिं नेतुं प्रापयितुमथवा न शक्नोति परमगति नेतुमित्यतश्चारित्रं प्रधानमिति ॥ १४ ॥ इममेवा) दृष्टांतेन पोषयन्नाह;जदि पडदि दीवहत्थो अवडे किं कुणदि तस्स सो दीवो। जदि सिक्खिऊण अणयं करेदि किं तस्स सिक्खफलं॥१५ यदि पतति दीपहस्तः अवटे किं करोति तस्य स दीपः। यदि शिक्षित्वा अनयं करोति किं तस्य शिक्षाफलं ॥१५॥ टीका-ननु शिक्षाफलेन भवितव्यमित्याशंकायामाह;--यदि प्रदीपहस्तोऽप्यवटे कूपे पतति ततः किं करोति तस्यासौ प्रदीपः । प्रदीपो हि गृह्यते चक्षुरिन्द्रियसहकारित्वेन हेयोपादेयनिरूपणाय च तद्यदि न कुर्यात्तर्हि तद्ग्रहणे न किंचित्प्रयोजनं एवं यदि श्रुतज्ञानं शिक्षित्वा सम्यगवधार्यानयं चारित्रभंगं करोति किं तस्य शिक्षाफलं यावता हि न किंचित् । श्रुतावधारणस्यैतत्फलं चारित्रानुष्ठानं तद्यदि न भवेच्छूतमप्यश्रुतकल्पमर्थक्रियाऽभावादिति ॥ १५॥ Page #108 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। एवं चारित्रस्य प्राधान्यमुपन्यस्य शुद्धिकारणमाह;पिंड सेज्ज उवधि उग्गम उप्पायणेसणादीहि। . चारित्तरक्खणटुं सोधणयं होदि सुचरितं ॥ १६ ॥ पिंडं शय्यां उपधिं उद्गमोत्पादनैषणादिभ्यः । चारित्ररक्षणार्थ शोधयन् भवति सुचरित्रं ॥ १६ ॥ टीका–पिंडं भिक्षा, शय्यां वसत्यादिकं, उपधिं ज्ञानोपकरणं शौचोपकरणं चेति उद्गमोत्पादनैषणादिभ्यो दोषेभ्यः शोधयश्चारित्ररक्षणार्थं सुचरित्रो भवति । अथवा चारित्ररक्षणार्थ पिंडमुपधि शय्यां च शोधयतः सुचरित्रं भवति शुद्धिश्च तेषामुद्गमोत्पादनैषणादोषाणामभाव इति । अथवा पिंडादीनामुद्गमादिदोषेभ्यो शोधनं यच्चारित्ररक्षणार्थ तत्सुचरित्रं भवतीति ॥ १६ ॥ येन लिंगेन तच्चारित्रमनुष्ठीयते तस्य लिंगस्य भेदं स्वरूपं चनिरूपयन्नाह;अचेलक्कं लोचो वोसट्टसरीरदा य पडिलिहणं । एसो हु लिंगकप्पो चदुविधो होदि णायव्वो ॥ १७ ॥ अचेलकत्वं लोचो व्युत्सृष्टशरीरता च प्रतिलेखनं । एष हि लिंगकल्पः चतुर्विधो भवति ज्ञातव्यः ॥ १७ ॥ टीका-अचेलकत्त्वं चेलशब्देन सर्वोऽपि वस्त्रादिपरिग्रह उच्यते, यथा तालशब्देन सर्वोऽपि वनस्पतिः, तालफलं न भक्ष्य इत्युक्ते सर्व वनस्पतिफलं न भक्षयिष्यामीति ज्ञायते, एवं चेलपरिहारेण सर्वस्य परिग्रहस्य परिहारः, न चेलकत्त्वमचेलकत्त्वं सर्वपरिग्रहपरिहरणापायः, एतदप्यचेलकत्त्वमुपलक्षणपरं तेनाचेलकत्वौद्देशिकादयः सर्वेऽपि गृह्यन्त इति । लोचः स्वहस्तपरहस्तैर्मस्तककूर्चगतकेशापनयनं । व्युत्सृष्टशरीरता च स्नानाभ्यंगनांजनपरिमर्दनादि १ " चारित्ररक्षणार्थ शोधयतो भवति सुचरित्रं” “चारित्ररक्षणार्थ शोधनं यद्भवति सुचारित्रमित्येतद्दयमपि संस्कृतं भवितुमर्हति” । -संपादक । Page #109 -------------------------------------------------------------------------- ________________ १०४ मूलाचारे संस्काराभावः । प्रतिलेखनं मयूरपिच्छग्रहणं । अचेलंकत्त्वं नैःसंग्यचिह्नं, सद्भावनायाश्चिद्धं लोचः व्युत्सृष्टदेहत्वमपरागतायाश्विनं, दयाप्रतिपालनस्य लिंगं मयूर पिच्छिकाग्रहणमिति, एष एवं लिंगकल्पो लिंगविकल्पश्चतुर्विधो भवति ज्ञातव्यश्चारित्रोपकारकत्वादिति ॥ १७ ॥ अथ के तेऽचेलकत्वादय इत्याशंकायामाह ; - अचेलकुद्देसियसेज्जाहररायपिंड किदियम्मं । वद जेट्ठ पडिक्कमणं मासं पज्जो समणकप्पो ॥ १८ ॥ अचेलकत्वौद्देशिकं शय्यागृहराजपिंडः कृतिकर्म । व्रतं ज्येष्ठः प्रतिक्रमणं मासः पर्या श्रमणकल्पः ॥ १८ ॥ यथा टीका - अचेलकत्त्वं वस्त्राद्यभावः, अत्र यो नञ् स उत्तरत्राभिसंबंधनीयः, चेलकस्याभावस्तथौद्दोशकस्याभावस्तथा शय्यागृहस्याभावस्तथा राजपिंडस्याभावः । उद्दिश्य न भुंक्ते, उद्देशे भवस्य दोषस्य परिहारोऽनौशिको मदीयायां वसतिकायां यस्तिष्ठति तस्य दानादिकं ददामि नान्यस्येत्येवमभिप्रेतस्य दानस्य परिहारः, शय्यागृहपरिहारो मठगृहमपि शय्यागृहमित्युच्यते तस्यापि परिहारः, राजपिंडस्य परित्यागो वृष्यान्नस्येन्द्रियप्रवर्धनकारिण आहारस्य परित्यागोऽथवा स्वार्थ दानशालाया ग्रहणं यत्तस्य परित्यागः, कृतिकर्म स्वेन वंदनादिकरणे उद्योगः, व्रतान्यहिंसादीनि तैरात्मभावनं तैः सह संयोगः संवासस्तद्व्रतं, ज्येष्ठो ज्येष्ठत्वं मिथ्यादृष्टिसासादन सम्यङ्मिथ्यादृष्ट्या - संयतसम्यग्दृष्टिसंयतासंयतानां ज्येष्ठः सर्वेषां पूज्यो बहुकालप्रवजिताया अप्यार्थिकाया अय प्रव्रजितोऽपि महाँस्तथेन्द्रचक्रधरादीनामपि महान् यतोऽतो ज्येष्ठ इति, प्रतिक्रमणं सप्तप्रतिक्रमणैरात्मभावनं दैवसिकादिप्रतिक्रमणानुछाने; मासोः योगग्रहणात्प्राङ्मासमात्रमवस्थानं कृत्वा वर्षाकाले योगो ग्राह्यस्तथा योगं समाप्य मासमात्रमवस्थानं कर्त्तव्यं । लोकस्थितिज्ञापनार्थमहिंसादि१ त्यागः इत्येव ग-पुस्तके । २ समापयित्वा ख-ग-पुस्तके | Page #110 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। . १०५ व्रतपरिपालनार्थं च योगात्प्राङ्मासमात्रावस्थानस्य (म) पश्चाच्च मासमात्रावस्थानं श्रावकलोकादिसंक्लेशपरिहरणायाथवा ऋतौऋतौमासमासमात्रस्थातव्यं मासमात्रं च विहरणं कर्त्तव्यमिति मासः श्रमणकल्पोऽथवा वर्षाकाले योगग्रहणं चतुर्षु चतुर्पु मासेषु नंदीश्वरकरणं च मासश्रमणकल्पः । पज्जो-पर्या पर्युपासनं निषधकायाः पंचकल्याणस्थानानां च सेवनं पर्येत्त्युच्यते, श्रमणस्य श्रामण्यस्य वा कल्पो विकल्पः श्रमणकल्पः । अनेन प्रकारेण दशप्रकारः श्रमणकल्पो वेदितव्य इति ॥ १८॥ - लोचो मूलगुणे व्याख्यातस्तथा व्युत्सृष्टशरीरत्वं चास्नानमूलगुणे व्याख्यातमतो न तयोरिह प्रपंचस्ततः प्रतिलेखनस्वरूपमाह;-- रजसेदाणमगहणं मद्दव सुकुमालदा लहुत्तं च । जत्थेदे पंचगुणा तं पडिलिहणं पसंसति ॥ १९ ॥ रजःस्वेदयोरग्रहणं मार्दवं सुकुमारता लघुत्वं च । यत्रैते पंचगुणास्तं प्रतिलेखनं प्रशंसंति ॥ १९ ॥ टीका-रज स्वेदयोर्यत्राग्रहणं रजसा पांस्वादिना प्रस्वेदेन च यन्मलिनं न भवति । रजसोऽग्रहणमेको गुणः स्वेदस्य चाग्रहणं द्वितीयो गुणः, मार्दवं मृदुत्वं चक्षुषि प्रक्षिप्तमपि न व्यथयति यतः स तृतीयो गुणः, सुकुमारता सौकुमार्य दर्शनीयरूपं चतुर्थो गुणः, लघुत्त्वं च गुरुत्वस्याभावः प्रमापास्थानमुत्क्षेपणाँदौ योग्यता पंचमो गुणः, यत्रैते पंचगुणा द्रव्ये संति तत्प्रतिलेखनं मयूरपिच्छग्रहणं प्रशंसंत्यभ्युपगच्छन्त्याचार्या गणधरदेवादय इति ॥ १९ ॥ १ पंचकल्याणानां ग। स्थानानां पदं नास्ति तत्र । २ 'अतो, इति ख-गपुस्तके नास्ति । ३ उत्क्षेपणावक्षेपणादौ ग-पुस्तके । Page #111 -------------------------------------------------------------------------- ________________ १०६ मूलाचारे :www ननु चक्षुषैव प्रमार्जनं क्रियते किमर्थ प्रतिलेखनधारणं, नैष दोषो न हि चक्षुः सर्वत्र प्रवर्त्तते यतः;मुहमा हु संति पाणा दुप्पेक्खा अक्खिणो अगेज्झा हु । तह्मा जीवदयाए पडिलिहणं धारए भिक्खू ॥२०॥ सूक्ष्मा हि संति प्राणा दुष्प्रेक्ष्या अक्षणा अग्राह्या हि । तस्मात् जीवदयायै प्रतिलेखनं धारयेत् भिक्षुः ॥ २० ॥ टीका-सूक्ष्माः सुष्ठु क्षुद्राः, हु-स्फुटं, संति विद्यन्ते, प्राणा द्वीन्द्रियादय एकेन्द्रियाश्च, दुःप्रेक्ष्या दुःखेन दृश्या मांसचक्षुषा चाग्राह्या मांसमयेक्षणेन ग्रहीतुं न शक्या यत एवं तस्मात्तेषां जीवानां दयानिमित्तं प्राणसंयमप्रतिपालनार्थ प्रतिलेखनं धारयेन्मयूरपिच्छिंकां गृह्णीयाद्भिक्षुः साधुरिति ॥२०॥ प्रतिलेखनमन्तरेण न साधुः;उच्चारं पस्सवणं णिसि सुत्तो उढिदो हु काऊण । अप्पडिलिहिय सुवंतो जीववहं कुणदि णियदं तु ॥२१॥ उच्चारं प्रस्रवणं निशि सुप्त उत्थितो हि कृत्वा । अप्रतिलेख्य स्वपन जीववधं करोति नियतं तु ॥ २१ ॥ टीका-उच्चारं पुरीपोत्सर्ग प्रस्रवणं मूत्रश्लेष्मादिकं च कृत्वा निशि रात्रौ प्रसुप्तो निद्राक्रान्त उत्थितश्चेतयमानोऽपि चक्षुषोऽप्रसरेऽप्रतिलेख्य प्रतिलेखनमंतरेण पुनः स्वपन् गच्छन्नुद्वर्तनपरावर्तनानि च कुर्वन् जीववधं जीवानां वधं जीवघातनं परितापनादिकं च नियतं निश्चितं निश्चयेन करोति । निशि सुप्तः पुनरुत्थित उच्चारं प्रस्रवणं च कृत्वा पुनः स्वपन प्रतिलेखनमंतरेण निश्चयेन जीवविघातादिकं च कुर्यादिति ॥ २१ ॥ १ सयूरपिच्छं ख-ग-पुस्तके । Page #112 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १०७ ननु प्रतिलेखनेनाऽपि जीवानां पीडा भवतीति ततः किमुच्यते प्रतिलेखनधारणमित्याशंक्य प्रतिलेखनस्य कस्यापि सौकुमार्यमाह;ण य होदि णयणपीडा अच्छि पिभमाडिदे द पडिलेहे। तो सुहुमादी लहुओ पडिलेहो होदि कायवो ॥ २२॥ न च भवति नयनपीडा अक्षिण अपि भ्रामिते तु प्रतिलेखे । . ततः सूक्ष्मादिः लघुः प्रतिलेखो भवति कर्तव्यः ॥ २२॥ टीका-न च भवति नयनपीड़ा चक्षुषो व्यथा अक्षिण नयनेऽपि भ्रामिते प्रवेशिते प्रतिलेखे मयूरपिच्छे यतस्ततः सूक्ष्मत्वादियुक्तो लघुप्रमाणस्थः प्रति-- लेखो भवति कर्त्तव्यो जीवदयानिमित्तमिति ॥ २२॥ ___ प्रतिलेखनास्थानान्याह;ठाणे चंकमणादाणे णिक्खेवे सयणआसण पयत्ते । पडिलेहणेण पडिलेहिज्जइ लिंगं च होइ सपक्खे ॥२३॥ स्थाने चंक्रमणे आदाने निक्षेपे शयनासने प्रयत्नेन । प्रतिलेखनेन प्रतिलिख्यते लिंगं च भवति स्वपक्षे ॥ २३ ॥ टीका-स्थाने कायोत्सर्गे चंक्रमणे गमने आदाने कुंडिकादिग्रहणे निक्षेपे पुस्तकादीनां निक्षेपणे शयने आसने उद्वर्त्तनपरावर्त्तनादौ संस्तरग्रहणे भुक्तोच्छिष्टप्रमार्जने च यत्नेन प्रतिलेखनेन प्रतिलिख्यते प्रमापते जीवानां रक्षा क्रियते यतो लिंगं च चित्रं च स्वपक्षे भवति यतोऽयं वाताधिको न भवति संयतोऽयमिति लिंगं भवति तत: प्रतिलेखनधारणं साधूक्तं युक्त्यागमाँविरोधि चेति । न च प्राणिघातयोगात्तेषामुत्पत्तिः कार्त्तिकमासे स्वत एव पतनात्, यथाहारस्य शुद्धिः क्रियते एवमुपकरणादिकस्यापि कार्येति ॥२३॥ १ कस्येति शब्दो ग-पुस्तके नास्ति । २ पिंछे ख-ग-पुस्तके । ३ उद्वर्तनपरावर्तने ख-ग-पुस्तके । ४ माविरोधाच्चेति ख-ग-पुस्तके । Page #113 -------------------------------------------------------------------------- ________________ मूलाचारे...mmmwwwmmmmmmmmmm अनेन लिंगेन युक्तस्याचरणफलमाह;- - पोसह उवहीपक्खे तह साहू जो करेदि णावाए। णावाए कल्लाणं चादुम्मासेण णियमेण ॥ २४ ॥ प्रौषधं उभयपक्षयोस्तथा. साधुः यः करोति नापाये। नयते कल्याणं चातुर्मासेन नियमेन ॥ २४ ॥ टीका-अनेन लिंगेन युक्तः सन् साधुर्यः करोति प्रोषधमुपवासमुभयपक्षयोः कृष्णचतुर्दश्यां शुक्लचतुर्दश्यां च, णावाए-नापाये तयोरविनाशे सति, णावाए-नयते प्राप्नोति, कल्लाणं-कल्याणं परमसुखं, चातुर्मासेन चातुमासिकप्रतिक्रमणेन, नियमेन सांवत्सरिकप्रतिक्रमणेन च सह, नियमेन निश्चयेन वा । चातुमासिकोपवासेन सांवत्सरिकोपवासेन च सह यः साधुः कृष्णचतुर्दश्यां शुक्लचतुर्दश्यां चोपवासं करोति निरन्तरममुंचन् स प्राप्नोति कल्याणं निश्चयेन । अथवा कृष्णपक्षे शुक्लपक्षे चोपवासं यः करोति साधुरपायमंतरेण स साधुश्चातुर्मासिकेन नियमेन कल्याणं प्रायश्चित्तं तथापि प्राप्नोत्यथवा न प्रामोतीति संबंध इति ॥ २४ ॥ एवं पिंडादिकं शोधयतः सुचरित्रं भवति, यः पुनर्न शोधयेत्तस्य फलमाह;पिंडोवधिसेज्जाओ अविसोधिय जो य भुंजदे समणो। मूलहाणं पत्तो भुवणेसु हवे समणपोल्लो॥२५॥ . पिंडोपधिशय्या अविशोध्य यश्च भुक्ते श्रमणः । मूलस्थानं प्राप्तः भुवनेषु भवेत् श्रामण्यतुच्छः ॥ २५ ॥ टीका-पिंडमुपधिं शय्यां चाहारोपकरणावासादिकमावशोध्य च शुद्धिमकृत्वा यो भुंक्ते सेवते श्रमणः स मूलस्थानं प्राप्तो गृहस्थः संजातः भुवने लोकमध्ये चासौ श्रामण्यतुच्छो यतित्वहीनो भवेदिति ॥ २५ ॥ Page #114 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । तथा; तस्स ण सुज्झइ चरियं तवसंजमणिञ्चकालपरिहीणं । आवासयं ण सुज्झइ चिरपव्वइयो वि जइ होइ ॥ २६ ॥ तस्य न शुध्यति चारित्रं तपःसंयमनित्यकालपरिहीनं । आवश्यकं न शुध्यति चिरप्रव्रजितोपि यदि भवति ॥ २६ ॥ १०९ टीका - पिंडादिशुद्धिमन्तरेण यस्तपः करोति तस्य न शुद्ध्यति चारित्रं तपःसंयमाभ्यां नित्यकालं परिहीणो यत आवश्यकक्रिया न तस्य शुद्वा । यद्यपि चिरप्रव्रजितो भवति तथापि किं तस्य चारित्रादिकं भवति यदि पिंडादिशुद्धिं न कुर्यादिति ॥ २६ ॥ पुनरपि चारित्रस्य प्राधान्यमाह; मूलं छित्ता समणो जो गिण्हादी य बाहिरं जोगं । बाहिरजोगा सव्वे मूलविहूणस्स किं करिस्संति ॥२७॥ मूलं छित्त्वा श्रमणो यो गृह्णाति च बाह्यं योगं । बाह्ययोगा सर्वे मूलविहीनस्य किं करिष्यति ॥ २७ ॥ टीका - मूलगुणानहिंसादिवतानि छित्वा विनाश्य श्रमणः साधुर्यो गृह्णाति च बाह्यं योगं वृक्षमूलादिकं तस्य साधोर्बाह्या योगाः सर्वे मूलविहीनस्य मूलगुणरहितस्य किं करिष्यंति यावता हि न किंचिदपि कुर्वन्ति नापि कर्मक्षयं करिष्यन्तीति ॥ २७ ॥ -- तावदहिंसादिव्रतं विनाश्य यः करोत्युत्तरगुणं तस्य दोषमाह;हंतूण य बहुपाणं अप्पाणं जो करेदि सप्पाणं । अप्पासुअसुहकंखी मोक्खंकखी ण सो समणो ॥ २८ ॥ हत्त्वा बहुप्राणं आत्मानं यः करोति सप्राणम् । अप्रासुकसुखकांक्षी मोक्षकांक्षी न स श्रमणः ॥ २८ ॥ Page #115 -------------------------------------------------------------------------- ________________ ११० मूलाचारे टीका-बहुप्राणान् हत्वा बहून् जीवान् त्रसस्थावरादीन् हत्त्वाऽधःकर्मादिभिरात्मानं यः करोति सप्राणं सावद्याहारं भुक्त्वाऽऽत्मनो बलोपचयं यः कुर्यात्सः साधुरप्रासुकसुखकांक्षी येन सुखेन नरकादीन भ्रमति तदीहतेऽसौ मोक्षकांक्षी नासौ श्रमणः-सर्वकर्मक्षयविमुक्तिं नेच्छतीति ॥ २८ ॥ दृष्टान्तेन दोषमाह;एक्को वावि तयो वा सीहो वग्यो मयो व खादिज्जो। जदि खादेज स णीचो जीवयरासिं णिहंतूण ॥ २९ ॥ एकं वापि त्रीन् वा सिंहो व्याघ्रो मृगं वा खादयेत् । यदि खादयेत् स नीचो जीवराशिं निहत्य ॥ २९ ॥ टीका-एक्को वावि-एकं वाऽपि मृगं शशकं वा, तयो वा-त्रीन वा, द्वौ चतुरो वा मृगान् सिंहो मृगारिर्व्याघ्रः शार्दूलो वासमुच्चयार्थः तेनान्योऽपि गृह्यते शरभादिः । स्वादिज-खादयेत् यदि भक्षयेत् स नीचोऽधमः पापिष्ठो जीवरााशें निहत्य । यदि एक द्वौ त्रीन् वा जीवान् सिंहो व्याघ्रो वा खादयेत् स नीच इत्युच्यते यः पुनरधःकर्मणो. जीवराशिं निहत्य खादयेत् स कथं न नीचः किन्तु नीच एवेति भावार्थः ॥ २९ ॥ येन प्राणिवधः कृतस्तेनात्मवधः कृत इति प्रतिपादयन्नाह;आरंभे पाणिवहो पाणिवहे होदि अप्पणो हु वहो । अप्पा ण हु हंतव्यो पाणिवहो तेण मोत्तव्वो ॥ ३० ॥ आरंभे प्राणिवधः प्राणिवधे भवति आत्मनो हि वधः । आत्मा न हि हंतव्यः प्राणिवधस्तेन मोक्तव्यः ॥ ३० ॥ १ 'यदि, शब्दो ग-पुस्तके नास्ति। २ खादेज-खादेयत् भक्षयेत् यदि खादयेत् इति-ख-पुस्तके। . Page #116 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १११ MAAAAAAAAAAAAAAAAAAAAAAAA टीका-आरंभे पचनादिकर्मणि सति प्राणिवधः स्यात्प्राणिवधश्च भवत्यात्मवधः स्फुटं नरकतिर्यग्गतिदुःखानुभवनं, आत्मा च न हंतव्यो यतोऽतः प्राणिवधस्तेन मोक्तव्यस्त्याज्य इति ॥ ३० ॥ पुनरप्यधःकर्मणि दोषमाहोत्तरेण ग्रंथप्रबंधेन;जो ठाणमोणवीरासणेहिं अत्थदि चउत्थछटेहिं । भुंजदि आधाकम्मं सव्वे वि णिरत्थया जोगा ॥ ३१ ॥ यः स्थानमौनवीरासनैः आस्ते चतुर्थषष्ठभिः । भुंक्ते अधःकर्म सर्वे अपि निरर्थका योगाः ॥ ३१॥ टीका-यः पुनः स्थानमौनवीरासनैश्चतुर्थषष्ठादिभिश्चास्ते अधःकर्मपरिणतं च भुंक्ते तस्य सर्वेऽपि निरर्थका योगा उत्तरगुणा इति ॥ ३१॥ तथा;-- किं काहदि वणवासो सुण्णागारो य रुक्खमूलो वा । भुंजदि आधाकम्मं सव्वे विणिरत्थया जोगा ॥ ३२ ॥ किं करिष्याति वनवासः शून्यागारश्च वृक्षमूलो वा। भुक्ते अधःकर्म सर्वेपि निरर्थका योगाः ॥३२॥ टीका-किं करिष्यति तस्य वनवासः किं वा शून्यागारवासो वृक्षमूलवासो वा भुक्ते चेदधःकर्म तत्र सर्वेऽपि निरर्थका योगा इति ॥ ३२ ॥ __ तथा;किं तस्स ठाणमोणं किं काहदि अब्भोवगासमादावो । मत्तिविहूणोसमणो सिज्झदिण हु सिद्धिकंखो वि॥३३॥ १ 'तत्र' शब्दो नास्ति ख-ग-पुस्तके। Page #117 -------------------------------------------------------------------------- ________________ ११२ मूलाचारे wwwwwws किं तस्य स्थानं मौनं किं करिष्यति अभ्रावकाशमातापः । मैत्रीविहीनः श्रमणः सिध्यति न हि सिद्धिकांक्षोपि ॥ ३३ ॥ टीका-किं तस्य स्थानं कायोत्सर्गः मौनं वा किं तस्य करिष्यति अभ्रावकाश आतापो वा यो मैत्रीभावरहितः श्रमणः सिद्धिकांक्षोऽपि नैव स्फुटं सिध्यतीति ॥ ३३ ॥ तथा;-- जह वोसरित्तु कत्तिं विसं ण वोसरदि दारुणो सप्पो। तह को वि मंदसमणो पंच दु सूणा ण वोसरदि ॥३४॥ यथा व्युत्सृज्य कृत्तिं विषं न व्युत्सृजति दारुणः सर्पः। तथा कोपि मंदश्रमणः पंच तु शूना न व्युत्सृजति ॥ ३४॥ टीका-यथा सर्पो रौद्रः कृत्तिं कंचुकं व्युत्सृज्य विषं न त्यजति तथा कश्चिन्मंदः श्रमणः चारित्रालसः पंचशूना न व्युत्सृजति भोजनादिलोभेनेति ॥ ३४ ॥ कास्ताः पंचशूना इत्याशंकायामाह;- । कंडणी पीसणी चुल्ली उदकुंभं पमज्जणी। बीहेदव्वं णिचं ताहिं जीवरासी से मरदि ॥ ३५ ॥ कंडनी पेषणी चुल्ली उदकुंभं प्रमार्जनी। भेतव्यं नित्यं ताभ्यः जीवराशिः ताभ्यो म्रियते ॥ ३५॥ टीका-यवादयः कंड्यंतेऽनया कंडनी उदूखलः, पिष्यंते यवादयोऽनया पेषणी यंत्रकं, चुल्ली अग्न्याधिकरणं, उदकुंभ: वृहदालेंजरादिकं, प्रमायतेऽनया प्रमार्जिनी अपस्करनिराकरिणी । एताभ्यो भेतव्यं नित्यं जीवराशिर्यतस्ताभ्यो म्रियते ॥ ३५॥ Page #118 -------------------------------------------------------------------------- ________________ समयसारााधेकारः। पुनरपि विशेषतोऽधःकर्मणि दोषमाह;जो भुंजदि आधाकम्मं छज्जीवाण घायणं किच्चा । अबुहोलोल सजिब्भोण विसमणो सावओ होज्ज॥३६॥ यो भुक्ते अधःकर्म षट्जीवानां घातनं कृत्वा । अबुधो लोलः सजिह्वः नापि श्रमणः श्रावकः भवेत् ॥ २६ ॥ टीका-यो भुक्तेऽधःकर्म षड्जीवानां घातनं कृत्वा अबुधोऽसौ लोलो लंपटः सजिह्वो जिह्वावशं गतः नापि श्रमणः किं तु श्रावकः स्यात् । अथवा न श्रमणो नापि श्रावकः स्यात् उभयधर्मरहितत्वादिति ॥ ३६ ॥ तथा;पयणं व पायणं वा अणुमणचित्तो ण तत्थ बीहेदि। जेमंतो वि सघादी ण वि समणो दिट्ठिसंपण्णो ॥३७॥ पचने वा पाचने वा अनुमनचित्तो न तत्र बिभेति। जेमन्नपि स्वघाती नापि श्रमणः दृष्टिसंपन्नः ॥ ३७॥ टीका-पचने वा पाचने वाऽनुमननचित्तः कंडन्यायुपकरणेनाधःकर्मणि प्रवृत्तोनुमतिकुशलश्च न च तस्मात्पचनादिकाद्विभेति भुंजानोऽपि स्वघाती नापि श्रमणो न च दृष्टिसंपन्नो विपरीताचरणादिति ॥ ३७ ॥ तथा;ण हु तस्स इमो लोओ ण वि परलोओ उत्तमभट्टस्स। लिंगग्गहणं तस्स दुणिरत्थयं संजमेण हीणस्स ॥३८॥ न हि तस्य अयं लोकः नापि परलोक उत्तमार्थभ्रष्टस्य । लिंगग्रहणं तस्य तु निरर्थकं संयमेन हीनस्य ॥ ३८ ॥ १ वेति ख-ग-पुस्तके नास्ति । Page #119 -------------------------------------------------------------------------- ________________ ११४ मूलाचारे टीका-नैव तस्येह लोको नाऽपि परलोक उत्तमार्थाच्चारित्राद् भ्रष्टस्य, लिंगग्रहणं तु तस्य निरर्थकं संयमेन हीनस्यति ॥ ३८॥ तथा;पायच्छित्तं आलोयणं च काऊण गुरुसयासहि । तं चेव पुणो भुंजदि आधाकम्मं असुहकम्मं ॥ ३९ ॥ प्रायश्चित्तं आलोचनं च कृत्वा गुरुसकाशे। तदेव पुनः भुंक्ते अधःकर्म अशुभकर्म ॥ ३९ ॥ टीका-कश्चित्साधुः प्रायश्चित्तं दोषनिर्हरणं आलोचनं च दोषप्रकटनं च कृत्वा गुरुसकाशे गुरुसमीपे पुनरपि तदेव भुंक्तेऽधःकर्माशुभकर्म । यदर्थ प्रायश्चित्तादिकं कृतं तदेव भुंक्ते यस्तस्यापि नेह लोको नापि परलोक इति ॥ ३९ ॥ तथा;जो जत्थ जहा लद्धं गेण्हाद आहारमुवधिमादीयं । समणगुणमुक्कजोगी संसारपवडओ होइ ॥४०॥ यो यत्र यथा लब्धं गृह्णाति आहारमुपधिकादिकं । श्रमणगुणमुक्तयोगी संसारप्रवर्धको भवति ॥ ४० ॥ टीका-यः साधुर्यत्र देशे शुद्धेऽशुद्धे वा यथा लब्धं शुद्धमशुद्धं वा गृह्णाति आहारमुपधिकादिकं च यः श्रमणगुणमुक्तयोगी स तु संसारप्रवर्धको भवतीति ॥ ४० ॥ तथा;पयणं पायणमणुमणणं सेवंतो ण संजदो होदि । जेमंतो वि य जमा ण वि समणो संजमोणत्थि॥४१॥ Page #120 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । पचनं पाचनमनुमननं सेवमानो न संयतो भवति । जेमन्नपि च यस्मात् नापि श्रमणः संयमो नास्ति ॥४१॥ टीका-पचनं पाचनमनुमननं च सेवमानो न संयतो भवति, तस्माझुंजानोऽपि च पुनर्न श्रमणो नापि संयमस्तत्रेति ॥ ४१ ॥ बहुश्रुतमाप चारित्रहीनस्य निरर्थकमिति प्रतिपादयन्नाह;बहुगं पि सुदमधीदं किं काहदि अजाणमाणस्स । दीवविसेसो अंधे णाणविसेसो वि तह तस्स ॥ ४२ ॥ बहुकमपि श्रुतमधीतं किं करिष्यति अजानतः । दीपविशेषः अंधे ज्ञानविशेषोपि तथा तस्य ॥ ४२ ॥ टीका-बह्वपि श्रुतमधीतं किं करिष्यत्यजानतश्चारित्रमनाचरत उपयोगरहितस्य । यथा प्रदीपविशेषोंऽधे लोचनरहिते न किंचित्करोति तथा ज्ञानविशेषोऽपि चारित्ररहितस्य न किंचित्करोतीति ॥ ४२ ॥ परिणामवशेन शुद्धिमाह;आधाकम्मपरिणदो फासुगदव्वे वि बंधगो भणिदो। सुद्धं गवेसमाणो आधाकम्मे वि सो सुद्धो ॥४३॥ अधःकर्मपरिणतः प्रासुकद्रव्येपि बंधको भणितः । शुद्धं ग्वेषमाणः अधःकर्मण्यपि स शुद्धः ॥४३॥ टीका-प्रासुकद्रव्ये सत्यपि योऽधःकर्मपरिणतः स बंधको भणित आगमे । यदि पुनः शुद्धं मृगयमाणोऽधःकर्मण्यप्यसौ शुद्धः परिणामशुद्धरिति ॥ ४३ ॥ १ शुद्धिमशुद्धिं चाह ख-ग-पुस्तके । २ सति शब्दो नास्ति ख-ग-पुस्तके Page #121 -------------------------------------------------------------------------- ________________ ११६ मूलाचारे तथा;भावुग्गमो य दुविहो पसत्थपरिणाम अप्पसत्थोत्ति । सुद्धे असुद्धभावो होदि उवट्ठावणं पायछित्तं ॥४४॥ भावोद्गमश्च द्विविधः प्रशस्तपरिणामः अप्रशस्त इति । शुद्धे अशुद्धभावो भवति उपस्थापनं प्रायश्चित्तं ॥४४॥ टीका--भावोद्गमश्च भावदोषश्च द्विप्रकार: प्रशस्तपरिणामोऽप्रशस्तपरिणामश्च, तत्र शुद्ध वस्तुनि यद्यशुद्धभावं करोति तत्रोपस्थापनप्रायश्चित्तं भवतीति ॥ ४४ ॥ तस्मात्;फासुगदाणं फासुगउवधि तह दो वि अत्तसोधीए । जो देदि जो य गिण्हदि दोण्हं पि महप्फलं होइ॥४५॥ प्रासुकदानं प्रासुकोपधि तथा द्वयमपि आत्मशुद्धया । यो ददाति यश्च गृह्णाति द्वयोरपि महाफलं भवति ॥ ४५ ॥ टीका-यत एवं विशुद्धभावेन कर्मक्षयस्ततः प्रासुकदानं निरवद्यभैक्ष्यं प्रासुकोपधिं हिंसादिदोषरहितोपकरणं च द्वयमपि तथात्मशुद्ध्या विशुद्धपरिणामेन यो ददाति यश्च गृह्णाति तयोयोरपि महत्फलं भवति, यत्किंचिदाहारादिकं शोभनं निरवयं वातपित्तश्लेष्मोपशमनकारणं सर्वरसोपेतं तन्मया प्रतिग्रहादिपूर्वकं श्रद्धादिगुणसमन्वितं दातव्यमिति तद्दातृत्वशुद्धिः, मया सर्वोऽप्याहारादिविधिस्त्याज्यः किमनेन शोभनाहारेण गृहीतेन यत्किंचित्प्रासुकं गृहीत्वा कुक्षिपूरणं कर्तव्यमिति परिणामः पात्रस्यात्मशुद्धिरिति ॥ ४५ ॥ किमर्थं चर्याशुद्धिः प्रपंचेनाख्यायत इत्याशंकायामाह;जोगेसु मूलजोगं भिक्खाचरियं च वणियं सुत्ते । अण्णे य पुणो जोगा विण्णाणविहीणएहिं कया॥४६॥ Page #122 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । योगेषु मूलयोगो भिक्षाचर्या च वर्णिता सूत्रे । अन्ये च पुनर्योगा विज्ञानविहीनैः कृताः ॥ ४६ ॥ ११७ टीका - सर्वेषु मूलमुणेषूत्तरगुणेषु मध्ये मूलयोगः प्रधानवतं भिक्षाचर्या कृतकारितानुमतिरहितं प्रासुकं काले प्राप्त भोजनं वर्णिता व्याख्याता सूत्रे प्रवचने, तस्मात्तां भिक्षाशुद्धिं परित्यज्यान्यान् योगानुपवासत्रिकालयोगादिकान् ये कुर्वति तैस्तेऽन्ये योगा विज्ञानविरहितैस्तैश्चारित्रविहीनै: पुनः कृता न परमार्थं जानद्भिरिति, चर्याशुद्ध्या स्तोकमपि क्रियते यत्तपस्तच्छोभनमिति ॥ ४६ ॥ तथा;— कल्लं कलं पि वरं आहारो परिमिदो पसत्थो य । ण य खमण पारणाओ बहवो बहुसो बहुविधो य ॥ ४७ ॥ कल्यं कल्यमपि वरं आहारः परिमितः प्रशस्तश्च । न च क्षमणानि पारणा बहवो बहुशो बहुविधश्च ॥ ४७ ॥ टीका - कल्लं कल्लं श्वस्तनदिने दिने वरं श्रेष्ठमाहारो भोजनं परिमितः प्रमाणस्थः वातपित्तश्लेष्मविकाराहेतुकः प्रशस्तोऽधः कर्मादिदोषरहितः न च क्षमणानि उपवासाः पारणा भोजनदिनानि बव्हय: षष्ठाष्टमदशमद्वादशमासार्द्धमासादिदिनानि बहुशो बहुवारान् बहुविधश्च बहुप्रकारश्च बहुसावद्ययोगयुक्तो महारंभनिष्पन्नो दातृजनसंक्लेशोत्पादको य आहारस्तेन यदि महत्तपः क्रियते न तत्तपो महद्भवति बह्वारंभादिति ॥ ४७ ॥ कस्तर्हि शुद्धयोग इत्याशंकायामाह ; मरणभयभीरुआणं अभयं जो देदि सव्वजीवाणं । तं दणाणवि दाणं तं पुण जोगेसु मूलजोगं पि ॥४८॥ Page #123 -------------------------------------------------------------------------- ________________ ११८ मूलाचारे ~~~~~~~~~ ~~~~~www.merrrrrr. मरणभयभीरुकेभ्यः अभयं यो ददाति सर्वजीवेभ्यः । तत् दानानामपि दानं तत् पुनः योगेषु मूलयोगोपि ॥ ४८॥ टीका-मरणायद्भयं तस्माद्भीतेभ्योऽभयं यो ददाति सर्वसत्त्वेभ्यस्तदानानामपि दानं सर्वेषां दानानां मध्ये तद्दानं तत्पुनर्योगेषु अपि मूलयोगः प्रधानानुष्ठानं यदभयदानमिति ॥ ४८॥ गुणस्थानापेक्षया चारित्रस्य माहात्म्यमाह;सम्मादिहिस्य वि अविरदस्स ण तवो महागुणो होदि। होदि हु हत्थिण्हाणं चंदच्छिदकम्म तं तस्स ॥४९॥ सम्यग्दृष्टेरपि अविरतस्य न तपो महागुणो भवति । भवति हि हस्तिस्नानं चुंदच्छित्कर्म तत् तस्य ॥ ४९ ॥ टीका-तिष्ठतु तावन्मिथ्यादृष्टिः सम्यग्दृष्टेरप्यविरतस्यासंयतस्य न तपो महागुणः । अयं गुणशब्दोऽनेकार्थे वर्त्तते, तद्यथा-रूपादयो गुणा रूपरसगंधस्पर्शसंख्यापृथक्त्त्वपरिणामादीनि गुणशब्देनोच्यते, तथा गुणभूता वयमत्र नगरे इत्यत्राप्रधानवाची गुणशब्दस्तथा यस्य गुणस्य भावादिति विशेषणे वर्त्तते तथा गुणोऽनेन कृत इत्यत्रोपकारे वर्तते इहोपकारे वर्तमानो गृह्यते । तेन तपो महोपकारं भवति । कर्मनिर्मूलनं कर्तुमसमर्थ तपोऽसंयतस्य दर्शनान्वितस्यापि कुतो यस्माद्भवति हस्तिस्नानं । हु शब्द एवकारार्थः स च हस्तिस्नानेनाभिसंबंधनीयो हस्तिस्नानमेवेति । यथा हस्ती स्नातोऽपि न नैर्मल्यं वहति पुनराप करेणार्जितपांशुपटलेनात्मानं मलिनयति तद्वत्तपसा निर्जीर्णेऽपि कर्माशे बहुतरादानं कर्मणोऽसंयममुखेनेति । दृष्टांतांतरमप्या चष्टे-चुंदच्छिदकर्म चंदं काष्ठं छिनत्तीति चंदच्छिद्रज्जुस्तस्याः कर्म क्रिया, यथा चंदच्छिद्रज्जोरुद्वेष्टनं वेष्टनं च भवति तद्वत्तस्यासंयतम्य तत्तपः, अथवा चंदच्छुदगंव-चुदच्युतकमिव मंथनचर्मपालिकेव तत्संयमहीनं तपः । दृष्टांतद्वयोपन्यासः किमर्थ इति चेन्नैष दोषः, अपगतात्कर्मणो बहुत Page #124 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । रोपादानमसंयमनिमित्तस्येति प्रदर्शनाय हस्तिस्नानोपन्यासः, आर्द्रतनुतया हि बहुतरमुपादत्ते रजः, बंधरहिता निर्जरा स्वास्थ्यं प्रापयति नेतरा बंधसहभाविनीति । किमिवं? चंदच्छिदः कर्मेव-एकत्र वेष्टयत्यन्यत्रोद्वे ष्टयति तपसा निर्जरयति, कर्मासंयमभावेन बहुतरं गृह्णाति कठिनं च करातीति ॥ ४९॥ सन्निपातेन शोभनक्रियाणां कर्मक्षयो भवतीति दृष्टांतेन पोषयन्नाह;वेज्जादुरभेसज्जापरिचारयसंपदा जहारोग्गं । गुरुसिस्सरयणसाहणसंपत्तीए तहा मोक्खो ॥ ५० ॥ वैद्यातुरभैषज्यपरिचरकसंपदा यथा आरोग्यं । गुरुशिष्यरत्नसाधनसंपत्या तथा मोक्षः ॥ ५० ॥ टीका-वैद्यो भिषक् आतुरो व्याधितः भैषज्यमौषधं परिचारका वैयावृत्त्यकारा एतेषां संपत्संयोगस्तया संपदा यथाऽऽरोग्यं व्याधितस्य रोगाभावः संजायते तथा गुरुराचार्यः शिष्यो वैराग्यपरो विनेयो रत्नानि सम्यग्दर्शनादिसाधनानि पुस्तककुंडिकापिच्छिकादीन्यतेषां संपत्तिः संप्राप्तिः संयोगस्तया तेनैव प्रकारेण मोक्षो भवतीति ॥ ५० ॥ दृष्टांत दार्टान्तन योजयन्नाह;आइरिओ वि य वेज्जो सिस्मोरोगी दु भेसजं चरिया। .. खेत्त बल काल पुरिसं णाऊण सणि दृढं कुज्जा ॥५१॥ आचार्योंपि च वैद्यः शिष्यो रोगी तु भेषजं चर्या । क्षेत्रं बलं कालं पुरुषं ज्ञात्वा शनैः दृढं कुर्यात् ॥ ५१ ॥ टीका-आचार्यो नाम वैद्यः शिष्यश्च रोगी भेषेजं चर्या क्षेत्रं शीतमुष्णादिकं बलं शरीरसामर्थ्यादिकं कालः प्रावृडादिकः पुरुषो जघन्यमध्यमो १ येनैव ग-पुस्तके। Page #125 -------------------------------------------------------------------------- ________________ १२० मूलाचार त्कृष्टभेदभिन्न एतान् सर्वान् ज्ञात्वा शनैराकुलतामंतरेण शिष्यमाचार्यश्च यथारोग्ययुक्तं कुर्यादिति चर्यौषधं कथनीयमिति ॥ ५१ ॥ __ तत्कथमित्याह;भिक्खं सरीरजोग्गं सुभत्तिजुत्तेण फासुयं दिण्णं । दव्वपमाणं खेत्तं कालं भावं च णादूण ॥५२॥ णवकोडीपडिसुद्धं फासुय सत्थं च एसणासुद्धं । दसदोसविप्पमुक्कं चौदसमलवज्जियं भुंजे ॥ ५३॥ भैक्ष्यं शरीरयोग्यं सुभक्तियुक्तेन प्रासुकं दत्तं । द्रव्यप्रमाणं क्षेत्रं कालं भावं च ज्ञात्वा ॥ ५२ ॥ नवकोटिपरिशुद्ध प्रासुकं शस्तं च एषणाशुद्धं । दशदोषविषमुक्तं चतुर्दशमलवर्जितं भुंजीत ॥ ५३ ॥ टीका-सुभक्तियुक्तेन शरीरयोग्यं भैक्ष्यं प्रासुकं प्रदत्तं नवकोटिपरिशुद्धं प्रासुकं निरवद्यं प्रशस्तं कुत्सादिदोषरहितमेषणासमितिशुद्धं दशदोषविप्रमुक्तं चतुर्दशमलवाज॑तं च द्रव्यप्रमाणं क्षेत्रं कालं भावं च ज्ञात्वा परिणाममंतरण भुंजीतेति ॥ ५२-५३॥ तथा;आहारेदु तवस्सी विगदिंगालं विगदधूमं च । जत्तासाहणमत्तं जवणाहारं विगदरागो ॥ ५४ ॥ आहरेत् तपस्वी विगतांगारं विगतधूमं च । यात्रासाधनमात्र यवनाहारं विगतरागः ॥ ५४॥ टीका-आहारं, किं विशिष्टं ? विगतांगारं विगतधूमं यात्रासाधनमात्रं १ राकुलमन्तरेण ख-ग-पुस्तके। . Page #126 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १२१ ......rummommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सम्यग्दर्शनज्ञानचारित्रप्रतिपालननिमित्तं यवनाहारं क्षुधोपशमनमात्रं विगतरागः सन्नाकांक्षारहितस्तपस्वी वैराग्यपर आहरेदभ्यवहरोदिति ॥ ५४ ॥ जुगुप्सापरिहारमाह;ववहारसोहणाए परमट्ठाए तहा परिहरउ । दुविहा चावि दुगंछा लोइय लोगुत्तरा चेव ॥ ५५ ॥ व्यवह रशोधनाय परमार्थाय तथा परिहरतु । द्विविधा चापि जुगुप्सा लौकिकी लोकोत्तरा चैव ॥ ५५ ॥ टीका-जुगुप्सा गर्दा द्विविधा द्विप्रकारा लौकिकी लोकोत्तरा च । लोकव्यवहारशोधनार्थ सूतकादिनिवारणाय लौकिकी जुगुप्सा परिहरणीया तथा परमार्थार्थ रत्नत्रयशुद्ध्यर्थं लोकोत्तरा च कार्येति ॥ ५५ ॥ पुनरपि क्रियापदेन प्रकटयन्नाह;परमट्ठियं विसोहिं सुट्ठ पयत्तेण कुणइ पवइओ। परमट्ठदुगंछा वि य सुट्ठ पयत्तेण परिहरउ ।। ५६ ॥ परमार्थिकां विशुद्धिं सुष्ठ पयत्नेन करोति प्रव्रजितः । परमार्थजुगुप्सापि च सुष्ठ प्रयत्नेन परिहरतु ॥ ५६ ॥ टीका-परमार्थिकां विशुद्धं कर्मक्षयनिमित्तां रत्नयत्रयशुद्धिं सुष्टु प्रयत्नेन करोतु प्रवजितः साधुः परमार्थजुगुप्सामपि शंकादिकां सुष्टु प्रयत्नेन परिहरतु त्यजत्विति ॥ ५६ ॥ __ तथा;संजममविराधंतो करेउ ववहारसोधणं भिक्खू । ववहारदुगंछावि य परिहरउ वदे अभंजंतो।। ५७॥ १ न कार्येति प्रेस-पुस्तके। Page #127 -------------------------------------------------------------------------- ________________ १२२ मूलाचारे संयममविराधयन् करोतु व्यवहारशोधनं भिक्षुः । व्यवहारजुगुप्सामपि च परिहरतु व्रतानि अभंजयन् ॥ ५७ ॥ टीका-भिक्षुः संयमं चारित्रमविराधयन्नपीडयन् करोतु व्यवहारशोधन लोकव्यवहारशोधनं प्रायश्चितं च व्यवहारजुगुप्सां च, येन कर्मणा लोके विशिष्टजनमध्ये कुत्सितो भवति तत्कर्म परिहरतु च व्रतान्यहिंसादीनि अभंजयन्नखंडयन् । किमुक्तं भवति-संयम मा विराधयतु व्यवहारशुद्धिं च करोतु व्रतानि मा भंजयतु व्यवहारजुगुप्सां च परिहरतु साधुरिति ॥ ५७ ॥ द्रव्यशुद्धिं विधाय क्षेत्रशुद्ध्यर्थमाह;जत्थ कसायुप्पत्तिरभत्तिंदियदारइत्थिजणबहुलं । दुक्खमुवसग्गबहुलं भिक्खू खेत्तं विवज्जेऊ ॥ ५८ ॥ यत्र कषायोत्पत्तिरभक्तिरिद्रियद्वारस्त्रीजनबाहुल्यं । दुःखमुपसर्गबहुलं भिक्षुः क्षेत्रं विवर्जयेत् ॥ ५८ ॥ टीका-यस्मिन् क्षेत्रे कषायाणामुत्पत्तिः प्रादुर्भावस्तथा यस्मिन् क्षेत्रेऽभक्तिरादरामावः शाठ्यबाहुल्यं,यत्र चेंद्रियद्वारबाहुल्यमिन्द्रियद्वाराणां चक्षुरादीनां बाहुल्यं सुष्ठ रागकारणविषयप्राचुर्य, स्त्रीजनबाहुल्यं च यत्र स्त्रीजनो बाहुल्यन शृंगाराकारविकारविषयलीलाहावभावनृत्तगतिवादनहासापहासादिनिष्ठस्तथा दुःख क्षेत्रं क्लेशप्रचुर, उपसर्गबहुलं बाहुल्येनोपसर्गोपेतं च तदेतत्सर्व क्षेत्र भिक्षुः साधुर्विवर्जयतु परिहरतु सम्यग्दर्शनादिशुद्धिकरणायेति ॥ ५८ ॥ ___ इत्थंभूतं च क्षेत्रं सेवयत्विति कथयन्नाह;गिरिकंदरं मसाणं सुण्णागारं च रुक्खमूलं वा । ठाणं विरागबाहर धीरो भिक्खु णिसेवेऊ ॥ ५९ ॥ १ भनक्तु ख-ग-पुस्तके। Page #128 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । १२३ गिरिकंदरां स्मशानं शून्यागारं च वृक्षमूलं च । स्थानं वैराग्यबहुलं धीरो भिक्षुः निषेवयतु ॥ ५९॥ .. टीका-गिरिकंदरां श्मशानं शून्यागारं वृक्षमूलं च धीरो भिक्षुर्निषेवयतु भावयतु यत एतत्स्थानं वैराग्यबहुलं चारित्रप्रवृत्तिहेतुकमिति ॥ ५९ ॥ तथैतच्च क्षेत्रं वर्जयत्विति कथनायाह;णिवदिविहूणं खेत्तं णिवदी वा जत्थ दुट्ठओ होज । पव्वज्जा च ण लम्भइ संजमघादो य तं वज्जे ॥६०॥ नृपतिविहीनं क्षेत्रं नृपतिर्वा यत्र दुष्टो भवेत् । प्रव्रज्या च न लभ्यते संयमघातश्च तत् वर्जयेत् ॥ ६० ॥ टीका-नृपतिविहीनं यत् क्षेत्रं यस्मिन् देशे नगरे ग्रामे गृहे वा प्रभुर्नास्ति स्वेच्छया प्रवर्त्तते सर्वो जनः, यत्र च क्षेत्रे नृपतिर्दुष्टः यस्मिंश्च देशे नगरे ग्रामे गृहे वा स्वामी दुष्टः कदर्थनशीलो धर्मविराधनप्रवणः, यत्र च प्रव्रज्या न लभ्यते न प्राप्यते*, यत्र यस्मिंश्च देशे शिष्याः श्रोतारोऽध्ये-- तारो व्रतरक्षणतनिष्ठा दीक्षाग्रहणशीलाश्च न संभवंति, संयमाघतश्च यत्र बाहुल्येनातीचारबहुलं तदेतत्सर्व क्षेत्रं च वर्जयेत्, यत्नेन परिहरतु साधुरित्त्युपदेशः ॥ ६०॥ तथैतदपि वर्जयेत् - णो कप्पदि विरदाणं विरदीणमुवासयह्मि चेदृहूँ । तत्थ णिसेज्जउवट्टणसज्झायाहारवोसरणे ॥ ६१॥ नो कल्प्यते विरतानां विरतीनामुपाश्रये स्थातुं । तत्र निषद्योद्वर्तनस्वाध्यायाहारव्युत्सर्गम् ॥ ६१ ॥ * पुष्पमध्यगत पाठस्थाने ख-ग-पुस्तके प्रव्रज्या च न लभते' इत्येव पाठः । १ वर्जयतु ख-ग-पुस्तके। Page #129 -------------------------------------------------------------------------- ________________ १२४ मूलाचारे - टीका-विरतानां नो कल्प्यते न युज्यते विरतीनामार्यिकाणामुपाश्रये स्थातुं कालांतरं धर्मकार्यमन्तरेण, तत्र च शय्या निषद्या स्वाध्याय आहारः कायिकादिक्रिया प्रतिक्रमादिकं चन कयंते युक्ताचारस्य साधोरिति ॥ ६१॥ कुतो यतः;होदि दुगंछा दुविहा ववहारादो तथा य परमट्ठ। पयदेण य परमहे ववहारेण य तहा पच्छा ॥ ६२॥ भवति जुगुप्सा द्विविधा व्यवहारात् तथा च परमार्थेन । प्रयत्नेन च परमार्था व्यवहारेण च तथा पश्चात् ॥ ६२ ॥ टीका-तत्रार्यिकोपाश्रये वसतः साधोर्दिप्रकारापि जुगुप्सा, व्यवहाररूपा तथा परमार्थां च, लोकापवादो व्यवहाररूपा, व्रतभंगश्च परमार्थतः यत्नेन परमार्थरूपा जायते जुगुप्सा, व्यवहारतश्च ततोऽथवा व्यवहारतो भवति पश्चात्परमार्थतश्चेति ॥ ६२ ॥ तथा संसर्गजं दोषमाह;-- वड्ढदि बोही संसग्गेण तह पुणो विणस्सेदि । संसग्गविसेसेण दु उप्पलगंधो जहा कुंभो ॥ ६३ ।। वर्धते बोधिः संसर्गेण तथा पुनर्विनश्यति । संसर्गविशेषेण तु उत्पलगंधो यथा कुंभः ॥ ६३ ॥ टीका-संसर्गेण संपर्केण बोधिः सम्यग्दर्शनादिशुद्धिर्वर्द्धते तथा पुनरपि विनश्यति च । सदाचारप्रसंगेन वर्द्धते कुत्सिताचारसंपर्केण विनश्यति, यथा संसर्गविशेषेणोत्पलगंधः जलकुंभ उत्पलादिसंपर्केण सुगंधः शीतलश्चाग्न्यादिसंयोगेनोष्णो विरसश्चेति ॥ ६३॥ १-२ कल्पते ख-ग-पुस्तके । Page #130 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १२५ तथैतैश्च संसर्ग वर्जयोदति प्रतिपादयन्नाह;चंडो चवलो मंदो तह साहू पुट्टिमंसपडिसेवीं। गारवकसायबहुलो दुरासओ होदि सो समणो ।।६४॥ चंडश्चपलो मंदस्तथा साधुः पृष्ठिमांसप्रतिसेवी। गौरवकषायबहुलो दुराश्रयो भवति स श्रमणः ॥ ६४॥ टीका-चंडो रौद्रो मारणात्मको विषतरुरिव, चपलोऽस्थिरप्रकृतिर्वाचि-. कादिक्रियायां स्थैर्यहीनः, मंदश्चारित्रालसस्तथा साधुः पृष्ठमांसप्रतिसेवी पश्चाहोषकथनशीलः पैशून्यतत्परः, गौरवबहुलः, कषायबहुलश्च पदं पदं प्रति रोषणशीलः, दुराश्रय एवंभूतः श्रमणो दुःसेव्यो भवति केनाप्युपकारेणात्मीयः कर्तुं न शक्यते यत एवंभूतं श्रमणं न सेवयेदिति संबंधः ॥ ६४ ॥ तथा;वेजावञ्चविहूणं विणयविहूणं च दुस्सुदिकुसीलं । समणं विरागहीणं सुजमो साधू ण सेविज ॥६५॥ - वैयावृत्त्यविहीनं विनयविहीनं च दुःश्रुतिकुशीलं । श्रमणं विरागहीनं सुयमः साधुन सेवेत ॥६५॥ टीका–वैयावृत्त्यविहीनं ग्लानदुर्बलव्याधितादीनामुपकाररहितं, विनयविहीनं पंचप्रकारविनयरहित, दुःश्रुतिं दुष्टश्रुतिसमन्वितं, कुशीलं, कुत्सिताचरणशीलं, श्रमणं नाग्न्यायुपेतमपि, विरागहीनं रागोत्कटं, पूर्वोक्तः साधुः संयती न सेवेत न कदाचिदप्याश्रयेत् दुष्टाश्रयत्वादिति ॥ ६५ ॥ ___ तथा;दभं परपरिवादं पिसुणत्तण पावसुत्तपडिसेवं । चिरपव्वइदं पि मुणी आरंभजुदं ण सेविज ॥६६॥ १ विहीनं ख-ग-पुस्तके। Page #131 -------------------------------------------------------------------------- ________________ १२६ मूलाचारmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm दंभं परपरिवादिनं पैशून्यवन्तं पापसूत्रप्रतिसेविनं। . चिरप्रव्रजितमपि मुनि आरंभयुतं न सेवेत ॥६६॥ टीका--दंभं वंचनशीलं कुटिलभावं, परपरिवादिनं परोपतापिनं, पैशून्योपपन्नं दोषोद्भावनेन तत्परं, पापसूत्रप्रतिसेविनं मारणोच्चाटनवशीकरणमंत्रयंत्रतंत्रठकशास्त्रराजपुत्रकोकवात्स्यायनपितृपिंडविधायकं सूत्रं मांसादिविधायकवैद्यसावद्यज्योतिषशस्त्रादिरतमित्थंभूतं मुनिं चिरप्रव्रजितमपि आरंभयुतं च न कदाचिदपि सेवेत न तेन सह संगं कुर्यादिति ॥ ६६ ॥ तथा;चिरपब्वइदं पि मुणी अपुट्ठधम्मं असंपुडं णीचं । लोइय लोगुत्तरियं अयाणमाणं विवज्जेज ॥ ६७ ॥ चिरप्रव्रजितमपि मुनि अपुष्टधर्म असंवृतं नीचं। लौकिकं लोकोत्तरमजानंतं विवर्जयेत् ॥ ६७ ॥ टीका तथा चिरप्रव्रजितं बहुकालीनं श्रमणं, अपुष्टधर्म मिथ्यात्वोपेतं असंवृतं स्वेच्छावचनवादिनं नीचं नीचकर्मकरं लौकिकं व्यापारं लोकोत्तरं च व्यापारं अजानंतं लोकविराधनपरं परलोकनाशनपरं च श्रमणं विवर्जयेत् परित्यजेन्न तेन सह संवासं कुर्यादिति ॥ ६७ ॥ तथा पापश्रमणस्य लक्षणमाह;आयरियकुलं मुच्चा विहरदि समणो य जो दु एगागी। ण य गेण्हदि उवदेसं पावस्समणोत्ति वुच्चदि दु ॥६८॥ आचार्यकुलं मुक्त्वा विहरति श्रमणश्च यस्तु एकाकी। न च गृह्णाति उपदेशं पापश्रमणं इति उच्यते तु ॥६८॥ १ दोषाणां दोषाद्भावनेन ग-पुस्तके । अदोषोद्भावेन ख-पुस्तके । २ रतं ख-ग-पुस्तके। Page #132 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १२७ टीका-आचार्यकुलं श्रमणसंघ मुक्त्वा यः स्वेच्छया विहरति गच्छति जल्पति चिंतयति श्रमण एकाकी संघाटकरहितः, उपदेशं च दीयमानं यो न गृह्णाति शिक्षा नादत्ते स पापश्रमण इत्युच्यते ॥ ६८॥ तथा;आयरियत्तण तुरिओ पुव्वं सिस्सत्तणं अकाऊणं । . हिंडई ढुंढायरिओ णिरंकुसो मत्तहत्थिव्व ॥ ६९ ॥ आचार्यत्वं त्वरितः पूर्व शिष्यत्वं अकृत्वा हिंडति ढोढाचार्यो निरंकुशो मत्तहस्तीव ॥ ६९ ॥ टीका-आचार्यत्वं कर्तुं त्वरितः पूर्व शिष्यत्वमकृत्वा यः स्वेच्छया हिंडत्त्याचरति भ्रमति च ढोढाचार्यः पूर्वापरविवेकशून्यो यथा निरकुंशो मत्तहस्ती । सोऽपि पापश्रमण इत्यतस्तमपि न सेवेतेति ॥ ६९ ॥ पुनरपि संसर्गजं दोषमाह दृष्टांतेनेति;अंबो णिबत्तणं पत्तो दुरासएण जहा तहा। रामणं मंदसंवेगं अपुट्टघम्म ण सेविज ॥ ७० ॥ आम्रो निवत्वं प्राप्तो दुराश्रयेण यथा तथा। श्रमणं मंदसंवेगं अपुष्टधर्म न सेवेत ॥ ७० ॥ टीका-यथाऽऽम्रवृक्षो दुराश्रयेण निंबत्वं प्राप्तस्तथा श्रमणं मंदसंवेगं । 'धर्मानुरागालसं अपुष्टधर्म समाचारहीनं दुराश्रयेण संजातं न सेवेत नाश्रयेदात्मापि तदाश्रयेण तथाभूतः स्यादिति ॥ ७० ॥ तथा पार्श्वस्थान्नित्यं भेतव्यमिति प्रदर्शयन्नाह;'बिहेदव्वं णिचं दुज्जणवयणा पलोट्टजिब्भस्स । वरणयरणिग्गमं पिव वयणकयारं वहंतस्स ॥ ७१ ॥ Page #133 -------------------------------------------------------------------------- ________________ १२८ . . . मूलाचारे NAMANNAAN भेतव्य नित्यं दुर्जनवचनात् प्रलोटजिव्हातः । . वरनगरनिर्गमादिव वचनकचवरं वहतः॥ ७१ ॥ टीका-दुर्जनवचनात्, किंविशिष्टात् ? प्रलोटजिह्वात् पूर्वापरतामनपक्ष्य वाचिनो वरनगरनिर्गमादिव वचनकचबरं वहतः नित्यं भेतव्यं न तत्समीपे स्थातव्यमिति ॥ ७१ ॥ . तथेत्थंभूतोऽपि यस्तस्मादपि भेतव्यमिति दर्शयन्नाह;आयरियत्तणमुवणायइ जो मुणि आगमं ण याणतो॥ अप्पाणं पि विणासिय अण्णे वि पुणो विणासेई॥७२॥ आचार्यत्वमुपनयति यो मुनिरागमं न जानन् । आत्मानमपि विनाश्य अन्यानपि पुनः विनाशयति ॥ ७२ ॥ टीका-आचार्यत्वमात्मानमुपनयति य आगनमजानन् आत्मानं विनाश्य परमपि विनाशयति । आगमेन विनाचरन्नात्मानं नरकादिषु गमयति तथा परान् कुत्सितोपदेशेन भावयन् तान्नरकादिषु प्रवेशयतीति ततस्तस्मादपि भेतव्यमिति ॥ ७२ ॥ ___ अभ्यंतरयोगैर्विना बाह्ययोगानामफलत्वं दर्शयन्नाह;घोडयलदिसमाणस्स बाहिर बगणिहुदकरणचरणस्स । अभंतरम्हि कुहिदस्स तस्स दु किं बज्झनोगेहि ॥७३॥ घोटकलांदिसमानस्य बाह्येन बकनिभृतकरणचरणस्य । अभ्यंतरे कुथितस्य तस्य तु किं बाह्ययोगैः ॥ ७३ ॥ टीका-घोटकव्युत्सर्गसमानस्यांतः कुथितस्य बाह्येन बकस्येव निभृतकरचरणस्य तस्येत्थंभूतस्य मूलगुणरहितस्य किं बायैवृक्षमूलादिभिर्योगैर्न किंचिदपीत्यर्थस्तस्माच्चारित्रे यत्नः कार्य इति ॥ ७३ ॥ १ आत्मन उपनयति ख-ग-पुस्तके । Page #134 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १२९ बहुकालश्रमणोऽहमिति च मा गर्व कृथा यतः;मा होह वासगणणा ण तत्थ वासाणि परिगणिज्जति। बहवो तिरत्तवुत्था सिद्धा धीरा विरग्गपरा समणा ७४ मा भवतु वर्षगणना न तत्र वर्षाणि परिगण्यते । बहवः त्रिरात्रोत्थाः सिद्धा धीरा वैराग्यपराः श्रमणाः॥ ७४ ॥ टीका-मा भवतु वर्षगणना मम प्रव्रजितस्य बहूनि वर्षाणि यतोऽयं लघुरद्य प्रवजित इत्येवं गर्व मा कृवं, यतो न तत्र मुक्तिकारणे. वर्षाणि गण्यंते । बहुकालश्रामण्यन मुक्तिर्भवति नैवं परिज्ञायते यस्माद्बहवस्त्रिरात्रिमात्रोषितचारित्रा अन्तर्मुहूर्तवृत्तचरित्राश्च वैराग्यपरा धीराः सम्यग्दर्शनादौ निष्कंपाः श्रमणाः सिद्धा निर्मूलिताशेषकर्माण इति ॥ ७४ ॥ बंधं बंधकारणं च प्रतिपादयन्नाह;जोगणिमित्तं गहणं जोगो मणवयणकायसंभूदो । भावणिमित्तो बंधो भावो रदिरागदोसमोहजुदो ॥७५॥ योगनिमित्तं ग्रहणं योगो मनोवचनकायसंभूतः। भावनिमित्तो बंधो भावो रतिरागद्वेषमोहयुतः ॥ ५ ॥ टीका-कर्मणो ग्रहणं योगनिमित्तं योगहेतुकं, योगः प्रकृतिबंधं प्रदेशबंधं च करोतीति । अथ को योग इत्याशंकायामाह;-योगश्च मनोवचनकायेभ्यः संभूतो मनःप्रदेशपरिस्पंदो वाक्प्रदेशपरिस्पंदः कायप्रदेशपरिस्पंदः “ मनोवाक्कायकर्म योग " इति वचनात् । भावनिमित्तो भावहेतुको बंधः संश्लेषः स्थित्यनुभागरूपः “ स्थित्यनुभागौ कषायत" इति वचनात् । अथ को भाव इति प्रश्ने भावो रतिरागद्वेषमोहयुक्तो मिथ्यात्वासंयमकषाया इत्यर्थ इति ॥ ७५ ॥ Page #135 -------------------------------------------------------------------------- ________________ मूलाचारे कर्मणः परिणामो न तु जीवस्यति प्रतिपादयन्नाह;-- जीवपरिणामहेदू कम्मत्तण पोग्गला परिणमंति। . ण दुणाणपरिणदो पुण जीवो कम्मं समादियदि ॥७६॥ जीवपरिणामहेतवः कर्मत्वेन पुद्गलाः परिणमंति । न तु ज्ञानपरिणतः पुनः जीवः कर्म समादत्ते ॥ ७६ ॥ , टीका-जीवस्य परिणामहेतवो बालवृद्धयुवत्त्वभावेन नरकतिर्यङ्मनुष्यदेवत्वभावेन च कर्मत्वेन कर्मस्वरूपेण पुद्गला रूपरसगंधस्पर्शवंतः परमाणवः परिणमंति पर्यायं गृह्णति । जीवः पुनर्ज्ञानपरिणतो नैव कर्म समादत्ते नैव कर्मभावेन पुद्गलान् गृह्णातीति । यतोऽतश्चारित्रं ज्ञानदर्शनपूर्वक भावनीयमिति ॥ ७६ ॥ यस्मात्;णाणविण्णाणसंपण्णो झाणज्झणतवेदो। कसायगारवुम्मुक्को संसारं तरदे लहुं ॥ ७७ ॥ ज्ञानविज्ञानसंपन्नो ध्यानाध्ययनतपोयुतः । कषायगौरवोन्मुक्तः संसारं तरति लघु ॥ ७७ ॥ टीका-ज्ञानं यथावस्थितवस्तुपरिच्छेदकं विज्ञानं चारित्रं ताभ्यां ज्ञानविशेषेण वा संपन्नः परिणतः ध्यानेनैकाग्रचिंतानिरोधेनाध्ययनेन वाचनाप्रच्छनादिक्रियया तपसा च द्वादशप्रकारेण युक्तः परिणतः कषायगौरवोन्मुक्तश्च लघु शीघ्रं संसार भवसमुद्रं तरति समुल्लघंयतीति ततो रत्नत्रयं सारभूतमिति ॥ ७७ ॥ ननु स्वाध्यायभावनया कथं संसारस्तीर्यत इत्याशंकायामाह;सज्झायं कुव्वंत्तो पंचिंदियसंपुडो तिगुत्तो य । हवदिय एयग्गमणो विणएण समाहिओ भिक्खू ॥७८॥ Page #136 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। १३१ स्वाध्यायं कुर्वन् पंचेंद्रियसंवृतः त्रिगुप्तश्च । भवति च एकाग्रमना विनयेन समाहितो भिक्षुः ॥ ७८॥ टीका-यतः स्वाध्यायं शोभनशास्त्राभ्यासवाचनादिकं कुर्वन् पंचेंद्रियसंवृतस्त्रिगुप्तश्च भवति, एकाग्रमना ध्यानपरश्च भवति, विनयेन समाहितश्च दर्शनादिविनयोपेतश्च भिक्षुर्भवत्यत: प्रधानं चारित्रं स्वाध्यायस्ततश्च मुक्तिरिति ॥ ७८॥ पुनरपि स्वाध्यायस्य माहात्म्यं तपस्यंतर्भावं च प्रतिपादयन्नाह;बारसविधह्मि य तवे सन्भंतरबाहिरे कुसलदिवें। ण वि अत्थि ण वि य होहदि सज्झायसमंतवोकम्मं ॥७९॥ द्वादशविधे च तपसि साभ्यंतरबाह्ये कुशलदृष्टे । नापि अस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥७९॥ टीका-द्वादशविधे तपसि साभ्यंतरबाह्ये कुशलदृष्टे तीर्थकरगणधरादिप्रदर्शिते कृते च नैवास्ति न चापि भविष्यति स्वाध्यायसमं स्वाध्यायसदृशं अन्यत्तपःकर्मातः स्वाध्यायः परमं तप इति कृत्वा निरंतरं भावनीय इति ॥७९॥ . स्वाध्यायभावनया श्रुतभावना स्यात्तस्याश्च भावनायाः फलं प्रदर्शयन्नाह;सूई जहा ससुत्ता ण णस्सदि दुपमाददोसेण । एवं ससुत्तपुरिसो ण णस्सदि तहा पमाददोसेण ॥८॥ सूची यथा ससूत्रा न नश्यति तु प्रमाददोषेण। एवं ससूत्रपुरुषो न नश्यति तथा प्रमाददोषेण ॥ ८०॥ टीका-यथा सूची लोहमयी शलाका सूक्ष्मापि ससूत्रा सूत्रमयरज्जुसमन्विता न नश्यति न चक्षुर्गोचरतामतिकामति प्रमाददोषेणापि, अपस्कारादिमध्ये विस्मृतापि । तथैवं पुरुषोऽपि साधुरिति संसूत्रः श्रुतज्ञानसमन्वितो न नश्यति नैव संसारगर्त पतति प्रमाददोषेणापि यद्यपि परमं तपः कर्तुं . Page #137 -------------------------------------------------------------------------- ________________ १३२ __ मूलाचारे पति । समर्थस्तथापि शाट्यरहितः स्वाध्यायं यदि निरंतरं करोति तथापि कर्मक्षयं करोतीति भावः ॥ ८०॥ चारित्रस्य प्रधानमंगं ध्यानं तदुपकारभूतं निद्राजयमाह;णि जिणेहि णिचं णिद्दा खलु नरमचेदणं कुणदि। वढेज हू पसुत्तो समणो सम्वेसु दोसेसु ॥ ८१॥ निद्रां जय नित्यं निद्रा खलु नरमचेतनं करोति। वर्तेत हि प्रसुप्तः श्रमणः सर्वेषु दोषेषु ॥ ८१ ॥ टीका-निद्रां दर्शनावरणकर्मोदयमोहभावं जय तस्या वशं मा गच्छ यतः सा निद्रा नरं खलु स्फुटमचेतनं पूर्वापरविवेकहीनं करोति यतश्च प्रसुप्तः श्रमणो वर्तेत सर्वेषु दोषेषु यस्मान्निद्रयाक्रांतचित्तः सर्वैरपि प्रमादैः सहितो भवति संयतोऽप्यतो निद्राजयं कुर्विति ।। ८१ ।। निद्रां जित्त्वैकाग्रचिंतानिरोधं कुर्वीतेति प्रतिपादयन्नाह;--- जह उसुगारो उसुमुज्जु वरई संपिडियेहिं णयणेहिं । तह साहू भावेज्जो चित्तं एयग्गभावेण ॥ ८२ ।। यथा इषुकार इषु ऋजु करात संपिंडिताभ्यां नयनाभ्यां। . तथा साधुः भावयेत् चित्तं एकाग्रभावेन ॥ ८२ ॥ टीका-यथेषुकारः कांडकार इषु कांड, उजु वरई-ऋजु करोति प्रगुणं करोति सम्याडिताभ्यां संमीलिताभ्यां नयनाभ्यां निरुद्धचक्षुरादिप्रसरेण तथा साधुः शुभध्यानार्थ स्वचित्तं मनोव्यापारमेकाग्रभावेन मनोवाक्कायस्थैर्यवृत्त्या पंचेंद्रियनिरोधेन च भावयेदभिरमयेदिति ॥ ८२ ॥ ध्यानं प्रपंचयन्नाह;कम्मरस बंधमोक्खो जीवाजीवे य दवपन्जाए। संसारसरीराणि य भोगविरत्तो सया झाहि ॥८३॥ Page #138 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । कर्मणो बधमोक्षौ जीवाजीवौ च द्रव्यपर्यायान् । संसारशरीराणि च भोगविरक्तः सदा ध्याय ।। ८३ ॥ . टीका-कर्मणो ज्ञानावरणादेर्बधं जीवकर्मप्रदेशसंश्लेषं तथा मोक्षं सर्वथा कर्मापायं तथा जीवान् द्रव्यभावप्राणधारणसमर्थानजीवान् पुद्गलधर्माधर्माकाशकालान् द्रव्याण सामान्यरूपाणि पर्यायान् विशेषरूपान् संसारं चतुर्गतिभ्रमणं शरीराणि चौदारिकवक्रियिकाहारकतैजसकार्मणानि च भोगविरक्तो रागकारणेभ्यो विरक्तः सन् सदा सर्वकालं ध्याय सम्यग्भावयेति ॥८॥ संसारविकल्पं भावयन्नाह;दवे खेत्ते काले भावे य भवे य हति पंचेव । परिवदृणाणि बहूसो अणादिकाले य चिंतेज्जो ॥८४॥ द्रव्यं क्षेत्र कालो भावश्च भवश्च भवंति पंचैव। परिवर्तनानि बहुशः अनादिकाले च चिंतयेत् ॥ ८४ ॥ टीका-द्रव्यपरिवर्तनानि कर्मनोकर्मतत्स्वरूपग्रहणपरित्यजनानि, क्षेत्रपरिवर्त्तनानि सर्वप्रदेशेषूत्पत्तिमरणानि, कालपरिवर्त्तनानि उत्सर्पिण्यवसर्पिणीसमयेषूत्पत्तिमरणानि, भावपरिवर्त्तनानि जघन्यमध्यमोत्कृष्टबंधस्थितिबंधरूपाणि, भवपरिवर्त्तनानि सर्वायुर्विकल्पेषूत्पत्तिमरणानि, एवं पंचपरिवर्त्तनानि अनादिकालेऽतीतकाले परिवर्त्तितानि बहुशोऽनेकवारमनेन जीवेनेत्थं चिंतयेत् ध्यायेदिति ॥ ८४ ॥ . तथैतदपि ध्यायेदित्याह;मोहग्गिणा महंतेण दज्झमाणे महाजगे धीरा । समणा विसयविरत्ता झायंति अणंतसंसारं ॥ ८५ ॥ मोहाग्निना महता दह्यमानं महाजगत् धीराः। श्रमणा विषयविरक्ता ध्यायंति अनंतसंसारं ॥ ८५॥ . Page #139 -------------------------------------------------------------------------- ________________ मूलाचारे टीका - मोहाग्निना महता दह्यमानं महाजगत् सर्वलोकं धीरा विषयविरक्ता ध्यायंत्यनंतसंसारं चतुर्गतिभ्रमणोपेतमिति ॥ ८५ ॥ १३४ ध्यानं नाम तपस्तदारंभं न सहत इति प्रतिपादयन्नाह; - आरंभं च कसायं च ण सहदि तवो तहा लोए । अच्छी लवणसमुद्दो य कयारं खलु जहा दिट्टं ॥ ८६ ॥ आरंभं च कषायान् च न सहते तपस्तथा लोके । अक्षि लवणसमुद्रश्च कचारं खलु यथा दृष्टम् ॥ ८६ ॥ टीका- यथाऽक्षि चक्षुर्लवणसमुद्रश्च कचारं तृणादिकमंतस्थं पतितं न सहते स्फुटं तटस्थं करोतीति दृष्टं तथा तपश्चारित्रमारंभं परिग्रहोपार्जनं कषायाँश्च न सहते न क्षमते बहिष्करोतीति ॥ ८६ ॥ पंच परिवर्त्तनानि जीवेन किं तेनैवाहोस्विदन्येन तेनैव नान्येन कथमित्याशंकायामाह;जह कोइ सट्टिवरिसो तीसदिवरिसे णराहिवो जाओ । उभयत्थ जम्मसद्दो वासविभागं विसेसेइ ॥ ८७ ॥ यथा कश्चित् षष्टिवर्षः त्रिंशद्वर्षे नराधिपो जातः । उभयत्र जन्मशब्दो वर्षविभागं विशेषयति ॥ ८७ ॥ टीका – यथा कश्चित्पुरुषः षष्टिवर्षः षष्टिसंवत्सरप्रमाणायुस्त्रिंशद्भिर्वषर्गतैर्नराधिपः संजातोः राजाऽभूदत उभयत्र पर्याये राज्यपर्याये तदभावे च जन्मशब्दो वर्षविभागं संवत्सरक्रमं विशेषयति राज्यपर्याये तदभावपर्याये च वर्त्तते न तत्र सर्वथा भेदं करोति सामान्यविशेषात्मकत्वात्सर्वपदार्थानां यतः सर्वथा नित्यक्षणिके चार्थक्रियाया अभावादर्थक्रियायाश्वाभावे सर्वेषामभावः स्यादभावस्य च न ग्राहकः प्रमाणाभावादिति ॥ ८७ ॥ १ च ग्राहकप्रमाणाभावात् ख ग पुस्तके | Page #140 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । १३५ दृष्टांतं दातेन योजयन्नाह ; एवं तु जीवदव्वं अणाइणिहणं विसेसियं णियमा । रायसरिसो दु केवलपज्जाओ तस्स दु विसेसो ॥ ८८ ॥ एवं तु जीवद्रव्यं अनादिनिधनं विशेष्यं नियमात् । राजसदृशस्तु केवलं पर्यायस्तस्य तु विशेषः ॥ ८८ ॥ टीका- यथा जन्मशब्दो राज्ययुक्तकाले राज्याभावकाले च, एवमेव जीवद्रव्यमनादिनिधनं सर्वकालमवस्थितं विशेष्यमनेकप्रकाराधारतया निर्दिष्टं केवलं तु तस्य पर्यायो नारकादिमनुष्यादिरूपो राज्यपर्यायः स दृष्टो विशेषो विशेषणं न सर्वथा भेदं करोति सर्वास्ववस्थासु तइति ॥ ८८ ॥ द्रव्यार्थिकनयापेक्षयैकत्वं प्रतिपाय पर्यायार्थिकनयापेक्षया भेदं प्रतिपादयन्नाह ; जीवो अणाइणिहणो जीवोत्ति यणियमदो ण वत्तव्वो । जं पुरिसाउगजीवो देवाउगजीविदविसिट्ठो ॥ ८९ ॥ जीवः अनादिनिधनो जीव इति च नियमतो न वक्तव्यः । यत् पुरुषायुष्कजीवो देवायुष्कजीवितविशिष्टः ॥ ८९ ॥ टीका - जीवोऽनादिनिधन आदिवर्जितो निधनवर्जितश्च जीव इति च निश्चयेन सर्वथा गुणादिरूपेणापि नियमतो न वक्तव्यो न वाच्यो यतः पुरुषायुष्को जीवो देवायुष्काद्विशिष्टो न हि य एव देवः स एव मनुष्यः, यच मनुष्यो नासौ तिर्यक्, यश्च तिर्यक् नासौ नारकः पर्यायभेदेन भेदादिति ॥ ८९ ॥ Page #141 -------------------------------------------------------------------------- ________________ १३६ मूलाचारे जीवपर्यायान् प्रतिपादयन्नाह;संखेज्जमसंखेजमणंतकप्पं च केवलं णाणं । तह रायदोसमोहा अण्णे वि य जीवपज्जाया ॥९॥ संख्येयमसंख्ययमनंतकल्पं च केवलं ज्ञानं । तथा रागद्वेषमोहा अन्योप च जीवपर्यायाः ॥ ९ ॥ टीका-संख्यातविषयत्वात्संख्यातं मतिज्ञानं श्रुतज्ञानं च तथाऽसंख्यातविषयत्वादसंख्यातमवधिज्ञानं मन:पर्ययज्ञानं चानंतविषयत्वादनं तकल्पं केवलज्ञानमथवा संख्यातासंख्यातानंतवस्तुपरिच्छेदकत्वात्संख्यातासंख्यातानंतकल्पं केवलज्ञानमनंतविकल्पं चैते सर्वे पर्यायास्तथा रागद्वेषमोहपर्यायास्तथाऽन्येपि जीवस्य पर्याया नारकत्वादयो बालयुवस्थविरत्वादयश्चेति ॥ ९॥ तथैवाह;--- अकसायं तु चरित्तं कसायवसिओ असंजदो होदि । उवसमदि जह्मि काले तक्काले संजदो होदि ॥ ९१ ॥ अकषायं तु चरित्रं कषायवशगः असंयतो भवति । उपशाम्यति यस्मिन् काले तत्काले संयतो भवति ॥९१॥ टीका-चारित्रं नामाकषायत्वं यतः कषायवशगोऽसंयतः, मिथ्यात्वकषायादियुक्तो न संयतः स्यात् यस्मिन् काले उपशाम्यति व्रतस्थः सन् कषायान करोति तस्मिन् काले संयतश्चारित्रस्थो भवति। यस्मात्स एव पुरुषो मिथ्यात्वादियुक्तो मिथ्यादृष्टिरसंयतः सम्यक्त्वादियुक्तः सन् स एव पुनः सम्यग्दृष्टि: संयतश्च । पुरुषत्वसामान्येन पुनरभेदस्तस्मात्सर्वोऽपि भेदाभेदात्मक इति ॥ ९१ ॥ Page #142 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । यतः कषायवशगोऽसंयतो भवतीति तत; - वरं गणपdसादो विवाहस्स पवेसणं । विवाहे रागउपपत्ति गणो दोसाणमागरो ॥ ९२ ॥ वरं गणप्रवेशात् विवाहस्य प्रेवशनं । विवाहे रागोत्पत्तिः गणो दोषाणामाकरः ॥ ९२ ॥ १३७ टीका--यतेरंतकाले गणप्रवेशाच्छिष्यादिमोहनिबंधनकुलमोहकारणापंचपार्श्वस्थ संपर्काद्वरं श्रेष्ठं विवाहे प्रवेशनं वरं गृहप्रवेशो यतो विवाहे दारादिग्रहणे रागोत्पत्तिर्गणः पुनः सर्वदोषाणामाकरः सर्वेऽपि मिथ्यात्वासंयम कषायरागद्वेषादयो भवंतीति ॥ ९२ ॥ - कारणाभावेन दोषाणामभाव इति प्रतिपादयन्नाह ;पच्चयभूदा दोसा पञ्चयभावेण णत्थि उप्पत्ती । पञ्चभावे दोसा णस्संति णिरासया जहा बीयं ॥ ९३ ॥ प्रत्ययभूता दोषा : प्रत्ययाभावेन नास्ति उत्पत्तिः । प्रत्ययाभावात् दोषा नश्यंति निराश्रया यथा बीजं ॥ ९३ ॥ टीका - प्रत्ययात्कर्मबंधात् शिष्यादि मोहनिबंधनकुलमोहकारणाद्भूताः संजाता दोषा रागद्वेषादयः कलुषजीवपरिणामाः, प्रत्ययाभावाच्च रागद्वेषादिकारणभूतकर्माभावाच्च नास्त्युत्पत्तिर्नैव प्रादुर्भावस्तेषां दोषाणां यतश्वोत्पत्तिर्नास्ति ततः प्रत्ययाभावात्कारणाभावाद्दोषा मिथ्यात्वासंयमकषाययोग निर्वर्त्तित जीव परिणामा नश्यंति निर्मूलं क्षयमुपवजंति निराश्रयाः संतः स्वकीयप्रादुर्भाव कारणमंतरेण, यथा प्रत्ययाभावाद्बीजमंकुरं न जनयति बीजस्यांकुरोत्पत्तिनिमित्तं क्षितिजलपवनादित्यरश्मयस्तेषामभावे विपरीते पतितं बीजं यथा नश्यति । येषां कारणानां सद्भावे ये दोषा उत्पयंते तेषां कारणानामभावे तत्फलभूतदोषाणामनुत्पत्तिर्यथा स्वप्रत्यया Page #143 -------------------------------------------------------------------------- ________________ १३८ मूलाचारे भावात्स्वकारणाभावाद्वीजस्यानुत्पत्तिरंकुरत्वेन तत उत्पत्यभावान्निराश्रया रागद्वेषादयो दोषा नश्यंति यथा बीजमुत्पत्तिमंतरेण पश्चान्नश्यतीति ॥ ९३॥ तथा;हेदू पञ्चयभूदा हेदुविणासे विणासमुवयंति । तह्मा हेदुविणासो काययो सव्वसाहूहि ॥ ९४ ॥ हेतवः प्रत्ययभूता हेतुविनाशे विनाशमुपयांति । तस्मात् हेतुविनाशः कर्तव्यः सर्वसाधुभिः ॥ ९४ ॥ टीका-ततः क्रोधमानमायालाभाः प्रत्ययभूताः परिग्रहादयो लोभादिषु सत्सु जायते ततस्तेषां लोभादीनां हेतूनां विनाशे प्रध्वंसे विनाशमुपयांति परिग्रहादयो यत एवं ततो हेतुविनाशः कर्तव्यः सर्वसाधुभिः प्रमत्तादिक्षीणकषायांतैर्लोभादीनामभावे परिग्रहेच्छा न जायते मूर्छादिपरिग्रहस्तदभावे प्रयत्नः कार्यः । पूर्वकारिकया कारणाभावे कार्यस्याभावः प्रतिपादितोऽनया पुनः कार्यस्याभावो निगदितः। अथवा पूर्वगाथोपसंहारार्थेयं गाथा तत एवमभिसंबंधः कार्यः, हेतवः कारणानि प्रत्ययभूतानि कार्याणि हेतुविनाशे तेषां सर्वेषां विनाशो यतः कारणाभावे कार्यस्य चाभावस्ततो हेतुविनाशे यत्नः कार्य इति ॥ ९४ ॥ दृष्टांतं दार्टीतेन योजयन्नाहःजं जं जे जे जीवा पज्जायं परिणमंति संसारे । रायस्स य दोसस्स य मोहस्स वसा मुणेयव्वा ॥ ९५ ॥ यं यं ये ये जीवाः पर्यायं परिणमंति संसारे। रागस्य च दोषस्य च मोहस्य वशा ज्ञातव्याः ॥ ९५ ॥ Page #144 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । टीका-यं यं पर्यायविशेषं नारकत्वादिस्वरूपं परिणमंति गृह्णति जीवाः संसारे ते पर्यायास्ते च जीवा रागस्य द्वेषस्य मोहस्य च । वशास्तदायत्ताः परिणमंतीति ज्ञातव्याः कर्मायत्तत्वात्सर्वसांसारिकपर्यायाणामिति ॥ ९५ ॥ रागद्वेषफलं प्रतिपादयन्नाह;अत्थस्स जीवियस्स य जिब्भोवत्थाण कारणं जीवो। मरदि य मारावेदि य अणंतसो सव्वकालं तु ॥ ९६ ॥ अर्थस्य जीवितस्य च जिह्वोपस्थयोः कारणं जीवः । म्रियते च मारयति च अनंतशः सर्वकालं ॥९६॥ टीका-अर्थस्य कारणं गृहपशुवस्त्रादिनिमित्तं जीवितस्य च कारणं आत्मरक्षार्थ जिह्वायाः कारणं आहारस्य हेतोरुपस्थस्य कारणं कामनिमित्तं जीवो म्रियते स्वयं प्राणत्यागं करोति मारयति चान्याँश्च हिनस्ति प्राणविघातं च कारयति अनंतशोऽनंतवारान् सर्वकालमेवेति ॥ ९६ ॥ तथा;जिब्भोवत्थणिमित्तं जीवो दुक्खं अणादिसंसारे । पत्तो अणंतसो तो जिब्भोवत्थे जयह दाणि ॥ ९७ ॥ जिव्होपस्थानिमित्तं जीवो दुःखं अनादिसंसारे। प्राप्तः अनंतशः ततः जिव्होपस्थं जय इदानीं ॥ ९७ ॥ टीका-रसनेन्द्रियनिमित्तं स्पर्शनेन्द्रियनिमित्तं चानादिसंसारे जीवो दुःखं प्राप्तोऽनंतशोऽनंतवारान् यतोऽतो जिह्वामुपस्थं च जय सर्वथा त्यजेदानीं सांप्रतमिति ॥ ९७ ॥ चदुरंगुला च जिब्भा असुहा चदुरंगुलो उवत्थो वि । अटुंगुलदोसण दु जीवो दुक्खं खु पप्पोदि ।। ९८॥ Page #145 -------------------------------------------------------------------------- ________________ १४० मूलाचारे चतुरंगुला च जिह्वा अशुभा चतुरंगुल उपस्थोपि । अष्टांगुलदोषेण तु जीवो दुःखं खलु प्राप्नोति ॥ ९८ ॥ टीका-चतुरंगुलप्रमाणा जिह्वा अशुभा चतुरंगुलप्रमाणं चोपस्थं मैथुनक्रियानिमित्तं एतदष्टांगुलदोषेणैव जीवो दुःखं प्राप्नोति स्फुटं यतस्ततो जिह्वामुपस्थं च त्यज जयेति ॥ ९८ ॥ स्पर्शनजयकारणमाह;बीहेदव्वं णिचं कटुत्थस्स वि तहित्थिरुवस्स । हवदि य चित्तक्खोभो पञ्चयभावेण जीवस्स ॥९९॥ भेतव्यं नित्यं काष्ठस्थादपि तथा स्त्रीरूपात् । भवति च चित्तक्षोभः प्रत्ययभावेन जीवस्य ॥ ९९ ॥ टीका-भेतव्यं नित्यं सर्वकालं त्रासः कर्त्तव्यः काष्ठस्थादपि स्त्रीरूपात् काष्ठलेपचित्रादिकर्मणोऽपि स्त्रीरूपादुद्वेगः कर्त्तव्यो यतो भवति चित्तक्षोभः मनसश्चलनं प्रत्ययभावेन विश्वासात्कारणवशाज्जीवस्यति॥९९॥ ___ तथा;घिदरिदघडसरित्थो पुरिसो इत्थी बलंतअग्गिसमा। तो महिलेयं दुक्का णट्ठा पुरिसा सिवं गया इयरे॥१०॥ . घृतभृतघटसदृशः पुरुषः स्त्रीज्वलदग्निसमा। तां महिलामंतं ढौकिता नष्टाः पुरुषाः शिवं गता इतरे ॥१०॥ टीका-पुरुषो घृतभृतकुंभसदृशः स्त्री पुनर्बलदनलसदृशी यथा प्रज्वलदग्निसमीपे स्त्यांन ? घृतपूर्णघटः शीघ्रं प्रक्षिरात तथा स्त्रीसमीपे मनुष्या यत एवं ततो महिलायाः समीपमुपस्थिता जल्पहासादिवशं गताः पुरुषा नष्टा ये च न तत्र संगतास्ते शिवं गताः शिवंगतिं प्राप्ता इति ॥ १० ॥ . १ अस्य स्थाने ' स्थितः' इत्यनेन पाठेन भाव्यं । २ शिवां गतिं प्रेस-पुस्तके । Page #146 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । तथा; माया वहिणीए धूआए मूइ वुडू इत्थीए । बीहेदव्वं णिचं इत्थीरूवं णिरावेक्खं ॥ १०१ ॥ मातुः भगिन्या दुहितुः मूकाया वृद्धायाः स्त्रियाः । भेतव्यं नित्यं स्त्रीरूपं निरपेक्षं ॥ १०१ ॥ १४१ टीका - मातुः स्त्रीरूपाद्भगिन्याश्च स्त्रीरूपात् दुहितुश्च स्त्रीरूपात् मूकाया वृद्वायाश्च स्त्रीरूपात् भेतव्यं नित्यं निरपेक्षं यतः स्त्री तु पावकरूपमिव सर्वत्र दहतीति ॥ १०१ ॥ तथा;— हत्थपादपरिच्छिण्णं कण्णणासवियप्पियं । अविवास सदिं णारिं दूरिदो परिवज्जए ॥ १०२ ॥ हस्तपादपरिच्छिन्नां कर्णनासाविकल्पितां । अविवाससं सतीं नारीं दूरतः परिवर्जयेत् ॥ १०२ ॥ टीका — हस्तच्छिन्ना पादच्छिन्ना च कर्णहीना नासिकाविहीना च सुष्टु विरूपा यद्यपि भवति तथापि अविवस्त्रां सतीं नग्नामित्यर्थः, नारीं दूरतः परिवर्जयेत् यतः काममलिनस्तां वांछेदिति ॥ १०२ ॥ ब्रह्मचर्यभेदं प्रतिपादयन्नाह; - मण बंभर वचि बंभचेर तह काय बंभचरं च । अहवा हु बंभचेरं दव्वं भावं ति दुवियप्पं ॥ १०३ ॥ मनसि ब्रह्मचर्यं वचसि ब्रह्मचर्यं तथा काये ब्रह्मचर्यं च । अथवा हि ब्रह्मचर्यं द्रव्यं भावमिति द्विविकल्पं ॥ १०३ ॥ टीका - मनसि ब्रह्मचर्यं वचसि ब्रह्मचर्यं काये ब्रह्मचर्यमिति त्रिप्र- Page #147 -------------------------------------------------------------------------- ________________ १४२ मूलाचारे कारं ब्रह्मचर्यमथवा स्फुटं ब्रह्मचर्य द्रव्यभावभेदेन द्विविधं तत्र भावबह्मचर्य प्रधानमिति ॥ १०३॥ यतः; भावविरदो दु विरदो ण दव्वविरदस्स सुग्गई होई। विसयवणरमणलोलो धरियन्यो तेण मणहत्थी ॥१०४॥ भावविरतस्तु विरतो न द्रव्यविरतस्य सुगतिः भवति । विषयवनरमणलोलो धारयितव्यः तेन मनोहस्ती॥ १०४ ॥ टीका-भावेन विरक्तोंऽतरंगेण च यो विरक्तः स एव विरतः संयतो न द्रव्येणाब्रह्मवृत्या विरतस्य तस्य सुगतिः शोभना गतिर्भवति यतोऽतो विषया रूपादयस्त एव वनमारामस्तस्मिन् रमणलोलः क्रीडालंपटो धारयितव्यो नियमितव्यस्तेन मनोहस्ती चित्तकुंजर इति ॥ १०४ ॥ अब्रह्मकारणं द्रव्यमाह;पढमं विउलाहारं विदियं कायसोहणं । तदियं गंधमल्लाई चउत्थं गीयवाइयं ।। १०५॥ प्रथमं विपुलाहारः द्वितीयं कायशोधनं । तृतीयं गंधमाल्यानि चतुर्थ गीतवादित्रं ॥ १०५॥ टीका-प्रथममब्रह्मचर्य विपुलाहारः प्रचुरगृह्यान्नग्रहणं, द्वितीयमब्रह्म कायशोधनं स्नानाभ्यंगनोद्वर्त्तनादिभी रागकारणैः शरीरस्य संस्करणं, तृतीयमब्रह्म गंधमाल्यानि यक्षकर्दमा महिषीधूपादिना सुगंधग्रहणं, चतुर्थमब्रह्म गीतवादित्रादि सप्तस्वरपंचातोद्यवंशवीणातंत्रीप्रभृतिकमिति ॥१०५॥ तथा;तह सयणसोधणं पि य इत्थिसंसग्गं पि अत्थसंगहणं। पुव्वरदिसरणमिंदियविसयरदी पणिदरससेवा ॥१०६॥ Page #148 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । १४३ तथा शयनशोधनमपि च स्त्रीसंसर्गोपि अर्थसंग्रहणं। पूर्वरतिस्मरणं इंद्रियविषयरतिः प्रणीतरससेवा ॥१०६ ॥ टीका तथा शयनं तूलिकापर्यंकादिकं शोधनं क्रीडागृहं चित्रशालादिकं रहस्यस्थानं कामोद्रेककारणं पंचममब्रह्म । तथापि च स्त्रीसंसर्गे रागोत्कटवनिताभिः कटाक्षनिरीक्षणपराभिरुपप्लवशीलाभिः संपर्कः क्रीडनं षष्ठमब्रह्म । तथार्थस्य सुवर्णादिकस्याभरणवस्त्रादिकस्य च ग्रहणं सप्तममब्रह्म । तथा पूर्वरतिस्मरणं पूर्वस्मिन् काले यत् क्रीडितं तस्यानुस्मरणं चिंतनमष्टममब्रह्म । तथेंद्रियविषयेषु रूपरसगंधशब्दस्पर्शेषु कामांगेषु रतिः समीहा नवममब्रह्म । तथा प्रणीतरससेवा इष्टरसानामुपसेवनं दशममब्रह्म । अब्रह्मकारणत्वादब्रह्मेति ॥ १०६ ॥ तस्य दशप्रकारस्यापि परिहारमाह;दसविहमब्बंभमिणं संसारमहादुहाणमावाहं । परिहरइ जो महप्पा सो दृढभव्वदो होदि ॥१०७॥ दशविधमब्रह्म इदं संसारमहादुःखानामावाहं । परिहरति यो महात्मा स दृढब्रह्मवतो भवति॥ १०७ ॥ टीका-एवं दशप्रकारमप्यब्रह्मेदं संसारकारणानां महदुःखानामावाहमवस्थानं प्रधानहेतुभूतं परिहरति यो महात्मा संयतः स दृढब्रह्मवतो भवति । भावाब्रह्मकारणं द्रव्याब्रह्मकारणं च यः परित्यजति तस्योभयथापि ब्रह्मचर्य सम्यक् तिष्ठतीति स च चारित्रवानिति ॥ १०७ ॥ परिग्रहपरित्यागे फलमाह;कोहमदमायलोहेहिं परिग्गहे लयइ संसजइ जीवो। तेणुभयसंगचाओ कायव्वो सव्वसाहहिं ॥१०८॥ Page #149 -------------------------------------------------------------------------- ________________ १४४ मूलाचारे क्रोधमदमायालोभैः परिग्रहे लगति संसजति जीवः। .. तेनोभयसंगत्यागः कर्तव्यः सर्वसाधुभिः ॥ १०८॥ टीका-यतः क्रोधमदमायालोभैः परिग्रहे लगति संसजति परिग्रहत्वात् गृह्णाति जीवस्तेन कारणेनोभयसंगत्यागः कर्त्तव्यो बाह्याभ्यंतरपरिग्रहपरिहारः कार्यः । उभयाब्रह्म च परिहरणीयं येन सह क्रोधमानमायालोभाश्च यत्नतस्त्याज्याः सर्वसाधुभिरिति ॥ १०८॥ ततः;णिस्संगो णिरारंभो भिक्खाचरियाए सुद्धभावो य। एगागी झाणरदो सव्वगुणड्डो हवे समणो ॥ १०९ ॥ निःसंगो निरारंभो भिक्षाचर्यायां शुद्धभावश्च। एकाकी ध्यानरतः सर्वगुणाढ्यो भवेत् श्रमणः ॥ १०९ ॥ टीका-उभयपरिग्रहाभावैर्निःसंगो मूर्छारहितस्ततश्च निरारंभः पापक्रियादिभ्यो निवृत्तस्ततश्च भिक्षाचर्यायां शुद्धभावो भवति ततश्चैकाकी ध्यानरतः संजायते ततश्च सर्वगुणाढ्यः सर्वगुणसंपन्नो भवेत् ॥ १०९॥ श्रमणविकल्पमाह;णामेण जहा समणो ठावणिए तह य दवभावेण । णिक्खवो वीह तहा चदुविहो होइ णायव्वो ॥११०॥ नाम्ना यथा श्रमणः स्थापनया तथा च द्रव्यभावाभ्यां । निक्षेपोपि इह तथा चतुर्विधो भवति ज्ञातव्यः॥ ११० ॥ टीका-श्रमणगोचरं निक्षेपमाह;-नाम्ना यथा श्रमणः स्थापनया तथैव तत्र द्रव्येण भावेन च तथैव द्रष्टव्यः । नामश्रमणमात्रं नामश्रमण: तदाकृतिपादिषु स्थापनाश्रमणो गुणरहितलिंगग्रहणं द्रव्यश्रमणो मूलगु Page #150 -------------------------------------------------------------------------- ________________ समयसारााधेकारः। १४५ णोत्तरगुणानुष्ठानप्रवणभावो भावश्रमणः । एवमिह निक्षेपस्तथैवागमप्रतिपादितक्रमेण चतुर्विधो भवति ज्ञातव्य इति ॥ ११०॥ तेषां मध्ये भावश्रमणं प्रतिपादयन्नाह;भावसमणा हु समणा ण सेससमणाण सुग्गई जम्हा । जहिऊण दुविहमुवहिं भावेण सुसंजदो होह ॥ १११ ॥ भावश्रमणा हि श्रमणा न शेषश्रमणानां सुगतिर्यस्मात् । हित्वा द्विविधपधिं भावने सुसंयतो भव ॥ १११ ॥ टीका-भावश्रमणा एव श्रमणा यतः शेषश्रमणानां नामस्थापनाद्रव्याणां न सुगतिर्यस्मात्तस्मादिविधमुपधिं द्रव्यभावरूपं परित्यज्य भावेन सुसंयतो भवेति ॥ १११ ॥ भिक्षाशुद्धिं च कुर्वित्याह;वदसीलगुणा जम्हा भिक्खाचरिया विसुद्धिए ठंति । तम्हा भिक्खाचरियं सोहिय साहू सदाविहारिज्ज॥११२॥ .. व्रतशीलगुणा यस्मात् भिक्षाचर्याया विशुद्धयां तिष्ठति। तस्मात् भिक्षाचर्या शोधयित्वा साधुः सदा विहरेत् ॥ ११२॥ टीका--व्रतानि शीलानि गुणाश्च यस्माद्भिक्षाचर्याया विशुद्ध्यां सत्यां तिष्ठति तस्माद्भिक्षाचर्या संशोध्य साधुः सदा विहरेत् । भिक्षाचर्याशुद्धिश्च प्रधानं चारित्रं सर्वशास्त्रसारभूतमिति ॥ ११२ ॥ तथैतदपि विशोध्याचरेदित्याह;भिक्खं वक्तं हिययं सोधिय जो चरदि णिच्च सो साह। एसो सुहिद साहू भणिओ जिणसासणे भयवं ॥११३॥ भिक्षां वाक्यं हृदयं शोधयित्वा यः चरति नित्यं स साधुः । } एष सुस्थितः साधुणितो जिनशासने भगवान् ॥ ११३ ॥ १० Page #151 -------------------------------------------------------------------------- ________________ मूलाचारे टीका-भिक्षां गोचरशिद्धं वाक्यं वचनशुद्धिं हृदयं मनःशुद्धिं विशोध्य यश्चरति चारित्रोद्योगं करोति साधुर्नित्यं स एष सुस्थितः सर्वगुणोपेतः साधुभणितो भगवान् , क? जिनशासने सर्वज्ञागमे इति ॥११३॥ ... तथैतदपि सुष्टु ज्ञात्वा चरत्वित्याह;दव्वं खत्तं कालं भावं सत्तिं च सुटु णाऊण । झाणज्झयणं च तहा साहू चरणं समाचरऊ॥११४ ॥ द्रव्यं क्षेत्रं कालं भावं शक्तिं च सुष्टु ज्ञात्वा । ध्यानाध्ययनं च तथा साधुश्चरणं समाचरतु ॥ ११४॥ टीका-द्रव्यमाहारशरीरादिकं क्षेत्रं जांगलरूपादिकं कालं सुषमासुषमादिकं शीतोष्णादिक भावं परिणामं च सुष्ठु ज्ञात्वा ध्यानमध्ययनं तथा ज्ञात्वा साधुश्चरणं समाचरतु । एवं कथितप्रकारेण चारित्रशुद्धिभवतीति ॥ ११४ ॥ तथाभयत्यागफलमाह;चाओ य होइ दुविहो संगच्चाओ कलत्तचाओ य। उभयच्चायं किच्चा साहू सिद्धिं लहू लहदि ॥ ११५ ॥ त्यागश्च भवति द्विविधः संगत्यागः कलत्रत्यागश्च । उभयत्यागं कृत्वा साधुः सिद्धिं लघु लभते ॥ ११५ ॥ टीका-त्यागश्च भवति द्विविधः संगत्यागः कलत्रत्यागश्च तत उभयत्यागं कृत्वा साधुर्लघु शीघ्र सिद्धिं लभते न तत्र संदेह इति ॥ ११५ ॥ चारित्रशुद्धिमसंयमप्रत्ययकषायप्रत्यययोगप्रत्ययस्वरूपशुद्धिं च प्रतिपाद्य दर्शनशुद्धिं मिथ्यात्वप्रत्ययशुद्धिं च प्रतिपादयन्नाह;पुढवीकायिगजीवा पुढवीर चावि अस्सिदा संति। तम्हा पुढवीए आरंभे णिचं विराहणा तेसिं ॥ ११६ ॥ Page #152 -------------------------------------------------------------------------- ________________ समयसाराधिकारः। पृथिवीकायिकजीवाः पृथिव्याः चापि आश्रिताः संति । तस्मात् पृथिव्या आरंभे नित्यं विराधना तेषां ॥ ११६ ।। टीका-पृथिवीकायिकजीवास्तवर्णगंधरसाः सूक्ष्माः स्थूलाश्च तदाश्रिताश्चान्ये जीवास्त्रसाः शेषकायाश्च संति तस्मात्तस्याः पृथिव्या विराधनादिके खननदहनादिके आरंभे आरंभसमारंभसंरंभादिके च कृते निश्चयेन तेषां जीवानां तदाश्रितानां प्राणव्यपरोपणं स्यादिति । एवमप्कायिकतेजःकायिकवायुकायिकवनस्पतिकायिकत्रसकायिकानां तदाश्रितानां च समारंभे ध्रुवं विराधनादिकं भवतीति निश्चेतव्यम् ॥ ११६ ॥ तम्हा पुढविसमारंभो दुविहो तिविहेण वि। जिणमग्गाणुचारीणं जावजीवं ण कप्पई ॥ ११७॥ तस्मात् पृथिवीसमारंभो द्विविधः त्रिविधेनापि । जिनमार्गानुचारिणां यावज्जीवं न कल्प्यते ॥ ११७ ॥ टीकाः–यतः पृथिवीकायिकादीनां तदाश्रितानां च समारंभे ध्रुवा हिंसा तस्मात्पृथिवीसमारंभः खननादिको द्विविधो द्विप्रकारो पृथिवीकायिकतदाश्रितोभयरूपोऽपि त्रिविधेन मनोवाक्कायरूपेण जिनमार्गानुचारिणां यावज्जीवं न कल्यते न युज्यत इति । एवमप्तेजोवायुवनस्पतित्रसानां विप्रकारेऽपि समारंभेऽवगाहनसेचनज्वालनतापनवीजनमुखवातकरणच्छेदनतक्षणादिकं न कल्प्यते जिनमार्गानुचारिण इति ॥ ११७ ॥ ___ असंयमप्रत्ययं तद्विशुद्धिं च प्रतिपाद्य मिथ्यात्वप्रत्ययं तद्विशुद्धिं प्रतिपादयन्नाह;जो पुढविकाइजीवे ण वि सद्दहदि जिणेहिं णिद्दिढे । दूरत्यो जिणवयणे तस्स उवट्ठावणा णत्थि ॥ ११८॥ Page #153 -------------------------------------------------------------------------- ________________ १४८ मूलाचारे यः पृथिवीकायिकजीवान् नापि श्रद्दधाति जिनैः निर्दिष्टान् । दूरस्थो जिनवचनात् तस्य उपस्थापना नास्ति ॥ ११८ ॥ टीका – यः पृथिवीकायिकान् जीवान् न श्रद्दधाति नाभ्युपगच्छति जिनैः प्रज्ञप्तान् प्रतिपादितान् स जिनवचनात् दूरं स्थितो न तस्योपस्थापनाऽस्ति न तस्य सम्यग्दर्शनादिषु संस्थितिर्विद्यते मिथ्यात्वादिति । एवमकायिकान् वनस्पतिकायिकान् सकायिकाञ्च तदाश्रिताँश्च यो नाभ्युपगच्छति तस्याप्युपस्थापना नास्ति सोऽपि मिथ्यादृष्टिरेव न कदाचिदपि मुक्तिमार्गे तस्य स्थितिर्यतो दर्शनाभावेन चारित्रस्य ज्ञानस्य चाभाव एव दर्शना विनाभावित्वात्तयोरिति ॥ ११८ ॥ यः पुनः श्रद्दधाति स सद्दृष्टिरिति प्रतिपादयन्नाह ;-- जो पुढविकाजवे अइसहदे जिणेहिं पण्णत्ते । उवलद्वपुण्णपावस्स तस्सुवद्वावणा अस्थि ।। ११९ ।। यः पृथिवी कायिकजीवान् अतिश्रद्दधाति जिनैः प्रज्ञप्तान् । उपलब्धपुण्यपापस्य तस्योपस्थापना अस्ति ॥ ११९ ॥ टीका - यः पृथिवीकायिक जीवांस्तदाश्रिताँश्चातिशयेन श्रद्दधाति मन्यते जिनैः प्रज्ञप्तान् तस्योपलब्धपुण्यपापस्योपस्थापना विद्यते मोक्षमार्गे तस्य संस्थितिरवश्यंभाविनीति । एवमप्कायिकतेज:कायिकवायुकायिकवनस्पतिकायिकत्रसकायिकांस्तदाश्रिताँश्च यः श्रद्दधाति मन्यतेऽभ्युपगच्छति तस्योपलब्धपुण्यपापस्योपस्थापना विद्यत इति ॥ ११९ ॥ न पुनः श्रद्दधाति तस्य फलमाह; ण सहदि जो एदे जीवे पुढविदं गदे । स गच्छे दिग्धमद्भाणं लिंगत्थो वि हु दुम्मदी ॥ १२० ॥ न श्रद्दधाति य एतान् जीवान् पृथिवीत्वं गतान् । स गच्छेत् दीर्घमध्वानं लिंगस्थोपि हि दुर्मतिः ॥ १२० ॥ Page #154 -------------------------------------------------------------------------- ________________ समयसाराधिकारः । १४९ टीका - न श्रद्दधाति नाभ्युपगच्छति य एतान् जीवान् पृथिवीत्वं गतान् पृथिवीकायिकान् तदाश्रिताँश्च स गच्छेद्दीर्घमध्वानं दीर्घसंसारं लिंगस्थोऽपि नाग्न्यादिलिंगसहितोऽपि दुर्मतिर्यत इति । एवमप्कायिकतेज:कायिक वायुकायिकवनस्पति कायिकत्रस कायिकान् तदाश्रिताँश्च यो न श्रद्दधाति नाभ्युपगच्छति स लिंगस्थोऽपि दुर्मतिर्दीर्घसंसारं गच्छेदिति ॥१२०॥ एवंभूतान् जीवान् पातुकामः श्रीगणधरदेवस्तीर्थकर परमदेवं पृष्टवानिति, तत्प्रश्नस्वरूपमाह;-- कथं चरे कथं चिट्ठे कधमासे कथं सये । कथं अंजेज्ज भासिज्ज कथं पावं ण वज्झदि ॥ १२१ ॥ कथं चरेत् कथं तिष्ठेत् कथमासीत कथं शयीत । कथं भुंजीत भाषेत कथं पापं न बध्यते ॥ १२१ ॥ टीका — एवं प्रतिपादितक्रमेण जीवनिकायकुले जगति साधुः कथं केन प्रकारेण चरेद्गच्छेदनुष्ठानं वा कुर्यात् कथं तिष्ठेत् कथमासीत कथं वा शयीत कथं भुंजीत कथं भाषेत कथं वदेत् कथं पापं न बध्यते केन प्रकारेण पापागमो न स्यादिति ॥ १२१ ॥ प्रश्नमालाया उत्तरमाह; जदं चरे जं चिट्ठे जदमासे जद सये । जदं भुंजेज्ज भासेज्ज एवं पावं णं बज्झइ ॥ १२२ ॥ यत्नेन चरेत् यत्नेन तिष्ठेत् यत्नेनासीत यत्नेन शयीत । यत्नेन भुंजीत भाषेत एवं पापं न बध्यते ॥ १२२ ॥ टीका - यत्नेनेर्यापथसमितिशुद्ध्या चरेत् यत्नेन तिष्ठेत् महाव्रतादिसंपन्नो यत्नेनासीत प्रतिलिख्य जीवानविराधयन् पर्यकादिना यत्नेन शयीत प्रतिलिख्योद्वर्त्तनपरावर्त्तनादिकर्म कुर्वन् संकुचितात्मा रात्रौ शयनं कुर्यात् यत्नेन भुंजीत षट्चत्वारिंशद्दोषवर्जितां भिक्षां गृह्णीयाद्यत्नेन भाषेत भाषासमितिक्रमेण सत्यवतोपपन्नः एवमनेन प्रकारेण पापं च न बध्यते कर्मास्रवो न भवतीति ॥ १२२ ॥ , Page #155 -------------------------------------------------------------------------- ________________ मूलाचारे १५० यत्नेन चरतः फलमाह; जं तु चरमाणस्स दयाहुस्स भिक्खुणो । ण ण बज्झदे कम्मं पोराणं च विधूयदि ॥ १२३ ॥ यत्नेन तु चरतः दयाप्रेक्षकस्य भिक्षोः । नवं न बध्यते कर्म पुराणं च विधूयते ॥ १२३॥ टीका – यत्नेनाचरतो भिक्षोर्दयाप्रेक्षकस्य दयाप्रेक्षिणो नवं न बध्यते कर्म चिरंतनं च विधूयते निराक्रियते । एवं यत्नेन तिष्ठता यत्नेनासीनेन यत्नेन शयनेन यत्नेन भुंजानेन यत्नेन भाषमाणेन नवं कर्म न बध्यते चिरंतनं च क्षीयते ततः सर्वथा यत्नाचारेण भवितव्यमिति ॥ १२३॥ समयसारस्योपसंहारगाथेयः- एवं विधाणचरियं जाणित्ता आचरिज जो भिक्खू | णासेऊण दु कम्मं दुविहं पिय लहु लहइ सिद्धिं ॥ १२४॥ एवं विधानचरितं ज्ञात्वा आचरेत् यो भिक्षुः । नाशयित्वा तु कर्म द्विविधमपि च लघु लभते सिद्धिं ॥ १२४ ॥ टीका - एवमनेन प्रकारेण विधानचरितं क्रियानुष्ठानं ज्ञात्वा आचरति यो भिक्षुः स साधुर्नाशयित्वा कर्म द्विप्रकारमपि शुभाशुभरूपमपि द्रव्यरूपं भावरूपं वा शीघ्रं लभते सिद्धिं यत एवं चारित्रान्मोक्षो भवति सर्वस्य सारभूतं चारित्रं तत इति दशमस्य समयसारसंज्ञकस्याचारस्य ॥ १२४ ॥ इति श्रीमद्वट्टकेर्याचार्यवर्यप्रणीते मूलाचारे श्रीवसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहि दशमः समयसाराधिकार: ॥ * * ख-ग-पुस्तकेऽस्य स्थानेऽयं पाठः- इति वसुनन्दिविरचितायामाचारवृत्तौ दशमः परिच्छेदः । Page #156 -------------------------------------------------------------------------- ________________ १५१... शीलगुणाधिकारः । . शीलगुणाधिकारः। सीलगुणालयभूदे कल्लाणविसेसपाडिहेरजुदे। . वंदित्ता अरहंते सीलगुणे कित्तइस्सामि ॥१॥ शीलगुणालयभूतान् कल्याणविशेषप्रातिहार्ययुक्तान् । वंदित्वा अर्हतः शीलगुणान् कीर्तयिष्यामि ॥१॥ - टीका-शील-शीलं व्रतपरिरक्षणं शुभयोगवृत्तिरशुभयोगवृत्तिपरिहार आहारभयमैथुनपरिग्रहसंज्ञाविरतिः पंचेंद्रियनिरोधः कायसंयमविषयोद्भवदोषाभावः क्षात्यादियोगश्च, गुणा-गुणाः संयमविकल्पाः पंचमहाव्रतादयः कषायाद्यभावोऽतिक्रमायभावः षट्रायसविकल्पसंयमदशप्रकाराब्रह्माभाव आकंपितादिदोषविमुक्तिरालोचनादिप्रायश्चित्तकरणं, शीलानि च गुणाश्च शीलगुणास्तेषामालयभूताः सम्यगवस्थानं संजाताः शीलगुणालयभूतास्तान् शीलगुणालयभूतान् व्रतानां व्रतपरिरक्षणानां चाधारान् । कल्लाण-कल्याणानि स्वर्गावतरणजन्मनिष्क्रमणकेवलज्ञानोत्पत्तिनिर्वाणगमनानि, विसेस-विशेषा अतिशयविशेषाश्चतुस्त्रिंशत्, स्वाभाविका दश निःस्वेदत्वादिकाः, घातिकर्मक्षयजा दश गव्यूतिशतचतुष्टयसुभिक्षत्वादिका, देवोपनीताश्चतुर्दश सर्वार्द्धमागधिकभाषादयः, पाडिहेर-प्रातिहार्याण्यष्टौ सिंहासनादीनि, जुदे-युक्तान् सहितान्, कल्याणानि चातिशयविशेषाश्च प्रातिहार्याणि च कल्याणविशेषप्रातिहार्याणि तैर्युक्तास्तान् कल्याणविशेषप्रातिहार्ययुक्तान् सर्वान सर्वज्ञत्वचिन्होपेतान् त्रिषष्टिकर्मक्षयजगुणसंयुक्तान, बंदित्ता-वंदित्वा प्रणम्य,अरहंतअर्हतः सर्वज्ञनाथान्, शीलगुणे-शीलगुणान् शीलानि गुणांश्च, कित्तइस्सामिकीर्तयिष्यामि सम्यगनुवर्तयिष्यामि । अर्हतः शीलगुणालयभूतान् कल्याणविशेषप्रातिहार्ययुक्तान् वंदित्वा शीलगुणान् की यष्यामीति संबंधः ॥१॥ Page #157 -------------------------------------------------------------------------- ________________ १५२ मूलाचारे शीलानां तावदुत्पत्तिक्रममाह; - जो कर सण्णा इंदिय भोम्मादि समणधम्मे य । अण्णोष्णेहिं अभत्था अट्ठारहसीलसहस्साइं ॥ २ ॥ योगाः करणानि संज्ञा इंद्रियाणि भ्वादयः श्रमणधर्माश्च । अन्योन्यैः अभ्यस्ता अष्टादशशील सहस्राणि ॥ २ ॥ टीका - जोए - योग आत्मप्रदेशपरिस्पदः स निमित्तभेदात् त्रिधा भिद्यते काययोगो मनोयोगो वाग्योग इति । तद्यथा । वीर्यान्तरायक्षयोपशसद्भावे सत्यौदारिकादिसप्तकायवर्गणान्यतमालंबनापेक्ष आत्मप्रदेशपरिस्पंदः काययोगः, शरीरनामकर्मोदयापादितवाग्वर्णनालंबने सति वीर्या - तरायमत्यक्षराद्यावरणक्षयोपशमादिनाभ्यंतरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुखस्यात्मनः प्रदेशपरिस्पंदो वाग्योगः, अभ्यंत रवीयतरायनोइंद्रियावरणक्षयोपशमात्मकमनोलब्धिसन्निधाने बाह्यनिमित्तमनोवर्गणालंबने सति मनः परिणामाभिमुखस्यात्मनः प्रदेशपरिस्पंदो मनोयोगः, कायवाङ्मनसां शुभक्रिया इत्यर्थः । करणे - करणानि कायवाङ्मनसामशुभक्रियाः सावद्यकर्मादाननिमित्ताः । सण्णा - संज्ञा आहारभयमैथुनपरिग्रहाभिलाषाः । इंदिय-इंद्रियाणि । भोम्मादि-भूः पृथिवी आदिर्येषां ते भ्वादयः पृथिवीकायादयः । समणधम्मे य-श्रमणधर्माश्व संयताचरणविशेषाश्च । अण्णाणेहिं अन्योनैन्योन्यं परस्परं । अन्भत्था - - अभ्यस्ताः समाहताः । त एते योगादयः श्रमणधर्मपर्यंताः परस्परं गुणिताः, अट्ठारह - अष्टादशशीलसहस्राणि । योगैः करणानि गुणितानि नव भवंति, पुनराहारादिसंज्ञाभिश्चतसृभिर्नव गुणितानि षट् त्रिंशद्भवंति शीलानि, पुनरिन्द्रियैः पंचभिगुणितानि षट्त्रिंशत् अशीत्यधिकं शतं पुनः पृथिव्यादिभिदर्शभिः कायैरशीतिशतं गुणितं अष्टादशशतानि भवंति पुनः श्रमणधर्मैर्दशभिरष्टादशशतानि गुणितानि अष्टादशशलिसहस्राणि भवतीति ॥ २ ॥ Page #158 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। योगादीनां भेदपूर्वकं स्वरूपमाह;तिण्हं सुहसंजोगो जोगो करणं च असुहसंजोगी। आहारादी सण्णा फासादिय इंदिया णेया ॥ ३ ॥ त्रायाणां शुभसंयोगो योगः करणं च अशुभसंयोगः। आहारादयः संज्ञाः स्पर्शनादीनि इंद्रियाणि ज्ञेयानि ॥ ३॥ टीका-तिण्हं-त्रयाणां मनोवाक्कायानां, सुहसंजोगो-शुभेन संयोगः शुभसंयोगः पापक्रियापरिहारपूर्वकशुभकर्मादाननिमित्तव्यापारः सर्वकर्मक्षयनिमित्तवाग्गुप्तिर्योग इत्युच्यते । करणं च-करणं क्रिया परिणामो वा तेषां मनोवाक्कायानां योऽयमशुभेन संयोगस्तत्करणं पापक्रियापरिणामः पापादाननिमित्तव्यापारव्याहारौ च करणमित्युच्यते । आहारादी-आहारादय आहारभयमैथुनपरिग्रहाः,सण्णा-संज्ञा अभिलाषाः,चतुर्विधाशनपानखाद्यस्वाद्यान्याहारः, भयकर्मोदयाच्छरीरवाङ्मनःसंबंधिजीवप्रदेशानामाकुलता भयं, स्त्रीपुंसयोश्चारित्रमोहोदये सति रागपरिणामाविष्टयोः परस्परं स्पर्शनं प्रतीच्छा मैथुनं, गौमहिषीमणिमौक्तिकादीनां चेतनाचेतनानां बाह्यानां आभ्यंतराणां च रागादीनामुपधीनां संरक्षणार्जनसंस्कारादिलक्षणा व्यापृतिः परिग्रहः, आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा चेति। फासादिय-स्पर्शनादीनांद्रयाणि ज्ञेयानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि ज्ञातव्यानीति ॥ ३॥ पृथिव्यादीनां भेदं स्वरूपं च प्रतिपादयन्नाह;पुढविदगागणिमारुदपत्तेयअणंतकायिया चेव । विगतिगचदुपंचेंदिय भोम्मादि हवंति दस एदे ॥४॥ पृथिव्युदकाग्निमारुतप्रत्येकानंतकायिकाश्चैव । द्वित्रिचतुःपंचेंद्रिया भ्वादयो भवति दशैते ॥४॥ Page #159 -------------------------------------------------------------------------- ________________ १५४ मूलाचारे टीका--पुढवि-पृथिवी । दग-आपो जलं । अगाण-आग्निः । मारुद-मारुत: वातः । पतेय—प्रत्येक एकं जीवं प्रति कारणं शरीरहेतुपुद्गलप्रचयः प्रत्येकमसाधारणं ।अणंत-अनंतः साधारणं । कायिया चेवकायिकाश्चैव । पृथिवी कायो विद्यते येषां ते पृथिवीकायिकाः, आपः कायो विद्यते येषां ते अप्कायिकाः, तेजः कायो विद्यते येषां ते तेजःकायिकाः, मारुतः कायो विद्यते येषां ते मारुतकायिकाः, प्रत्येकः कायो विद्यते येषां ते प्रत्येककायिकाः पूगफलनालिकेरादयः, अनंतः कायो विद्यते येषां तेऽनंतकायिका गुडूचीमूलकादयः, चशब्द उक्तसमुच्चयार्थः, एवकारोऽवधारणार्थः । पृथिवीकायिकादयः स्वभेदभिन्ना बादराः सूक्ष्माः पर्याप्ता अपर्याप्ताश्चैवेति । विगतिगचदुपंचेंदिय-इन्द्रियशब्दः प्रत्येकमभिसंबध्यते दीन्द्रियाः कृम्यादयः, त्रीन्द्रिया मत्कुणादयः, चतुरिंद्रिया भ्रमरादयः, पंचेंद्रिया मंडूकादयः । भोम्मादि-भूम्यादयः । हवंति-भवंति । दस-दश । एदे-एते पृथिवीकायिकादयः पंचेंद्रियपर्यंता दशैव भवति नान्य इति ॥४॥ श्रमणधर्मस्य भेदं स्वरूपं च प्रतिपादयन्नाह;खंती मद्दव अज्जव लाघव तव संजमो अंकिचणदा । तह होदि बंभचेरं सच्चं चागो य दस धम्मा ॥ ५॥ क्षांतिः मार्दवमार्जवं लाघवं तपः संयमः अकिंचनता। तथा भवति ब्रह्मचर्य सत्यं त्यागश्च दश धर्माः॥ ५॥ टीकाः-खंती-उत्तमक्षमा शरीरस्थितिहेतुमार्गणार्थ परकुलान्युपयतस्तीर्थयात्राद्यर्थं वा पर्यटतो यतेर्दुष्टजनाक्रोशोत्प्रहसनावज्ञाताडनभर्त्सनशरीरव्यापादनादीनां सन्निधाने स्वांते कालुष्यानुत्पत्तिः क्षांतिः । मद्दव-मृदोर्भावो मार्दवं जात्यादिमदावेशादभिमानाभावः । अज्जव-जोर्भाव आर्जवं मनोवाक्कायानामवक्रता । लाघव-लघो वो लाघवं अनतिचारत्वं शौचं । १ स्वान्तः ग। Page #160 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। १५५ प्रकर्षप्राप्तौ लोभनिवृत्तिः । तव-तपः कर्मक्षयार्थ तप्यंते शरीरेन्द्रियाणि तपस्तद्द्वादशविधं पूर्वोक्तमवसेयं । संजमो-संयमो धर्मोपबृंहणार्थ समितिषु वर्तमानस्य प्राणीन्द्रियदयाकषायनिग्रहलक्षणः । अकिंचणदा-नास्य किंचनास्त्याकंचनोऽकिंचनस्य भाव आकिंचन्यमकिंचनता उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसंबंधनिवृत्तिः । तह होदि-तथा भवति तथ तेनैव प्रकारणे दशाब्रह्मपरिहारेण , बंभचेरं-ब्रह्मचर्य अनुज्ञातांगनास्मरणकथाश्रवणस्त्रीसंसक्तशयनादिवर्जनं स्वतंत्रवृत्तिनिवृत्यर्थो वा गुरुकुलवासो ब्रह्मचर्य । सच्चं-सत्यं परोपतापादिपरिवर्जितं कर्मादानकारणानिवृत्तं साधुवचनं सत्यं । चागो-त्यागः संयतस्य योग्यज्ञानादिदानं त्यागः चशब्दः समुच्चयार्थः । दस धम्मा-दशैते धर्मा दशप्रकारोऽयं श्रमणधर्मो व्याख्यात इति ॥ ५॥ शीलानामुत्पत्तिनिमित्तमक्षसंक्रमणाच्चारणक्रममाह;-- मणगुत्ते मुणिवसहे मणकरणोम्मुक्कसुद्धभावजुदे । आहारसण्णविरदे फासिंदियसंपुडे चेव ॥६॥ पुढवीसंजभजुत्ते खंतिगुणसंजुदे पढमसीलं। अचलं ठादि विसुद्धे तहेव सेसाणि णेयाणि ॥७॥ मनोगुप्तस्य मुनिवृषभस्य मन:करणोन्मुक्तशुद्धभावयुक्तस्य । आहारसज्ञाविरतस्य स्पर्शनेंद्रियसंवृतस्य चैव ॥ ६ ॥ पृथिवीसंयमयुक्तस्य क्षतिगुणसंयुक्तस्य प्रथमशीलं । अचलं तिष्ठति विशुद्धस्य तथैव शेषाणि ज्ञेयानि ॥७॥ टीका-मणगुत्ते-मनसा गुप्तो मनोगुप्तस्तस्य तस्मिन्वा मनोगुप्तस्य मनोगुप्ते । मुणिवसहे-मुनिवृषभस्य मुनिवृषभे वा, मणकरणोम्मुक्कसुद्धभावजुदे-मनःकरणोन्मुक्तशुद्धभावयुतः, मनःकरणोन्मुक्तश्चासौ शुद्धभावश्च तेन युतः मनःकरणोन्मुक्तशुद्धभावयुतस्तस्य मनःकरणोन्मुक्तशुद्धभा Page #161 -------------------------------------------------------------------------- ________________ १५६ मूलाचारे वयुतस्य मनःकरणोन्मुक्तशुद्धभावयुते वा । आहारसण्णविरदे-आहारसंज्ञया विरत आहारसंज्ञाविरतस्तस्य आहारसंज्ञाविरतस्य आहारसंज्ञाविरते वा । फासिंदियसंपुडे-स्पर्शेनेन्द्रियं संवृतं यस्यासौ स्पर्शनेन्द्रियसंवृतस्तस्य स्पर्शनेंद्रियसंवृतस्य स्पर्शनेन्द्रियसंवृते वा । चेव-निश्चयेन । पुढवीसंजमजुत्तेपृथिवीसंयमेन युक्तः पृथिवीसंयमयुक्तस्तस्य पृथिवीसंयमयुक्तस्य पृथिवीसंयमयुक्ते वा । खंतिगुणसंजुदे-शांतिगुणेन संयुक्तः क्षांतिगुणसंयुक्तस्तस्य क्षांतिगुणसंयुक्तस्य क्षांतिगुणसंयुक्त वा । पढमसीलं-प्रथमं शीलं तस्येत्थंभूतस्य मुनिवृषभस्येत्थंभूते वा मुनिवृषभे प्रथमं शीलमचलं स्थिररूपं तिष्ठति । शुद्धे चारित्राढ्ये मुनौ शुद्धस्य चारित्राट्यस्य मुनेति संबंधः । यतो गुप्तिभिर्गुप्तोऽशुभपरिणामैर्विमुक्तः संज्ञादिभिश्च रहितः संयमादिसहितोऽत एव शुद्धः । तहेव-तथैव तेनैव प्रकारेण अनेन वा प्रकारेण । सेसाणि-शेषाण्यपि द्वितीयादीनि शीलानि । णेयाणि-ज्ञातव्यानि । अथवा विशुद्धेषु भंगेषु यावदचलं तिष्ठत्यक्षः, तथा वाग्गुप्ते मुनिवृषभे मनःकरणोन्मुक्तशुद्धभावयुक्त आहारसंज्ञाविरते स्पर्शनेन्द्रियसंवृते पृथिवीसंयमयुक्ते शांतिगुणसंयुक्ते च शुद्धे मुनौ द्वितीयं शीलं तिष्ठति । तथा कायगुप्ते मुनिवृषभे एवं शेषाण्युच्चारणविधानान्युच्चार्य तृतीयं शीलं व्रतपरिरक्षणमचलं तिष्ठति । विशुद्धे तत आदि गते अक्षे एवमुच्चारणा कर्त्तव्या । मनोगुप्ते मुनिवृषभे वाक्करणोन्मुक्तशुद्धभावयुते आहारसंज्ञाविरते स्पर्शनेन्द्रियसंवृते पृथिवीसंयमयुक्ते क्षांतिगुणसंयुक्ते च मुनिवृषभे चतुर्थशीलं । तथा वाग्गुप्ते मुनिवृषभे वाक्करणोन्मुक्तशुद्धभावयुक्त आहारसंज्ञाविरते स्पर्शनेन्द्रियसंवृते पृथिवीसंयमयुक्ते शांतिगुणसंयुक्ते च मुनिवृषभे पंचमं शीलं । तथा कायगुप्ते वाक्करणोन्मुक्त शेषाण्यप्युच्चार्य षष्ठं शीलं ब्रूयात् । तिस्रो गुप्तीः पंक्त्याकारेण व्यवस्थाप्य तत ऊर्द्ध त्रीणि करणानि पंक्त्याकारेण स्थापनीयानि तत ऊर्द्ध आहारादिसंज्ञाः संस्थाप्य ततः पंचेंद्रियाणि ततः पृथिव्यादयः कायास्ततश्च श्रमणधर्माः स्थाप्याः । एवं संस्थाप्य पूर्वोक्तक्रमण शेषाणि Page #162 -------------------------------------------------------------------------- ________________ ... शीलगुणाधिकारः। १५७ शीलानि वक्तव्यानि यावत्सर्वेऽक्षा अचलं स्थित्वा विशुद्धा भवंति तावदष्टादशशीलसहस्राण्यागच्छंतीति । अथवा मनोगुप्ते मुनिवृषभे इत्यादि तावदुच्चार्य यावद्दशप्रकारश्रमणधर्मातेऽक्षस्तिष्ठति तदाऽचलं स्थित्वा विशुद्धेऽक्षे ततः शेषा अप्यक्षा अनेन क्रमेण तं प्राप्य स्थापयितव्या यावन्मनो गुप्तयक्षः कायगुप्तौ निश्चलः स्थितस्ततोऽष्टादशशीलसहस्राणि मुनिवृषभस्य पूर्णानि भवंतीति । अथवा मनोगुप्तिं ध्रुवां व्यवस्थाप्य मनःकरणादिना सह षट्सहस्राणि शीलान्युत्पाद्य ततः शेषेषु भंगेष्वचलं स्थित्वा विशुद्धेषु मनोगुप्तिर्विशुद्धा भवति ततः पुनर्वाग्गुप्तिं ध्रुवां कृत्वा षट्सहस्राणि शीलानामुत्पादनीयानि ततः सर्वे भंगा अचलं तिष्ठति ततो वाग्गुप्तिर्विशुद्धा भवति ततः कायगुप्तिं ध्रुवां कृत्वा षट्सहस्राणि शीलानामत्पादनीयानि ततः सर्व भंगा अचलं तिष्ठति कायगुप्तिश्च विशुद्धा भवति शीलानां चाष्टादशसहस्राणि संपूर्णानि भवंति । एवमेकैकं स्थिरं कृत्वा भंगानामुत्पादनक्रमो वेदितव्य इति ॥ ६-७ ॥ इदानीं गुणानामुत्पत्तिकारणक्रमं प्रतिपादयन्नाह;इगिवीस चतुर सदिया दस दस दसगा य आणुपुवीय । हिंसादिक्कमकायाविराहणालोयणासोही ॥८॥ एकविंशतिश्चत्वारः शतं दश दश दश च आनुपूर्व्या । . हिंसातिक्रमकायविराधनाऽऽलोचनाशुद्धयः॥ ८॥ .. . टीका-इगिवीस-एकेनाधिका विंशतिरेकविंशतिः । चदुर-चत्वारः । सदिया-शतं । दश दश दश त्रयो दशानां भेदाः । आणुपुवीय-आनुपूर्व्या । हिंसा-प्रमादतः प्राणव्यपरोपणं हिंसा, अत्रादिशब्दो द्रष्टव्यस्तेन हिंसादय एकविंशतिसंख्या भवंति । अदिक्कम-अतिक्रमोः विषयाणामुपरि समीहा, अत्रापि आदिशब्दो द्रष्टव्योऽतिक्रमादय उपलक्षणत्वादिति । १ प्रमादवतः ख-ग-पुस्तके । Page #163 -------------------------------------------------------------------------- ________________ १५८ मलाचारेmammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmir काया-सर्वजीवसमासाः ! विराहणा-विराधना अब्रह्मकारणानि । आलोयणा-आलोचना अत्र दोषशब्दो द्रष्टव्य आलोचनादोषाः साहचर्यात् । सोही-शुद्धयः प्रायश्चित्तानि । यथानुक्रमेण हिंसादय एकविंशतिरतिक्रमणादयश्चत्वारः कायाः शतभेदा विराधना दश आलोचनादोषा दश शुद्धयो दशति संबंध इति ॥ ८॥ . के ते हिंसादय इत्याशंकायामाह;पाणिवह मुसावादं अदत्त मेहुण परिग्गहं चेव । कोहमदमायलोहा भय अरदि रदी दुगुंछा य ॥९॥ मणवयणकायमंगुल मिच्छादसण पमादो य । पिसुणत्तणमण्णाणं अणिग्गहो इंदियाणं च ॥ १०॥ . प्राणिवधः मृषावादोऽदत्तं मैथुनं परिग्रहश्चैव । क्रोधमदमायालोभाः भयमरतिरतीः जुगुप्सा च ॥ ९ ॥ मनोवचनकायमंगुलं मिथ्यादर्शनं प्रमादश्च । पिशुनत्वमज्ञानं अनिग्रह इंद्रियाणां च ॥ १० ॥ टीका–पाणिबह-प्राणिवधः प्रमादवतो जीवहिंसनं । मुसाबाद-मृषावादोऽनालोच्य विरुद्धवचनं । अदत्त-अदत्तं परकीयस्याननुमतस्य ग्रहणाभिलाषः । मेहुण-मैथुनं वनितासेवाभिगृद्धिः । परिग्गह-परिग्रहः पापादानोपकरणकांक्षा । चेव-चैव तावत्येव महाव्रतानीति । कोह-कोधश्चंडता। मद-मदो जात्याद्यवलेपः । माय-माया कौटिल्यं । लोह-लोभो वस्तुप्राप्तौ गृद्धिः । भय-भयं त्रस्तता । अरदि-अरतिरुद्वेगः अशुभपरिणामः । रदी-रती रागः कुत्सिताभिलाषः । दुगुंछा जुगुप्सा परगुणासहनं । मणवयणकायमंगुल-मंगुलं पापादानक्रिया तत्प्रत्येकमभिसंबध्यते मनोमंगुलं वाङ्मगुलं कायमंगुलं मनोवाक्कायानां पापक्रियाः । मिच्छादसण-मिथ्याद Page #164 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। .. १५९ र्शनं जिनेन्द्रमतस्याश्रद्धानं । पमादो-प्रमादश्चायत्नाचरणं विकथादिस्वरूपं । पिसुणत्तणं-पैशून्यं परस्यादोषस्य वा सदोषस्य वा दोषोद्भावनं पृष्ठमांसभक्षित्वं । अण्णाणं-अज्ञानं यथावस्थितस्य वस्तुनो विपरीतावबोधः । अणिग्गहो-अनिग्रहः स्वेच्छया प्रवृत्तिः, इंदियाण-इंद्रियाणां चक्षुरादीनामनिग्रहश्चेत्येते एकविंशतिभेदा हिंसादयो द्रष्टव्या इति ॥९-१० ॥ अतिक्रमणादीनां स्वरूपं प्रतिपादयन्नाह;अदिकमणं वदिकमणं अदिचारो तहेव अणाचारो। एदेहिं चदूहि पुणो सावज्जो होइ गुणियब्वो ॥ ११ ॥ अतिक्रमणं व्यतिक्रमणमतीचारस्तथैवनाचारः । एतैश्चतुभिः पुनः सावधो भवति गुणितव्यः ॥ ११ ॥ टीका-अदिकमणं-अतिक्रमणं संयतस्य संयतसमूहमध्यस्थस्य विषयाभिकांक्षा । वदिकमणं-व्यतिक्रमणं संयतस्य संयंतसमूहं त्यत्त्वा विषयोपकरणार्जनं । अदिचारो-अतिचारः व्रतशैथिल्यं ईषदसंयमसेवनं च । तहेव-तथैव । अणाचारो-अनाचारो व्रतभंगः सर्वथा स्वेच्छयां प्रवतनं । एदेहि-एतैरतिक्रमणादिभिः । चदूहि-चतुर्भिः । पुणो-पुनः । सावज्जो-सावयो हिंसाद्यकविंशतिः । होइ-भवति । गुणियव्वो-गुणितव्यः संगुणनीयः । ततश्चतुर्भिरेकविंशतिर्गुणिता चतुरशीतिर्भवतीति ॥ ११ ॥ कायभेदानां स्वरूपं प्रतिपादयन्नाह;पुढविदगागणिमारुयपत्तेयअणंतकाइया चेव । वियतियचदुपचिंदिय अण्णोण्णवधाय दस गुणिदा १२ पृथिव्यवग्निमारुतप्रत्येकानंतकायिकाश्चैव । द्विकत्रिकचतुःपंचेंद्रिया अन्योन्यव्यथिता दशगुणिताः॥१२॥ १ संयतशब्दो ख-ग-पुस्तके नास्ति । २ स्वेच्छाप्रवर्तनं ख-ग-पुस्तके । Page #165 -------------------------------------------------------------------------- ________________ मूलाचारे ArAmarrrrrrrrrrrrror . टीका-कायशब्दः प्रत्येकमभिसंबध्यते । पृथिवीकायिका अप्कायिका आनिकायिका मारुतकायिकाः प्रत्येककायिका अनन्तकायिकाश्चैव । अत्रापि इन्द्रियशब्दः प्रत्येकमभिसंबध्यते । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पंचेन्द्रियाश्चेति । अण्णोण्णवधाय-अन्योन्यव्यथिता दशैते पृथिवीकायिकादयः परस्परेणाहताः सन्तः पूर्वोक्तैश्चतुरशीतिविकल्पैर्गुणिताश्चतुरशीतिशतभेदा भवन्ति । चतुरशीतिः शतेन गुणिता यत एतावन्त एव विकल्या भवन्तीति ॥ १२॥ अब्रम्हकारणविकल्पान् प्रतिपादयन्नाह;इत्थीससंग्गी पणिदरसभोयण गंधमल्लसंठप्पं । सयणासणभूसणयं छ8 पुण गीयवाइयं चेव ॥ १३ ॥. अत्थस्स संपओगो कुसीलसंसग्गि रायसेवा य । रत्ती वि य संयरणं दस सीलविराहणा भणिया ॥१४॥ स्त्रीसंसर्गः प्रणीतरसभोजनं गंधमाल्यसंस्पर्शः । शयनासनभूषणानि षष्ठं पुनर्गीतवादित्रं चैव ॥ १३ ॥ अर्थस्य संप्रयोगः कुशीलसंसर्गः राजसेवा च । रात्रावपि च संचरणं दश शीलविराधना भणिताः ॥ १४ ॥ टीका-इत्थीसंसग्गी-स्त्रीसंसर्गः वनिताभिः सहातीव प्रणयः रागाहतस्य । पणिदरसभोयण-प्रणीतरसभोजनं अतीव गृझ्या पंचेंद्रियदर्पकराहारग्रहणं । गंधमल्लसंठप्प-गंध आर्द्रमहिषीयक्षकर्दमादिको माल्यं मालतीचंपकादिकुसुमादिकं ताभ्यां संस्पर्शो गन्धमाल्यसंस्पर्शः सुगंधद्रव्यैः सुगंधपुष्पैश्च शरीरसंस्करणं । सयणासणं-शयनं तूलिकादिपर्यकस्पर्श आसनं मृदुलोहासनादिकं शयनं चासनं च शयनासने मृदुशय्यामृदासनगृद्धिः । १ रागाहतिश्च प्रेस-पुस्तके। Page #166 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः । १६१ भूसणयं - भूषणानि शरीरमंडनादीनि मुकुटकटकादीनि शरीरशोभा विषयाकांक्षा वा पंचैतानि । छटुं पुण - षष्ठं पुनः । गीयवाइयं-गीतं षड्जादिकं वादित्रं तंतविततघनसुधिरादिकं करवादनं च, गीतं च वादित्रं च गीतवादित्रं रागादिकांक्षया नृत्तगेयाभिलाषकरणं । अत्थस्स संपओगो - अर्थस्य संप्रयोगः सुवर्णादिद्रव्यसंपर्क: । कुसीलसंसग्गि - कुत्सितं शीलं येषां ते कुशीलास्तैः संसर्गः संवासः कुशीलसंसर्गो रागाविष्टजनसंपर्कः । रायसेवा य - राजसेवा च विषयार्थिनो राज्ञामुपश्लोकादिकरणं । रत्ती विय संयरणं- रात्रावपि संचरणं कार्यंतरेण निशायां पर्यटनं । दस दश । सीलविराहणा - शीलविराधनाः । भणिदा - भणिताः प्रतिपादिताः । एते स्त्रीसंसर्गादयो दश शीलविराधनाः परमागमे समुक्ताः । एतैर्दशविकल्पैः पूर्वोतानि चतुरशीतिशतानि गुणितानि चतुरशीतिसहस्राणि भवतीति ॥१३-१४ आलोचनादोषान् प्रतिपादयन्नाह ; आकंपिय अणुमणिय जं दिट्ठे वादरं च सुहुमं च । छण्णं सद्दाकुलियं बहुजणमव्त्रत्त तस्सेवी ॥ १५ ॥ आकंपितमनुमानितं यद् दृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलितं बहुजनमव्यक्तं तत्सेवी ॥ १५ ॥ टीका - आकंपिय— आकंपितदोषो भक्तपानोपकरणादिनाऽऽचार्यमाकंप्यात्मीयं कृत्वा यो दोषमालोचयति तस्याकंपितदोषो भवति । अणुमा - णिय – अनुमानितं शरीराहारतुच्छबलदर्शनेन दीनवचनेनाचार्यमनुमान्यात्मनि करुणापरमाचार्य कृत्वा यो दोषमात्मीयं निवेदयति तस्य द्वितीयोऽनुमानितदोषः । जं दिट्टं यद् दृष्टं अन्यैर्यदवलोकितं दोषजातं तदालोचयत्यदृष्टमवगूहयति यस्तस्य तृतीयो दृष्टनामाऽऽलोचनादोषः । बादरं च-स्थूलं च व्रतेष्वहिंसादिकेषु य उत्पयते दोषस्तमालोचयति सूक्ष्मं नालोच ११ Page #167 -------------------------------------------------------------------------- ________________ मूलाचारे यति यस्तस्य चतुर्थो बादरनामालोचनादोषः स्यात् । सुहुमं च सूक्ष्म च सार्द्रहस्तपरामर्शादिकं सूक्ष्मदोषं प्रतिपादयति महाव्रतादिभंगं स्थूलं तु नाचष्टे यस्तस्य पंचमं सूक्ष्मं नामालोचनदोषजातं भवेत् । छण्णं-प्रच्छन्नं व्याजेन दोषकथनं कृत्वा स्वतः प्रायश्चित्तं यः करोति तस्य षष्ठं प्रच्छन्नं नामालोचनदोषजातं भवति । सद्दाकुलियं-शब्दाकुलितं पाक्षिकचातुर्मासिकसांवत्सरिकादिप्रतिक्रमणकाले बहुजनशब्दसमाकुले आत्मीयापराधं निवेदयति तस्य सप्तमं शब्दाकुलं नामालोचनादोषजातं । बहुजणं-बहुजनं एकस्मै आचार्यायात्मदोषनिवेदनं कृत्वा प्रायश्चित्तं प्रगृह्य पुनरश्रद्दधानोऽपरस्मै आचार्याय निवेदयति यस्तस्य बहुजनं नापाष्टममालोचनादोषजातं स्यात् । अव्वत्त-अव्यक्तः प्रायश्चित्ताद्यकुशलो यस्तस्यात्मीयं दोषं कथयति यो लघुप्रायश्चित्तनिमित्तं तस्याव्यक्तनाम नवममालोचनादोषजातं भवेत् । तस्सेवी-तत्सेवी य आत्मना दोषैः संपूर्णस्तस्य यो महाप्रायश्चित्तभयादात्मीयं दोषं प्रकटयति तस्य तत्सेवी नामा दशम आलोचनादोषो भवेत् । एवमेतैर्दशभिश्चतुरशीतिसहस्राणि गुणितान्यष्टलक्षाभ्यधिकानि चत्वारिंशत्सहस्राणि भवंतीति ॥ १५ ॥ आलोचनादिप्रायाश्चत्तानां स्वरूपं प्रतिपादयन्नाह;आलोयण पडिकमणं उभय विवेगो तधा विउस्सग्गो। तव छेदो मूलं पि य परिहारो चेव सद्दहणा ॥ १६ ॥ आलोचनं प्रतिक्रमणमुभयं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमपि च परिहारश्चैव श्रद्धानम् ॥ १६ ॥ टीका-आलोयण-आलोचनं दशदोषविवर्जितं गुरवे प्रमादनिवेदनमालोचनं । पडिकमणं-प्रतिक्रमणं व्रतातीचारनिर्हरणं । उभय-उभयं आलोचनप्रतिक्रमणे संसर्गदोषे सति विशोधनात्तदुभयं । विवेगो-विवेकः संसक्तानपानोपकरणादिविभजनं विवेकः । तधा-तथा। विउस्सग्गो Page #168 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। १६३ wronomwww व्युत्सर्गः कायोत्सर्गादिकरणं । तव-तपः अनशनावमौदर्यादिलक्षणं । छेदो-छेदः दिवसमासादिना प्रव्रज्याहापनं । मूलं-पुनर्दीक्षाप्रापणं । पि य-अपि च । परिहारो चेव–परिहारश्चैव पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः । सद्दहणा-श्रद्धानं सावद्यगतस्य मनसः मिथ्यादुष्कृताभिव्यक्तिनिवर्त्तनं, एते दश विकल्पा विपरीतदोषा भवंति । एतैः पूर्वोक्तानि अष्टलक्षाभ्याधिकचत्वारिंशत्सहस्राणि गुणितानि चतुरशीतिलक्षसावधविकल्पा भवंति तद्विपरीतास्तावंत एव गुणा भवंतीति ॥ १६ ॥ - गुणोत्पादनक्रममाह;पाणादिवादविरदे अदिकमणदोसकरणउम्मुक्त। पुढवीए पुढवींपुणरारंभसुसंजदे धीरे ॥ १७ ॥ इत्थीसंसग्गविजुदे आकंपियदोसकरणउम्मुक्के । आलोयणसोधिजुदे आदिगुणो सेसया णेया ॥ १८॥ प्राणातिपातविरतस्य अतिक्रमणदोषकरणोन्मुक्तस्य। .. पृथिव्या पृथिवीपुनरारंभसुसंयतस्य धीरस्य ॥ १७ ॥ .. स्त्रीसंसर्गवियुतस्य आकंपितदोषकरणोन्मुक्तस्य । आलोचनशुद्धियुतस्य आदिगुणः शेषा ज्ञेयाः ॥ १८ ॥ टीका-पाणादिवादविरदे-प्राणातिपातो हिंसा तस्मात्प्राणातिपाताद्विरत उपरतस्तस्य तस्मिन्वा प्राणातिपातविरतस्य प्राणातिपातविरते वा। अदिकमणदोसकरणउम्मुक्के-अतिक्रमणमेव दोषस्तस्य करणं अतिक्रमणदोषकरणं तेनोन्मुक्तः परित्यक्तस्तस्य तस्मिन्वाऽतिक्रमणदोषकरणोन्मुक्तस्यातिकमणदोषकरणोन्मुक्ते वा । पुढवीए पुढवी पुण आरंभसुसंजदे धीरे-पृथिव्याः पृथिवीकायिकैः पृथिव्याः पृथिवीकायिकानां पुनरारंभो विराधनं तस्मिन् सुसंयतो यत्नपरस्तस्य तस्मिन्वा पृथिव्या पृथिवीपुनरारंभसुसंयतस्य पृथिवीकायिकैः Page #169 -------------------------------------------------------------------------- ________________ १६४ मूलाचारे पृथिवीकायिकानां योऽयं पुनरारंभस्तस्मिन् सुसंयते वा धीरे धीरस्य वा साधोः । इत्थीसंसग्गविजुदे-स्त्रीसंसर्गवियुक्ते स्त्रीजनसंसर्गविमुक्तस्य वा । आकंपियदोसकरणउम्मुक्के-आकंपितदोषस्य यत्करणं तेनोन्मुक्तस्योन्मुक्ते वा। आलोयणसोधिजदे-आलोचनशुद्धियुक्ते आलोचनशुद्धियुक्तस्य वा, आदिगुणोआदिगुणः प्रथमो गुणः संजातः । एवं, सेसया–शेषाश्च गुणाः । णेया-ज्ञातव्या उत्पादनीया इति । हिंसाद्येकविंशतिं संस्थाप्य तत ऊर्ध्वं अतिकमणादयश्चत्वारः संस्थापनीयाः पुनस्तत ऊर्ध्वं पृथिव्यादिशतं स्थापनी तत ऊर्ध्व दश विराधनाः स्त्रीसंसर्गादयो व्यवस्थाप्यास्तत ऊर्ध्व आकंपितादयो दश दोषाः स्थापनीयाः पुनस्तत ऊर्ध्व आलोचनादयो दश शुद्धयः स्थापनीयास्तत एवमुच्चारणं कर्त्तव्यं-धीरे मुनौ प्राणातिपातविरते पुनरग्यतिक्रमणदोषकरणोन्मुक्ते पुनरपि पृथिव्या पृथिवीपुनरारंभसुसंयते पुनरपि स्त्रीसंसर्गवियुक्ते पुनरप्याकंपितदोषकरणोन्मुक्ते पुनरप्यालोचनशुद्धियुक्ते आदिगुणो भवति । ततो मृषावादविरतेऽतिक्रमणदोषकरणोन्मुक्ते पुनरप्यालोचनशुद्धियुक्ते आदिगुणो भवति ? ततो मृषावादविरतेऽतिक्रमणदोषकरणोन्मुक्ते एवं शेषाणामप्युच्चार्य वाच्यो द्वितीयगुणस्ततोऽदत्तादानविरचिते, एवं शेषेष्वप्युच्चारितेषु तृतीयो गुणः, एवं तावदुच्चार्य यावच्चतुरशीतिलक्षा गुणानां संपूर्णा उत्पन्ना भवंतीति ॥ १७-१८॥ शीलानां गुणानां च पंच विकल्पान् प्रतिपादयन्नाह;सीलगुणाणं संखा पत्थारो अक्खसंकमो चेव । णटुं तह उद्दिद्वं पंच वि वत्थूणि णेयाणि ॥ १९ ॥ शीलगुणानां संख्या प्रस्तारोः अक्षसंक्रमश्चैव । नष्टं तथोद्दिष्टं पंचापि वस्तूनि ज्ञेयानि ॥ १९ ॥ - टीका-सीलगुणाणं-शीलगुणानां । संखा-संख्या प्रमाणं । शीलानां गुणानां च, पत्थारो-प्रस्तारः । शीलानां गुणानां च, अक्खसंकमो-अक्ष Page #170 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। १६५ संक्रमश्चैव । तथा शीलानां गुणानां च, णडं-नष्टता । उद्दिष्टुं-उद्दिष्टता च, उच्चारणा दृष्टा अक्षा नष्टास्तेषामक्षाणामुच्चारणावशनोत्पादनं नष्टमित्युच्यते, अक्षा दृष्टा उच्चारणा नष्टा अक्षवशेन तासामुद्दिष्टमित्युच्यते । पंच वि वत्थूणि णेयाणि-एवं पंचापि वस्तूनि ज्ञातव्यानि भवंति । एवं शीलानां गुणानां च पंच विकल्पा ज्ञातव्या भवंतीति ॥ १९ ॥ संख्यानयनाय तावदाह;सव्वेपि पुव्वभंगा उवरिमभंगेसु एक्कमेक्सु । मेलंतेत्तिय कमसो गुणिदे उप्पज्जदे संखा ॥ २०॥ सर्वानपि पूर्वभंगान उपरि भंगेषु एकमेक। मेलयित्वा क्रमशो गुणिते उत्पद्यते संख्या ॥ २० ॥ टीका-शीलानां गुणानां च सर्वानपि पूर्वभंगान् पूर्वविकल्पानुपरि भंगेषु उपरिस्थितविकल्पेषु मेलयित्वा एकमेकं क्रमशो गुणयित्वा वा संख्या समुत्पादनीया । अथवा सर्वेषु पूर्वभंगेषु उपरिभंगेषु पृथक् पृथक् मिलितेषु संख्योत्पद्यते, अथवा सर्वेषु पूर्वभंगेषु उपरिभंगेषु च परस्परं गुणितेषु संख्योत्पद्यते । एकविंशतिश्चतुर्भिर्गुणनीया पुनः शतेन पुनरपि दशभिः पुनरपि दशभिः पुनरपि दशभिर्गुणिते च चतुरशीतिलक्षा गुणा उत्पद्यत इति । एवं शीलानामपि द्रष्टव्यमिति ॥ २० ॥ . प्रस्तारस्योत्पादनार्थमाह;पढम सीलपमाणं कमेण णिक्खिविय उवरिमाणं च । पिंड पडि एकेक णिक्खित्ते होइ पत्थारो ॥२१॥ प्रथमं शीलप्रमाणं क्रमेण निक्षिप्योपरिस्थितानां च । पिंड प्रत्येकैके निक्षिप्ते भवति प्रस्तारः ॥ २१ ॥ Page #171 -------------------------------------------------------------------------- ________________ मूलाचारे टीका-पढमं—प्रथमं मनोवाक्कायत्रिकं । सीलपमाणं-शीलप्रमाण अष्टादशशीलसहस्रमानं । कमेण-क्रमेण । णिक्खिविय-निक्षिप्य प्रस्तीर्य मनोवाक्काय मनोवाक्काय इत्येवं तावदेकैकं निक्षेपणीयं यावदष्टादशसहस्राणि पूर्णानि भवंति । ततः उवरिमाणंच-उपरिस्थितानां च करणादीनामष्टादशसहस्रमात्रो निक्षेपः कर्त्तव्यस्तद्यथा-अष्टादशसहस्रमात्राणां योगानां निक्षिप्तानामुपरि मनःकरणं मनःकरणं मनःकरणं वाक्करणं वाक्करणं वाक्करणं कायकरणं कायकरणं कायकरणं एवमेकैकं त्रीन् वारान् कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि । तत उपरि आहारभयमैथुनपरिग्रहसंज्ञाः पृथक् पृथक् एकैका संज्ञा नव नववारान् कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि । तत उपरि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणींद्रियाणि पंचैकैकं षट्त्रिंशद्वारान् कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि संपू र्णानि भवंति । तत उपरि पृथिवीकायिकाकायिकतेजःकायिकवायुकायिकप्रत्येककायिकानंतकायिकद्दींद्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रिया दशैकैकमशीतिशतवारं कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि भवंति । तत उपरि क्षान्तिमार्दवार्जवलाघवतपःसंयमाकिंचन्यब्रम्हचर्यसत्यत्यागा दशैकैक अष्टादशशतान्यष्टादशशतानि कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि । तत एवं पिडं प्रति एकैके निक्षिप्ते समः प्रस्तारो भवति, मनोवाक्काय एकः पिंडः त्रीणि करणान्यपरः पिंडस्त्रिकभावेन तथा संज्ञा नव नव भूत्वा परः पिंडः तथेन्द्रियाणि षट्त्रिंशद्भूत्वा परः पिंडस्तथा पृथिव्यादयो दश अशीतिशतानि कृत्वा परः पिंडस्तथा क्षात्यादयो दशाष्टशतान्यष्टादशशतानि भूत्वा परः पिंडः एवं पिंडं प्रति पिंडं प्रति एकैके निक्षिप्ते समप्रस्तारोभवति इति । तथा प्राणातिपातायेकविंशतिः पुनः पुनस्तावत् स्थाप्या यावञ्चतुरशीतिलक्षप्रमाणं पूर्ण भवति, तत उपर्यतिक्रमव्यतिक्रमातीचारानाचाराः प्रत्येकमेकविंशतिप्रमाणं कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षप्रमाणं संपूर्ण स्यात्, तत उपरि पृथिव्यादिविराधनाविकल्पः Page #172 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। शतमात्रः प्रत्येकं चतुरशीतिप्रमाणं कृत्वा तावत् स्थाप्यो यावञ्चतुरशीतिलक्षमात्र, तत उपरि स्त्रीसंसर्गादिविराधना दश प्रत्येकं चतुरशीतिशतानि चतुरशीतिशतानि कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षप्रमाणं संपूर्ण, तत उपरि आकंपितादयो दोषा दश प्रत्येकं चतुरशीतिसहस्राणि कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षमात्रं स्यात्तत उपरि अलोचनादिशुद्धयो दश प्रत्येकमष्टलक्षाधिकचत्वारिंशत्सहस्राणि अष्टलक्षाभ्यधिकचत्वारिंशसहस्राणि कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षमात्रं संपूर्णः स्यात्ततश्चतुरशीतिलक्षगुणगमननिमित्तः समः प्रस्तारः स्यादिति ॥२१॥ ___ एवं समप्रस्तारं निरूप्य विषमप्रस्तारस्य स्वरूपं निरूपयन्नाह;णिक्खित्तु विदियमेत्तं पढमं तस्सुवरि विदियमेकेकं । पिंडं पडि णिक्खित्ते तहेव सेसावि काव्वा ॥ २२॥ निक्षिप्य द्वितीयमानं प्रथमं तस्योपरि द्वितीयमेकैकं । पिंडं प्रति निक्षिप्ते तथैव शेषा अपि कर्तव्याः ॥ २२ ॥ टीका-णिक्खित्तु-निक्षिप्य प्रस्तीर्य, विदियमत्तं-द्वितीयमात्रं, पढमंप्रथमं मनोवाक्कायत्रिकं द्वितीयं त्रिकमात्रं त्रीन वारान संस्थाप्य ततस्तस्योपरि तस्मादूर्ध्वं, विदियं-द्वितीयं करणत्रिकं एकैकं प्रत्येकं द्वितीयप्रमाण त्रीन वारान् कृत्वा तावत् स्थाप्यं यावत्प्रथमप्रस्तारप्रमाणं भवति तत एतसर्व प्रथमं भवति, संज्ञाचतुष्कं द्वितीयं भवति संज्ञामात्रं प्रथमं संस्थाप्य मनोवचनकायपिंडं नवप्रमाणं चतुःसंख्यामात्र संस्थाप्य तस्योपरि एकैका संज्ञा नवनववारान् संस्थाप्य तत एतत्सर्व प्रथमपिंडो भवति, पंचेंद्रियाणि द्वितीयपिंडो भवति, एवं प्रथमपिंडं षट्त्रिंशत्प्रमाणं पंचवारान् संस्थाप्य तस्योपर्येककमिंद्रियं षट्त्रिंशत् षट्त्रिंशत्प्रमाणं स्थापनीयं तत एतत्सर्व Page #173 -------------------------------------------------------------------------- ________________ १६८ भूलाचारे प्रथमः पिंडः स्यात् । भूम्यादयो दश द्वितीयः पिंड : प्रथमपिंडं अशीतिशतप्रमाणं दशवारान् संस्थाप्य तस्योपरि पृथिव्यादिकमेकैकं अशीतिशतवारं अशीतिशतवारं संस्थापनीयं तत एतत्सर्वं प्रथमः पिंड :, क्षांत्यादयो दश द्वितीयः पिंड, एवं प्रथमपिंडं अष्टादश शतमात्रं दशसु स्थानेषु संस्थाप्य तस्योपरि क्षांत्यादिकमेकैकं अष्टादशशतवारं अष्टादशशतवारं कृत्वा संस्थापनीयं ततो विषमः प्रस्तारः संपूर्णः स्यापिंडं प्रति निक्षिप्ते सत्येवं तथैव विशेषा अपि विकल्पाः कर्त्तव्याः । गुणप्रस्तारोऽपि विषमोऽनेनैव प्रकारेण साध्यत इति ॥ २२ ॥ अक्षसंक्रमस्वरूपेण शीलगुणान् प्रतिपादयन्नाह; -- पढमक्खे अंदगदे आदिगदे संकमेदि विदियक्खो । दोणिवि गंणतं आदिगदे संकभेदि तदियक्खो ॥ २३ ॥ प्रथमाक्षेतगतं आदिगते संक्रामति द्वितीयोक्षः । द्वापि गत्वांत आदिगते संक्रामति तृतीयाक्षः ॥ २३ ॥ टीका- गुप्तिकरणसंज्ञेद्रिय कायधर्मानुपर्युपरि संस्थाप्य ततः पूर्वोच्चार - . णक्रमेणाक्षसंक्रमः कार्यः । प्रथमाक्षेऽतमवसानं गते प्राप्ते रातोंऽतं प्राप्यादिगतेऽक्षे संक्रामति द्वितीयोऽक्षः करणस्थस्ततो द्वावक्षावंतं गत्वा आदिं प्राप्तयो: संक्रामति तृतीयोऽक्षस्तेषु त्रिष्वक्षेषु अंतं प्राप्यादिं गतेषु संक्रामति तृतीयोऽक्षस्तेष्वंतं प्राप्यादिगतेषु संक्रामति चतुर्थोऽक्षस्ततस्तेषु चतुर्ष्वक्षेच्वंतं प्राप्यादिंगतेषु संक्रामति पंचमोऽक्षस्ततस्तेषु पंचस्वक्षेष्वंतं प्राप्यादिं गतेषु संक्रामति षष्ठोक्षः एवं तावत्संक्रमणं कर्त्तव्यं यावत्सर्वेऽक्षा अंते व्यवस्थिताः स्युस्ततोऽष्टादशशीलसहस्राणि संपूर्णान्यागच्छंतीत्येवं गुणाममननिमित्तमप्यक्षसंक्रमः कार्योऽव्याक्षिप्तचतसेति ॥ २३ ॥ Page #174 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। उच्चारणारूपाणि दृष्टानि अक्षा नष्टास्तत उच्चारणारूपद्वारेणाक्षान साधयन्नाह;सगमाणेहिं विहत्ते सेसं लक्खित्तु संखिवे रूवं । लक्खिज्जतं सुद्धे एवं सव्वत्थ कायव्वं ॥ २४ ॥ . स्वकमानैः विभक्त शेष लक्षयित्वा संक्षिपेत् रूपं । लक्षणमंते शुद्ध एवं सर्वत्र कर्तव्यं ॥ २४ ॥ टीका—सगमाणेहिं—स्वकीयप्रमाणैर्योगादिभिर्यत्राक्षे निरूप्यते तानि स्वकप्रमाणानि तैः विहते--विभक्ते विभागे हृते सति, सेसं-शेष लक्खित्तु-लक्षयित्वा, संखिवे-संक्षिपेद्रूपं क्व भागे हृते यल्लब्धं तस्मिभन्यस्याश्रुतत्वाच्छेषमात्रे चाक्षः स्थितः शेषे पुनः शुद्धे शून्ये, लक्खिज्जतंलक्षणं अक्षः, अन्तं अन्ते व्यवस्थितमिति, तु शब्देन सर्वत्रेष्टसमुच्चयः, एवं सर्वत्र शीलेषु च कर्तव्यमिति, यान्युच्चारणरूपाणि लब्धानि तेषु स्वकप्रमाणस्त्रिभिर्भागे हृते यल्लब्धं तावन्मानं भ्रमित्वाऽक्षः यावंति शेषरूपाणि तावन्मात्रेऽक्षः स्थितः यदि पुनर्न किंचिच्छेषरूपं शून्यं तदान्तेऽक्षो द्रष्टव्य इति एवं करणैः संज्ञाभिरिन्द्रियैर्भूम्यादिभिश्च लब्धे लब्धे भागो हार्य इति द्विसहस्रे अशीत्यधिके संस्थाप्य त्रिभिर्योगैर्हते त्रिनवत्यधिकानि षट्शतानि लब्धानि भवंति, एकं च शेषरूपं तत्र लब्धमात्रं भ्रमित्वाऽक्ष आदौ व्यवस्थितस्ततो लब्धे रूपं प्रक्षिप्य भागे हृते करणैर्दै शते एकत्रिंशत्यधिक संजाते रूपं च शेषभूतं तत्रैकत्रिंशदुत्तरे द्वे शते भ्रमित्वा अक्ष आदौ व्यवस्थितस्ततः संज्ञाभिश्चतसृभिः रूपाधिके लब्धे भागे हृते अष्टापंचाशलधा न किंचिच्छेषभूतं तत्राष्टापंचाशद्वारान् भ्रमित्वाऽक्षोऽन्ते व्यवस्थितस्ततो लब्धे पंचभिरिन्द्रियैर्भागे हृते एकादश रूपाणि लब्धानि शेषभूतानि च त्रीणी रूपाणि तत्रैकादशवारान् भ्रमित्वाऽक्षस्तृतीयरूपे व्यवस्थितस्ततो Page #175 -------------------------------------------------------------------------- ________________ १७० मलाचारेmammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm romanmmmmmore लब्धे रूपाधिके दशभिः पृथिव्यादिभिर्भागे हृते रूपं लब्धं द्वे रूपे च शेषभूते तत्रैकवारं भ्रमित्वाक्षो द्वितीयरूपे व्यवस्थितस्ततो रूपे रूपं प्रक्षिप्य क्षात्यादिभिर्भागे हृते न किंचिल्लब्धं द्वितीयरूपे चाक्षः स्थितः, एवं सर्वत्र नष्टोऽक्ष आनयितव्योऽव्यामोहेन । यथा शीलेष्वेवं गुणेष्वपि द्रष्टव्य इति ॥ २४॥ पुनरक्षद्वारेण रूपाणि नष्टान्यानयन्नाह;संठाविऊण रूवं उवरीदो संगुणितु सगमाणे । अवणिज्ज अणकिदयं कुज्जा पढमति याचेव ॥ २५ ॥ . संस्थाप्य रूपं उपरितः संगुणय्य स्वकमानैः। अपनीयं अनंकितं कुर्यात् प्रथमांतं यावच्चैव ॥ २५ ॥ टीका-संठाविऊण-संस्थाप्य सम्यक् स्थापयित्वा, रूवं-रूपं, उवरीदो-उपरित आरभ्य, संगुणित्तु-संगुणय्य, सगमाणे-स्वकप्रमाणैः, अवणिज-अपनीयं निराकरणीयं, अणंकिदयं-अनंकितं रूपं, कुज्जा-कुर्यात्, पढमंति याचेव-प्रथममारभ्यांतकं यावत् रूपं संस्थाप्य दशभी रूपैर्गुणनीयं । अष्टरूपाण्यनंकितानि परिहरणीयानि ततो द्वे रूपे शेषभूते ततो दशभी रूपैर्गुणयितव्ये ततो दशभी रूपैर्गुणिते विंशतिरूपाणि भवंति ततोऽष्टरूपाणि निराकरणीयानि ततो द्वादशरूपाणि पंचत्रिर्गुणितानि षष्टिरूपाणि भवंति द्वे रूपेऽनंकिते ते निराकृत्यष्टापंचाशद्रूपाणि भवंति तानि चतुर्भी रूपैर्गुणितानि द्वात्रिंशदधिके द्वे शते भवतः, अनंकितं न किंचिद्विद्यते ततस्तानि लब्धरूपाणि त्रिभिर्गुणितानि षण्णवत्यधिकानि षट्शतानि भवंति अनंकिते द्वे रूपे ते निराकृत्य चतुर्णवत्यधिकानि षट्शतानि भवंति ततस्तानि त्रिभी रूपैर्गुणितानि द्वे सहस्रे क्यशीत्यधिके भवतस्ततो Page #176 -------------------------------------------------------------------------- ________________ शीलगुणाधिकारः। १७१ mmmmmmmmmmmmmmmm..wwwwwwwwwwwwwwwwwmmmmmmmmmmarwari वे रूपेऽनंकिते निराकृत्य शेषाण्युच्चारणरूपाणि भवत्येवं सर्वत्र शीलेषु गुणेषु च द्रष्टव्यमिति * ॥ २५॥ . शीलगुणानामुपसंहारगाथामाह;एवं सीलगुणाणं सुत्तत्थवियप्पदो विजाणित्ता। जो पालेदि विसुद्धो सो पावदि सव्वकल्लाणं ॥ २६ ॥ एवं शीलगुणान् सूत्रार्थविकल्पतो विज्ञाय । यः पालयति विशुद्धः स प्राप्नोति सर्वकल्याणं ॥ २६ ॥ टीका-एवमनेन प्रकारेण पूर्वोक्तेन शीलगुणाणं-शीलगुणाननेकभेदभिन्नान्, सुत्तत्थवियप्पदो-सूत्रार्थविकल्पतः सूत्रार्थेन च, विजाणित्ताविज्ञाय विशेषतो ज्ञात्वा, जो पालेदि-यः पालयति, विसुद्धो--विशुद्धः * अष्टादशशीलसहस्राणां समप्रस्तारापेक्षया यंत्रमिदम् । क्षमा मार्दव आर्जव शौच | सत्य | संयम | तप त्याग आकिंच ब्रह्मचर्या । १० पृथ्वी | अप् | तेज | वायु प्रत्येक साधार- द्वीन्द्रियात्रीन्द्रिय चतु. पंचेन्द्रि . | २० | ३ | ४० ण ५०/६० | ७. ८०९० स्पर्श० रसना घ्राण | चक्षु | श्री. • १०० २०० | ३०० ४०० आहार भय | मैथुन परिग्रह • ५०० १०००/१५०० मनःक० वाक० कायक • २०००४००० मनोगु वाग्गु० कायगु० • ६०००१२००० ( अग्रतनष्ठे) Page #177 -------------------------------------------------------------------------- ________________ मूलाचारे सर्वकर्मविनिर्मुक्तः, सो पावदि - स प्राप्नोति सव्वकल्लाणं - सर्वकल्याणं, अनं तचतुष्टयं पंचकल्याणानि वा । सूत्रार्थविकल्पतो विज्ञाय शीलगुणान् यः पालयति स विशुद्धः सन् सर्वकल्याणानि प्राप्नोतीति ॥ २६ ॥ इति श्रीमद्वट्टकेर्याचार्यवर्यप्रणीतमूलाचारे वसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहिते शीलगुणव्यावर्णनामैकादशोऽधिकारः ॥ १७२ विषम प्रस्तारापेक्षया यंत्रमिदम् । १ मनकरण | मनगुप्ति. वचनकरण वचनगुप्ति. कारण काय गुप्ति. ३. ६ ० आहार भय मैथुन परिग्रह २७ स्पर्श रसना घ्राण ० चक्षु श्रोत्र १०८ | १४४ पृथ्वी अप् तेज | वायु प्रत्येक ० १८० ३६० ५४० | ७२० साधारण ९०० द्वीन्द्रिय १००० त्रीन्द्रय 0326 क्षमा मार्दव आर्जव शौच सत्य संयम तप त्याग ० | १८०० ३६०० ५४०० ७२०० ९००० १०००० | १२६०० 6 आकिंच चतुरिंद्रिय १४४०० १४४० ब्रह्मचर्य पंचेन्द्रिय १६२०० १६२० - संशोधकः । १ अस्य स्थाने परिच्छेदातेऽयं पाठः ख-ग-पुस्तके इत्याचारवृत्तौ वसुनन्दिसैद्धान्तिकविरचितायां शीलगुणव्यावर्णनं नामैकादशः परिच्छेदः ' । Page #178 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । १७३ पर्याप्त्यधिकारः। are शीलगुणाधिकारं व्याख्याय सर्वसिद्धांतकरणचरणसमुच्चयस्वरूपं द्वादशाधिकारं पयााख्यं प्रतिपादयन् मंगलपूर्विकां प्रतिज्ञामाह;काऊण णमोकारं सिद्धाणं कम्मचकमुकाणं । पज्जत्तीसंगहणी वोच्छामि जहाणुपुवीयं ॥१॥ . कृत्वा नमस्कारं सिद्धेभ्यः कर्मचक्रमुक्तेभ्यः। . पर्याप्तिसंग्रहिणीः वक्ष्ये यथानुपूर्वम् ॥ १॥ टीका~-काऊण-कृत्वा । णमोक्कारं-नमस्कारं शुद्धमनोवाक्कायप्रणामं । सिद्धाणं-सिद्धानां सर्वलेपविनिर्मुक्तानां अथवा सर्वसिद्धभ्यः प्राप्ताशेषसुखभ्यः । कम्मचक्कमुक्काणं-कर्मचक्रमुक्तानां चक्रमिव चक्रं कर्मनिमित्तं यच्चतुर्गतिपरिभ्रमणं तेन परिहीणानां कर्मचक्रविप्रमुक्तेभ्यो वा संसारान्निर्गतेभ्यः । पज्जत्ती-पर्याप्तीराहारादिकारणसंपूर्णताः । संगहणीसर्वाणि सिद्धांतार्थप्रतिपादकानि सूत्राणि संगृहंतीति संग्रहिण्यस्ताः संग्रहिणीहीताशेषतत्वार्थाः । अथवा पर्याप्तिसंग्रहं पर्याप्तिसंक्षेपं पर्याप्त्यधिकारं वा सर्वनियोगमूलभूतं । वोच्छामि-वक्ष्ये विवृणोमि । जहाणुपुवीयंयथानुपूर्व यथाक्रमेण सर्वज्ञोक्तागमानुसारेण, न स्वमनीषिकया। कर्मचक्रविनिर्मुक्तेभ्यः सिद्धेभ्यः सिद्धानां वा नमस्कारं कृत्वा यथानुपूर्व पर्याप्तीः संग्र-. हिणीः वक्ष्य इति ॥ १॥ प्रतिज्ञार्थं निर्वहन्नाचार्यः पर्याप्त्युपलक्षितरयाधिकारस्य संग्रहस्तकगाथाद्वयमाह;पज्जत्ती देहो वि य संठाणं कायइंदियाणं च । जोणी आउ पमाणं जोगो वेदो य लेस पविचारो॥२॥ १ विप्रमुक्तेभ्यः ख-ग । २ संग्रहसूत्रसूचकगाथा• ख-ग । Page #179 -------------------------------------------------------------------------- ________________ १७४ मूलाचारे उववादो उट्टण ठाणं च कुलं च अप्पबहुलो य । डिट्ठिदिअणुभाग पदेसबंधो य सुत्तपदा ॥ ३ ॥ पर्याप्तयो देहोपि च संस्थानं कायेंद्रियाणां च । योनय आयुः प्रमाणं योगो वेदश्च लेश्या प्रविचारः ॥ २ ॥ उपपाद उद्वर्तनं स्थानं च कुलानि च अल्पबहुत्वं च । . प्रकृतिस्थित्यनुभागप्रदेशबंधश्च सूत्रपदानि ॥ ३ ॥ टीका - पज्जत्ती - पर्याप्तय आहारादिकारणनिष्पत्तयः । देहो वि यदेहोऽपि चौदारिकवैक्रियिकाहारकवर्गणागतपुद्गलपिंडः करचरणशिरोग्रीवाद्यवयवैः परिणतो वा अपि चान्यदपि । संठाणं - संस्थानमवयवसन्निवेशविशेषः । केषामिति चेत् कायेंद्रियाणां च कायानां च पृथिवीकायादिकानां श्रोत्रादीन्द्रियाणां च कायानां संस्थानमिंद्रियाणां च । जोणी - योनयो जीवोत्पत्तिस्थानानि । आउ - आयुर्नरकादिगतिस्थितिकारणपुद्गलप्रचयः । प्रमाण - प्रमाणमुत्सेधायामविस्ताराणामियत्ता, चायुषोऽन्येषां च देहादीनां वेदितव्यं । जोगो - योगः कायवाङ्मनस्कर्म | वेदो य- वेदश्व मोहनीयकर्मविशेषः स्त्रीपुरुषाद्यभिलाषहेतुः । लेस - लेश्या कषायानुरंजिता योगप्रवृत्तिः । पविचारो - प्रवीचारः स्पर्शनेंद्रियाद्यनुरागसेवा, उववादो - उपपादः अन्यस्मादागत्योत्पत्तिः । उव्वट्टण - उद्वर्त्तनं अस्मादन्यत्रोत्पत्तिः । ठाणंस्थानं जीवस्थानगुणस्थानमार्गणास्थानानि । कुलं च कुलानि जातिभेदाः । अप्पबहुगो च- अल्पबहुत्वं च । पयडि - प्रकृतिर्ज्ञानावरणादिस्वरूपेण पुद्गलपरिणामः । ठिदि–स्थितिः पुहलानां कर्मस्वरूपमजहतामवस्थितिकालः, अणुभाग - अनुभागः कर्मणां रसविशेषः । पदेस - प्रदेशः कर्मभावपरिणत - -पुद्गलस्कंधानां परमाणुपरिच्छेदेनावधारणं, बंधो-बंधः परवशीकरणं जीवपुद्गलप्रदेशांनुप्रदेशेन संश्लेषशब्दः प्रत्येकमभिसंबध्यते । प्रकृतिबंधः स्थिति१ तः ख ग । २ जीवपुद्गलप्रदेशानुप्रवेशानुप्रवेशेन ख- म । Page #180 -------------------------------------------------------------------------- ________________ पर्याप्त्याधिकारः। १७५ बंधोऽनुभागबंधः प्रदेशबंधश्चेति । च शब्दः समुच्चयार्थः । सुत्तपदा-सूत्रपदानि एतानि सूत्रपदानि, अथवैते सूत्रपदा एतानि विंशतिसूत्राणि षोडशसूत्राणि वा द्रष्टव्यानि भवंतीति । यदि कायसंस्थानमिन्द्रियसंस्थानं च द्वे सूत्रे प्रकृत्यादिभेदेन च बंधस्य चत्वारि सूत्राणि तदा विंशतिसूत्राणां (णि) अथ कायेन्द्रियसंस्थानमेकं सूत्रं चतुर्धा बंधोप्येकं सूत्रं तदा षोडश सूत्राणीति ॥ ३॥ ४ ॥ प्रथमसूत्रसूचितपर्याप्तिसंख्यानामनिर्देशेनाह;आहारे य सरीरे तह इंदिय आणपाण भासाए । होति मणो वि य कमसो पज्जत्तीओ जिणक्खादा ॥४॥ आहारस्य च शरीरस्य तथेंद्रियस्य आनप्राणयोर्भाषायाः। भवंति मनसोपि च क्रमशः पर्याप्तय जिनाख्याताः ॥ ४ ॥ टीका-आहारे य-आहारस्याहारविषये वा कर्म नोकर्मस्वरूपेण पुद्गलानामादानमाहारस्तृप्तिकारणपुद्गलप्रचयो वा, सरीरे-शरीरस्य शरीरे वौदारिकादिस्वरूपेण पुद्गलपरिणामः शरीरं । तह-तथा । इंदिय-इंद्रियस्येंद्रियविषये वा पुद्गलस्वरूपेण परिणामः [ इन्द्रियविषये वा], आणपाणआनप्राणयोरानप्राणविषये वोच्छ्रासनिश्वासवायुस्वरूपेण पुद्गलप्रचय आनप्राणनामा । भासाए-भाषाया भाषाविषये वा शब्दस्वरूपेण पुद्गलपरिणामो भाषा । होंति-भवंति । मणो वि य-मनसोऽपि च मनोविषये वा चित्तोत्पत्तिनिमित्तपरमाणुनिचयो मनः । कमसो-क्रमशः कमेण यथानुक्रमेणागमन्यायेन वा । पज्जत्ती-पर्याप्तयः संपूर्णताहेतवः । जिणक्खादा जिनख्याताः सर्वज्ञप्रतिपादिताः । एताः पर्याप्तयः प्रत्येकमभिसंबध्यते । आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, आनप्राणपर्याप्तिः, भाषापर्याप्तिः, मन:पर्याप्तिरेताः षट् पर्याप्तयो जिनख्याता भवंतीति । पर्याप्तीनां संख्या षडेव नाधिका इति नामनिर्देशेनैव लक्षणं व्याख्यातं द्रष्टव्यं यतः, आहारपर्या Page #181 -------------------------------------------------------------------------- ________________ १७६ मूलाचारे प्तिरिति किमुक्तं भवति येन कारणेन च त्रिशरीरयोग्यं भुक्तमाहारं खलरसभागं कृत्वा समर्थो भवति जीवस्तस्य कारणस्य निर्वृत्तिः संपूर्णता आहारपर्याप्तिरित्युच्यते । तथा शरीरपर्याप्तिरिति किमुक्तं भवति येन कारणेन शरीरप्रायोग्यानि पुद्गलद्रव्याणि गृहीत्वौदारिकवक्रियकाहारकशरीरस्वरूपेण परिणमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णता शरीरपर्याप्तिरित्युच्यते । तथेंद्रियपर्याप्तिरिति किमुक्तं भवति येन कारणेनैकेन्द्रियस्य द्वीन्द्रियस्य त्रयाणामिंद्रियाणां चतुर्णा पंचेंद्रियाणां प्रायोग्यानि पुद्गलद्रव्याणि गृहीत्वात्मात्मविषये ज्ञातुं समर्थो भवति तस्य कारणस्य निवृत्तिः परिपूर्णता इन्द्रियपर्याप्तिरित्युच्यते । तथाऽऽनप्राणपर्याप्तिरिति किमुक्तं भवति येन कारणेनानप्राणप्रायोग्यानि पुद्गलद्रव्याण्यवलंव्यानप्राणपर्याप्त्या निःसृत्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णताऽऽनप्राणपर्याप्तिरित्युच्यते । तथा भाषापर्याप्तिरिति किमुक्तं भवति येन कारणेन सत्यमृषा असत्यमृषाया? भाषायाश्चतुर्विधायाः प्रायोग्यानि पुद्गलद्रव्याण्याश्रित्य चतुविधाया भाषायाः स्वरूपेण परिणमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णता भाषापर्याप्तिरित्युच्यते । तथा मनःपर्याप्तिरिति किमुक्तं भवति येन कारणेन चतुर्विधमनःप्रायोग्यानि पुद्गलद्रव्याश्रित्य चतुर्विधमनःपर्याप्त्या परिणमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णता मनःपर्याप्तिरित्युच्यते । अतो न पृथग्लक्षणसूत्रं कृतमिति ॥ ५ ॥ पर्याप्तीनां स्वामित्वं प्रतिपादयन्नाह;एइंदिएसु चत्तारि होते तह आदिदो य पंच भवे । वेइंदियादियाणं पज्जत्तीओ असणित्ति ॥५॥ पकेंद्रियेषु चतत्रो भवंति तथा आदितश्च पंच भवति । बींद्रियादिकानां पर्यातयः असंहीति ॥ ५॥ . Page #182 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । १७७ टीका-एइंदिएसु-एकमिन्द्रियं येषां ते एकेंद्रियाः पृथिवीकायिकादिवनस्पतिकायिकांतास्तेष्वकेंद्रियेषु । चत्तारि-चतस्रोऽष्टा ः । होति-भवंति । तह-तथा तेनैव न्यायेन व्यावर्णितक्रमण । आदिदो य-आदितश्चादौ प्रभृति प्रथमाया आरभ्य, पंच-दशार्धसंख्यापरिमिताः । भवे-भवंति विद्यते, वेइंदियादियाणं-दीन्द्रियादीनां दीन्द्रयादिर्येषां ते द्वीन्द्रियादयस्तेषां द्वीन्द्रियादीनां, पज्जत्तीओ-पर्याप्तयः, असण्णित्ति-असंज्ञीति असंज्ञिपर्यंतानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामाहारशरीरेन्द्रियानप्राणभाषापप्तियः पंच भवंति । तथैकेंद्रियेषु चाहारशरीरेन्द्रियानप्राणपर्याप्तयश्चतम्रो भवंति, द्वीन्द्रियाद्यसंज्ञिपर्यंतानां पंच भवंतीति ॥५॥ अथ षडपि पर्याप्तयः कस्य भवंतीत्याशंकायामाह;छप्पि य पज्जत्तीओ बोधब्बा होंति सण्णिकायाणं । एदाहि अणिव्वत्ता ते दु अपज्जत्तया होंति ॥६॥ षडपि च पर्याप्तयो बोद्धव्या भवति संज्ञिकायानां । एताभिरनिर्वृत्तास्ते त्वपर्याप्तका भवंति ॥ ६॥ टीका–छप्पि य-घडपि च द्वादशार्द्धा अपि समस्ताः, पजत्तीओपर्याप्तय आहारशरीरोंद्रियानप्राणभाषामनःपर्याप्तयः, बोधव्वा-बोद्धव्याः सम्यगवगंतव्याः, होति-भवंति, सण्णिकायाणं-संज्ञिकायानां ये संज्ञिनः पंचेन्द्रियास्तेषां षडपि पर्याप्तयो भवंति इत्यवगंतव्यम् । अथ केऽपर्याप्ता इत्याशंकायामाह;--एदाहिं-एताभिश्चतसृभिः पंचभिः षभिः पर्याप्तिभिः, अणिव्वत्ता-अनिर्वृत्ता असंपूर्णा अनिष्पन्नाः, ते दु-ते तु त एव जीवाः, अपज्जत्तया-अपर्याप्तकाः, होति-भवंतीति ॥ ६ ॥ संख्या पर्याप्तीनां नामनिर्देशेनैव प्रतिपन्ना तदर्थ न पृथक् सूत्रं कृतं, यावता कालेन च तासां निष्पत्तिर्भवति तस्य कालस्य परिमाणार्थमाह; १२ Page #183 -------------------------------------------------------------------------- ________________ १७८ मूलाचारे पज्जत्तीपज्जत्ता भिण्णमुहुत्तेण होंति णायवा। अणुसमयं पज्जत्ती सम्वेसिं चोववादीणं ॥७॥ पर्याप्तिपर्याप्ता भिन्नमुहूर्तेन भवंति ज्ञातव्याः। अनुसमयं पर्याप्तयः सर्वेषां चोपपादिनां ॥७॥ टीका--पज्जत्तीपज्जता-पर्याप्तिभिः पर्याप्ताः संपूर्णाः पर्याप्तिपर्याप्ताः संपूर्णाहारादिहेतवः, भिण्णमुहुत्तेण-भिन्नमुहूर्तेन समयादूनघटिकाद्वयेन, होंति-भवंति, णायव्वा-ज्ञातव्या एते तिर्यङ्मनुष्या ज्ञातव्याः, यतः अणुसमयं-अनुसमयं समयं समयं प्रतिसमयं वा लक्षणं कृत्वा, पज्जत्ती-पर्यातयः, सव्वेसिं-सर्वेषां, उववादीणं उपपादो विद्यते येषां त उपपादिनस्तेषामुपपादिनां देवनारकाणां । अथ स्यान्मतं कोऽयं विशेषो देवनारकाणामनसमयं पर्याप्तिः शेषाणां भिन्नमहर्जेनेति नैष दोषः देवनारकाणां पर्याप्तिसमानकाले एव सर्वावयवानां निष्पत्तिर्भवति न शेषाणां सर्वेषां यतो यस्मिनेव काले देवनारकारणामाहारादिकारणस्य निष्पत्तिस्तस्मिन्नेव काले शरीरादिकार्यस्यापि, तिर्यङ्मनुष्याणां पुनर्लघुकालेनाहारादिकारणस्य निष्पत्तिः शरीरादिकार्यस्य च महतातः सर्वेषामुपपादिनामनुसमयं पर्याप्तयः तिर्यङमनुष्याणां भिन्नमुहूर्त्तनेत्युक्तमिति । पर्याप्तीनां स्थितिकालस्तिर्यमनघ्याणां जघन्येन क्षुद्रभवग्रहणं किंचिदून उच्छासाष्टादशभाग उत्कृष्टेन त्रीणि पत्योमानि, देवनारकाणां च जघन्येन दशवर्षसहस्राण्युत्कृष्टेन त्रयत्रिंशत्सांगरोपमाणि जीवितसमाः पर्याप्तयो यतो न पृथक् स्थितिकाल उक्त इति ॥ ७ ॥ अथ कथमेतज्ज्ञायतेऽनुसमयं पर्याप्तिरुपपादिनामिति पृष्टे पूर्वागममाह;जह्मि विमाणे जादो उववादसिला महारहे सयणे । अणुसमयं पज्जत्तो देवो दिव्वेण रूवेण ॥ ८॥ यस्मिन् विमाने जात उपपादशिलायां महाहे शयने । अनुसमयं पर्याप्तः देवः दिव्येन रूपेण ॥ ८॥ Page #184 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। १७९ mamarnama टीका-जम्हि-यस्मिन्, विमाणे-विमाने भवनादिसर्वार्थसिद्धिविमानपर्यंते, जादों-जात उत्पन्नः, उववादसिला-उपपादशिलायां शुक्तिपुटाकारायां, महारहे-महार्हे महापूज्या, सयणे-शयने शयनीयेऽनेकमणिखचितपर्यके सर्वालंकारविभूषिते, अणुसमयं-अनुसमयं समयं समयं प्रति, पज्जत्तो-पर्याप्तः संपूर्णयौवनः सर्वाभरणभूषितः देवो-देवः, दिव्वेण-दिव्येन सुष्ठु शोभनेन, रूवेण-रूपेण शरीराकारवर्णादिना । यस्मिन् विमाने शिलायां महार्हे शयनीये देवो जातस्तस्मिन्नेवानुसमयं पर्याप्तो दिव्येन रूपेण भवतीति ॥ ८॥ देहसूत्रं विवृण्वन् संबंधेनैव देवदेहं प्रतिपादयन्नाह;देहस्स य णिवत्ती भिण्णमुहूत्तेण होइ देवाणं । सव्वंगभूसणगुणं जोव्वणमवि होदि देहम्मि ॥ ९ ॥ देहस्य च निर्वृतिभिन्नमुहूर्तेन भवति देवानाम् । सर्वागभूषणगुणं यौवनमपि भवति देहे ॥ ९॥ टीका-देहस्स-य-देहस्य च शरीरस्य, णिव्वत्ती-निवृत्तिनिष्पत्तिः, भिण्णमुहुत्तेण-भिन्नमुहूर्तेन किंचिदूनघटिकाद्वयेन, होदि-भवति, देवाणंदेवानां भवनवासिकादीनां न केवलं षट्पर्याप्तयो भिन्नमुहूर्तेन निष्पत्तिं गच्छंति किं तु देहस्यापि च निष्पत्तिः सर्वकार्यकरणक्षमा भिन्नमुहूर्तेनैव भवतीति । तथा न केवलं देहस्योत्पत्तिर्भिन्नमुहूर्तेन किं तु सव्वंगभूसणगुणं-सर्वाणि च तान्यंगानि सर्वांगानि करचरणशिरोग्रीवादीनितानि भूषयति इति सर्वांगभूषणः सर्वांगभूषणो गुणविशेषो यस्य तत्सर्वांगभूषणगुणं निरवशेषशरीरावयवालंकारकरणं, जोव्वणं-यौवनं प्रथमवयः परमरमणीयावस्था सर्वालंकारसमन्विता अतिशयमतिशोभनं सर्वजननयनाह्लादकर, होदि-भवति, देहम्मि-देहे शरीरे । देवानां यौवनमपि शोभनं सर्वागभूषणगुणं तेनैव भिन्नमुहूर्तेन भवतीति ॥ ९॥ Page #185 -------------------------------------------------------------------------- ________________ १८० मूलाचारे पुनरपि देवव्यावर्णनद्वारेण देहमाह;कणयमिव णिरुवलेवा णिम्मलगत्ता सुयंधणीसासा। अणादिवरचाररूवा समचतुरंसोरुसंठाणं ॥१०॥ कनकमिव निरुपलेपा निर्मलगावाः सुगंधनिश्वासाः। अनादिपरचारुरूपाः समचतुरस्रोरुसंस्थानाः ॥ १० ॥ टीका-अणादिपर-आदिबलत्वं परो वृद्धत्वं आदिश्च परश्चादिपरौं न वियेते आदिपरौ बालवृद्धपर्यायौ यस्य तस्य तदनादिपरं चारु शोभनं सर्वजननयनकांतं रूपं शरीरावयवरमणीयता अनादिपरं चारुरूपं येषां ते अनादिपरचारुरूपा यावदायुःशरीरस्थिरयौवना इत्यर्थः अतिशयितस्थिरचारुरूपा वा, समचउरंसोरु-समचतुरस्रं उरु महत् पूज्यगुणं, संठाणंसंस्थानं शरीराकारः समचतुरस्रं उरु संस्थानं येषां ते समचतुरस्रोरुसंस्थाना यथाप्रदेशमन्यूनाधिकावयवसंपूर्णप्रमाणाः, कणयमिव-कनकमिव, णिरुवलेवा-निरुपलेपा उपलेपान्मलानिर्गता निरुपलेपाः, णिम्मलगत्ता-निर्मलं गात्रं येषां ते निर्मलगात्राः, सुयंधणीसासा-सुगंधः सर्वघ्राणेंद्रियाल्हादनकरो निःश्वास उछासो येषां ते सुगंधनिःश्वासाः । कनकमिव निर्लेपा निर्मलगात्रा: सुगंधनिःश्वासा अनादिपरचारुरूपाः समचतुरस्रोरुसंस्थाना देवा भवंतीति संबंधः ॥ १० ॥ किं देवसंस्थाने सप्त धातवो भवतीत्यारेकायां परिहारमाह;केसणहमंसुलोमा चम्मवसारुहिरमुत्तपुरिसं वा। णेवट्ठी णेव सिरा देवाण सरीरसंठाणे ॥ ११ ॥ केशनखश्मश्रुलोमानि चर्मवसारुधिरमूत्रपुरीषाणि वा। नैवास्थीनि नैव सिरा देवानां शरीरसंस्थाने ॥ ११ ॥ टीका-केस- केशा मस्तकऱ्यांनयननासिकाकर्णकक्षगुह्यादिप्रदेशवालाः, णह-नखाः हस्तपादांगुल्यग्रोद्भवाः, मंसु-श्मभूणि कूर्चवालाः, Page #186 -------------------------------------------------------------------------- ________________ १८१ पर्याप्त्यधिकारः। ......~~~~~~~~mmmmmmmirm m ~ लोम-लोमानि सर्वशरीरोद्भवसूक्ष्मवालाः, चम्म-चर्म मांसादिप्रच्छादिका त्व,वस-वसा मांसास्थिगतस्निग्धरसः, रुहिर-रुधिरं रक्तं, मुत्तं-मूत्रं प्रस्रवर्ण, 'पुरिसं-पुरीषं, वाशब्दोऽन्येषां समुच्चयार्थः शुक्रप्रस्वेदत्वगादीनां । णेव-नैव पूर्वोक्तानि सर्वाणि नैव भवंति, अट्री-अस्थीनि संहननकारणानि, नैव सिरासिराजालानि । देवाण-देवानां शरीरसंस्थाने, केशनखश्मश्रुलोमचर्मवसारुधिरमूत्रपुरीषशुक्रप्रस्वेदानि नैव भवंति, अस्थिसिराश्च नैव भवंतीति ।। ११ ॥ शरीरगतपुद्गलातिशयं प्रतिपादयन् देहमाह;वरवण्णगंधरसफासादिवंबहुपोग्गलेहिं णिम्माणं । गेण्हदि देवो देहं सुचरिदकम्माणुभावेण ॥ १२॥ . वरवर्णगंधरसस्पर्शदिव्यबहुपुद्गलैनिर्मितं । गृह्णाति देवो देहं स्वचरितकर्मानुभावेन ॥ १२ ॥ टीका:-वराः श्रेष्ठा वर्णरसगंधस्पर्शा येषां ते वरवर्णगंधरसस्पर्शास्ते च ते दिव्यबहुपुद्गलाश्च तैर्वरवर्णगंधरसस्पर्शदिव्यानंतपुद्गलैः सर्वगुणविशिष्टवैक्रियकशरीरवर्गणागतानंतपरमाणुभिः, णिम्माणं-निर्मितं सर्वावयवरचितं, गेण्हदि-गृह्णाति स्वीकरोति, देवो-देवः, देह-शरीरं, सुचरिदकम्माणुभावेण-स्वेन चरितमर्जितं तच्च तत्कर्म च सुचरितकर्म तस्यानुभावो माहात्म्यं तेन स्वचरितकर्मानुभावेन पूर्जितशुभकर्मप्रभावेन । देवो वरवर्णगंधरसस्पर्शदिव्यबहुपुद्गलनिर्मितं शरीरं गृह्णाति ॥ १२ ॥ ___ अथ देवानां त्रयाणां शरीराणां मध्ये कतमद्भवतीत्यारेकायामाह;वेउब्वियं सरीरं देवाणं माणुसाण संठाणं । सुहणाम पसत्थगदी सुस्सरवयणं सुरूवं च ॥ १३ ॥ वैकियिकं शरीरं देवानां मनुष्याणां संस्थानं । शुभनाम प्रशस्तगतिः सुस्वरवचनं सुरूपं च ॥ १३ ॥ Page #187 -------------------------------------------------------------------------- ________________ १८२ मूलाचारे mammy टीका-वेउब्वियं-अणिमादिलक्षणा विक्रिया तस्यां भवं सैव प्रयोजनं वा वैक्रियकं सूक्ष्मादिभावेन नाना शरीरविकरणसमर्थ विविधगुणर्द्धियुक्तं वा शरीरं आत्मप्रवृत्युपचितपुद्गलपिंडः, देवाणं-देवानां, माणुसाण-मनुघ्याणां मनुष्यजातिकर्मोदयवतां, संठाणं-संस्थानं सर्वावयवसंपूर्णता, सुहणाम-शुभं शोभनं नाम संज्ञानुभावो यस्य तच्छुभनाम प्रशस्तनामकर्मोदयवत् , पसत्थगदी प्रशस्ता शोभना गतिर्गमनं यस्य प्रशस्तगतिः मृदुमंथरविलासादिगुणसंयुक्तं, सुस्सरवयणं-शोभनः स्वरो यस्य तत्, सुस्वरवचनं, सुरूवं-सुरूपं शोभनरूपं शोभनं रूपं यस्य तत् सुरूपं, चशब्देनान्यदपि गीतनृत्तादि गृह्यते यत एवं ततो यद्यपि केशनखादिरहितं.. तथापि न बीभत्सरूपं यतो देवानां वैक्रियकं शरीरं । संस्थानं पुनः किंविशिष्ट ? शुभनाम प्रशस्तगतिः सुस्वरवचनं सुरूपं मनुष्याणामिवास्य केशनखाद्याकारः सर्वोऽपि विद्यत एव सुवर्णशैलप्रतिमानामिवेति ॥ १३॥ न केवलं देवानां वैक्रियकं शरीरं किन्तु नारकाणामपि यद्येवं तदेव तावत्प्रतिपादनीयमित्याशंकायां प्रमाणपूर्वक नारकदेहस्वरूपं प्रतिपादयन्नाह;पढमाए पुढवीए णेरइयाणं तु होइ उस्सेहो। सत्तधणु तिण्णि रयणी छञ्चेव य अंगुला होति ॥१४॥ प्रथमायां पृथिव्यां नारकाणां तु भवत्युत्सेधः । सप्तधनूंषि त्रिरत्नयः षडेव चांगुलानि भवंति ॥१४॥ टीका-पढमाए-प्रथमायां रत्नप्रभायां, पुढवीए-पृथिव्यां, णेरइयाणंनारकाणां, तुशब्दः स्वविशेषग्राहकः तेनान्यदपि द्वादशप्रस्ताराणां शरीरप्रमाणं वेदितव्यं, हादि-भवति, उस्सेहो-उत्सेधः शरीरप्रमाणं, सत्तधणुसप्तधनूंषि, तिण्णि रयणी-त्रिरत्नयो हस्तत्रयं, छच्चेव-षडेव शब्दः समुञ्चयार्थः, अंगुलानि, होंति-भवंति अष्टयवनिष्पन्नमंगुलं चतुर्विंशत्यंगुलैहस्त Page #188 -------------------------------------------------------------------------- ________________ पर्याप्त्याधिकारः। १८३ श्चतुर्हस्तं धनुः। नारकाणां प्रथमपृथिव्यां त्रयोदशप्रस्तारे विक्रांताख्ये शरीरस्योत्सेधः सप्त धनूंषि हस्तत्रयं षडंगुलानि इति । प्रथमे पुनः सीमंतकाख्ये प्रस्तारे त्रयो हस्ता नारकशरीरस्योत्सेधो मुखं सप्त धनूंषि हस्तत्रयं षडंगुलानि भूमिः, भूमेमुखं विशोध्य शुद्धशेषस्य द्वादशभिर्भागैर्हते इच्छया गुणिते लब्धे मुखसहिते प्रथमवर्जितद्वादशप्रस्ताराणां नारकशरीरप्रमाणमागच्छतीति । तथा नरनाम्नि द्वितीयप्रस्तारे एकं धनुरेको हस्तः सार्द्धान्यटांगुलानि च नारकाणां शरीरोत्सेधः । तृतीयप्रस्तारे रोरुकनामधेये शरीरस्योत्सेध एकं धनुस्त्रयो हस्ताः सप्तदशैवांगुलानि । चतुर्थप्रस्तारे भ्रांतसंज्ञके नारकतनोरुत्सेधो द्वे धनुषी द्वौ हस्तौ सार्द्धमंगुलं । पंचमप्रस्तार उद्भांतनाम्नि दंडत्रयं दशांगुलानि तनोरुत्सेधः । षष्ठप्रस्तारे संभ्रान्तसंज्ञके धनुर्षा त्रयं द्वौ हस्तावंगुलान्यष्टादश सार्द्धानि च । सप्तमप्रस्तारेऽसंभ्रांताख्ये कार्मुकचतुष्टयमेको हस्तस्त्रीण्यंगुलानि च शरीरोत्सेधः । अष्टमप्रस्तारे विभ्रांताख्ये कोदंडचतुष्टयं हस्तत्रयमेकादशांगुलानि सार्दानि तनोरुत्सेधः । नवमप्रस्तारे त्रस्तनामनि कार्मुकाणां पंचकमेको हस्तोंऽगुलानि च विंशतिः शरीरोत्सेधः । दशमप्रस्तारे त्रसितनामके षट् धनूंषि सार्कीगुलचतुष्कं च शरीरप्रमाणं । एकादशप्रस्तारे वक्रांताख्ये धनुषां षट्कं हस्तद्वितयं त्रयोदशांगुलानि च । द्वादशप्रस्तारे चावक्रांताख्ये धनुषां सप्तकं सहितमेकविंशत्या सागुलेन च तनोः प्रमाणं । त्रयोदशप्रस्तारे विक्रांते सप्त चापा हस्तत्रयं षडंगुलानि च शरीरोत्सेधः । प्रथमे तु सीमंतके प्रस्तारे हस्तत्रयामति शरीरं प्रथमपृथिव्यां शरीरप्रमाणमेतदिति ॥ १४ ॥ द्वितीयायां च पृथिव्यां नारकशरीरप्रमाणं प्रतिपादयन्नाह;विदियाए पुढवीए रइयाणं तु होइ उस्सेहो। .. पण्णरस दोण बारस धणु रदणी अंगुला चेव ॥१५॥ द्वितीयायां पृथिव्यां नारकाणां तु भवति उत्सेधः । पंचदश द्वौ द्वादश धषि रत्नयोऽङ्गलानि चैव ॥ १५ ॥ Page #189 -------------------------------------------------------------------------- ________________ १८४ मुलाचारे टीका-विदियाए-द्वितीयायां द्वितीययोः पूरणी द्वितीया तस्यां, पुढवीए-पृथिव्यां शर्कराख्यायां, णेरइयाणं-नारकाणां, तुशब्दः संगृहीताशेषोत्सेधविशेषः, होदि-भवति, उस्सेहो-उत्सेधः शरीरोत्सेधप्रमाणं, पप्णरस-पंचदश, दोणि-दौ, वारस-द्वादश,धणु-धनूंषि,रदणी-रत्नयः हस्ताः, अंगुला चेव-अंगुलानि चैव, यथासंख्येन संबंधः । द्वितीयायां पृथिव्यामेकादशे प्रस्तारे नारकाणामुत्सेधः पंचदश धनूंषि द्वौ हस्तौ द्वादशांगुलानि । अत्रापि मुखभूमिविशेषं कृत्वोत्सेधे हृते इच्छागुणितं मुखसाहितं च सर्वप्रस्ताराणां प्रमाणं वक्तव्यं । तद्यथा । अत्रैकादशप्रस्ताराणि भवंति-तत्र प्रथमप्रस्तारे सूरसूरकनाम्नि नारकाणामुत्सेधोऽष्टौ धनूंषि हस्तद्वयं द्वावेकादशभागावंगुलद्वयं च । द्वितीयप्रस्तारे स्तनकनाम्नि नारकोत्सेधो नव दंडा द्वाविंशत्यंगुलानि चतुरेकादशभागाः । तृतीयप्रस्तारे मनकनामधेये नव धनूंषि त्रयो हस्ता अष्टादशांगुलानि षडेकादशभागानि चोत्सेधः । चतुर्थप्रस्तारे नवकसंज्ञके नारकोत्सेधः दश दंडा द्वौ हस्तौ चतुर्दशांगुलानि साष्टैकादशभागानि । पंचमप्रस्तारे घाटनामके एकादशदंडा हस्तश्चैकादशांगुलानि दशैकादशभागाश्च शरीरोत्सेधः । षष्ठप्रस्तारे संघाटसंज्ञके नारकशरीरोत्सेधो द्वादश दंडाः सप्तांगुलानि तथैकादशभागाश्चसप्तमप्रस्तारे जिह्वाख्ये द्वादश दंडा हस्तत्रयं त्रीण्यंगुलानि त्रय एकादशभागाश्चोत्सेधः । अष्टमप्रस्तारे जिबिकाख्ये नारकोत्सेधस्त्रयोदश दंडा एको हस्तस्त्रयोविंशत्यगुलानि पंचैकादश भागाश्च । नवमप्रस्तारे लोलाख्ये नारकोत्सेधश्चतुर्दश दंडा एकोनविंशतिरंगुलानां सप्तैकादशभागाश्च । दशमप्रस्तारे लोलुपाख्ये नारकोत्सेधश्चतुर्दश धनूंषि त्रयो हस्ताः पंचदशांगुलानि नवैकादश भागाश्च । एकादशप्रस्तारे स्तनलोलुपनामधेये नारकशरीरोत्सेधः पंचदश दंडा द्वौ हस्तौ द्वादशांगुलानि चेति ॥ १५ ॥ Page #190 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। तृतीयायां वालुकाप्रभायां नारकोत्सेधं व्यावर्णयन्नाह;तदियाए पुढवीए णेरइयाणं तु होइ उस्सेहो। एकत्तीसं च धणू एंगा रदणी मुणेयव्वा ॥ १६ ॥ तृतीयायां पृथिव्यां नारकाणां तु भवत्युत्सेधः। एकत्रिंशच धनूंषि एका रनिमन्तव्या ॥ १६ ॥ टीका-तदियाए-तृतीयायां, पुढवीए-पृथिव्यां वालुकाख्यायां, णेर'इयाणं-नारकाणां,तु-विशेषः होइ-भवति, उस्सेहो-उत्सेधः, एकत्तीसं चएकत्रिंशच्च एकेनाधिका त्रिंशत्, धणु-धनूंषि, एगा-एका, रदणी-रनिर्हस्तः मुणेयव्वा-ज्ञातव्या । तृतीयायां पृथिव्यां नवमप्रस्तारे नारकाणामुत्सेधो 'धनुषामेकत्रिंशदेका रत्निश्च ज्ञातव्या इति । शेषं सूचितं नारकप्रमाणमत्रापि मुखभूमिविशेषं कृत्वा नवोत्सेधभंजितमिच्छया गुणितं द्वितीयपृथिव्युत्कृष्टनारकोत्सेधमुखसहितं च कृत्वा नेयं । तद्यथा-प्रथमप्रस्तारे तप्ताख्ये नारकोत्सेधः सप्त दंडा एको हस्तो दशांगुलानि द्वौ त्रिभागौ च । द्वितीयप्रस्तारे तापनामनि नारकोत्सेधो दंडानामेकोनविंशतिर्नवांगुलानि त्रिभागश्च । तृतीयप्रस्तारे तपननाम्नि नारकोत्सेधो विंशतिर्दण्डास्त्रयो हस्ता अंगुलानि चाष्टौ । चतुर्थप्रस्तारे तापनारल्ये शरीरोसेधो द्वाविंशतिर्धनुषां द्वौ हस्तौ षडंगुलानि द्वौ त्रिभागौ च । पंचमप्रस्तारे निदाघाख्ये चतुर्विंशतिचापाः पंचांगुलानि एको इस्तस्त्रिभागश्चैकः । षष्ठप्रस्तारे प्रज्वलिताख्ये नारकोत्सेधः षड्विंशतिर्धनुषां चत्वारि चांगुलानि । सप्तमेंद्रके ज्वलितसंज्ञके नारकोत्सेधः सप्तविंशतिचापास्त्रयो हस्ता द्वे अंगुले त्रिभागौ च द्वौ । अष्टमप्रस्तारे संज्वलनेंद्रके एकोनत्रिंशदुत्सेधो धनुषां हस्तद्वयमेकांगुलमेकस्त्रिभागश्च । नवमे च प्रस्तारे एकत्रिंशत्कोदंडा हस्तश्चैको नारकोत्सेध इति ॥ १६ ॥ Page #191 -------------------------------------------------------------------------- ________________ १८६ मूलाचारे चतुर्थ्यां च पृथिव्यां नारकशरीरप्रमाणमाह;चउथीए पुढवाए णरइयाणं तु होइ उस्सेहो । बासट्ठी चेव धणू वे रदणी होति णायव्वा ॥ १७ ॥ चतुर्थ्यां पृथिव्यां नारकाणां तु भवत्युत्सेधः। द्वाषष्टिः चैव धनूंषि द्वे रत्नी भवतो ज्ञातव्ये ॥ १७ ॥ टीका-चउथीए-चतुर्णा पूरणी चतुर्थी तस्यां चतुर्थ्या, पुढवीएपृथिव्यां पंकप्रभायां, नारकाणामुत्सेधो भवति द्वाभ्यामधिका षष्टिर्धनुषां दे च रत्नी द्वौ च हस्तौ ज्ञातव्यौ । चतुर्थपृथिव्यां सप्तमप्रस्तारेंद्रके नारकोत्सेधप्रमाणमेतत् सेंद्रका नारकोत्सेधस्तृतीयपृथिवीनारकाणामुत्कृष्टशरीरप्रमाणं. मुखं कृत्वा सप्तमोत्सेधः सप्तमप्रस्तारनारकोत्सेधं भूमिं च कृत्वा तयोविशेष चोत्सेधभाजितेच्छागुणितं मुखसहितं कृत्वा वाच्यस्तद्यथा-प्रथमप्रस्तारे आरसंज्ञकेंद्रके पंचत्रिंशद्धनुषां द्वौ हस्तौ विंशतिरंगुलानां सप्तभागाश्चत्वारः । द्वितीयप्रस्तारे ताराख्येंद्रके चत्वारिंशदंडाः सप्तदशांगुलानि सप्तभागाश्च पंच । तृतीयप्रस्तारे मारसंज्ञके चतुश्चत्वारिंशदंडाः द्वौ हस्तौ त्रयोदशांगुलानि सप्तभागाश्च पंच । चतुर्थप्रस्तारे वर्चस्काख्ये नारकोत्सेध एकोनपंचाशद्धनुषां दशांगुलानि द्वौ च सप्तभागौ । पंचमप्रस्तारे तमकनामधेये धनुषां त्रिपंचाशत् द्वौ च हस्तौ षडंगुलानि षट् सप्तभागाः । षष्ठप्रस्तारे षडनामधेये नारकोत्सेधो धनुषामष्टापंचाशत् त्रीण्यंगुलानि त्रयश्च सप्तभागाः । सप्तमप्रस्तारे षडषडाख्येंद्रके नारकोसेधश्चोक्तो द्वाषष्टिर्धनुषां हस्तौ च द्वाविति ॥ १७ ॥ पंचमपृथिव्यां नारकोत्सेधं प्रकटयन्नाह;पंचमिए पुढवीए रइयाणं तु होइ उस्सेहो । सदमेगं पणवीसं घणुप्पमाणेण णादव्वं ॥ १८ ॥ पंचम्यां पृथिव्यां नारकाणां तु भवत्युत्सेधः। शतमेकं पंचविंशतिः धनुःप्रमाणेन ज्ञातव्यं ॥ १८॥ Page #192 -------------------------------------------------------------------------- ________________ पर्याप्यधिकारः। १८७ टीका-पंचमायां पृथिव्यां धूमप्रभानामधेयायां नारकाणामुत्सेधो भवति, सदं-शतमेकं, पणवीसं च-पंचविंशत्यधिकं, धणुप्पमाणेण-धनु:प्रमाणेन ज्ञातव्यं । पंचमायां पृथिव्यां पंचमेंद्रके नारकाणामुत्सेधो धनुषां प्रमाणेन शतमेकं पंचविंशत्युत्तरं ज्ञातव्यामिति । अत्राप्येतद्भूमिं पूर्वोक्तं मुखं च कृत्वा विशेषं च कृत्वा विशेषं च पंचकोत्सेधभाजितमिच्छया गुणितं मुखसहितं कृत्वा शेषेद्रकाणां नारकाणामुत्सेधो वाच्यः । तत्र प्रथमप्रस्तारे तमोनाम्नि नारकोत्सेधः पंचसप्ततिदंडाः । द्वितीयप्रस्तारे भ्रमनामके नारकोत्सेधः सप्ताशीतिदंडार्दो हस्तौ च । तृतीयप्रस्तारे रूपसंज्ञके चंद्रके नारकोत्सेधो धनुषां शतमेकं । चतुर्थप्रस्तारेऽन्वयसंज्ञके नारकोत्सेधो धनुषां द्वादशोत्तरं शतं हस्तद्वयं च । पंचमप्रस्तारे तमिस्रसंज्ञके धनुषां पंचविंशत्युत्तरशतमिति ॥ १८॥ षष्ठयां पृथिव्यां नारकोत्सेधमाह;छट्ठीए पुढवीए रइयाणं तु होइ उस्सेहो । दोण्णि सदा पण्णासा धणुप्पमाणेण विण्णेया ॥१९॥ षष्ठयां पृथिव्यां नारकाणां तु भवत्युत्सेधः । द्वे शते पंचाशत् धनुः प्रमाणेन विज्ञेये ॥ १९॥ टीका-छटीए-षण्णां पूरणी षष्ठी तस्यां, पुढवीए-पृथिव्यां, णेरइयाणं तु-नारकाणां तु, होदि-भवति, उस्सेहो-उत्सेधः, दोणि सदा-दे शते धनुषां शतद्वयं, पण्णासा-पंचाशदधिकं, धणुप्पमाणेण–धनुषां प्रमाणेन, विष्णेया-विज्ञेये। षष्ठयां पृथिव्यां तम:प्रभायां तृतीयप्रस्तारे नारकाणामुत्सेधो धनुषां प्रमाणेन द्वे शते पंचाशदधिके विज्ञेये। अत्रापि मुखभूमिविशेषादिक्रमं कृत्वा शेषेद्रकनारकाणामुत्सेध आनेयस्तद्यथा तमःप्रभायां प्रथमप्रस्तारे हिमनाम्नन्द्रिके नारकाणामुत्सेधः षट्पष्टयाधिकं धनुषां शतं द्वौ हस्तौ षोडशांगुलानि च । द्वितीये प्रस्तारे वर्दलनाम्नीन्द्रके धनुषां शतद्वयमष्टाधिकं Page #193 -------------------------------------------------------------------------- ________________ १८८ मूलाचारे हस्तश्चैकोऽष्टावंगुलान्यपि । तृतीयप्रस्तारे लल्लकनामेंद्रके नारकोत्सेधः सूत्रोपात्तधनुषां शतद्वयं पंचाशदधिकं विज्ञेयमिति ॥ १९ ॥ सप्तम्यां पृथिव्यां नारकोत्सेधप्रमाणमाह;-सत्तमिए पुढवीए णेरइयाणं तु होइ उस्सेहो । पंचेव धणुसयाई पमाणदो चेव बोधव्या ॥२०॥ सप्तम्यां पृथिव्यां नारकाणां तु भवति उत्सेधः । पंचैव धनुःशतानि प्रमाणतश्चैव बोद्धव्यानि ॥ २० ॥ टीका-सत्तमिए-सप्तम्यां, पुढवीए-पृथिव्यां महातमःप्रभायां, णेरइयाणं तु-नारकाणां तु, होइ-उत्सेहो भवत्युत्सेधः, पंचेव धणुसयाई-पंचैव धनुःशतानि, पमाणदो चेव-प्रमाणतश्चैव नान्यत्, बोधव्वा-बोद्धव्यानि । सप्तम्यां महातमप्रभायामवधिस्थानकेंद्रकनामनि नारकाणामुत्सेधः प्रमाणतः पंचैव धनुःशतानि नाधिकानीति । एवं सर्वासु पृथिवीषु स्वकीयेंद्रकप्रतिबद्धेषु श्रेणिविश्रेणिबद्धेषु पुष्पप्रकीर्णकेषु च_नारकाणामुत्सेधः स्वकीयेंद्रकनारकोत्सेधसमानो वेदितव्यः । प्रथमायां पृथिव्यां प्रथमप्रस्तारे समितकेंद्रकनाम्नि महादिक्षु श्रेणीबद्धनरकाण्येकोनपंचाशदेकोनपंचाशदिति । विदिक्षु चाष्टचत्वारिंशदष्टचत्वारिंशदिति । एवमष्टावष्टौ हानि कृत्वा तावन्नेतव्यं यावदवधिस्थानस्य चत्वारि दिक्षु श्रेणिबद्धानीति । प्रथमायां पृथिव्यां त्रिंशल्लक्षाणि नारकाणां तान्येव श्रेणिबद्धेन्द्रकरहितानि 'पुष्पप्रकीर्णकानि । द्वितीयायां पंचविंशतिलक्षा नारकाणां तान्येव श्रेणिबढ्द्रकरहितानि पुष्पप्रकीर्णकानि । तृतीयायां पंचदशलक्षा नारकाणां । चतुर्थ्यां दशलक्षा नारकाणां । पंचम्यां लक्षत्रयं नारकाणां । षष्ठयां पंचोनं लक्ष नारकाणां । सप्तम्यां पंचैव नारकाणि । सर्वत्र श्रेणिबद्धंद्रकरहितपुष्पप्रकीर्णाकानीति प्रमाणं व्यावर्णितं देहोऽपि व्यावर्णितस्तदव्यतिरेकाद्गुणगुण्यभेदेन ततो न दोषो देहस्वरूपमकथित्वा प्रमाणस्य कथने । Page #194 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। १८९ नारकाणां शरीरं बीभत्सं दुर्गधि वैक्रियकं सर्वाशुभपुद्गलैनिष्पन्नं सर्वदुःखकारणं हुंडकसंस्थानमशुभनाम दुःस्वरवदनं कृमिकुलादिसंकीर्णमिति ॥२०॥ देवानां शरीरं व्यावर्णितं न तत्प्रमाणमतस्तदर्थमाह;पणवीसं असुराणं सेसकुमाराण दस धणू चेव । वितरजोइसियाणं दस सत्त धणू मुणेयव्वा ॥ २१ ॥ पंचविंशतिरसुराणां शेषकुमाराणां दश धषि चैव। व्यंतरज्योतिष्काणां दश सप्त धनूंषि ज्ञातव्यानि ॥२१॥ टीका-भवनवासिव्यंतरज्योतिष्ककल्पवासिभेदेन देवाश्चतुर्विधा भवंति। तत्र भवनवासिनां तावत्प्रमाणं व्यावर्णयति-पणवीसं-पंचभिरधिका विंशतिः पंचविंशतिः, असुराणं-असुरकुमाराणां, सेसकुमाराण-शेषकुमाराणां नागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्दीपदिक्कुमाराणां, दस धणू-दश दंडाः । चशब्दः समुच्चयार्थस्तेन सामानिकत्रायस्त्रिंशत्पारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकानामेतदेव प्रमाणं शरीरस्य वेदितव्यं । व्यंतराः किंनरकिंपुरुषगरुडगंधर्वयक्षराक्षसभूतापशाचाः, जोदिसिया-ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च, व्यंतराश्च ज्योतिष्काश्च व्यंतरज्योतिष्कास्तेषां व्यंतरज्योतिष्काणां, दस सत्त धणू-दश सप्त धनूंषि यथासंख्येन व्यंतराणां दश धनूंषि ज्योतिष्काणां च सप्त धनूंषि सामानिकत्रायस्त्रिंशल्लोकपालवर्जितशेषनिकायानां च शरीरस्योत्सेधो ज्ञातव्य इति । भवनवासिनो दशप्रकारा भवंति-तत्र प्रकारस्यातुरकुमारसंज्ञकस्य सामानिकादिसहितस्य शरीरोत्सेधः पंचविंशतिर्धनुषामुत्कृष्टः, नागकुमाराणां विद्युत्कुमाराणां सुपर्णकुमाराणामग्निकुमाराणां वातकुमाराणां स्तनितकुमाराणामुदधिकुमाराणां द्वीपकुमाराणां दिक्कुमाराणां सामानिकादिभेदभिन्नानां च दश दंडाः शरीरस्योत्सेधः । व्यंतराणामष्टप्रकाराणां स्वभेदभिन्नानां दश धनूंषि शरीरस्योत्सेधः । ज्योतिष्काणां च पंचप्रकाराणां स्वभेदभि-. नानां सप्त दंडाः शरीरस्योत्सेधो ज्ञातव्य इति ॥ २१ ॥ Page #195 -------------------------------------------------------------------------- ________________ १९० मूलाचारे एते तिर्यग्लेोके व्यवस्थितास्तद्वारेणैव तिरवां च वक्ष्यमाणत्वादुलंघ्य प्रमाणं मनुष्याणां तावदुत्कृष्टं प्रमाणमाह;छन्द्वणुसहसुस्सेधं चदु दुगमिच्छति भोगभूमीसु पणवीस पंचसदा बोधव्त्रा कम्मभूमीसु ॥ २२ ॥ षट्धनुःसहस्रोत्सेधं चत्वारि द्वे इच्छंति भोगभूमिषु । पंचविंशतिः पंचशतानि बोद्धव्यानि कर्मभूमिषु ॥ २२ ॥ टीका - छद्वणुसहस्स - षट् धनुषां सहस्राणि उस्सेधं - उत्सेधं शरीरप्रमाणं, चदु- चत्वारि सहस्राणि धनुष, दुर्ग-द्वे सहस्रे धनुषां, इच्छंति - अभ्युपगच्छंतिः, पूर्वाचार्या भोगभूमिषु दशप्रकारकल्पपादपोपलक्षितासु । पणवीसं - पंचविंशतिः, पंचसदा-पंचशतानि च धनुषां बोधव्वाबोद्धव्यानि ज्ञातव्यानि कर्मभूमिषु । पंचसु भरतैरावतविदेहेषु भोगभूमिषूत्कृष्टमध्यमजघन्यासु मनुष्याणामुत्सेधं यथासंख्येन षट् चत्वारि सहस्राणि द्वे च हस्ते (सहस्रे ) धनुषामिच्छंति, कर्मभूमिषु च मनुष्याणामुत्कृष्टमुत्सेधं शतपंचकं पंचविंशत्यधिकमिच्छंतीति ॥ २२॥ प्राधान्याद्देवानां कल्पवासिनां तावदुत्सेधमाह; - सोहम्मीसाणे य देवा खलु होंति सत्तरयणीओ । छच्चैव य रयणीओ सणक्कुमारे हि माहिंदे || २३ | सौधर्मेशानयोश्च देवाः खलु भवंति सप्त रत्नयः । षद्र चैव च रत्नयः सनत्कुमारे हि माहेंद्रे ॥ २३ ॥ टीका - सोहम्मीसाणेसु य-सुधर्मा नाम्नी सभा तस्यां भवः सौधर्म इन्द्रस्तेन सहचरितं विमानं कल्पो वा, सौधर्मश्चैशानश्च सौधर्मैशानौ तयोः सौधर्मेशानयोः श्रेणिबद्धप्रकीर्णक सहितयोः, देवा देवा इंद्रसामानिकायस्त्रिंशत्पारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाः, खलु - स्फुटं, सत्तरयणीओ - सप्त हस्ताः छच्चेव - षडेव च, रयणीओ , Page #196 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। १९१ रत्नयो हस्ताः, सणक्कुमारे-सनत्कुमारे च, माहिंदे-माहेंद्रे। सौधर्मेशानयोः कल्पयोर्देवा इंद्रादयः शरीरप्रमाणेन सप्तहस्ता भवंति, सनत्कुमारमाहेंद्रयोश्च कल्पयोश्च देवा इंद्रादयः षट्ररत्नयः प्रमाणेन भवंतीति ॥ २३ ॥ ___ शेषकल्पेषु देवोत्सेधं प्रतिपादयन्नाह;बंभे य लंतवे वि य कप्पे खलु होंति पंच रयणीओ। चत्तारि य रदणीओ सुक्कसहस्सारकप्पेसु ॥ २४ ॥ ब्रह्मे च लांतवेऽपि च कल्पे खलु भवंति पंचरत्नयः । चतस्रश्च रत्नयः शुक्रसहस्रारकल्पेषु ॥ २४ ॥ टीका-बी-ब्रह्मकल्पे, लंतवे वि य-लांतवकल्पे, कल्पशब्दः प्रत्येकमभिसंबध्यते । खलु-स्फुटं व्यक्तं सर्वमेतत्, होंति-भवंति-पंच रयणीओपंच रत्नयः । दनाद्रव्यनुवर्त्ततो (?) तेन सह संबंधः सर्वत्र द्रष्टव्यः । चत्तारि य-चतस्रश्च रदणीओ-रत्नयो हस्ताः,सुक्क-शुक्रकल्पे, सहस्सारसहस्रारकल्पे, अत्रापि कल्पशब्दः प्रत्येकमभिसंबध्यते । उपलक्षणमात्रमेतत्तेनान्येषामपि ब्रह्मोत्तरकापिष्ठमहाशुक्रशतारसहस्रारकल्पानां ग्रहणं द्रष्टव्यं । श्रेणिबद्धप्रकीर्णकानां च । बह्मब्रह्मोत्तरलांतवकापिष्ठेषु च चतुर्षु कल्पेषु देवा इंद्रादयः पंचहस्ताः प्रमाणेन भवंति, तथा शुक्रमहाशुक्रशतारसहस्रारेषु च चतुर्षु कल्पेषु देवा इंद्रसामानिकादयश्च चत्वारो हस्ताः शरीरप्रमाणेन भवंतीति ॥ २४ ॥ - आनतादिदेवप्रमाणमाह;आणदपाणदकप्पे अद्धद्धाओ हवंति रयाओ। तिण्णेव य रयणीओ बोधव्वा आरणच्चुदे चापि ॥२५॥ आनतप्राणतकल्पयोरर्दाधिका भवंति रत्नयः। तित्र एव च रत्नयः बोद्धव्या आरणाच्युतयोश्चापि ॥२५॥ Page #197 -------------------------------------------------------------------------- ________________ १९२ मूलाचारे टीका- आणद - आनतकल्पे, पाणद-प्राणतकल्पे, कल्पशब्दः प्रत्येकमभिसंबध्यते, अद्धद्धाओ - अर्द्धाधिकास्तिस्रो रत्नयस्त्रयो हस्ता हस्तार्द्धं च, हवंति - भवंति, रयणीओ रत्नयः । तिण्णेव तिस्रश्व, रयणीओ - रत्नयः, बोद्धव्या ज्ञातव्याः, आरणच्चदे चावि - आरणाच्युतयोरपि आरणकल्पेऽच्युतकल्पे च आनतप्राणतकल्पयोर्देवा इंद्रादयस्त्रयो हस्ता अर्द्धाधिकाः शरीरप्रमाणेन बोद्धव्याः, आरणाच्युतकल्पयोश्व देवा इंद्रादयस्त्रयो हस्ता: शरीरप्रमाणेन बोद्धव्या इति ॥ २५ ॥ नवग्रैवेयक देवशरीरं प्रतिपादयन्नाह ;मिगेवज्जेसु य अड्डाइज्जा हवंति रयणीओ । मज्झिमवज्जेसु य वे रयणी होंति उस्सेहो ॥ २६ ॥ अधस्तनयैवेयकेषु च सार्धद्वयं भवंति रत्नयः । मध्यमग्रैवेयकेषु च द्वे रत्नी भवतः उत्सेधः ॥ २६ ॥ टीका- हेट्रिमगेवज्जेसु य-अधोग्रैवेयकेषु अधो व्यवस्थिता वै ये त्रयो ग्रैवेयककल्पास्तेषु, अड्ढाइज्जा - अर्द्धाधिकं रत्निद्वयं तृतीयार्द्धसहिते रत्नी वा भवतः, मज्झिमगेवज्जेसु य-मध्यमग्रैवेयकेषु च मध्यमप्रदेशस्थितेषु त्रिषु ग्रैवेयकेषु, वेरदणी-दे रत्नी द्वौ हस्तौ हवंति - भवतः, उस्सेहो - उत्सेधः शरीरप्रमाणं | नव ग्रैवेयककल्पा भवंति तत्राधोध एकः कल्पः अधोमध्यमो द्वितीयः कल्पः अधउपरि तृतीयः कल्पस्तेषु कल्पेषु त्रिषु देवा अहमिंद्रा अर्द्धाधि हस्तौ प्रमाणेन भवंति, तथाऽधोमध्यमः कल्प एकः मध्यमध्यमकल्पो द्वितीयः मध्यमोपरि कल्पस्तृतीय एतेषु त्रिषु कल्पेषु देवा अहमंद्रा द्विहस्तोत्सेधा भवतीति ॥ २६ ॥ > उपरिमग्रैवेयकदेवशरोरोत्सेधमनुत्तरदेवोत्सेधं चाह; — उवरिमवज्जेसु य दिवङ्करयणी हैवे य उस्सेहो । अणुदिसणुत्तरदेवा एया रयणी सरीराणि ॥ २५॥ १ भवेय ग - ! - पुस्तके | Page #198 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । उपरिमयैवेयकेषु च द्व्यर्धरत्निर्भवेत् च उत्सेधः । अनुदिशा नुत्तरदेवा एकरत्निशरीराः ॥ २७॥ १९३ टीका – उवरिमगेवज्जेसु य — उपरिमग्रैवेयकेषूपरिप्रदेशव्यवस्थितेषु त्रिषु ग्रैवेयककल्पेषु, दिवड्ढरयणी - अर्द्धाधिकरत्निः हस्तोपरं च हस्तार्द्ध, हवे य· - भवेत्, उस्सेहो - उत्सेधः । उपर्यध एकः कल्पः, उपरिममध्यमो द्वितीयः कल्पः, उपर्युपरि तृतीयः कल्यः, एतेषु त्रिषु ग्रैवेयककल्पेषु देवानां शरीरोत्सेध एको हस्तो हस्तार्द्धं च । यद्यपि सविकल्पा विद्यतेऽत आगमतस्ते ज्ञातव्या इति । अणुदिस - अनुदिशकल्पे नवसु विमानेषु, अणुत्तरअनुत्तरकल्पे च पंचसु विमानेषु देवा अहमिंद्रा, एगा रयणी सरीराणिएकरत्निशरीरा एकहस्तदेहप्रमाणाः, अनुदिशानुत्तरकल्पयोश्चतुर्दशविमानेषु देवा एक हस्तशरीरोत्सेधा भवतीति ॥ २७ ॥ देवमनुष्यनारकाणां प्रमाणपूर्वक देहस्वरूपं प्रतिपाय तिरश्चामेकेन्द्रियादिपंचेंद्रियपर्यन्तानां शरीरोत्सेधद्वारेण जघन्यदेहमाह; - भागमसंखेज्जदिमं जं देहं अंगुलस्स तं देहं । एइंदियादिपंचेंदियंत देहं पमाणेण ॥ २८ ॥ भागोऽसंख्यातकः यो देहोंऽगुलस्य स देहः । एकेंद्रियादिपंचेंद्रियांतदेहः प्रमाणेन ॥ २८ ॥ ---- टीका - भागं - भागः, असंखेज्जदिमं - असंख्यातः, जं देहं – य उपचयो यावत्पिंडोः यत्परिमाणोऽगुलस्य द्रव्यांगुलस्य, तं देहं - स उपचयस्तावान्पिडस्तत्परिमाणः । एइंदियादि - एकेन्द्रिय आदिर्येषां ते एकेन्द्रियादयः, पंचेदियंत-पंचेन्द्रियोंते येषां ते पंचेद्रियांताः । एकेन्द्रियादयश्च ते पंचेद्रियांताश्चै केन्द्रियादिपंचेन्द्रियांतास्तेषां देहः शरीरमेकेन्द्रियादिपंचेंन्द्रियांतदेहः, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेंद्रियाणां शरीरं, जहण्णेणद्रव्यांगुलमसंख्यातखंडं कृत्वा तत्रैकखंडोपचयो यावान् देहो यन्मात्रस्तन्मात्रो देहः शरीरं जघन्येनै केन्द्रियादिपंचेन्द्रियपर्यंतानामिति ॥ २८ ॥ १३ Page #199 -------------------------------------------------------------------------- ________________ १९४ मूलाचारे तेषामेवोत्कृष्टप्रमाणं प्रतिपादयन्नाह;साहियसहस्समेयं तु जोयणाणं हवेज उक्कस्सं । एयंदियस्स देहं तं पुण पउमात्त णादव्वं ॥ २९ ॥ साधिकसहस्रमेकं तु योजनानां भवेत् उत्कृष्टः । एकेंद्रियस्य देहः स पुनः पद्ममिति ज्ञातव्यं ॥२९॥ टीका–साहिय-सहाधिकेन वर्तत इति साधिकं सक्रोशद्वयं, सहस्समेयं तु-सहस्रमेकं तु एकं एकसहस्रं,जोयणाणं-योजनानां,हवेज्ज-भवेत् ,उक्कस्संउत्कृष्टः । एइंदियस्स-एकेन्द्रियस्य, देहं-देहः शरीरं, तं पुण-स पुनः, पउमत्ति णायव्वं-पद्ममिति ज्ञातव्यं । तेन पृथिवीकायादिवायुकायांतानां त्रसानां चैतावन्मात्रस्य देहस्य निराकरणं द्रष्टव्यं । योजनानां सहस्रमेकं साधिकं च तन्मात्र एकेन्द्रियस्य देहः स पुमदेहो वनस्पतिसंज्ञकस्य पद्मास्य ज्ञातव्यः । प्रमाणप्रमाणवतोरभेदं कृत्वा निर्देश इति ॥ २९॥ द्वीन्द्रियादीनामुत्कृष्टदेहप्रमाणमाह;संखो पुण वारसजोयणाणि गोभी भवे तिकोसं तु । भमरो जोयणमेत्तं मच्छो पुण जोयणसहस्सं ॥३०॥ शंखः पुनादशयोजनानि गोभी भवेत् त्रिकोशं तु । भ्रमरो योजनमात्रः मत्स्यः पुनर्योजनसहस्रः ॥ ३०॥ टीका-संखो पुण-शंखः पुनर्दीन्द्रियः, वारसजोयणाणि-दादशयोजनानि द्वादशयोजनो वा, गोभी-गोपालिका खजूरको वा, भवे-भवेत् , तिकोसं तु-त्रिकोशं तु त्रिकोशमात्रस्त्रीन्द्रियः, भमरो-भ्रमरो मधुकरश्चतुरिन्द्रियः, जोयणमेत्तं—योजनमात्रं गव्यूतिचतुष्टयमात्रः, मच्छो-मत्स्यः, पुण-पुनः, जोयणसहस्सं-योजनसहस्रः। द्वीन्द्रियाणां मध्ये उत्कृष्टदेहः शंखः १ वनस्पति कायस्य पद्मसंज्ञकस्य ग. । २ प्रमाणः ग. । Page #200 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। १९५ wwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm स च द्वादशयोजनमात्रः, त्रीन्द्रियाणां मध्ये उत्कृष्टदेहो गोभी सा च क्रोशत्रयपरिमिता, चतुरिन्द्रियाणां मध्ये उत्कृष्टदेहो भ्रमरः स च योजनप्रमाणः, पंचेन्द्रियाणां मध्ये उत्कृष्टदेहो मत्स्यः स च योजनसहस्रायाम इति ॥ ३० ॥ प्रमाणमपि प्रमाणसूत्रेण गृहीतं यतोऽतो जंबूद्वीपस्यापि परिधिप्रमाणमाह;जंबूदीवपरिहिओ तिण्णिव लक्खं च सोलहसहस्सं बे चेव जोयणसया सत्तावीसा य होति बोधव्वा ॥३१॥ तिण्णेव गाउआई अहावीसं च धणुसयं भणियं । तेरस य अंगुलाई अद्धंगुलमेव सविसेसं ॥ ३२॥ जंबूद्वीपपरिधिः त्रीण्येव लक्षाणि च षोडशसहस्राणि । द्वे चैव योजनशते सप्तविंशतिश्च भवंति बोद्धव्यानि ॥ ३१ ॥ त्रीण्येव गव्यूतानि अष्टाविंशतिश्च धनुःशतं भणितं । त्रयोदश चांगुलानि अर्धागुलमेव सविशेषं ॥ ३२ ॥ टीका-जंबूद्वीपो योजनलक्षविष्कंभ एतावत्परिधिप्रमाणस्यान्यथानुपपत्तेस्तस्य च ग्रहणं बहुप्रमाणविकल्पसंग्रहणं जंबूद्वीपप्रमाणग्रहणं च स्वयंभूरमणद्वीपसमुद्रायामप्रमाणज्ञापनार्थ तयोश्च प्रमाणकथनमुत्कृष्टदेहप्रमाणैकेन्द्रियाद्यवस्थानज्ञापनार्थमित्यतो योजनलक्षं जंबूद्वीपविष्कमवर्ग दशगुणं कृत्वा वर्गमूलं च गृहीत्वैव पठति;-जंबूद्वीवपरिहिओ-जंबूवृक्षोपलक्षितो द्वीपो जम्बूद्वीपोऽसंख्यातद्वीपसमुद्राणां मध्यनाभिरिव तदायत्तं सर्वेषां विष्कंभायामपरिधिप्रमाणं, परिहिओ-परिधिः परिक्षेपो जंबूद्वीपस्य परिधिर्जबूद्वीपपरिधिः, तिण्णेव लक्वं-त्रीण्येव लक्षाणि, सोलहसहस्संघोडशसहस्राणि, वे चेव जोयणसया-द्वे चैव योजनानां शते, सत्तावीसा १त्रयायामाग.। Page #201 -------------------------------------------------------------------------- ________________ मूलाचारे य--सप्तविंशतिश्च योजनानां सर्वत्र संबंधः, होंति-भवति, बोधवाबोद्धव्यानि । जंबूद्वीपस्य परिधेः, प्रमाणं योजनानां त्रीणि लक्षाणि घोडशसहस्राणि, योजनानां द्वे च शते योजनानां सप्तविंशतिश्च । अथवा भेदेन निर्देशो जंबूद्वीपपरिधिः योजनानां त्रीणि लक्षाणि षोडशसहस्राणि द्वे शते संप्तविंशतिश्चेति । तथा तिण्णेव-त्रीण्येव, गाउआई-गव्यूतानि क्रोशाः, अट्ठावीसं च-अष्टाविंशतिश्च, धणु-धनुषां, सदं-शतं, भणियं--भणितं, तेरस य-त्रयोदशानि च, अंगुलाई-अंगुलानि च, अद्धंगुलमेव--अर्धांगुलमेव च, सविसेसं--सविशेषो यवः सातिरेकः किंचिदेव तेन विशेषेण सह वर्त्तत इति सविशेषमागुलेन संबंधः । त्रीणि. गव्यूतानि धनुषां शतमष्टाविंशत्यधिकं त्रयोदशानि चांगुलानि सविशेषमर्दोगुलं चेति ॥ ३१॥३२ ॥ जंबूद्वीपमादिं कृत्वा कियतां द्वीपानां नामान्याह;जंबूदीवो धादइसंडो पुक्खरवरो य तह दीवो। वारुणिवर खीरवरो य घिदवरो खोदवरदीवो ॥ ३३ ॥ गंदीसरो य अरुणो अरुणभासो य कुंडलवरी य । संखवर रुजग भुजगवर कुसवर कुंचवरदीवो ॥ ३४ ॥ जंबूद्वीपो धातकीखंडः पुष्करवरश्चं तथा द्वीपः । वारुणीवरः क्षीरवरश्च घृतवरः क्षौद्रवरद्वीपः ॥ ३३ ॥ नंदीश्वरश्चारुणोऽरुणभासश्च कुंडलवरश्च । शंखवरो रुचको भुजगवरो कुशवरो क्रौंचवरद्वीपः ॥ ३४ ॥ टीका-जंबूदीवो-जंबूद्वीपः प्रथमो द्वीपः, धादइसंडो-धातकीखंडो द्वितीयो द्वीपः, पुक्खरवरो-पुष्करवरस्तृतीयो द्वीपः, तह-तथा, दीवो द्वीपः, वारुणिवर-वारुणीवरश्चतुर्थों द्वीपः, खीरवरो-क्षीरवरः पंचमो Page #202 -------------------------------------------------------------------------- ________________ १९७ पर्याप्स्यधिकारः । ~~~~~~~~~~~~~~~~~mmmmmmmmmmmwwwwwwwwwwwwwwwmmmmmm द्वीपः, घिदवरो-घृतवरः षष्ठो द्वीपः, खोदवरो–क्षौद्रवरः सप्तमो दीपः, नंदीसरो य-नंदीश्वरश्चाष्टमो द्वीपः, अरुणो-अरुणाख्यो नवमो द्वीपः, अरुणभासो य-अरुणभासश्च दशमो द्वीपः, कुंडलवरो य-कुंडलवरश्चैकादशो द्वीपः, संखवर- शंखवरो द्वादशो द्वीपः, रुजग--रुचकत्रयोदशो द्वीपः, भुजगवरो-भुजगवरश्चतुर्दशो द्वीपः, कुसवरो-कुशवरः पंचदशो द्वीपः, कुंचवरदीवो--क्रौंचवरद्दीपश्च षोडश इति ॥ ३३॥३४॥ __एवं नामानि गृहीत्वा विष्कंभप्रमाणमाह;एवं दीवसमुद्दा दुगुणदुगुणवित्थडा असंखेज्जा। एदे दु तिरियलोए सयंभुरमणोदहिं जाव ॥ ३५॥ एवं द्वीपसमुद्रा द्विगुणद्विगुणविस्तारा असंख्याताः। एते तु तिर्यग्लोके स्वयंभूरमणोदधिर्यावत् ॥ ३५ ॥ टीका-एवं अनेन प्रकारेण, दीवसमुद्दा-द्वीपसमुद्राः, दुगुणदुगुणवित्थडा--द्विगुणो द्विगुणो विस्तारो येषां ते द्विगुणद्विगुणविस्ताराः, कियंताः? असंखेज्जा-असंख्याताः संख्याप्रमितिक्रांताः । जंबूद्वीपविष्कंभाल्लवणसमुद्रो द्विगुणविष्कंभो लवणसमुद्राच्च धातकीखंडद्वीपो द्विगुणविष्कंभः । अनेन प्रकारेण द्वीपात्समुद्रो द्विगुणविस्तारः समुद्राच्च द्वीपः । अतः सर्वे द्वीपसमुद्रा द्विगुणद्विगुणविस्तारा असंख्याता भवंति । ननु समुद्रग्रहणं कुतो लब्धं ? द्वीपग्रहणात्, तदपि कुतः ? साहचर्यात्पर्वतनारदवत् । क व्यस्थिता इत्याशंकायामाह;-एते दु तिरियलोए-एते तु द्वीपसमुद्रास्तिर्यग्लोके रज्जुमात्रायामे, कियड्रं? सयंभुरमणोदहिं जाव-यावत्स्वयंभूरमणोदधिः । स्वयंभूरमणसमुद्रपर्यंता असंख्याता द्वीपसमुद्रा द्विगुणद्विगुणविस्तारा द्रष्टव्या इति ॥ ३५॥ १ संख्यातप्रमाणमतिक्रान्ताः ग । Page #203 -------------------------------------------------------------------------- ________________ मूलाचारे असंख्याता इति तु न ज्ञायते, कियंत इत्यतस्तन्निर्णयमाह;-- जावदिया उद्धारा अड्डाइजाण सागरुवमाणं। तावदिया खलु रोमा हवंति दीवा समुद्दा य ॥ ३६ ॥ यावंत्युद्धाराणि अर्धतृतीययोः सागरोपमयोः । तावंति खलु रोमाणि भवंति द्वीपाः समुद्राश्च ॥ ३६ ॥ टीका-जावदिया-यावंति यन्मात्राणि, उद्धारा-उद्धाराणि उद्धारपल्योपमानि तेषु यावंति रोमाणि, अड्डाइज्जाण-अर्द्धतृतीययोर्द्वयोरर्धाधिकयोः, सागरुवमाण-सागरोपमयोः, तावदिया-तावंतस्तन्मात्राः, खलुस्फुटं, रोमा-उद्धारेषु रोमाणि सुकुमारोरणरोमाग्राणि, हवंति-भवंति, दीवा-दीपाः, समुद्दा य—समुद्राश्च । प्रमाणयोजनावगाहविष्कंभायाम कूपं कृत्वा सप्तरात्रजातमात्रोरणरोमाग्रभागैः पूर्ण च कृत्वा तत्र यावन्मात्राणि रोमाग्राणि तावन्मात्राणि वर्षशतानि गृहीत्वा तत्र यावन्मात्राः समया व्यवहारपल्योपमं नाम । व्यवहारपल्योपमे चैकैकं रोम असंख्यातवर्षकोटीसमयमात्रान् भागान् कृत्वा वर्षशतसमयैश्चैकैकं खंडं प्रगुण्य तत्र यावन्मात्राः समयाः तावन्मात्रमुद्धारपल्योपमं भवति । उद्धारपल्योपमानि च दशकोटीकोटीमात्राणि गृहीत्वैकं उद्धारसागरोपमं भवति । तावन्मात्रयोर्द्वयोः सार्द्धयोः सागरोपमयोर्यावन्मात्राण्युद्धारपल्योपमानि तत्र च यावन्मात्राणि रोमाणि तावन्मात्राः स्फुटं द्वीपसमुद्रा भवंतीति ॥ ३६ ॥ ननु द्वीपग्रहणेन च समुद्राणां ग्रहणं संजातं तत्र न ज्ञायते किमभिधानास्त इत्याशंकायामाह;जंबूदीवे लवणो धादइसंडे य कालउदधी य । सेसाणं दीदाणं दीवसरिसणामया उदधी ॥ ३७॥ जंबूद्वीपे लवणः धातकीखंडे च कालोदधिश्च । शेषाणां द्वीपानां द्वीपसदृशनामान उधयः ॥ ३७॥ Page #204 -------------------------------------------------------------------------- ________________ पर्याप्स्यधिकारः। १९९ टीका-जंबूदीवे-जंबूद्वीपे, लवणो-लवणसमुद्रः, धादइर्सडे य-धातकीखंडे च, कालउदधी य–कालोदधिसमुद्रः, सेसाणं- शेषेषु जंबूद्वीपधातकीखंडवर्जितेषु, दीवाणं--दीपेषु द्विर्गता आपो येषां ते द्वीपा जलरहितमध्यप्रदेशास्तेषु द्वीपेषु, दीवसरिसणामया--द्वीपैः सदृशानि समानानि नामानि येषां ते द्वीपसदृशनामानः, उदधी--उदकानि धीयते येषु त उदधयः समुद्राः । जंबूद्वीपे लवणसमुद्रः, धातकीखंडे च कालोदधिसमुद्रः, शेषेषु पुनःपेषु ये समुद्रास्ते स्वकीयस्वकीयद्वीपनामसंज्ञका भवंतीति ॥ ३७॥ ___ एते समुद्रा लवणोदादयः किं समानरसा इत्याशंकायामाह;पत्तेयरसा चत्तारि सायरा तिण्णि होंति उदयरसा। अवसेसा य समुद्दा खोदरसा होति णायव्वा ॥३८ । प्रत्यकरसाश्चत्वारः सागरास्त्रयो भवंत्युदकरसाः। अवशेषाश्च समुद्राः क्षौद्ररसा भवंति ज्ञातव्याः ॥ ३८॥ टीका-पत्तेयरसा-प्रत्येकः पृथक् पृथक् रसः स्वादो येषां ते प्रत्येकरसा भिन्नस्वादाः, चत्तारि-चत्वारः, सायरा--सागराः समुद्राः, तिण्णि-त्रयः, होति-भवंति, उदयरसा-उदकरसा उदकं रसो येषां ते उदकरसाः पानीयरसपूर्णाः । अवसेसा य-अवशेषाश्चैतेभ्यो येऽन्ये, समुद्दा-समुद्राः, खोदरसा क्षौद्ररसाः इक्षो रस इव रसो येषां त इक्षुरसा मधुररसस्वादुपानीयाः, होति-भवंति, णायव्वा-ज्ञातव्याः । * चत्वारः समुद्राः प्रत्येकरसाः, त्रय उदकरसाः समुद्राः, शेषाः पुनः क्षौद्ररसा ज्ञातव्या भवन्तीति* ॥ ३८॥ के प्रत्येकरसाः के चोदकरसा इत्याशंकायामाह;बारुणिवर खीरवरो घदवर लवणो य होंति पत्तेया। कालो पुक्खर उदधी सयंभुरमणो य उदयरसा ॥३९॥ १ किं समानरसा नेत्याह ख. ग। *पुष्प मध्यगतः पाठः ख-ग-पुस्तकेऽधिकः । Page #205 -------------------------------------------------------------------------- ________________ २०० मूलाचारे वारुणीवरः क्षीरवरः प्रतवरो लवणश्च भवंति प्रत्येकाः । कालः पुष्कर उदधिः स्वयंभूरमणश्चोदकरसाः ॥ ३९ ॥ टीका-वारुणिवर-वारुणीवरः समुद्रो वारुणी मद्यविशेषस्तस्या रस इव रसो यस्य स वारुणीरसो वारुणीवरः, खीरवरो-क्षीरवरः क्षीरस्य रस इव रसो यस्य स क्षीररसः क्षीरवरः, घदवर-घृतवरः घृतस्य रस इव रसो यस्य स घृतरसः, लवणो य-लवणश्च लवणस्य रस इव रसो यस्य स लवणरसः लवणसमुद्रः, होति-भवंति, पत्तेया- प्रत्येकरसाः, एते चत्वारो वारुणीवरादयः समुद्रा भिन्नरसा भवंतीति । कालो-कालः, पुक्खर--पुष्करवरः, उदधी-समुद्रौ, सयंभुरमणो य–स्वयंभूरमणश्च, उदयरसा-उदकरसा उदकं रसो येषां त उदकरसाः, कालोदधिपुष्करोदधी समुद्रौ स्वयंभूरमणश्चैते उदकरसाः । एतेभ्यः पुनरन्ये क्षौद्ररसाः समुद्रा इति ॥ ३९॥ __ अथ केषु समुद्रेषु जलचराः संति केषु च न संतीत्याशंकायामाह;लवणे कालसमुद्दे सयंभुरमणे य होंति मच्छा दु। अवसेसेसु समुद्देसु णत्थि मच्छा य मयरा वा ॥४०॥ लवणे कालसमुद्रे स्वयंभूरमणे च भवंति मत्स्यास्तु । अवशेषेषु समुद्रेषु न संति मत्स्याश्च मकरा वा ॥ ४० ॥ टीका-लवणे-लवणसमुद्रे, कालसमुद्दे-कालसमुद्रे, सयंभुरमणे य-स्वयंभूरमणसमुद्रे च, होति मच्छा-भवंति मत्स्या:, तुशब्दादन्ये जलचरा मत्स्यशब्दस्य चोपलक्षणत्वात् उत्तरत्र मकरप्रतिषेधाच्च । अवसेसेषु--अवशेषेषु एतेभ्योऽन्येषु, समुद्देसु-समुद्रेषु, णत्थि--न संति न विद्यते, मच्छा य--मत्स्याश्च, मयरा वा--मकरा वा चशब्दादन्येऽपि जलचरा न संत्युपलक्षणमात्रत्वाद्दा प्रतिषेघस्य । लवणसमुद्रे कालोदधौ स्वयंभूरमणसमुद्रे च मत्स्या मकरा अन्ये च जलचरा द्वीन्द्रिया Page #206 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २०१ दयः पंचेन्द्रियपर्यंता: संति, एतेभ्योऽन्येषु समुद्रषु मत्स्या मकरा अन्ये च दीन्द्रियादिपंचेन्द्रियपर्यंता जलचरा न संतीति ॥ ४० ॥ अथ किंप्रमाणा जलचरा एतोष्वित्याशंकायामाह;अट्ठारसजोयणिया लवणे णवजोयणा णदिमुहेसु । छत्तीसगा य कालोदहिम्मि अट्ठार णदिमुहेसु ॥४१॥ अष्टादशयोजना लवणे नवयोजना नदीमुखेषु । षत्रिंशत्काश्च कालोदधौ अष्टादश नदीमुखेषु ॥ ४१ ॥ का-अटारसजोयणिया-अष्टादशयोजनानि प्रमाणं येषां तेऽष्टादशयोजना:, लवणे-- लवणसमुद्रे, णवजोयणा-नवयोजनानि प्रमाणं येषां ते नवयोजनाः, णदिमुहेसु-नदीनां मुखानि नदीमुखानि तेषु नदीमुखेषु प्रदेशेषु गंगासिंध्वादीनां समुद्रेषु प्रवेशो नदीमुखं । छत्तीसगा य—षड्भिरधिकानि त्रिंशत् प्रमाणं येषां ते षट्त्रिंशत्काः षट्त्रिंशयोजनप्रमाणाः, कालोदहिम्मि--कालोदधौ, अटारस-अष्टादशयोजनप्रमाणा यद्यप्यत्र योजनशब्दो न श्रूयते पूर्वोक्तसमासांतर्भूतस्तथापि द्रष्टव्योऽन्यस्याश्रुतत्वात् लुप्तनिर्दिष्टो वा, णदिमुहेसु-नदीमुखेषु । लवणसमुद्रेऽष्टादशयोजनप्रमाणा मत्स्यास्तत्र च नदीमुखेषु च नवयोजनप्रमाणा मत्स्याः कालोदधौ पुनर्मत्स्याः घटाशयोजनप्रमाणास्तत्र च नदीमुखेषु अष्टादशयोजनप्रमाणाः। मत्स्यानामुपलक्षणमेतत् अन्येषामपि प्रमाणं द्रष्टव्यमिति॥४१ स्वयंभूरमणे मत्स्यानामुत्कृष्टदेहप्रमाणं जघन्यदेहप्रमाणं च प्रतिपादयनुत्तरसूत्रमाह;साहस्सिया दु मच्छा सयंभुरमणसि पंचसदिया दु । देहस्स सव्वहस्सं कुंथुपमाणं जलचरेसु ॥ ४२ ॥ १ नदीमुखमिति पाठः ख-ग-पुस्तके नास्ति । Page #207 -------------------------------------------------------------------------- ________________ २०२ मूलाचारे wwwwwwwwwwwwwwwwwwmmmm. साहनिकास्तु मत्स्याः स्वयंभूरमणे पंचशतिकास्तु । देहस्य सर्व-हस्वं कुंथुप्रमाणं जलचरेषु ॥ ४२ ॥ टीका--साहस्सिया दु--साहस्रिकास्तु सहस्रं योजनानां प्रमाणं येषां ते साहस्रिकाः, अत्रापि योजनशब्दो द्रष्टव्यः, मच्छा-मत्स्याः सयंभुरमणमि-स्वयंभूरमणसमुद्रे, पंचसदिया--पंचशतिकाः पंच शतानि प्रमाणं येषां योजनानां पंचशतिका नदीमुखेष्विति द्रष्टव्यमधिकारात् । उत्कृष्टेन स्वयंभूरमणसमुद्रे मत्स्याः सहस्रयोजनप्रमाणा नदीमुखेषु पंचशतयोजनप्रमाणाः । देहरस-देहस्य शरीरस्य, सव्वहस्सं--सर्वह्रस्वं सुष्ठ अल्पत्वं, कुंथुपमाणं--कुंथुप्रमाणं, जलचरेसु--जलचरेषु । सर्वजलचराणां मध्ये मत्स्यस्य देहप्रमाणं सर्वोत्कृष्टं योजनसहस्रं सर्वजघन्यश्च कुंथुप्रमाणः केषांचिज्जलचराणां देह इति ॥ ४२ ॥ - पर्याप्तापर्याप्तत्वमाश्रित्य जलचरस्थलचरखचराणां देहेप्रमाणमाह;जलथलखगसम्मुच्छिमतिरिय अपज्जत्तया विहत्थीदु । जलसम्मुच्छिमपज्जत्तयाण तह जोयणसहस्सं ॥ ४३ । जलस्थलखगसम्मूर्छिमतिर्यच अपर्याप्तका वितस्तिस्तु । जलसंमूर्छिमपर्याप्तकानां तथा योजनसहस्रं ॥ ४३ ॥ टीका--जलथलखग--जलं च स्थलं च खं च जलस्थलखानि तेषु गच्छंतीति जलस्थलखगा जलचरस्थलचरखचराः, सम्मुच्छिम--सम्मूछिमा गर्भोपपादजन्मनान्ययोन्युत्पन्नाः, तिरिय--तिर्यचो देवमनुष्यनारकाणामन्ये जीवाः, अपज्जत्तया--अपर्याप्तका असंपूर्णाश्चाषट्पर्याप्तयः, विहत्थी दु-वितस्तिका द्वादशांगुलप्रमाणाः, अथवा जलस्थलखगसम्मू १ समुद्रे इति शब्दः ख-ग-पुस्तके नास्ति । २ देहप्रमाणायोत्तरसूत्रमाहख-ग.। ३ जन्मनोऽन्यथानुत्पन्ना ख-ग-पुस्तके पाठः । Page #208 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २०३ छिमतिर्यगपर्याप्तानां देहप्रमाणं वितस्तिः । जलसम्मुर्छिमपज्जत्तयाणजलसम्मूर्छिमास्ते च ते पर्याप्तकाश्च जलसम्मूर्छिमपर्याप्तकास्तेषां जलसम्मूर्छिमपर्याप्तकानां च अथवा जलग्रहणेन जलचरा गृह्यते-प्रेस्तूयंते, प्रस्तुतत्वात्, जोयणसहस्सं--योजनानां सहस्रं, जलचरसंम्मूच्छिमपर्याप्तकानामुत्कृष्टं देहप्रमाणं योजनसहस्रमिति ॥ ४३॥ पुनरपि तदेवाश्रित्य गर्भजत्वं चाश्रित्योत्कृष्टदेहप्रमाणमाह;जलथलगब्भअपज्जत्त खगथलसंमुच्छिमा य पज्जत्ता । खगगब्भजा य उभये उक्कस्सेण धणुपुहत्तं ॥ ४४ ॥ जलस्थलग पर्याप्ताः खगस्थलसंमूर्छिमाश्च पर्याप्ताः। खगगर्भजाश्चोभये उत्कृष्टेन धनुःपृथक्त्वं ॥४४॥ टीका-जलथलगब्भअपज्जत्त-जलमुदकं, स्थलं ग्रामनगराटवीपर्वतादि, गर्भः स्त्रिया उदरे वस्तिपटलाच्छादितप्रदेशः, जलचरजीवा जलाः स्थलस्था जीवाः स्थला गर्भे जाता जीवा गर्भजा इत्युच्यते तात्स्थ्यात्साहचर्याद्वा यथा मंचाः क्रोशंतीति धनुर्धावतीति, न पर्याप्ता अपर्याप्ता अनिष्पन्नाहारादिषट्पर्याप्तयो जलाश्च स्थलाश्च ते गर्भाश्च जलस्थलगर्भास्ते च तेऽपर्याप्ताश्च जलस्थलग पर्याप्ता जलचराः स्थलचरा गर्भजाश्च येऽपर्याप्तास्त इत्यर्थः । खगथलसम्मुच्छिमा य-खे आकाशे गच्छंतीति खगाः स्थलस्थाः स्थलाः खगाश्च स्थलाश्च खगस्थलाः पक्षिमृगादयस्ते च ते सम्मूर्छिमाश्च खगस्थलसम्मूर्छिमाः, पज्जत्ता-पर्याप्ताः । खगगब्भजा य– खगे जाता खगजा गर्भे जाता गर्भजाः खगजाश्च ते गर्भजाश्च खगगर्भजाः, उभये-पर्याप्ता अपर्याप्ताश्च, उक्कस्सेण-उत्कर्षेण उत्कृष्टशरीरप्रमाणेन धणुपुहत्तं धनुःपृथक्त्वं “त्रयाणामुपरि नवानामधो या संख्या सा पृथक्त्वमित्युच्यते" धनुषां पृथक्त्वं धनुःपृथक्त्वं त्रयाणां धनुषामुपरि नवानामधश्चतुः १ क्रियापदमिदं ख-ग-पुस्तके नास्ति । नाप्यनेन भवितव्यं । Page #209 -------------------------------------------------------------------------- ________________ २०४ wmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm मूलाचारे पंचषट्सप्ताष्टधषि । जलचरस्थलचरा ये गर्भजा अपर्याप्ता खगस्थलचराश्च संमूर्छिमाः पर्याप्ता ये खगगर्भजाश्च ये पर्याप्तापर्याप्ताः सर्वे ते उत्कृष्टेन शरीरप्रमाणेन धनुःपृथक्त्वं भवंति । अथवा देहस्येत्यनुवर्त्तते तेनैतेषां देह उत्कर्षेण धनुःपृथक्त्वं भवतीति ॥ ४४ ॥ जलस्थलगर्भजपर्याप्तानामुत्कृष्टं देहप्रमाणमाह;जलगब्भजपज्जत्ता उकस्सं पंचजोयणसयाणि । थलगभजपज्जत्ता तिगाउदोकस्समायामो ॥ ४५ ॥ जलगर्भजपर्याप्ताः उत्कृष्टं पंच योजनशतानि । स्थलगर्भजपर्याप्तास्त्रिगव्यूतानि उत्कृष्टमायामः ॥ ४५ ॥ टीका-जलगभजपज्जत्ता-जलगर्भजपर्याप्ताः, उक्कस्सं-उत्कृष्टमुत्कपेण वा, पंचजोयणसयाणि-पंचयोजनशतानि देहप्रमाणेनेत्यर्थः, अथवा जलगर्भजपर्याप्तानामायामः पंचयोजनशतानि* उत्तरगाथार्धे आयामस्य ग्रहणं यतः । अथवा एतेषां देह उत्कृष्टः पंचयोजनशतानि* थलगब्भजपज्जता-स्थलगर्भजपर्याप्तानां, तिगाउद--त्रिगव्यूतानि षट्दंडसहस्राणि उक्कस्स-उत्कृष्टः, आयामो-आयामः शरीरप्रमाणं । स्थलगर्भजपर्याप्तानां भोगभूमितिरश्चां देहस्योत्कृष्ट आयामस्त्रीणि गव्यूतानि । अथवा स्थलगर्भजपर्याप्ता उत्कृष्टदेहस्यायामेन त्रिगव्यूतानि भवंतीति ॥ ४५ ॥ पृथिवीकायिकाप्कायिकतेजस्कायिकवायुकायिकानां मनुष्याणां चोत्कृष्टं देहप्रमाणं प्रतिपादयन्नाह;-- अंगुलअसंखभागं बादरमुहुमा य सेसया काया। उकस्सेण दुणियमा मणुगा य तिगाउ उविद्धा ॥४६॥ अंगुलासंख्यभागो बादरसूक्ष्माश्च शेषाः कायाः। उत्कृष्टेन तु नियमात् मनुष्याश्च त्रिगव्यूतानि उवृद्धाः ॥४६॥ • पुष्पमध्यगतः पाठः ख-ग-पुस्तकेऽधिकः । Page #210 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २०५ टीका-अंगुलं-द्रव्यांगुलमष्टयवनिष्पन्नांगुलेन येऽवष्टैब्धा नभःप्रदेशास्तेषां मध्येऽनेकस्याः प्रदेशपंक्तेविदायामस्तावन्मात्रं द्रव्यांगुलं तस्यांगुलस्य असंखभागं-असंख्यातभागः अंगुलमसंख्यातखंडं कृत्वा तत्रैकखंडमंगुलासंख्यातभागः, बादरसुहुमा य-बादरनामकर्मोदयाद्वादराः सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादराश्च सूक्ष्माश्च बादरसूक्ष्माः पृथिवीकायादयः, सेसया-शेषा उक्तानां परिशेषाः कायाः पृथिवीकायाप्कायतेजःकायवायुकायाः, उक्कस्सेण-उत्कृष्टेन सुष्टु महत्त्वेन, तुर्विशेषे; णियमा-नियमान्निश्चयात् , मणुया-मनुष्या भोगभूमिजाः, तिगाउ-त्रिगव्यूतानि, उन्विद्धा-उवृद्धाः परमोत्सेधाः । सर्वेऽपि बादरकायाः ( सूक्ष्माश्च ) पृथिवीकायिकादिवायुकायिकांता द्रव्यांगुलासंख्यभागशरीरोत्सेधा मनुष्याश्च पर्याप्तास्त्रिगव्यूतशरीरोत्सेधा । उत्कृष्टप्रमाणे न। नात्र पौनरुक्त्यं पर्याप्तिमनाश्रित्य सामान्येन कथनादिति ॥ ४६ ॥ पुनरपि सर्वजघन्यं सर्वोत्कृष्टं शरीरप्रमाणमाह;सुहुमणिगोदअपज्जत्तयस्स जादस्स तदियसमयसि। हवदि दु सवजहण्णं सव्वुक्कस्सं जलचराणं ॥ ४७ ॥ सूक्ष्मनिगोदापर्याप्तस्य जातस्य तृतीयसमये । भवति तु सर्वजवन्यं सर्वोत्कृष्टं जलचराणां ॥ ४७ ॥ टीका-सुहुमणिगोद-सूक्ष्मनिगोदस्य, अपज्जत्तयस्स-अपर्याप्तकस्य, जादस्स-जातस्योत्पन्नस्य, तदियसमयामि-तृतीयसमये प्रथमद्वितीयसमययोः प्रदेशविस्फूर्जनसद्भावात्पूर्वदेहसामीप्याद्वा महच्छरीरं भवति तृतीयसमये पुनः प्रदेशानां निचयानुसारेणावस्थानाच्च सर्वजघन्यं भवति शरीरं, हवदि दु-भवत्येव, सव्वजहण्णं-सर्वजघन्यं, सव्वुक्कस्सं-सर्वोत्कृष्टं, जलचराणां-मत्स्यानां पद्मानां वा । सूक्ष्मनिगोदस्यापर्याप्तस्य तृतीयसमये १ये चाष्टधा प्रेस-पुस्तके । Page #211 -------------------------------------------------------------------------- ________________ २०६ मूलाचारे जातमात्रस्य सर्वजघन्यशरीरोत्सेधः, जलचराणां चे पद्मानां सर्वोत्कृष्टः शरीरायाम इति । अत्रापि लोकस्य सप्तैकं पंचैकं रज्जुप्रमाणं द्रष्टव्यं तथा मेरुकुलपर्वतविजया ष्वाकारकांचनगिरिमनुष्योत्तरकुंडलवरांजनदधिमुखरतकरस्वयंभूनगवरेंद्रदंष्ट्रागिरिभवन विमानतोरणजिनगृहपृथिव्यष्टकेन्द्रकप्रकीर्णकश्रेणिबद्धनरकक्षेत्रवेदिकाजंबूशाल्मलीधातकीपुष्करचैत्यवृक्षकूटह्रदनदीकुंडायतनवापीसिंहासनादीनामुत्सेधायामप्रमाणं द्रष्टव्यं लोकनियोगत इति ॥ ४७ ॥ देहसूत्रं व्याख्याय संस्थानसूत्रं प्रपंचयन्नाह;मसुरिय कुसग्गविंदू सूइकलावा पडाय संठाणा । कायाणं संठाणं हरिदतसा णेगसंठाणा ॥४८॥ मसूरिका कुशाग्रविंदुः सूचीकलापः पताका संस्थानानि । ‘कायानां संस्थानानि हरितवसा अनेकसंस्थानाः ॥ ४८॥ टीका-मसुरिय-मसूरिका वृताकारा, कुसग्गविंदू-कुशस्याग्रं कुशाग्रं तस्मिन् विंदुरुदककणः कुशाग्रबिंदुर्वर्तुलाकारमुदकं, सूइकलावा-सूचीकलापः सूचीसमुदायः,पडाय-पताका,संठाणं-संस्थानान्याकाराः, कायाणं-कायानां पृथिवीकायिकादिवायुकायांतानां, संठाणं-संस्थानानि शरीराकाराः । मसूरिका इव संस्थानं यस्य तन्मसूरिकासंस्थानं, कुशाग्रबिंदुवि संस्थानं यस्य तत्कुशाग्रबिंदुसंस्थानं, सूचीकलाप इव संस्थानं यस्य तत्सूचीकलापसंस्थानं, पताका इव संस्थानं यस्य तत्पताकासंस्थानं यथासंख्येन संबंधः, पृथिवीकायस्य संस्थानं मसूरिकासंस्थानं, अप्कायस्य संस्थानं कुशाग्रबिंदुसंस्थानं, तेजःकायस्य संस्थानं सूचीकलापसंस्थानं, वायुकायस्य १ व पद्मानामिति पाठः ख-ग-पुस्तके नास्ति । Page #212 -------------------------------------------------------------------------- ________________ पर्याप्तत्यधिकारः । संस्थानं पताकासंस्थानं । मसूरिकायाकार इव पृथिवीकायिकादयः । हरिदतसा - हरितत्रसाः प्रत्येकसाधारणबादरसूक्ष्मवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, णेगसंठाणा - अनेकसंस्थाना नैकमनेकमनेकं संस्थानं येषां तेऽनेकसंस्थाना अनेक हुँडसंस्थानविकल्पा अनेकशरीराकाराः । त्रसशब्देन द्वीन्द्रियादिचतुरिंद्वियपर्यंता गृह्यंते पंचेंद्रियाणां संस्थानस्योत्तरत्र प्रतिपादनादिति ॥ ४८ ॥ पंचेन्द्रियसंस्थानप्रत्तिपादनार्थमाह; -- २०७ समचउरसणग्गोहासादियखुज्जायवामणाहुंडा । पंचेंद्रियतिरियणरा देवा चउरस्स णारया हुंडा ॥ ४९ ॥ समचतुरस्रन्यग्रोधस्वातिककुब्ज कवामनहुंडाः । पंचेंद्रियतिर्यग्नरा देवाश्चतुरस्रा नारका हुंडाः ॥ ४९ ॥ टीका - संस्थानमित्यनुवर्तते । समचउरस - समचतुरस्रं संस्थानं यथा प्रदेशावयवं परमाणूनामन्यूनाधिकता । गोह न्यग्रोध संस्थानं शरीरस्योर्ध्वभागेऽवयवपरमाणुत्रहुत्वं । * सादि - स्वातिसंस्थानं शरीरस्य नाभेरधः कटिजंघापादाद्यवयवपरमाणूनामधिकोपचयः । खुज्जा - - कुब्जसंस्थानं शरीरस्य पृष्ठावयवपरमाण्वधिकोपचयः । वामणा - वामनसंस्थानं शरीरमध्यावयवपरमाणुत्रहुत्वं हस्तपादानां च ह्रस्वत्वं । हुडा - * हुंडसंस्थानं सर्वशरीरावयवानां बीभत्सता परमाणूनां न्यूनाधिकता सर्वलक्षणासंपूर्णता च पंचेंद्रियतिरियणरा-पंचेन्द्रियतिर्यङ्कराणां समचतुरस्रन्यग्रोधस्वातिकुब्जवामनहुंड संस्थानानि षडपि पंचेन्द्रियाणां मनुष्याणां तिरश्चां च भवंति, १ अस्मादग्रे कायाः काया इत्यर्थः इत्यशुद्धपाठः ख-ग-पुस्तके किन्तु इत्यर्थ इत्यनेन केवलेन भाव्यं । पुष्पमध्यगतपाठस्थानेऽयं पाठः प्रेस - पुस्तके सादिस्वातिसंस्थानं वल्मीकतुल्या कारं 'शरीरमध्यावययवपरमाणुबहुलं कुब्जसंस्थानं हस्तपादानां च हस्त्रत्वं वामनसंस्थानं । * Page #213 -------------------------------------------------------------------------- ________________ मूलाचारे अथवा अभेदात्तल्लिगं ताच्छव्यं च पंचेंद्रियतिर्यङ्कराः समचतुरस्रन्यग्रोधस्वातिकुब्जवामनहुंडाश्च भवंति सामान्येन । देवा चउरसा - देवाश्चतुरस्राः, णारया - नारकाः, हुंडा - हुंडा: । देवाः समचतुरस्रसंस्थाना एव, नाकाश्च हुंडकसंस्थाना एव न तेषामन्यत्संस्थानान्तरं विद्यत इति ॥ ४९ ॥ जवणालिया मसूरी अतिमुत्तय चंदए खुरप्पे च । इंद्रियसंठाणा खलु फासस्त अणेयसंठाणं ॥ ५० ॥ २०८ www यवनालिका मसूरिका अतिमुक्तकं चंद्रकं क्षुरप्रं च । इंद्रियसंस्थानानि खलु स्पर्शस्य अनेकसंस्थानं ॥ ५० ॥ टीका -- जवणालिया-यवस्य नालिका यवनालिका, मसूरी - मसूरिका वृन्ताकारा, अदिमुत्तयं-अतिमुक्तकं पुष्पविशेषः, चंदए - अर्द्धचन्द्रः, खुरप्पे य-क्षुरप्रंच, इंदिय-इंद्रियाणां इन्द्रियशब्देन श्रोत्रचक्षणजिह्वेन्द्रियाणां ग्रहणं स्पर्शनेन्द्रियस्य पृथग्ग्रहणात्, संठाणा - संस्थानानि आकारा यथासंख्येन संबंधः । श्रोत्रेन्द्रियं यवनालिकासंस्थानं चक्षुरिन्द्रियं मसूरिकासंस्थानं, घ्राणेन्द्रियमतिमुक्तकपुष्पसंस्थानं, जिह्वेन्द्रियमर्धचन्द्रसंस्थानं क्षुरप्रसंस्थानं च खलु स्फुटं । फासस्स - स्पर्शस्य स्पर्शनेन्द्रियस्य, अणेयसंठाणं-अनेकसंस्थानं अनेकप्रकार आकारः । स्पर्शनेन्द्रियस्यानेकं संस्थानं समचतुरस्रादिभेदेन व्यक्तं सर्वत्र क्षयोपशमभेदात् । अंगुला संख्यातभागप्रमितं भावेंद्रियं द्रव्येंद्रियं पुनरंगुलासंख्य । तभागप्रमितमपि भवति । इन्द्रियं द्विविधं द्रव्येन्द्रियं भावेंद्रियं च द्रव्येंद्रियं द्विविधं निर्वृत्युपकरणमेदेन, भावेन्द्रियमपि द्विविधं लब्ध्युपयोगभेदेन, तत्र द्रव्येंद्रियस्य निर्वृत्तेर्भावेन्द्रियस्य च लब्धेः संस्थानमेतत्, उपयोगो भावेन्द्रियं तस्याकारो विषयपरिच्छित्तिरेव ॥ ५० ॥ १ यवनालिका यवस्य नालं ख ग । २ क्षयोपशमप्रदेशा प्रेस - पुस्तके ३ श्रमिताः पुस्तके पाठः । Page #214 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकार: ययेवं स एव विषयः कियानिति प्रतिपाद्यतामित्युक्तेऽत आह;-. चत्वारि धणुसदाइं चउसट्ठी धणुसयं च फस्सरसे। गंधे य दुगुणदुगुणा असण्णिपंचिंदिया जाव ॥५१॥ चत्वारि धनुशतानि चतुःषष्टि धनुःशतं च स्पर्शरसयोः । गंधस्य च द्विगुणद्विगुणानि असंज्ञिपंचेद्रियं यावत् ॥५१॥ ___ टीका-चत्तारि-चत्वारि, धणुसदाइं-धनुःशतानि, चउसट्टी-चतुःषष्टिर्धनुषामिति संबंधः धनुषां चतुर्भिरधिका षष्टिः, धणुसयं च-धनुःशतं च, फस्सरसे, स्पर्शरसयोः स्पर्शनेन्द्रियस्य रसनेंद्रियस्य, गंधे य-गंधस्य च घ्राणेन्द्रियस्य च, दुगुणदुगुणा-द्विगुणद्विगुणाः, असण्णिपंचेंदिया जावअसंज्ञिपंचेन्द्रियं यावत् । एकेंद्रियमारभ्य यावदसंज्ञिपंचेंद्रियः-स्पर्शविषय उत्तरत्र कथ्यते तेन सह संबंधः । एकेन्द्रियस्य स्पर्शनेन्द्रियविषयश्चत्वारि धनुःशतानि, एतावताध्वना स्थितं स्पर्श गृह्णन्ति पृथिवीकायिकाप्कायिकतजःकायिकवायुकायिका उत्कृष्टशक्तियुक्तस्पर्शनेन्द्रियेण । तथा द्वीन्द्रियस्य रसनेन्द्रियविषयश्चतुःषष्टिधनुषां एतावताऽध्वना स्थितं रसं गृण्हाति रसनेन्द्रियेण द्वीन्द्रियस्तथा तस्यैव द्वीन्द्रियस्य स्पर्शनेन्द्रियाविषयोऽष्टौ धनुः शतानि एतावताऽध्वना स्थितं स्पर्श गृह्णाति द्वन्द्रियः स्पर्शनेन्द्रियण, तथा त्रीन्द्रियस्य ब्राणेन्द्रियविषयः धनुषां शतं एतावताध्वना स्थितं गंधं गृह्णाति त्रीन्द्रियो घ्राणेन्द्रियेण तथा तस्यैव त्रीन्द्रियस्य स्पर्शनेन्द्रियविषयः षोडशधनुःशतानि एतावताध्वना प्यवस्थितं स्पर्श गृह्णाति त्रीन्द्रियः स्पर्शनेन्द्रियेण तथा तस्यैव त्रीन्द्रियस्य रसनेन्द्रियविषयोऽष्टाविंशत्यधिकं च शतं धनुषां एतावताध्वना स्थितं रसं गृह्णाति, त्रीन्द्रियः रसनेंद्रियेण तथा तस्यैव त्रीन्द्रियस्थ घ्राणेन्द्रियविषयः शतं धनुषां एतावताध्वना स्थितं गंधं गृह्णाति त्रीन्द्रियो घाणेन्द्रियण, तथा चतुर्रािद्रियस्य स्पर्शनेन्द्रियविषयो द्विशताधिकानि त्रीणि १४ Page #215 -------------------------------------------------------------------------- ________________ २१० मूलाचारे सहस्राणि धनुषामेतावताध्वना स्थितं स्पर्श गृह्णाति चतुरिन्द्रियःस्पर्शनेन्द्रियेण, तथा तस्यैव चतुरिन्द्रियस्य रसनेन्द्रियविषयो धनुषां वे शते षट्पंचाशदधिके एतावताध्वना स्थितं रसं चतुरिन्द्रियः रसनेन्द्रियेण गृह्णाति तथा तस्यैव चतुरािंद्रयस्य घ्राणेन्द्रियविषयो द्वे शते धनुषामेतावताध्वना स्थितं गंधं गृण्हाति चतुरिन्द्रियो घाणेन्द्रियेण, तथाऽसंज्ञिपंचेंद्रियस्य स्पर्शनेंद्रियविषयः चतुः शताधिकानि षट्सहस्राणि धनुषामेतावत्यध्वनि स्थितं स्पर्शमसंज्ञिपंचेंद्रियो गृह्णाति स्पर्शनेंद्रियेण तथा तस्यैवासंज्ञिपंचेंद्रियस्य रसनेंद्रियविषयः द्वादशोत्तराणि पंचशतानि धनुषामेतावत्यध्वनि स्थितं रसं गृह्णाति असंज्ञिपंचेंद्रियो रसनेंद्रियेण तथा तस्यैवासंज्ञिपंचेंद्रियस्य घ्राणेंद्रियविषयो धनुषां चत्वारि शतानि एतावताध्वना स्थितं गंधं गृह्णाति असंज्ञिपंचेंद्रियो घ्राणेंद्रियेण । न चैतेषामिन्द्रियाणां प्राप्तग्राहित्वनैतावताध्वना ग्रहणमयुक्तमप्राप्तग्राहित्वमापि, यतो युक्त्या आगमेन च न विरुध्यते, युक्तिस्तावदेकेन्द्रियो दूरस्थमपि वस्तु जानाति पादप्रसारणात् यस्यां दिशि वस्तु सुवर्णादिकं स्थितं,प्रारोहं प्रसारयत्येकेन्द्रियो वनस्पतिः । अवष्टंभप्रदेशे च नालानि व्युत्सृजतीति । तथागमेऽपि स्पर्शनेन्द्रियादीनामप्राप्तग्राहित्वं पठितं पत्रिंशत्रिशत इति विकल्पस्य कथनादिति ॥ ५१ ॥ । चतुरिन्द्रियस्य चक्षुर्विषयं प्रतिपादयन्नाह;इगुणतीसजोयणसदाइं चउवण्णाय होइ णायब्वा । चउरिदियस्स णियमा चक्खुप्फासं वियाणाहि ॥५२॥ एकोनत्रिंशत् योजनशतानि चतुःपंचाशत् भवति ज्ञातव्यानि। चतुरिंद्रियस्य नियमात् चक्षुःस्पर्श विजानीहि ॥ ५२ ॥ टीका-इगुणतीसजोयणसदाइं-एकोनत्रिंशद्योजनशतानि योजनानामेकोनानि त्रिंशच्छतानि, चहुवण्णाय-चतुः पंचाशञ्चतुर्भिरधिका च पंचाशयोजनानां, होइ-भवति, णायव्वा-ज्ञातव्यानि। चउरिंदियस्स-चतुरिन्द्र Page #216 -------------------------------------------------------------------------- ________________ ananananana पर्याप्त्यधिकारः । २११ wwwwwwww.wwwimmrrrrrrrrrrrrrrr... यस्य, णियमा-नियमात् निश्चयेन । चक्खुप्फासं-चक्षुःस्पर्श विषयं वियाणाहि-विजानीहि । इमं चतुरिन्द्रियस्य चक्षुरिन्द्रियविषयं योजनानामेकोनत्रिंशच्छतं चतुःपंचाशयोजनाधिकं विजानीह्यसंदेहेनेति । न चक्षुषः प्राप्तग्राहित्वं त्तक्षुःस्थांजनादेरग्रहणात्, न च गत्वा गृह्णाति चक्षुःप्रदेशशून्यत्वप्रसंगात् । नापि विज्ञानमय चक्षुर्गच्छति जीवस्याज्ञत्वप्रसंगात्, न च स्वोऽर्धस्वरूपेण गमनं युज्यतेऽतरे सर्ववस्तुग्रहणप्रसंगात् इति ॥ ५२ ॥ असंज्ञिपंचेंद्रियस्य चक्षुर्विषयं प्रतिपादयन्नाह;उणसहि जोयणसदा अद्वेव य होंति तह य णायव्वा । असण्णिपंचेंदीए चक्खुप्फासं वियाणाहि ॥ ५३॥ एकोनषष्टियोजनशतानि अष्टैव च भवंति तथा च ज्ञातव्यानि। असंक्षिपंचेंद्रियस्य चक्षुःस्पर्श विजानीहि ॥५३॥ टीका-उणसटि-एकोनषष्टिः, एकेनोना षष्टिः। जोयणसदा-योजनानां शतानि योजनशतानि, अहेव य-अष्टावपि च योजनानि, होंति-भवंति । तह य णायव्वा-तथैव ज्ञातव्यानि असण्णिपंचदीए-असंज्ञिपंचेंद्रियस्य शिक्षालापादिरहितपंचेंद्रियस्य, चक्खुप्फासं-चक्षुःस्पर्श चक्षुर्विषयं चक्षुषा ग्रहणं, वियाणाहि-विजानीहिं। योजनशतानामेकोनषष्टिस्तथैवाष्टयोजनानि च भवंति ज्ञातव्यान्येतत्प्रमाणमसंज्ञिपंचेंद्रियस्य चक्षुरिन्द्रियविषयं जानीहि एतावत्यध्वनि स्थितं रूपमसंज्ञिपंचेंद्रियो गृह्णाति चक्षुरिन्द्रियेणेति ॥ ५३॥ - असंज्ञिपंचेंद्रियस्य श्रोत्रविषयं प्रतिपादयन्नाह;अट्ठव धणुसहस्सा सोदप्फासं असण्णिणो जाण । विसयावि य णायचा पोग्गलपरिणामजोगेण ॥ ५४॥ १'इम' प्रेस-पुस्तके नास्ति । २ चक्षुरिंद्रियविषयस्य प्रेस--पुस्तके पाठः । ३ विज्ञानमेयं प्रेस पुस्तके । ४ सन्तानस्वरूपेण ख-ग । ५ अस्मादयं तत्प्रमाणा एतावंति ख. । एतावति ग ! एतावति गोचरे ख. ग। Page #217 -------------------------------------------------------------------------- ________________ २१२ . मूलाचारे अष्टावेव धनुःसहस्राणि श्रोत्रस्पर्शमसंज्ञिनो जानीहि । विषया अपि च ज्ञातव्याः पुद्गलपरिणामयोगेन ॥ ५४॥ टीका-अट्रेव धणुसहस्सा-अष्टावेव धनुःसहस्राणि, सोदप्फासं-श्रोत्रस्पर्श श्रोत्रंद्रियविषयं; असण्णिणो-असंज्ञिनोऽसंज्ञिपंचेंद्रियस्य, जाणजानीहि । असंज्ञिपंचेन्द्रियश्रोत्रविषयं धनुषामष्टसहस्रं जानी तावताध्वना स्थितं शब्दं गृह्णाति श्रोत्रेणासंज्ञिपोंद्रिय इति । विसयावि य-विषयाश्चापि णायब्वा-ज्ञातव्याः पोग्गलपरिणामजोगेण-पुद्गलस्य मूर्त्तद्रव्यस्य परिणामो विशिष्टसंस्थानमहत्वप्रकृष्टवाण्यादिः पुद्गलपरिणामस्तेन योगः संपर्कस्तेन पुद्गलपरिणामयोगेन एतावतोक्तांतरेण विशिष्टा रूपादयः दिवाकरादिभूता विशिष्टैरिन्द्रियैर्गृह्यते नान्यथेति ॥ ५४ ॥ ___ संज्ञिपंचेंद्रियस्य पंचेंद्रियविषयं प्रतिपादयन्नाह;फासे रसे य गंधे विसया णव जोयणा य णायव्वा । सोदस्स दु वारसजोयणाणिदो चक्खुसो वोच्छं॥५५॥ स्पर्शस्य रस्य च गंधस्य विषयाः नव योजनानि ज्ञातव्यानि। श्रोत्रस्य तु द्वादशयोजनानीतश्चक्षुषो वक्ष्ये ॥ ५५ ॥ टीका--फासे-स्पर्शस्य स्पर्शनेन्द्रियस्य, रसे-रसस्य रसनेंद्रियस्य, गंधे-गंधस्य ब्राणेंद्रियस्य, विसया-विषयाः ग्रहणगोचराणि, णवजोयणा-नव योजनानि, णायव्वा-ज्ञातव्यानि, सोदस्सदु-श्रोत्रस्य तुश्रोत्रंद्रियस्य पुनः, वारस जोयणाणि-द्वादश योजनानि इदो-इत ऊर्ध्वं, चवखुसोचक्षुषः संज्ञिपंचेंद्रियस्य चक्षुरिन्द्रियस्य च, वोच्छं-वक्ष्ये, संज्ञिपंचेंद्रियस्य प्रकृष्टेंद्रियस्य चक्रवर्त्यादेः स्पर्शनेंद्रियस्य नवयोजनानि विषयः रसनेंद्रियस्य नव योजनानि विषयः प्राणोंद्रियस्य नव योजनानि विषयः श्रोत्रंद्रियस्य द्वादश योजनानि विषयः संज्ञिपंचेंद्रिय उत्कृष्टपुद्गलपरिणामान्नवभिनव १ सहस्रा ख. ग. २ वर्णादिः ख ग । ३ मुणेयव्वा ख. ग. । . Page #218 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । भिर्योजनैः स्थितानि स्पर्शरसगंधद्रव्याणि स्पर्शनरसनघ्राणन्द्रियहाति शब्दं पुनदशयोजनैः स्थितं श्रोत्रंद्रियेण गृह्णातीति ॥ ५५ ॥ . . सूचितचक्षुर्विषयमाह;सत्तेतालसहस्सा वे चेव सदा हवंति तेसट्ठी। चक्खिदिअस्स विसओ उक्कस्सो होदि अदिरित्तो॥५६॥ सप्तचत्वारिंशत्सहस्राणि द्वे चैव शते भवंति त्रिषष्टिः। चक्षुरिदियस्य विषय उत्कृष्टो भवति अतिरिक्तः ॥ ५६ ॥ टीका-सत्तेताल-सप्तचत्वारिंशत्, सहस्सा-सहस्राणि, वे चेव सदा वे चैव शते, हवंति-भवंति तेसट्टी-त्रिषष्टयाधिके योजनानामिति संबंधः चविखंदियस्स चक्षुरिन्द्रियस्य, विसओ-विषयः, उक्कस्सो-उत्कृष्टः होइ भवति अदिरित्तो-अतिरिक्तः, अतिरिक्तस्य प्रमाणं गव्यूतमेकं दंडानां द्वादशशतानि पंचदशदंडाधिकानि हस्तश्चैकः द्वे चांगुले साधिकयवचतुर्थभागाधिके; संज्ञिपंचेंद्रियपर्याप्तकचक्षुरिन्द्रियस्य विषयो योजनानां सप्तचस्वारिंशत्सहस्राणि त्रिषष्टयधिकद्विशताधिकानि पंचदशाधिकद्वादशशतदंडाधिकैकगव्यूताधिकानि सविशेषयवचतुर्थभागाधिकद्व्यंगुलाधिकैकहस्ताधिकानि च । एतावताध्वना संज्ञिपंचेंद्रियः पर्याप्तको रूपं पश्यतीति॥५६॥ अस्यैव प्रमाणस्यानयने करणगाथामाहःअस्सीदिसदं विगुणं दीवविसेसस्स वग्ग दहगुणिय । मूलं सद्विविहत्तं दिणद्धमाणाहतं चक्खू ॥ ५७ ।। अशीतिशतं द्विगुणं द्वीपविशेषस्य वर्गो दशगुणितः । मूलं षष्टिविभक्तं दिनार्धमानाहतं चक्षुः ॥ ५७ ॥ टीका-असीदिसदं-अशीत्यधिकं शतं, विगुणं-द्विगुणं द्वाभ्यां गुणितं षष्ट्यधिकत्रिंशत्प्रमाणं भवति द्वीपशब्देन जंबूद्वीपविष्कंभयोजनलक्षं परिगृह्यते सर्वाभ्यंतरान्यवर्मपरिधिप्रमाणानयननिमित्तमुभयोः पार्श्वयोर्वि Page #219 -------------------------------------------------------------------------- ________________ २१४ मूलाचारे शोधनमशीतशतद्विगुणस्य लक्षयोजनप्रमाणात्तस्मात् द्वीपात् तद्विसृष्टं रहितं क्रियते तस्मिन् कृते शेषो द्वीपविशेष इत्युच्यते तस्य द्वीपविशेषस्य वर्गः क्रियते' स वर्गो दशगुणः क्रियते तस्य मूलं षष्टया विभाजितं भक्तं दिनार्धमानाहतं नवभिर्गुणितं " दिनार्धशब्देन नव मुहूर्ताः परिगृह्यते " । सर्वाभ्यंतरपरिधिषष्टिमुहूर्ते भ्रमति मार्तंडोऽतः षष्ठिभिर्भागो मध्याह्न भवति नवभिर्मुहूर्तेरयोध्यायां नवगुणकारः । एवं कृते च यल्लब्धं परिमाणं पूर्वोक्तं चक्षुषो विषयो भवति आषाढमासे सर्वाभ्यंतरवर्त्मनि मिथुनावसाने स्थितस्यादित्यस्याध्वनो ग्रहणमिति ॥ ५७ ॥ स्वामित्वपूर्वकं योनिस्वरूपं प्रतिपादयन्नाहःएइंदिय रइया संपुडजोणी हवंति देवा य । वियलिंदिया य वियडा संपुडवियडा य गन्भेसु ॥५८॥ एकेंद्रियाश्च नारकाः संवृतयोनयो भवंति देवाश्च । विकलेंद्रिया विवृताः संवृतविवृताश्च गर्भेषु ॥ ५८॥ टीका-सचित्तशीतसंवृताचित्तोष्णविवृतभेदैः सचित्ताचित्तशीतोष्णसंवृतविवृतभेदैश्च नवप्रकारा योनिर्भवति । यूयते भवपरिणत आत्मा यस्यामिति योनिर्भवाधारः । आत्मनश्चैतन्यविशेषपरिणामश्चित्तं सह चित्तेन वर्त्तते इति सचित्तं, शीत इति स्पर्शविशेषः ‘शुक्लादिवदुभयवचनत्वात्तयुक्तं द्रव्यमप्याह' । सम्यग्वृतः संवृतः दुरुपलक्ष्यप्रदेशोऽचित्तरहितपुद्गलप्रचयप्रदेशो वा, उष्णः संतापपुद्गलप्रचयप्रदेशो वा, विवृतो संवृतः प्रकटपुद्गलप्रचयप्रदेशो वा, उभयात्मको मिश्रः सचित्ताचित्तः शीतोष्णः संवृतविवृतः एतैर्भेदैश्च नवयोनयः सम्मूर्छनगर्भोपपादानां जन्मनामाधारा भवंति एतेषु प्रदेशेषु जीवाः सम्मूर्च्छनादिस्वरूपेणोत्पद्यत इति । तत्र एईदिय णेरइया-एकेंद्रिया नारकाश्च, संपुडजोणी-संवृतयोनयः, संवृता १ अस्मादने ' तत्तद्गुणो वर्गः । इति पाठः ख-ग-पुस्तके । यूयते ख-ग । Page #220 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। - www.ammmmmmmmmm योनिर्येषां ते संवृतयोनयः दुरुपलक्ष्योत्पत्तिप्रदेशाः, हवंति-भवंति, देवा य-देवाश्च संवृतयोनयः, वियलिंदिया-विकलेन्द्रियाश्च द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियाः, वियडा-विवृतयोनयश्च, तास्थ्यात्ताच्छब्धं संपुडवियडा य-संवृतविवृताः संवृतविवृतयोनयः, गब्भेषु-गर्भेषु स्त्रियांउदरे “ शुक्रशोणितयोर्मिश्रणं गर्भः " । देवनारकैकेन्द्रियाः संवृतयोनयः, विकलेन्द्रिया ये ते विवृतयोनयः, गर्भेषु ये ते संवृतविवृतयोनयः भवन्तीति ॥ ५८॥ पुनस्तेषां विशेषयोनित्वमाहःअञ्चित्ता खलु जोणी णेरइयाणं च होइ देवाणं । मिस्सा य गब्भजम्मा तिविहा जोणी दु सेसाणं ॥५९॥ अचित्ता खलु योनिः नारकाणां च भवति देवानां । .. मिश्राश्च गर्भजन्मनां त्रिविधा योनिस्तु शेषाणां ॥ ५९॥ टीकाः-अञ्चित्ता-निश्चेतना, खलु-स्फुटं, जोणी-योनिः, णेरइयाणं च-नारकाणां च होइ-भवति देवाणं-देवानां चशब्दोऽत्र संबंधनीयः । मिस्सा य मिश्रा च, गब्भजम्मा-गर्भजन्मनां गर्भजानां । तिविहा-त्रिविधा त्रिप्रकारा, जोणी दु-योनिस्तु, सेसाणं-शेषाणां, सम्मूर्च्छनजन्मनामेद्रियीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रियाणां देवनारकाणां गर्भवर्जितपंचोन्द्रयाणां च देवनारकाणां अचित्तयोनयः, गर्भजाः सचित्ताचित्तयोनयः, शेषाः पुनरेकेन्द्रियादिपंचेन्द्रियपर्यंताः केचन सचित्तयोनयः केचन अचित्तयोनयः केचन सचित्तााचत्तयोनयश्च भवंतीति ॥ ५९ ॥ पुनरपि तेषामेव विशेषयोनिस्वामित्वमाहःसीदुण्हा खलु जोणी णेरइयाणं तहेव देवाणं । तेऊण उसिणजोणी तिविहा जोणी दु सेसाणं ॥६॥ शीतोष्णा खलु योनिः नारकाणां तथैव देवानां । तेजसा उष्णयोनिः त्रिविधा योनिस्तु शेषाणां ॥ ६० ॥ Page #221 -------------------------------------------------------------------------- ________________ २१६ मूलाचारे टीका-सीदुण्हा-शीतोष्णा, खलु-स्फुटं, जोणी-योनिः, गेरहयाणं-नारकाणां, तहेव देवाण-तथैव देवानां, तेऊण-तेजःकायानां, उसिणजोणी-उष्णयोनिः । तिविहा-त्रिविधा, शीता-उष्णा-शीतोष्णा, जोणी दु-योनिस्तु सेसाणं-शेषाणां पृथिवीकायाप्कायवायुकायवनस्पतिकायद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां देवनारकवर्जितपंचेंद्रियाणां । देवनारकाणां शीतोष्णा च योनिः तेषां हि कानिचिच्छीतानि कानिचिदुष्णानि तेजःकायिकानां पुनरुष्ण एव योनिः शेषाणां तु त्रिविधो योनिस्ते च केचिच्छीतयोनयः केचिदुष्णयोनयः केचिच्छीतोष्णयोनयः अप्कायिकाः शीतयोनय एवेति ॥ ६० ॥ 'पुनरप्येतेषां योनीनां विशेषयोनिस्वरूपमाह;संखावत्तयजोणी कुम्मुण्णद वंसपत्तजोणी य । तत्थ य संखावत्ते णियमादु विवज्जए गब्भो ॥६१ ॥ शंखावर्तकयोनिः कूर्मोनतः वंशपत्रयोनिश्च।। तत्र च शंखावत नियमात् विपद्यते गर्भः ॥ ६१ टीका-संखावत्तय शंख इव आवर्तो यस्य शंखावर्तका जोणी-योनिः कुमुण्णद-कूर्म इवोन्नतः कूर्मोन्नतः, वंशपत्तजोणी य-वंशपत्रमिव योनिवैशपत्रयोनिः । तत्र च तेषु मध्ये शंखावर्ते नियमात् विवज्जए विपद्यते विनश्यति गर्भो “गर्भः शुक्रशोणितगरणं"। शंखावर्त्तकूर्मोन्नत्वंशपत्रभेदेन त्रिविधो योनिस्तत्र च शंखावर्ते योनौ नियमाद्विपद्यते गर्भः अतः तद्वती वंध्या भवतीति ॥ ६१॥ तेषु य उत्पद्यते तानाह;कुम्मुण्णदजोणीए तित्थयरा दुविहचक्रवट्टी य । रामावि य जायते सेसा सेसेसु जोणीसु ॥६२॥ १ ' तद्वती ' ख-ग-पुस्तके नास्ति । Page #222 -------------------------------------------------------------------------- ________________ २१७ पर्याप्त्यधिकारः। nawww.m.www. sane...xcmmmmmmmmmmmmmmmmmmmx कूर्मोन्नतयोनौ तीर्थकरा द्विविधचक्रवर्तिनः । रामा अपि च जायते शेषाः शेषयोर्योन्योः॥ ६२ ॥ टीका-कूर्मोन्नतयोनौ विशिष्टसर्वशुचिप्रदेशे शुद्धपुद्गलप्रचये या तित्थयरा-तीर्थकराः, दुविहचक्कवट्टीय-द्विविधचक्रवर्तिनः चक्रवर्त्तिवासुदेवप्रतिवासुदेवाः रामाविय रामाश्चापि बलदेवा आप जायंते समुत्पद्यते । सेसा-शेषा अन्ये तीर्थकरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवविवर्जिता भोगभूमिजादयः, सेसेसु-शेषयोः जोणीसु-योन्योर्वशपत्रशंखावर्त्तयोरुत्पद्यते । किंतु शंखावर्ते विपद्यते गर्भः स भोगभूमिजानां न भवति ते धनपवायुष इति ॥ ६२ ॥ संवृतादियोनिविशेषाँश्चतुरशीतिसहस्रभेदान् प्रतिपादयन्नाहःणिच्चिदरधादु सत्तय तरु दस विगलिंदियेसु छञ्चेव । मुरणरतिरिए चउरो चोद्दस मणुएसु सदसहस्सा॥६३ ॥ नित्यतरधातुसप्तकं तरूणं दश विकलेंद्रियाणां षट् चैव। सुरनारकतिरश्चां चत्वारि चतुर्दश मनुजानां शतसहस्राणि॥६३॥ . टीकाः-नित्यनिगोदेतरनिगोदपृथिवीकायिकाप्कायिकतेजःकायिकवायुकायिकानां सप्त लक्षाणि योनीनां । तरूणां प्रत्येकवनस्पतीनां दशलक्षाणि योनीनां । विकलेंद्रियाणां द्वीन्द्रियत्रींद्रियचतुरिन्द्रयाणां षट्शतसहस्राणि । सुराणां चत्वारि लक्षाणि । नारकाणां चत्वारि लक्षाणि । तिरश्चां सुरनारकमनुष्यवर्जितपचेंद्रियाणां चत्वारि लक्षाणि । मनुष्याणां चतुर्दशशतसहस्राणि योनीनामिति संबंधः । एवं सर्वसमुदायेन चतुरशीतिशतसहस्राणि योनीनामिति । नात्र पौनरुक्त्यं पूर्वेण सहाधिकारभेदात् पर्यायार्थिकशिध्यानुग्रहणाच्च ॥६३॥ आयुषः स्वरूपं प्रमाणेन स्वामित्वपूर्वकं प्रतिपादयन्नाह :--- Page #223 -------------------------------------------------------------------------- ________________ २१८ मूलाचारे वारसबाससहस्सा आऊ सुद्धेसु जाण उक्कस्सं । खरपुढविकायगेसु य वाससहस्साणि बावीसा ॥ ६४ ॥ द्वादशवर्षसहस्राणि आयुः शुद्धेषु जानीहि उत्कृष्टम् । खरपृथिवीकायिकेषु च वर्षसहस्राणि द्वाविंशतिः ॥ ६४ ॥ टीकाः-नारकतिर्यङमनुष्यदेवभवधारणहेतुः कर्मपुद्गलपिंडं आयुः । औदारिकमिश्रवैक्रियकवैक्रियकमिश्रशरीरसाधारणलक्षणं वायुः । तत्र वारसवाससहस्सा-दादशवर्षसहस्राणि, उच्छ्रासानो त्रीणि सहस्राणि त्रिसप्तत्यधिकसप्तशतानि च गृहीत्वैको मुहूर्तः आगमोक्तं लक्षणमेतत् । लौकिकैः पुनः सप्तशतैरुच्छ्रासमुहूर्तो भवति । आगमिक उच्छास उदरप्रदेशनिर्गमागृहीतो लौकिकः पुनः नासिकाया निर्गमात् गृहीत इति न दोषः । त्रिंशन्मुहूतैर्दिवसस्त्रिंशद्भिर्दिवसैर्मासो द्वादशभिर्मासैवर्षः । आऊ-आयुः भवस्थितिः सुद्धेसु- शुद्धेषु शुद्धानां पृथिवीकायिकेष्विति संबंधः जाणजानीहि, उक्करसं-उत्कृष्टं, खरपुढविकायिगेसु य-खरपृथिवीकायिकेषु च मृत्तिकादयः शुद्धपृथिवीकायिकाः पाषाणादयः खरपृथिवीकायिकाः, वाससहस्साणि-वर्षसहस्राणि वावीस-द्वाविंशतिः । शुद्धपृथिवीकायिकानामुत्कृष्टमायुर्दादशवर्षसहस्राणि, खरपृथिवीकायिकानां चोत्कृष्टमायुविंशतिवर्षसहस्राणि भवंतीति ॥ ६४॥ अप्कायिकतेजःकायिकानामायुःप्रमाणमाह;-- सत्त दु वाससहस्सा आऊ आउस्स होइ उक्कस्सं । रतिंदियाणि तिण्णुि दु तेऊणं होइ उक्कस्सं ॥ ६५ ।। सप्त तु वर्षसहस्राणि आयुरपां भवति उत्कृष्टं । रात्रिंदिनानि त्रीणि तु तेजसां भवति उत्कृष्टं ॥६५॥ टीका-सत्त दु-सप्तैव, वासासहस्सा-वर्षसहस्राणि, आऊ-आयुः, आउस्स-अपां अप्कायिकानां होइ-भवति उक्कस्सं-उत्कृष्टं, अप्कायिकानां Page #224 -------------------------------------------------------------------------- ________________ पर्याप्त्याधिकाराः। vvvvv परमायुः सप्तैव वर्षसहस्राणि । रत्तिंदियाणि-रात्रिंदिनानि अहोरात्रं, तिण्णि दु-त्रय एव, तेऊणं-तेजसां तेजः कायिकानां, होइ-उक्कस्सं भवत्युत्कृष्टं । आकायिकानां परमायुः सप्तैव वर्षसहस्राणि त्रीणि रात्रिदिनानि तेजःकायि-. कानां परमायुरिति ॥६५॥ वायुकायिकानां वनस्पतिकायिकानां च परमायुःप्रमाणमाहःतिण्णि दु वाससहस्सा आऊ वाउस्स होइ उक्कस्सं । दस वामसहस्साणि दु वणप्फदीणं तु उक्कस्सं ॥६६॥ प्रीणि तु वर्षसहस्राणि आयुः वायूनां भवति उत्कृष्टं । दश वर्षसहस्राणि तु वनस्पतीनां तु उत्कृष्टं ॥६६॥ टीका-तिण्णि दु-त्रीणि तु त्रीण्येव नाधिकानि, वाससहस्सा-वर्षसहस्राणि, आऊ-आयुः, वाउस्स-वायूनां वायुकायिकानां, होदि उक्कस्सं-भवस्युत्कृष्टं । दस वाससहस्साणि-दशवर्षसहस्राणि, तुशरोऽवधारणार्थः” वणप्फदीणं तु-वनस्पतीनां च वनस्पतिकायानां तु उक्कस्सं-उत्कृष्टमेव । वायुकायिकानामुत्कृष्टमायुस्त्रीण्येव वर्षसहस्राणि, वनस्पतिकायिकानां तूत्कृष्ट- - मायुर्दशैववर्षसहस्राणीति ॥ ६६ ॥ विकलेंद्रियाणामायुःप्रमाणमाहःवारस वासा वेइंदियाणमुक्कस्सं भवे आऊ । राइंदियाणि तेइंदियाणमुगुवण्ण उक्कस्सयं ॥ ६७ ॥ द्वादश वर्षाणि द्वीन्द्रियाणमुत्कृष्टं भवेदायुः। रात्रिदिनानि त्रींद्रियाणामेकोनपंचाशत् उत्कृष्टं ॥ ६७ ॥ टीका-वारस वासा-द्वादशवर्षाणि, वेइंदियाणं-दीन्द्रियाणां शंखप्रभूतीनां उक्कस्सं-उत्कृष्टमेव, हवे-भवेत्, आऊ-आयुः । रत्तिंदिणाणि-रात्रिदिनानि अहोरात्ररूपाणि तेइंदियाण-त्रीन्द्रियाणां गोभ्यादीनां, उगुवण्ण- - Page #225 -------------------------------------------------------------------------- ________________ २२० मूलाचारे wwwwwwwwwwmmmmmmmmmmmmmm एकोनपंचाशत्, उक्कस्सं-उत्कृष्टं । द्वीन्द्रियाणां प्रकृष्टमायुःद्वादशसंवत्सरा एव, त्रींद्रियाणां पुनरुत्कृष्टमायुः एकेनोनपंचाशद्रात्रिदिवसानामिति ॥ ६७॥ चतुरिंद्रियपंचेंद्रियाणामाह;चउरिदियाणमाऊ उक्स्सं खलु हवेज छम्मासं । पंचेंदियाणमाऊ एत्तो उर्दू पवक्खामि ॥ ६८ ॥ चतुरिन्द्रियाणामायुः उत्कृष्टं खलु भवेत् षण्मासाः। पंचेंद्रियाणामायुः इत ऊर्ध्व प्रवक्ष्यामि ॥ ६८ ॥ टीका-चउरिंदियाणं-चतुरिन्द्रियाणां भ्रमरादीनां, आऊ-आयु उक्कस्सं-उत्कृष्टं, हवेज्ज-भवेत्, छम्मासं-षण्मासाः । पंचेंदियाण-पंचेंद्रि याणां, आऊ-आयुः एतो उड्डे-इत ऊर्दु विकलेंद्रियकथनोर्दू, पवक्खामिप्रवक्ष्यामि प्रतिपादयिष्यामि । चतुरिन्द्रियाणामुत्कृष्टमायुः षण्मासमितं भवेत, इत ऊर्दू पंचेंद्रियाणामायुर्वक्ष्यामीति ॥ ६८ ॥ तदेव प्रतिपादयति;मच्छाण पुवकोडी परिसप्पाणं तु णवय पुव्वंगा। बादालीस सहस्सा उरगाणं होइ उक्कस्सं ॥६९ ॥ मत्स्यानां पूर्वकोटी परिसर्पाणां तु नवैव पूर्वागानि । द्वाचत्वारिंशत् सहस्राणि उरगाणां भवति उत्कृष्टं ॥१९॥ टीका-वर्ष दशगुणितं दशवर्षाणि, दशवर्षाणि दशगुणिता वर्षशतं, वर्षशतं दशगुणितं वर्षसहस्र, वर्षसहस्रं दशगुणितं दशवर्षसहस्राणि, दशवर्षसहस्राणि दशगुणितानि वर्षशतसहस्रं, वर्षशतसहस्रं दशगुणितं दशवर्षशतसहस्राणि, दशवर्षशतसहस्राणि दशगुणितानि कोटी, दशगुणिता कोटी दशकोटी, दशकोटी दशगुणिता कोटीशतं, कोटीशतं दशगुणितं कोटीसहस्रं, कोटीसहस्रं दशगुणितं दशकोटीसहस्राणि, Page #226 -------------------------------------------------------------------------- ________________ पयाप्त्यधिकारः। २२१ दशगुणितानि दशकोटीसहस्राणि कोटीकोटीत्येवमादि कालप्रमाणं नेतव्यमिति । वर्षलक्षं चतुरशीतिरूपगुणितं पूर्वीगं भवति, पूर्वागं चतुरशीतिगुणितं पूर्व भवति, पूर्वस्य तु प्रमाणं सप्ततिकोटीशतसहस्राणि कोटीनां तु षट्पंचाशत्सहस्राणि चेति । प्रस्तुतं वक्ष्येमच्छाणं-मत्स्यानां पुवकोडी-पूर्वकोटी पूर्वाणां कोटी “ सप्ततिकोटीशतसहस्राणि कोटीनां षट्पंचाशत्सहस्राणि च कोटीगुपितानि पूर्वकोटी भवति" । परिसप्पाणं-परिसर्पतीति परिसः गोधेरगोधादयस्तेषां परिसर्पाणां तु णव य पुव्वंगा-नवैव पूर्वागानि चतुरशीतिलक्षाणि नवगुणितानि वादालीसं-दाचत्वारिंशत्, सहस्सां-सहस्राणि, उत्तरगाथाः वर्षशब्दस्तिष्ठति तेन सह संबंधः, न पूर्वपूर्वागाभ्यामिति, ताभ्यां सह वर्षाणां संबंधे पूर्वागमविरोधः स्यात्तस्मादाचत्वारिंशत्सहस्राणीति संभवंति उरगाणंउरसा गच्छंति इति उरगाः सास्तेषामुरगाणां, होदि-भवंति, उक्करसंउत्कृष्टं । मत्स्यानां पूर्वकोटी परमायुः परिसर्पाणां तु नवैव पूर्वांगानि सर्पाणां पुनः परमायुर्वर्षाणां द्वाचत्वारिंशत्सहस्राणीति ॥ ६९॥ पक्षिणामसंज्ञिनां च परमायुः प्रमाणमाह;पक्खीणं उक्कस्सं वाससहस्सा बिसत्तरी होति । एगा य पुव्वकोडी असण्णीणं तह य कम्मभूमीणं ॥७॥ · पक्षिणां उत्कृष्टं वर्षसहस्राणि द्वासप्ततिः भवति। एका च पूर्वकोटी असंज्ञिनां तथा च कर्मभौमानां ॥ ७० ॥ टीका-पक्खीणं-पक्षिणां भैरुंडादीनां, उक्कस्सं-उत्कृष्टमायुरिति संबंधः, वाससहस्सा-वर्षसहस्राणि, विसत्तरी-दासप्ततिः, होंति-भवति । एगा य-एका च, पुव्वकोडी-पूर्वकोटी असण्णणं-असज्ञिनां मनोविरहितपंचेंद्रियाणां तह-तथा, कम्मभूमीणं-कर्मभौमानां “कर्मभौमशब्दोऽनंतराणां सर्वेषां विशेषणं " तथाशब्देन च सप्ततिशतार्यखंडप्रभवा भनुष्या: परि Page #227 -------------------------------------------------------------------------- ________________ २२२ मूलाचारे गृह्यते । कर्मभूमिजानां पक्षिणामुत्कृष्टमायुसप्ततिवर्षसहस्राणि भवंति, असंज्ञिनां कर्मभूमिजमनुष्याणामन्येषां कर्मभूमिप्रतिभागजानां चैका पूर्वकोटी वर्षाणां परमायुर्भवतीति ॥ ७० ॥ ___ अथ भोगभूमिजानां किंप्रमाणं परमायुरित्यत आह; हेमवदवंसयाणं तहेव हेरण्णवंसवासीणं । - मणुसेसु य मेच्छाणं हवदि तु पलिदोपमं एक ।। ७१॥ हैमवतवंशजानां तथैव हैरण्यवंशवासिनाम् । मनुष्येषु च म्लेच्छानां भवति तु पल्योपमं एकं ॥ ७१ ॥ टीका-हेमवदवंसयाणं-हैमवतवंशजानां, तहेव-तथैव हैरण्यवतवंशवासिनां, मणुसेसु य-मानुषेषु च मध्ये मेच्छाणं-म्लेच्छानां सर्वम्लेच्छखंडेषु जातानां भोगभूमिप्रतिभागजानां अंतीपजानां वा समुच्चयश्चशब्देन हवदि तु भवति तु, पलिदोपम-पल्योपममेकं । पंचसु जघन्यभोगभूमिषु हैमवतसंज्ञकासु तथा परासु पंचसु जघन्यभोगभूमिषु हैरण्यवतसंज्ञकासु च मध्ये सर्वम्लेच्छखंडेषु जातानां भोगभूमिप्रतिभागजानामन्तीपजानां च । पल्योपममेकं परमायुरिति ॥ ७१॥ ___ मध्यमभोगभूमिजानां परमायुःप्रमाणमाहःहरिरम्मयवंसेसु य हवंति पलिदोवमाणि खलु दोण्णि। तिरिएमु य सण्णीणं तिण्णि य तह कुरुवगाणं च ॥७२॥ हरिरम्यकवंशेषु च भवंति पल्योपमानि खलु द्वे। तिर्यक्षु च संज्ञिनां त्रीणि च तथा कुरवकाणां च ॥७२॥ टीका-मनुष्या इत्यनुवर्तते, हरिरम्मयवंसेसु य हरिरम्यकवंशेषु च वंशशब्दोऽत्र प्रत्येकमभिसंबध्यते, पंचसु हरिवंशेषु मध्यमभोगभूमिषु पंचसु रम्यकवंशेषु च, हवंति-भवतः पलिदोवमाणि-पल्योपमानि, द्वे खलु स्फुटं, Page #228 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २२३ wwwwwwww दोणि-द्वे । तिरिएसु य-तिर्यक्षु च तिरश्चां वा तिर्यक्शब्दः प्रत्येकभोगभूमिषु संबध्यते, सण्णीणं-संज्ञिनां समनस्कानां “अत्र संज्ञिशब्दो भोगभूमिषु असंज्ञिनामभावप्रतिपादकः भोगभूमिजास्तिर्यचः संज्ञिन एवति" । तिण्णि य-त्रीणि च, तह य-तथा कुरवगाणं-कौरवकाणां चात्र कुरुवशब्द उत्तरकुरुदेवकुरुषु वर्त्तमानो गृह्यते सामान्यनिर्देशात् । पंचसु च हरिवंशेषु मध्यमभोगभूमिषु पंचसु च रम्यकवंशेषु मध्यमभागेभूमिषु च मनुष्याणां तिरश्चां च संज्ञिनां द्विपल्योपमं परमायुः, पंचसूत्तरकुरुषु पंचसु देवकुरुषु चोत्कृष्टभोगभूमिषु मनुष्याणां तिरश्चां च त्रीण पल्योपमानि परमायुरिति॥७२॥ __ नारकाणां देवानां च परमायुषः स्थितिं प्रतिपादयन्नाहःदेवेसु णारयेसु य तेत्तीसं होंति उदधिमाणाणि । उक्कस्सयं तु आऊ वाससहस्सा दस जहण्णा ॥७३॥ देवेषु नारकेषु च त्रयस्त्रिंशत् भवंति उदधिमानानि । उत्कृष्टं तु आयुः वर्षसहस्राणि दस जघन्यनि ॥ ७३ ॥ टीका-देवेसु-देवानामणिमाद्यष्टर्द्धिप्राप्तानां, णारयेसु य-नारकाणां च सर्वाशुभकराणां अथवा देवेषु नारकेषु च विषये तेत्तीसं-त्रयस्त्रिंशत् त्रिभिरधिकं दशानां त्रयं, होंति-भवंति, उदधिमाणाणि सागरोपमाणि उकस्सयं तु-उत्कृष्टं, तु शब्दोऽवधारणार्थ । आऊ-आयुः वाससहस्सावर्षाणां सहस्राणि वर्षसहस्राणि, दस-दश, जहण्णं-जघन्यं, निकृष्टं । सामान्यकथनमेतत् द्रव्यार्थिकशिष्यानुग्रहनिमित्तं विस्तरतः सूत्रेणोत्तरत्र कथनं पर्यायार्थिकशिष्टानुग्रहार्थ “ सर्वानुग्रहकारी च सतां प्रयासो यतस्ततः सामान्यविशेषात्मकं प्रतिपादनं युक्तमेव सामान्यविशेषात्मकत्वाच्च सर्ववस्तूनां सामान्येन प्रतिपन्ने सति विशेषस्य सुखेनावगातर्नित्यक्षाणकैकांतवादिमतं च निराकृतं भवति । सामान्येन देवानां नारकाणां चोत्कृष्टमायुः प्रयस्त्रिंशत्सागरोपमाणि जघन्यं च देवनारकाणामायुर्दशवर्षसहस्राणीति ॥ ७३॥ Page #229 -------------------------------------------------------------------------- ________________ २२४ मुलाचारे अल्पप्रपंचत्वात्प्रथमतरं तावन्नारकाणां सामान्यसूत्रसूचितं प्रकृष्टमायुःप्रमाणं सर्वपृथिवीनां प्रतिपादयन्नाहःएकं च तिणि सत्तय दस सत्तरसेव होति बावीसा । तेतीसमुदधिमाणा पुढवीण ठिदीणमुक्कस्सं ॥ ७४ ॥ एकं च त्रीणि सप्त च दश सप्तदशैव भवंति द्वाविंशतिः। प्रयस्त्रिंशत् उदधिमानानि पृथिवीनां स्थितीनामुत्कृष्टं ॥ ७४॥ टीका-एकं च एकं च सर्वत्रोदधिमानानीत्यनेनसंबंध: तिण्णि-त्रीणि, सत्त य-सप्त च, दस-दश, सत्तरस-सप्तदश एवकारोऽवधारणार्थः , होंतिभवति, वावीसं द्वाविंशतिः, तेत्तसिं-त्रयस्त्रिंशत्, उदधिमाणा-उदधिमानानि, पुढवीणं-पृथिवीनां रत्नशर्करावालुकापंकधूमतमामहातमःप्रभाणां सप्तानां यथासंख्येन संबंधः, ठिदीणं स्थितीनामायुरित्यनुवर्तते तेनायुःस्थितीनां नान्यकर्मस्थितीनां ग्रहणं भवति नापि नरकभूमिस्थितीनामिति उक्कस्सं-उत्कृष्टं । रत्नप्रभायां त्रयोदशप्रस्तरे नारकाणामायुःस्थिते: प्रमाणमेकसागरोपमं, शर्कराप्रभायामेकादशप्रस्तरेऽधोनारकाणां परमायुः स्थितेः प्रमाणं त्रीणि सागरोपमाणि । वालुकाप्रभायां नवमप्रस्तरेऽधोनारकाणां परमायुःस्थितेः प्रमाणं दशसागरोपमाणि, धूमप्रभायां पंचमप्रस्तरे परमायुःस्थितेः प्रमाणं सप्तदशसागरोपमाणि, तमः प्रभायां तृतीयप्रस्तरे नारकाणां परमायुःस्थितेः प्रमाणं द्वाविंशतिः सागराणां । महातमः प्रभायां अवधिस्थाननरके नारकाणां परमायुः स्थितेः प्रमाणं त्रयस्त्रिंशदुदधिमानानि इति । प्रथमायां तावत्तत एवमभिसंबंधः क्रियते रत्नप्रभायां नारकाणामेकसागरोपममुत्कृष्टायुःस्थितिरित्येवं सर्वदात्र सर्वेऽपि मध्यमविकल्पा आयुःस्थितेर्वक्तव्या देशामर्शकसूत्रेण ? मूचितत्वात् । प्रथमायां पृथिव्यां प्रथमप्रस्तरे सीमंतकेन्दुके नारकाणां परमायुषः स्थितेः प्रमाणं नवतिसहस्रवर्षप्रमाणं भवति, द्वितायेंद्रके नारकाभिरव्ये वर्षाणां नवतिलक्षाणि, तृतीयकेंद्रके रौरुकनाम्नि पूर्वकोट्यस्त्वसंरव्येयाः, चतुर्थे Page #230 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २२५ न्द्रके भ्रांतसंज्ञके सागरोपमस्य दशमभागः, पंचमेंद्रक उद्धांताभिधाने छौ दशभागौ, षष्ठेद्रके संभ्रांतसंज्ञके दशभागास्त्रयः, सप्तमेंद्रकेऽसंभ्रांतनाम्नि दशभागाश्चत्वारः, अष्टमेंद्रके विभ्रांते दशभागाः पंच, नवमेंद्रके त्रस्तसंज्ञके दशभागाः षट्, दशमेंद्रके त्रसिते दशभागाः सप्त, एकादशेंद्रके वक्रांते दशभागा अष्टौ, द्वादशेंद्रकेऽवक्रांते दशभागा नव, त्रयोदशेंद्रके विक्रांते दशभागा दश, सागरोपमस्येति सर्वत्र संबंधः । द्वितीयायां पृथिव्यां नारकाणां प्रथमेंद्रके ततकसंज्ञके परमायुषः स्थितेः प्रमाणं द्विसागरोपमस्यैकादशभागाभ्यामधिकं सागरोपमं, द्वितीयेंद्रके स्तनके सागरोपममेकादशचतुभगराधक, तृतीयेंद्रके मनके सागरोपमं षड्भिरेकादशभागैरधिकं, चतुर्थंद्र के वनके सागरोपममेकादशभागैरष्टभिरधिकं, पंचमेंद्रके घाटसंज्ञके सांगरोपममेकादशभागैर्दशभिरधिकं, षष्ठेद्रके संघाटकसंज्ञके द्वे सागरोपम एकादशभागेनाधिके, सप्तमेंद्रके जिह्वाख्ये द्वे सागरोपमे त्रिभिरेकादशभागैरधिके, अष्टमेंद्रके जिह्निकनाम्नि द्वे सागरोपमे पंचभिरेकादशभागैरधिके, नवमेंद्रके लोलनामके द्वे सागरोपमे सप्तभिरेकादशभागैराधिके, दशमेंद्र के लोलुपाख्य द्वे सागरोपमे नवभिरेकादशभागैरधिके, एकादशेंद्रके स्तनलोलुपनाम्नि उक्तान्येव त्रीणि सागरोपमाणीति । तृतीयायां पृथिव्यां प्रथमेंद्रके तप्तनाम्नि नारकाणां परमायुषः प्रमाणं त्रीणि सागरोपमाणि सागरोपमस्य नवभागैश्चतु. र्भागैरभ्याधिकानि, द्वितीयेंद्रके त्रस्तनामके सागरास्त्रयो नवाष्टभागैरभ्यधिकाः, तृतीयके तपनसंज्ञके चत्वारः सागरा नवभागैस्त्रिभिरभ्यधिकाः, चतुर्थप्रस्तरे तापनाख्ये चत्वारः सागराः सप्तभिर्नवभागैरभ्यधिकाः, पंचमेंद्रके निदाघाख्ये पंच सागरा नवभागा द्वाभ्यामधिकाः, षष्ठंद्रके प्रज्वलिते पंच सागराः नवभागैः षड्भिरभ्यधिकाः सप्तमेंद्रके ज्वलिते षट् सागरा नवभागेनैकेनाभ्यधिकाः, अष्टमेंद्रके संज्वलिते षट् पयोधयो नवभागैः पंचभिरभ्यधिकाः, नवमेंद्रके संज्वलिते उक्तान्येव सप्तसागरोपमाणि । चतुर्थ्यां पृथिव्यां नारकाणां परमायुषः प्रमाणं-प्रथमेंद्रक आरनाम्नि सप्त पयोधयः त्रिभिः सप्तभागैर १ व्युक्तान्त इत्यपि पाठान्तरम् । २ संस्तनक इति च । १५ Page #231 -------------------------------------------------------------------------- ________________ २२६ मूलाचारेmmmmm भ्यधिकाः, द्वितीयेंद्रके तारसंज्ञके सप्त समुद्राः सप्तभागैः षनिरभ्यधिकाः, तृतीयेंद्रके मारनाम्नि पयोधयोऽष्टौ सप्तभागाभ्यां द्वाभ्यामधिकाः, चतुर्थेद्रके बर्चस्कनाम्नि सागरा अष्टौ पंचभिः सप्तभागैरभ्याधिकाः, पंचमेंद्रके तमके नव सागराः सप्तभागेनाधिकाः, षष्ठंद्रके खरनाम्नि नव सागराश्चतुर्भिः सप्तभागैरभ्यधिकाः, सप्तमेंद्रके खडखडे उक्तान्येव दशसागरोपमाणि । पंचम्यां पृथिव्यां नारकाणां परमायुःप्रमाणं-प्रथमेंद्रके तमोनाम्नि एकादशार्णवा द्विसागरस्य पंचभागाभ्यामधिकाः, द्वितीयेंद्रके भ्रमरसंज्ञके द्वादश सागराश्चतुर्भिः पंचभागैरभ्यधिकाः, तृतीयेंद्रके ऋषभनाम्नि चतुर्दश पयोधयः पंचभागेनाऽप्यधिकाः, चतुर्थेद्रकेऽधःसंज्ञके पंचदशोदधयस्त्रिभिः पंच भागैरभ्यधिकाः, पंचमेंद्रके तमिस्राभिधाने कथितान्येव सप्तदशसागरोपमाणि । षष्ठयां पृथिव्यां नारकाणां परमायुः-प्रथमेंद्रके हिमनाग्नि सागरोपमस्य द्वित्रिभागाभ्यामधिका अष्टादशपयोधयः, द्वितीयेंद्रके वर्दलसंज्ञके विंशतिपयोधयस्त्रिभागेनाप्यधिकाः, तृतीयेंद्रके लल्लकनाम्नि उक्तान्येव द्वाविंशतिसागरोपमाणि, सप्तम्यां तु पृथिव्यामवधिस्थानसंज्ञकेंद्रके नारकाणां त्रयस्त्रिंशत्सागरोपमाण्येव परमायुषः । श्रेणिबद्धेषु प्रकीर्णकेषु च नारकाणां स्वकीयेंद्रकप्रतिबद्धमुत्कृष्टमायुर्वेदितव्यं । यदल्पं तन्मुखं मुखं भूमेर्विशोध्य विशुद्धं च शेषमुच्छ्रयभाजितमिच्छया गुणितं मुखसहितं च कृत्वा सर्वत्र वाच्यमिति ॥ ७४ ॥ __ सर्वपृथिवीषु नारकारणां जघन्यस्थितिमायुषः प्रतिपादयन्नाह;पढमादियमुक्कस्सं बिदियादिसु साधियं जहण्णत्तं । धम्मायभवणवितर वाससहस्सा दस जहण्णं ॥ ७५ ॥ प्रथमादिकमुत्कृष्टं द्वितीयादिषु साधिकं जघन्यं । धर्माभवनव्यंतराणां वर्ष सहस्राणि दश जघन्यं ॥ ७५ ॥ टीका- प्रथमादिर्यम्य तत्प्रथमादिकं आयुरिति संबध्यते, उक्कस्संउत्कृष्ट, बिदियादिसु-द्वितीयाआदिर्यासां ता द्वितीयादयस्तासु द्वितीयादिषु Page #232 -------------------------------------------------------------------------- ________________ पर्याप्तत्यधिकारः । पृथिवीषु, साधियं-साधिकं समयाधिकं, जहण्णत्तं जघन्यं तत् । प्रथमायां यदुत्कृष्टं द्वितीयायां समयाधिकं जघन्यं तदायुस्तथा द्वितीयायां यदुत्कृष्टमायुर्नारकाणां तृतीयायां नारकाणां समयाधिकं जघन्यं तत् । तृतीयायामुत्कृष्टं यदायुञ्चतुर्थ्यां समयाधिकं जघन्यं तत्, चतुर्थ्यो यदुत्कृष्टमायुः पंचम्यां समयाधिकं जघन्यं तत् । पंचम्यामुत्कृष्टं यदायुः षष्ठ्यां समयाधिकं जघन्यं तत् षष्ठ्यामुत्कृष्टं यदायुः सप्तम्यां समयाधिकं जघन्यं तत् । एवं सर्वासु पृथिवीषु सर्वप्रस्तरेषु सर्वेद्रकेषु योज्यं, प्रथमेंद्रके यदुत्कृष्टमायुर्नारकाणां द्वितीयेंद्र के समयाधिकं जघन्यं तत्, द्वितीयेंद्र के यदुत्कृष्टमायुस्तृतीयेंद्र के समयाधिकं जघन्यं तत् । एवमेकान्नपंचाशदिंद्रकेषु नेतव्यमिति । अथ केषां नारकाणां देवानां च जघन्यमायुर्दशवर्षसहस्राणीत्यत आह;— धम्मा-धर्मायां सीमंतके नारके नारकाणां भवण - भवनवासिनां विंतरव्यंतराणां, वाससहस्सा-वर्षसहस्राणि, दस - दश, जहण्णा - जघन्यायुषः स्थितिः । सीमंतक नरके नारकाणां भवनावसिनां देवानां व्यंतराणां च जघन्यमायुर्दशवर्षसहस्राणीति ॥ ७५ ॥ " २२७ भवनवासिनां व्यंतराणां चोत्कृष्टमायुः प्रमाणं प्रतिपादयन्नाह; —- असुरेस सागरोवम तिपल्ल पल्लं च णागभोमाणं । अद्धाद्दिज्ज सुवण्णा दु दीव सेसा दिवङ्कं तु ॥ ७६ ॥ असुरेषु सागरोपमं त्रिपल्यं पल्यं च नागभौमानां । अर्धतृतीये सुपर्णानां द्वे द्वीपानां शेषाणां द्वय तु ॥ ७६ ॥ टीका - असुरेसु - असुराणां भवनवासिनां प्रथमप्रकाराणां अंबावरीषादीनां, सागरोवम - सागरोपमं, तिपल्ल- त्रीणि पल्यानि त्रिपल्योपमानि, पलं च - पल्यं च पल्योपमं णागभौमाणं – नागेंद्राणां धरणेंद्र दीनां, भोमाणं भौमानां व्यंतराणां किंनरेंद्राणां यथासंख्येन संबंधः नागेंद्राणामुत्कृष्टमा स्त्रीणि पल्योपमानि व्यंतराणां किंनरादीनामुत्कृष्टमायुरेकं फल्यो Page #233 -------------------------------------------------------------------------- ________________ २२८ मूलाचार पमं घातायुरपेक्ष्य सार्धपल्यं । अद्धादिज्ज अर्धततीये द्विपल्योपमे पल्योपमार्धाधिके द्वे पल्योपमे, सुवण्णा-सुपर्णकुमाराणां, तु-दु द्वे पल्योपमे दीव-दीपानां द्वीपकुमाराणां, सेसा-शेषाणां विद्युदग्निस्तनितोदधिदिग्वायुकुमाराणां दिवढं तु अर्धाधिकं पल्योपमं पल्योपमार्द्धनाधिकमेकं पल्योपमं । सुपर्णकुमाराणां प्रकृष्टमायुर्दै पल्योपमे पल्योपमार्दाधिके, द्वीपकुमाराणां च द्वे पल्योपमे प्रकृष्टमायुः शेषाणां तु कुमाराणां षण्णां पल्योपमं पल्योपमार्दाधिकमुत्कृष्टमायुरिति ॥ ७६ ॥ ज्योतिषां जघन्योत्कृष्टमायुः शक्रादीनां च जघन्यं प्रतिपादयन्नाह;पल्लहमाग पलं च साधियं जोदिसाण जहण्णिदरम् । हेडिल्लुक्कस्सठिदी सक्कादीणं जहण्णा सा ॥ ७७ ॥ पल्याष्टभागः पल्यं च साधिकं ज्योतिषां जघन्यमितरत् । अध उत्कृष्ठस्थितिः शकादीनां जघन्या सा ॥ ७७ ॥ टीका- पल्लटुभाग-पल्याष्टभागः पल्योपमस्याष्टभागः, पल्लं चपल्योपमं च, साधियं-साधिकं वर्षलक्षणाधिकं, जोदिसाण-ज्योतिर्षा चंद्रादीनां, जहण्णिदरं-जघन्यमितरञ्च । ज्योतिषां जघन्यमायुः पल्योपमस्याष्टभाग उत्कृष्टं च पल्यापमं वर्षलक्षाधिकं घातायुरपेक्ष्य पल्योपमं सार्द्धमुत्कृष्टं । हेटिल्लुक्कस्सठिदी-अध उत्कृष्टायुः स्थितिः, अधःस्थितानां ज्योतिष्कादीनां सक्कादीणं-शकादीनां सौधर्मादिदेवानां, जहण्णा साजघन्या सा । ज्योतिषां योत्कृष्टायुषः स्थितिःसौधर्मेशानयोः समयाधिका जघन्या सा सौधर्मेशानयोरुत्कृष्टायुषः स्थितिः सनत्कुमारमाहेंद्रयोर्देवानां समयाधिका जघन्या सा, सानत्कुमारमाहेन्द्रयोर्योत्कृष्टा ब्रह्मब्रह्मोत्तरयोः समयाधिका जघन्या सा । एवं योज्यं यावत् त्रयस्त्रिंशत्सागरोपमाणाति ॥ ७ ॥ अथ कोत्कृष्टाऽऽयुषः स्थितिः शक्रादीनां या जघन्या स्यादित्यत आह; Page #234 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २२९ बे सत्त दसय चोद्दस सोलस अट्ठार वीस बावीसा। एयाधिया य एतो सक्कादिसु सागरुवमाणं ॥ ७८॥ द्वे सप्त दश चतुर्दश षोडश अष्टादश विंशतिः द्वाविंशतिः । एकाधिका च इतः शक्रादिषु सागरोपमानं ॥ ७८॥ टीका-वे-दे, सत्त-सप्त, दस य-दश च, चोदस-चतुर्दश, सोलस-षोडश, अटार-अष्टादश, वीस-विंशतिः, वावीस-द्वाविंशतिः, एयाधिया-एकाधिका एकैकोत्तरा, एतो-इतो द्वाविंशतेरुई सक्कादिसुशक्रादिषु सौधर्मेशानादिषु, सागरुवमाणं-सागरोपमानं । सौधर्मेशानयोर्देवानां वे सागरोपमे परमायुषः स्थितिरघातायुषोऽपेक्ष्यैतदुक्तं सूत्रे, घातायुषो उपक्ष्य पुनर्से सागरोपमे सागरोपमार्धेनाधिके भवतः, एवं सौधर्मेशानमारभ्य तावदर्द्धसागरोपमेनाधिकं कर्त्तव्यं सूत्रनिर्दिष्टपरमायुर्यावत्सहस्रारकल्पः उपरि घातायुषः समुत्पत्तेरभावात् । सनत्कुमारमाहेंद्रयोः सप्त सागरोपमाणि परमायुषः स्थितिः सर्वत्र देवानामिति संबंधनीयं, ब्रह्मब्रह्मोत्तरयोर्दश सागरोपमाणि, किंतु लौकांतिकदेवानां सारस्वतादीनामष्टौ सागराः, लांतवकापिष्ठयोश्चतुर्दश सागराः, शुक्रमहाशुक्रयोः षोडशाब्धयः, शतारसहस्रारयोरष्टादश पयोधयः, आनतप्राणतयाविशतिः सागरोपमानां, आरणाच्युतयोविंशतिः सागरोपमानां, सुदर्शने त्रयोविंशतिरब्धीनां, अमोघे चतुर्विंशतिः पयोधीनां, सुप्रबुद्धे पंचविंशतिरुदधीनां, यशोधरे षड्विंशतिर्नदीपतीनां, सुभद्रे सप्तविंशतिरुदधीनां, सुविशालेऽ'ष्टाविंशतिरब्धीनां, सुमनस्येकान्नत्रिंशदुदधीनां, सौमनसे त्रिंशदर्णवानां, प्रीतिकरे एकत्रिंशदुदधीनां, अनुदिशि द्वात्रिंशदुदधीनां, सर्वार्थसिद्धौ त्रयस्त्रिंशत्सागरोपमानामेवं त्रिषष्टिपटलेषु चतुरशीतिलक्षविमानेषु त्रयोविंशत्यधिकसप्तनवतिसहस्राधिकेषु श्रेणिबद्धप्रकीर्णकसंज्ञविमानेषु देवानां स्वकीयस्वकीयेंद्रकवद्देवायुषः प्रमाणं वेदितव्यं । ऋतुविमलचंद्रवल्गुवीरारुणनंदननलिनकांचनरोहित चंचन्मारुतर्द्धिईशानवैडूर्यरुचकरुचिरांकस्फटिकतपनीयमेघाभ्र-हारिद्रपद्मलोहिताख्यवज्रनंद्यावर्त्तप्रभंकरपृष्ठंकरांजनमित्र Page #235 -------------------------------------------------------------------------- ________________ २३. मूलाचारे प्रभाख्यान्येकत्रिंशदिंद्रकाणि सौधर्मेशानयोः । अंजनवनमालानागगरुडलांगलबलभद्रचक्राणि सप्तकेंद्रकाणि सनत्कुमारमाहेंद्रयोः । अरिष्टदेवसंमित ब्रह्माब्रह्मोत्तराणि चत्वारींद्रकाणि ब्रह्मलोके।ब्रह्महृदयलांतवे चंद्रके लांतवकल्पे महाशुक्रकल्पे शुक्रमेकमिंद्रकं, शतारमेकमिन्द्रकं सहस्रारकल्पे, प्राणतकल्पे आनतप्राणतपुष्पकाणि त्रीणींद्रकाणि, अच्युतकल्पे सानत्कुमारारणाच्युतानीद्रकाण त्रीणि, अधोवेयके सुदर्शनामोघसुप्रवुद्धानि त्रीणींन्द्रकाणि,. मध्यमवेयके यशोधरसुभद्रसुविशालानि त्रीणीन्द्रकाणि, ऊर्ध्वग्रैवेयके सुमनःसौमनसप्रीतिराणि त्रीणींद्रकाणि, अनुदिश आदित्यमेकमिंद्रकं अनुत्तरे सर्वार्थसिद्धिसंज्ञकमेकमिंद्रकं, इत्येतेषु स्वायुषः प्रमाणं वेदितव्यं ।। अत्र सौधर्मे प्रथमप्रस्तरे ऋतुसंज्ञके उत्कृष्टमायुरर्द्धसागरोपमं तन्मुखं तत्रैवावसानेंद्रके उत्कृष्टमायुट्टै सागरोपमे सागरोपमा धिके तद्भूमिरुच्छ्रयस्त्रिंशदिंद्रकाणि भूमेर्मुखमपनीयोच्छ्रायेण भागे हृते सागरोपमस्य पंचदशभागो वृद्धिरागच्छति इमामिष्टप्रतरसंख्यया गुणयित्वा मुखे प्रक्षिप्ते विमलादीनां त्रिंशतः प्रस्ताराणामुत्कृष्टान्यायूंषि भवंति । तेषां संदृष्टयः-न्यास इत्थम् । १७५९७ २३/५२७२९३१/११/७३७१३/४१३७४९/१७५३/११/ ०/३०/६३० ६३०१०३०३ ३०३०१०३०६ १९/५९/६१४३२११३६०३३७१/७३/२ Page #236 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २३१ सनत्कुमारमाहेंद्रयोः सप्तेंद्रकाणि तत्र द्वे सागरोपमे सागरोपमार्दाधिके मुखं सार्द्धसप्तसागरोपमाणि भूमिः सप्तेंद्रकाणि उच्छ्रयः, भूमर्मुखं विशोध्योच्छ्रयेण भागे हृते वृद्धिरागच्छति तामिष्टप्रतरसंख्यया गुणायित्वा मुखसहिता कृतैवं भवति । ६ भा. १ ५ ६ ५ । । ११ ११४ भा./१४ भा.१४ भा./१४ भा.| १४ भा. १४ भा. ब्रह्मब्रह्मोत्तरयोश्चत्वारः अत्र सप्त सार्द्धानि सागरोपमाणिमुखं दशसाधनि भूमिश्चत्वार उच्छ्रयस्तस्य संदृष्टिर्यथा; ८ ९ सा | ९ । १० १ भा. . ० ग - ३ भा. १ भू ४ भा. ० र ४ भा. | २ मि१० लांतवकापिष्ठयोः द्वौ प्रस्तरौ तत्र मुखं सार्दानि दश सार्धानि चतुर्दश भूमिद्वावुच्छ्रयौ . महाशुक्रे एक, प्रस्तरः तत्रायुः प्रमाणं | फूट तथा सहस्रारे एक प्रस्तरः तत्रायुःप्रमाणं || आनतप्राणतकल्पयोः त्रयः प्रस्तारास्तत्र विंशति मुखं द्वाविंशतिर्भूमिः तस्य संदृष्टिः २१ Page #237 -------------------------------------------------------------------------- ________________ २३२ . मूलाचारे शेषाणां संदृष्टिः २३ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । ३२ । ३३ । वेदितव्येति ॥ ७८॥ - सौधर्मादिदेवीनां परमायुषः प्रमाणं प्रतिपादयन्नाह;पंचादी वेहिं जुदा सत्तावीसा य पल्ल देवीणं । तत्तो सत्तुत्तरिया जावदु अरणप्पयं कप्पं ॥ ७९ ॥ पंचादीनि द्वाभ्यां युतानि सप्तविंशतिः पल्यानि देवानां । ततः सप्तोत्तराणि यावत् आरणाच्युतं कल्पः ॥ ७९ ॥ टीका-पंचादी-पंच आदि पंचपल्योपमानि मूलं, वेहिं जुदा-दाभ्यां युक्तानि द्वाभ्यां द्वाभ्यामधिकानि वीप्सार्थो द्रष्टव्यः उत्तरोत्तरग्रहणात् । सत्ता वीसा य-सप्तविंशतिः “चशब्दो यावच्छन्दं समुच्चिनोति" पल्ल-पल्यानि पल्योपमानि यावत्सप्तविंशतिः पल्योपमानि, देवीणं-देवीनां देवपत्नीनां, तत्तो ततः पल्यानां सप्तविंशतरूई सत्त-सप्तसप्त उत्तरिया-उत्तराणि सप्तसप्ताधिकानि पल्योपमानि जावदु-यावत्, अरणप्पयंकप्पं-अच्युतकल्पः तावत् । सौधर्मकल्पे देवीनां परमायुः पंचपल्योपमानि, ईशाने सप्त पल्योपमानि, सनत्कुमारे नव पल्योपमानि, माहेंद्रे एकादश पल्योपमानि, ब्रह्मकल्प त्रयोदश पल्योपमानि, ब्रह्मोत्तरे पंचदश पल्योपमानि, लांतवे सप्तदश पल्योपमानि, कापिष्ठे एंकानविंशतिः पल्योपमानि, शुक्रे एकविंशतिः पल्योपमानि, महाशुक्रे त्रयोविंशतिः पल्योपमानि, शतारे पंचविंशतिः पल्योपमानां, सहसारे सप्तविंशतिः पल्यानां, आनते चतुस्त्रिंशत्पल्योपमानि, प्राणते एकाधिक चत्वारिंशत् पल्यानां, आरणे अष्टचत्वारिंशत्पल्यानां, अच्युते पंचपंचाशत्पल्यानां सर्वत्र देवीनां परमायुषः प्रमाणमिति संबंधः । पंचपल्योपमानि द्वाभ्यां द्वाभ्यां तावदधिकानि कर्त्तव्यानि यावत्सप्तविंशतिः पल्योपमानि भवंति, ततः सप्तविंशतिः सप्तभिः सप्तभिरधिका कर्तव्या यावदच्युतकल्पे पंचपंचाशत्पल्योपमानि संजातानीति ॥ ७९ ॥ देवीनामायुषः प्रमाणस्य द्वितीयमुपदेशं प्रतिपादयन्नाह; Page #238 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २३३ पणयं दस सत्तधियं पणवीसं तीसमेव पंचषियं । चत्तालं पणदालं पण्णाओ पण्णपण्णाओ ।। ८० ॥ पंच दश सप्ताधिकानि पंचविंशतिः त्रिंशत् एव पंचाधिका। चत्वारिंशत् पंचचत्वारिंशत् पंचाशत् पंचपंचाशत् ॥ ८० ॥ टीका-पणयं-पंच सौधर्मेशानयोर्दैवीनां पंचपल्योपमानि परमायुः । दस सत्तधियं-दश सप्ताधिकानि सनत्कुमारमाहेंद्रयोर्देवीनां परमायुः सप्तदशपल्योपमानि पणवीसं-पंचविंशतिः ब्रह्मब्रह्मोत्तरयोर्दैवीनां पंचविंशतिः पल्योपमानि परमायुः, तीसमेव पंचधियं-त्रिंशदेव पंचाधिका लांतवकापिष्ठयोर्दैवीनां त्रिंशदेवपंचाधिका पल्योपमानां परमायुः, चत्तालंचत्वारिंशच्छुक्रमहाशुक्रयोर्दैवीनां चत्वारिंशत्पल्यानां परमायुः, पणदालं पंचचत्वारिंशत् शतारसहस्रारयोर्देवानां पंचचत्वारिंशत्पल्यापमानां परमायुः, पण्णासं-पंचाशत् आनतप्राणतयोर्दैवीनां परमायुः पंचाशत्पल्योपमानि, पण्णपण्णाओ-पंचपंचाशदारणाच्युतयोर्दैवीनां परमायुषः प्रमाणं पंचपंचाशत्पल्योमानि । आऊ-आयुः सर्वत्रानेन संबंधः । देवायुषः प्रतिपादनन्यायेनायमेवोपदेशो न्याय्योऽत्रैवकारकरणादथवा दावप्युपदेशौ ग्राह्यौ सूत्रद्वयोपदेशात् द्वयोर्मध्य एकेन सत्येन भवितव्यं, नात्र संदेहमिथ्यात्वं, यदर्हत्प्रणीतं तत्सत्यमिति संदेहाभावात् । छद्मस्थैस्तु विवेकः कर्तु न शक्यतेऽतो मिथ्यात्वभयादेव द्वयोर्ग्रहणमिति ॥ ८० ॥ ज्योतिषां यद्यपि सामान्येन प्रतिपादितं जघन्यं चोत्कृष्टमायुस्तथापि स्वामित्वपूर्वको विशेषो नावगतस्तत्र तत्प्रतिपादनायाह;-. चंदस्स सदसहस्सं सहस्स रविणो सदं च सुक्कस्स । वासाधिए हि पल्लं लेहिटुं वरिसणामस्स ॥ ८१ ।। चंद्रस्य शतसहस्रं सहस्रं रवेः शतं च शुक्रस्य । वर्षाधिकं हि पल्यं लघिष्ठं वर्षनाम्नः॥ ८१ ॥ Page #239 -------------------------------------------------------------------------- ________________ मूलाचारे टीका - परमायुरित्यनुवर्त्तते- चंदस्स - चंद्रस्य, सदसहस्सं - शतसहस्रं, शतसहस्रेण, अत्र तृतीयार्थे द्वितीया, सहस्स– सहस्रेण, रविणो - रवेरादित्यस्य, शतं च - शतेन च, सुक्कस्स - शुक्रस्य, वास-वर्षाणां, अधियंअधिकं, हि-स्फुटं निश्चयेन, पल्लं - पल्यं, पल्योपमं, लेहिट्टं - न्यूनं हीनं अनंतरेण शतेनाभिसंबंधः, वरिसणामस्स - वर्षनाम्नः बृहस्पतेः । चंद्रस्य परमायुरेकं पल्योपमं वर्षाणां शतसहस्रेणाधिकं, रवेरेकं पल्योपमं परमायुर्वर्षाणां सहस्रेणाधिकं, शुक्रस्य परमायुरेकं पल्योपमं वर्षाणां शतेनाधिकं, बृहस्पतेरेकं पल्योपमं वर्षाणां शतेन न्यूनं स्फुटमिति ॥ ८१ ॥ अथ कथं शेषाणामित्यत आह; २३४ सेसाणं तु गहाणं पलद्धं आउगं मुणेयव्वं । ताराणं च जहण्णं पादद्धं पादमुक्कस्सं ॥ ८२ ॥ शेषाणां तु ग्रहाणां पल्यार्द्ध आयुः मंतव्यं । ताराणां च जघन्यं पादार्धं पादमुत्कृष्टं ॥ ८२ ॥ टीका - सेसाणं - शेषाणां, तुशब्दः समुच्चयार्थः स नक्षत्राणि समुच्चि - नोति । गहाणं - ग्रहाणां, पल्लुद्धं - पल्यस्यार्द्धं, आउगं - आयुः, मुणेयव्वंज्ञातव्यं । ताराणं- ताराणां ध्रुवकीलकादीनां चशब्दात्केषांचिन्नक्षत्राणां च, जहण्णं - जघन्यं निकृष्टं पादद्धं - पादार्द्ध पल्योपमपादस्यार्द्ध पत्योपमस्याष्टमो भागः, पादं - पादः पल्योपमस्य चतुर्थो भागः उक्करसं - उत्कृष्टं, शेषाणां ग्रहाणां मंगल बुधशनैश्वरराहुकेत्वादीनां केषांचिन्नक्षत्राणां चोत्कृष्टमायुः पल्योपमार्द्धं ताराणां केषांचिन्नक्षत्राणां चोत्कृष्टमायुः पल्योपमस्य चतुर्थो भाग तेषामेव च जघन्यमायुः पल्योपमस्याष्टमभागः । एवं प्रतरासंख्यातभागप्रमितानां ज्योतिषां परमायुर्निकृष्टायुश्च वेदितव्यमिति ॥ ८२ ॥ तिर्यङ्कनुष्याणां निकृष्टमायुः प्रतिपादयन्नाह ;सव्वेसिं अमणाणं भिण्णमुहुत्तं हवे जहण्णेण । सोवकमाउगाणं सण्णीणं चावि एमेव ॥ ८३ ॥ 2 Page #240 -------------------------------------------------------------------------- ________________ पर्यायाधिकाराः । " सर्वेषां अमनस्कानां भिन्नमुहूर्तं भवेत् जघन्येन । खोपक्रमायुष्काणां संज्ञिनं चापि एवमेव ॥ ८३ ॥ टीका - सव्वेसिं- सर्वेषां अमणाणं - अमनस्कानां सर्वग्रहणादेर्केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिंद्रियाणां च ग्रहणं वेदितव्यं भिण्णमुहुत्तंभिन्नमुहूर्तं क्षुद्रभवग्रहणमुच्छ्रासस्य किंचिन्न्यू नाष्टादशभागः, हवे - भवेत्, जहण्ोण - जघन्येन जघन्यं वा, सोवक्कमाउगाणं - उपक्रम्यत इति उपक्रमः विषवेदनारक्तक्षयभयसंक्लेशशस्त्रघातोच्छ्रास निश्वासनिरोधैरायुषो घातः, सह उपक्रमेण वर्तत इति सोपक्रममायुर्येषां ते सोपक्रमायुषः सघातायुषस्तेषां सोपक्रमायुषां सण्णीणं-संज्ञिनां समनस्कानांच चशब्दो मनुष्याणां समुच्चयार्थस्तेनात्र त्रिषष्टिशला कापुरुषचरमदेहवर्जितमनुष्याणां ग्रहणं भवति । सोपक्रमविशेषणेन च देवनारकभोगभूमिजभोगभूमिप्रतिभागजानां प्रतिषेधो भवति, अवि एमेव अप्येवमेव भिन्नमुहूर्त्तमेव किंतु पूर्वोक्ताद्भिन्नमुहूर्त्तादयं भिन्नमुहूर्तो महान्, एकेंद्रियेषु क्षुद्रभवग्रहणं यतोऽतोऽप्येवमेव ग्रहणेन सूचितमेतदर्थ जातं, अपर एवकारो निश्चयार्थः । सर्वेषाममनस्कानां जघन्यमायुर्भिन्नमुहूर्तं भवेत् सोपक्रमायुषां कर्मभूमिजानां कर्मभूमिप्रतिभागजानां च संज्ञिनां तिरश्चां त्रिषष्टिशलाकापुरुषचरमदेहादिवर्जितमनुष्याणां चाप्येव जघन्यमायुरं तर्मुहूर्तमेवेति ॥ ८३ ॥ ययपि प्रमाणं पूर्वसूत्रः व्याख्यातं तथापि विशेषेण प्रमाणं द्रव्यक्षेत्रकालभावभेदेन चतुर्विधं, तत्र द्रव्यप्रमाणं द्विविधं संख्यातप्रमाणमुपमाप्रमाणं चेति तत्र संख्यातप्रमाणं तावन्निरूपयन्नाह, - संखेज्जमसंखेज्जं विदियं तदियमणंतयं वियाणाहि । तत्थ य पढमं तिविहं णवहा णवहा हवे दोणि ८४ संख्यातमसंख्यातं द्वितीयं तृतीयं अनंतं विजानीहि । तत्र च प्रथमं त्रिविधं नवधा नवधा भवेतां द्वे ॥ ८४ ॥ १ अस्मादग्रे ' पाठः ' इति पाठः प्रेसपुस्तके | > २३५ Page #241 -------------------------------------------------------------------------- ________________ १३६ मूलाचारे टीका - संखेज्जं - संख्यातं रूपद्वयमादिंकृत्वा यावद्रूपोनजघन्यपरीता - संख्यातं श्रुतज्ञानविषयभूतं, असंखेज्जं - असंख्यातं संख्यामतिक्रांतमवधिज्ञानविषयभूतं, विदियं द्वितीयं तदियं तृतीयं, अणंत्तयं - अनंतं असंख्यातमतिक्रांतं केवलज्ञानगोचरं वियाणाहि - विजानीहि तत्थ य तत्र च तेषु संख्याता संख्यातानंतेषु मध्ये पढमं - प्रथमं यत्संख्यातं तिविहं - त्रिविधं त्रिप्रकारं जघन्यमध्यमोत्कृष्टभेदेन; णवहा- नवधा नवप्रकारं, दोणि-वें, केते ? द्वितीयतृतीये । प्रथमं यत्संख्यातं तत्रिविधं द्वितीयं यदसंख्यातं तन्नवप्रकारं, तृतीयं यदनंतं तदपि नवप्रकारं । तत्र जघन्यसंख्यातं द्वे रूपे, रूपत्रयमादिं कृत्वा यावद्रूपोनोत्कृष्टं संख्यातं तत्सर्वमजघ• न्योत्कृष्ट संख्यातं जघन्यपरीतासंख्यातं रूपोनमुत्कृष्टं संख्यातं; अस्थानयनविधानमुच्यते-प्रमाणयोजनलक्षायामविस्तारावगाधाश्चत्वारः कुशूलाः शलाकाप्रतिशलाकामहाशलाकानवस्थितसंज्ञकास्तत्रैकमनवस्थितसंज्ञकं कुशूलं सर्षपपूर्ण कृत्वा देवो दानवो वा तत्रैकैकं सर्षपं द्वीपे समुद्रे तावत्क्षिपेत् यावद्विक्तः संजातः, ततः शलाकाकुंडे एकं सर्षपं क्षिपेत् अनवस्थितं कुंडं तावन्मात्रं पुनः प्रकृत्य सर्षपैश्च संपूर्ण कृत्वा द्वीपे समुद्रे च क्षिपेत् यत्र निष्ठितस्तत्र शलाकाकुंडे द्वितीयमेवं सर्षपं क्षिपेत् अनवस्थितं च कुंडं तावन्मात्रं प्रकृत्य सर्षपैश्च पूर्ण कृत्वा द्वीपसमुद्रे च क्षिपेत् । यत्र निष्ठितस्तत्र शलाकाकुंडे तृतीयं सर्षपं क्षिपेत् । अनवस्थितकुंडं च तावन्मात्रं प्रकृत्य सर्षपैश्च संपूर्ण कृत्वा द्वीपे समुद्रे च सर्षपक्षेपं, चतुर्थप्रदेशे शलाकाकुंडे सर्षपक्षेपं चैवं तावत्कर्त्तव्यं यावच्छलाका प्रतिशलाकामहाशलाकानवस्थितानि कुंडानि सर्वाणि पूर्णानि तदोत्कृष्टसंख्यातमतिलंध्य जघन्यपरीतासंख्यातप्रमाणं जातं तस्मादेके सर्षपेऽ पनीते जातमुत्कृष्टसंख्यातं । * असंख्यातं च परीतासंख्यातं युक्तासंख्यात १ विषयं ख ग । २ तत्रिप्रकारं ख-ग । ३ मानवो वा प्रेस - पुस्तके | * पुष्पमध्यगतः पाठः ख-ग पुस्तकाच्च्युतः । Page #242 -------------------------------------------------------------------------- ________________ पर्याप्यधिकारः। २३७ मसंख्यातासंख्यातमिति त्रिविधं, परीतासंख्यातमपि जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं युक्तासंख्यातमसंख्यातासंख्यातं च जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं, तथानंतमपि परीतानंतयुक्तानंतानंतानंतभेदेन त्रिविधमेकैकं जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं । जघन्यपरीतासंख्यातानि जघन्यपरीतासंख्यातमात्राणि परस्परगुणितानि कृत्वा तत्र यावन्मात्राणि रूपाणि तावन्मात्रं जघन्ययुक्तासंख्यातप्रमाणं तस्मादेके रूपेऽपनीते * उत्क्रष्टं परीतासंख्यातप्रमाणं जातं जघन्यपरीतासंख्यातोत्कृष्टपरीतासंख्यातयोर्मध्ये विकल्पोऽजघन्योत्कृष्टपरीतासंख्यातं, युक्तासंख्यातं अपरेण युक्तासंख्यातेन प्रगुण्य यावन्मात्राणि रूपाणि तावन्मानं जघन्यासंख्यातासंख्यातं तस्मादेके रूपेऽपनीते जातमुत्कृष्टं युक्तासंख्यातं, जघन्योत्कृष्टयोर्मध्येऽजघन्योत्कृष्ट युक्तासंख्यातं । जघन्यासंख्यातासंख्यातं त्रीन्वारान् वर्गितं संवर्गितं च कृत्वा धर्माधर्मलोकाकाशप्रत्येकशरीरैकजीवप्रदेशबादरप्रतिष्ठितैश्च संयुक्त कृत्वा पुनरपि त्रीन् वारान् वर्गितं संवर्गितं च कृत्वा स्थितिबंधाध्यवसानस्थानानुभागवंधाध्यवसानस्थानयोगविभागपरिच्छेदोत्सर्पिण्यवसर्पिणीसमयैश्च युक्ते कृते जातं जघन्यपरीतानंतं तस्मादेकेरूपेऽपनीते जातमुत्कृष्टमसंख्यातासंख्यातं तयोर्मध्ये मध्यमो विकल्पः । जघन्यपरीतानंतानि जघन्यपरीतानंतमात्राणि परस्परं प्रगुण्य यत्प्रमाणं भवति तज्जघन्यं युक्तानंतं तस्मादेके रूपेऽपनीते जातमुत्कृष्टं परीतानंतं जघन्योत्कृष्टयोर्मध्ये मध्यमो विकल्पः । जघन्ययुक्तानंतमपरेण जघन्ययुक्तानंतेन गुणितं जातं जघन्यानंतानंतं तस्मादेके रूपेऽपनीते जातमुत्कृष्टं युक्तानंतप्रमाणं जघन्योत्कृष्टयोर्मध्ये मध्यमो विकल्पः । जघन्यानंतानंतं त्रीन वारान् च वर्गितं * संवर्गितं च कृत्वा सिद्धनिगोदजीववनस्पतिकायपुद्गललोकाकाशानि प्रक्षिप्य पुनरपि त्रीन वारान् वर्गितं संवर्गितं च कृत्वा धर्माधर्मास्तिकायागुरुलघुगुणान् प्रक्षिम्य पुनरपि त्रीन वारान् वर्गितं संवर्गितं प्रकृत्य केवलज्ञानकेवल. दर्शनप्रमाणे प्रक्षिप्ते जातमुत्कृष्टमनंतानंतप्रमाणं जघन्योत्कृष्टयोर्मध्येऽजघ*पुष्पमध्यगतः पाठः ग-पुस्तके नास्ति । Page #243 -------------------------------------------------------------------------- ________________ २३८ मूलाचारे न्योत्कृष्टो विकल्पः । यत्रयत्रानंतप्रमाणं परिगृह्यते तत्रतत्राजघन्योत्कृष्टानंतानंतप्रमाणं ग्राह्यं, यत्र यत्राभव्याः परिगृह्यते तत्र तत्र जघन्ययुक्तानंतप्रमाणं वेदितव्यं, यत्र यत्र चावलिका पठ्यते तत्र तत्र जघन्ययुक्तासंख्यातं भवतीत्यर्थः ॥ ८४ ॥ ___ उपमाप्रमाणार्थमाह;पल्लो सायर मूई पदरो य घणंगुलो य जगसेढी। लोगपदरो य लोगो अट्ठ दु माणा मुणेयव्वा ॥५॥ पल्यं सागरः सूची प्रतरश्च धनांगुलं च जगच्छ्रेणी । लोकप्रतरश्च लोकः अष्टौ तु मानानि ज्ञातव्यानि ॥ ८५॥ टीका—पल्लो-पल्यं पल्योपमं, सायर-सागरः सागरोपमं, सूई-सूची सूच्यंगुलं, पदरो य-प्रतरश्च प्रतरांगुलं, घणंगुलो य-घनांगुलं च, जगसेढीजगच्छ्रेणी, लोगप्रदरो य-लोकप्रतरं च, लोगो-लोकः अट्ठ दु-अष्टौ तु, माणा-मानानि प्रमाणानि, मुणेयव्वा-ज्ञातव्यानि । उद्धारपल्योपममुत्पादितं तत्र यानि रोमायाणि तान्येकैकं * वर्षशतसमयमात्राणि खंडानि कर्त्तव्यानि एवं कृते यत्प्रमाणमेतेषां रोमाणां तदद्धापल्योपमं प्रमाणं अनेन पल्योपमेन सर्वः कर्मस्थित्यादिद्रष्टव्यः । एतेषामद्धापल्योपमानां दशकोटीकोटिप्रमाणानामेकमद्धा सागरोपमं भवति, अनेन सागरोपमप्रमाणेन देवनारकमनुष्यतिरश्चां कर्मस्थितिभवस्थित्यायुःस्थितयो ज्ञातव्याः। सूच्यंगुलमुच्यते-अद्धापल्योपममर्द्धनार्द्धन तावत्कर्त्तव्यं यावदेकरोम, तत्र यावंत्यर्द्धछेदनानि अद्धापल्योपमस्य तावन्मात्राण्यद्धापल्योपमानि परस्पराभ्यस्तानि कृत्वा यत्प्रमाणं भवति तावन्मात्रा आकाशप्रदेशा ऊर्द्धमावल्याकारेण रचितास्तेषां यत्प्रमाणं सूच्यंगुलं । तत्सूच्यंगुलं तदपरेण सूच्यंगुलेन गुणितं प्रतरांगुलं । तत्प १ उपमाप्रमाणमाह-ख । २ अस्य स्थाने ' कर्मस्थितिर्भवति भवन्ति चायु:स्थितयो ज्ञातव्याः' इति पाठः प्रेस-पुस्तके । Page #244 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २३९ तरांगुलमपरेण सूच्यंगुलेन गुणितं घनांगुलं । जगच्छ्रेणिरुच्यते-पंचर्विशतिकोटीकोटीनामुद्धारपल्यानां याति रूपाणि लक्षयोजनार्द्धछेदनानि च रूपाधिकान्येकैकं द्विगुणीकृतान्यन्योन्यभ्यस्तानि यत्प्रमाणं सा रज्जुरिति रज्जुः सप्तभिर्गुणिता श्रेणिः वा परया गुणिता श्रेण्या जगत्प्रतरं, जगत्प्रतरं च जगच्छ्रेण्या गुणितं लोकप्रमाणं । सूच्यंगुलस्य संदृष्टिः २ । प्रतरांगुलस्य संदृष्टिः ४ । घनांगुलस्य संदृष्टिः ८ । रज्जोः संदृष्टिः ? । श्रेणिसंदृष्टिः । जगत्प्रतरस्य संदृष्टिः ? । लोकस्य संदृष्टिः १८ । संख्यातस्यं संदृष्टिः ९ । असंख्यातस्य संदृष्टिः ६ । अनंतस्य संदृष्टिः ६ । क्षेत्रप्रमाणं लिक्षायवांगुलवितस्तिरत्निकिष्कुधनुर्योजनादिस्वरूपेण ज्ञातव्यम् । कालप्रमाणं परमसूक्ष्मः समयः अणोरण्वंतरव्यतिक्रमः कालः समयः, जघन्ययुक्तासंख्यातमात्रा. समया आवलीनाम् प्रमाणं असंख्यातावल्यः कोटीकोटीनामुपरि यत्प्रमाणं स उच्छ्रासः, सप्तभिरुच्छ्रासैः स्तवः, सप्तभिः स्तवैर्लवा, अष्टत्रिंशल्लवानामर्द्धलवा च नाडी, द्वे नाड्यौ मुहूर्तः, त्रिंशन्मुहूर्तेर्दिवसरात्रिः इत्येवमादिकालप्रमाणं । भावप्रमाणं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाति परोक्षप्रत्यक्षाणि । एवं प्रमाणसूत्रं व्याख्यातमिति ॥ ८५ ॥ ___ स्वामित्वेन योगस्य स्वरूपमाह;वेइंदियादि भासा भासा य मणो य सण्णिकायाणं । एइंदिया य जीवा अमणाय अभासया होंति ॥८६॥ द्वीन्द्रियादीनां भाषा भाषा च मनश्च संज्ञिकायानां । एकेंद्रियाश्च जीवा अमनस्का अभाषका भवंति ॥ ८६ । टीका-कायवाङ्मनसां निमित्तं परिस्पंदो जीवप्रदेशानां योगस्त्रिंविधः कायवाङ्मनोभेदेन । वेइंदियादि-दीन्द्रियादीनां द्वीन्द्रियत्रीन्द्रियचतुरिद्रियाणां असंज्ञिपेंचेन्द्रियाणां च भासा-भाषा वचनव्यापारः । भासा य१ निमित्तः ख-ग। २ त्रिप्रकारः ख-ग। Page #245 -------------------------------------------------------------------------- ________________ ३४० मूलाचारे भाषा च, मणो य-मनश्च, साण्णकायाणं-संज्ञिकायानां पंचेंद्रियाणां संज्ञिनां भाषामनोयोगौ भवतः कायश्च । एइंदिया य-एकेन्द्रियाश्च पृथिवीकायिकाप्कायिकतेजाकायिकवायुकायिकवनस्पतिकायिका जीवाः अमणा यअमनस्काः, अभासया-अभाषकाः, होंति-भवंति ते काययोगा इत्यर्थः । संज्ञिनो जीवा कायवाङ्मनोयोगा भवंति, दींद्रियाद्यसंज्ञिपंचेंद्रियपर्यंताः कायवचनयोगा भवंति, पृथिवीकायिकादिवनस्पतिकायांताः काययोगा भवंति, सिद्धास्तु त्रिभिर्योगै रहिता भवंति । चशब्दादयमर्थो लब्धश्चतुर्विधस्य मनोयोगस्य चतुर्विधस्य वाग्योगस्य सप्ताविधस्य काययोगस्य च तेवाभवादिति ॥ ८६ ॥ स्वामित्वेन वेदस्य स्वरूपमाह,एइंदिय वियलिंदिय णारय सम्मुच्छिमा य खलु सव्वे । घेदे णपुंसगा ते णावा होंति णियमादु ॥ ८७॥ एकेंद्रिया विकलेंद्रिया नारकाः संमूर्छनाश्च खलु सर्वे । वेदेन नपुंसकास्ते ज्ञातव्या भवंति नियमात् ॥ ८७ ॥ टीका-एइंदिय-एकेंद्रियाः पृथिवीकायिकादिवनस्पत्यंताः, वियलिंदय-विकलेंद्रिया, द्वीन्द्रियत्रींद्रियचतुरिंद्रियाः, णारय-नारकाः, सम्मुच्छिमा य—सम्मूर्च्छनाश्च, खलु-स्फुटं, सब्वे-सर्वे तेन पंचेन्द्रियाः संशिनोऽसंज्ञिनश्च गृह्यन्ते सम्मूर्छिमविशेषणान्यथानुपत्तेः । एकेन्द्रियविकलेन्द्रियास्तु सम्मूर्छिमा एव तेषां विशेषणमनुपपन्नमेव । वेदे-वेदेन वेदस्त्रिविधः स्त्रीवेदः पुंवेदो नपुंसकवेदश्च स्त्रीलिंग पुंलिंग नपुंसकलिंगमिति यावत्, स्त्यायत्यस्यां गर्भ इति स्त्री, सूते पुरुगुणानिति पुमान्, न स्त्री न पुमानिति नपुंसकं, स्त्रीबुद्धिशब्दयोः प्रवृत्तिनिमित्तं स्त्रीलिंगं, पुबुद्धिशब्दयोः प्रवृत्तिनिमित्तं पुंल्लिंग, नपुंसकबुद्धिशब्दयोः प्रवृत्तिनिमित्तं नपुंसकलिंगं तेन लिंगेन. १ सिद्धाः पुन ख-ग । २ ' त एव भविनः कर्तारः इति ' प्रेस-पुस्तके । Page #246 -------------------------------------------------------------------------- ________________ पर्याप्तत्यधिकारः । २४१ - नपुंसक वेदेन नपुंसका नपुंसकलिंगाः, णायब्बा - शातम्या:, होंति-भवंति, नियमादु – नियमात् निश्वयात् । सर्वे एकेंद्रियाः, सर्वे च विकलेंद्रियाः, नारकाः, सर्वे सम्मूर्च्छनजाः पंचेन्द्रियाः संज्ञिनोऽसंज्ञिनम्श्व वेदेन नपुंसका भवतीति ज्ञातव्या नात्र संदेहः सर्वज्ञवचनं यत इति ॥ ८७ ॥ स्वामित्वेन स्त्रीलिंगपुंल्लिंगयोः स्वरूपमाह - देवा य भोगभूमा असंखवासाउगा मणुयतिरिया । ते होंति दोसुवेदे णत्थि तेसिं तदियवेदो ॥ ८८ ॥ देवाश्च भोगभौमा असंख्यवर्षायुषः मनुजतिर्यचः । ते भवंति द्वयोः वेदयोः नास्ति तेषां तृतीयवेदः ॥ ८८ ॥ टीका - देवा य - देवा भवनवासिव्यंतरज्योतिष्ककल्पवासिनः, च शब्दः समुच्चयार्थः, भोगभूमा – भोगभौमास्त्रिंशद्भोगभूमिजातास्तिर्यङ्मनुष्याः, असंखवासाउगा - असंख्यवर्षायुषो भोगभूमिप्रतिभागजाः, सर्वे म्लेच्छखंडोत्पन्नाश्च मनुष्याः, तिरिया – तिर्यचः, ते होंति - ते भवंति, दोसु वेदेसु द्वयोर्वेदयोर्द्वाभ्यां वेदाभ्यां णत्थि - - नास्ति न विद्यते, तेसिं— तेषां पूर्वोक्तानां तदियवेदो- तृतीयवेदो नपुंसकलिंगं । देवा भोगभौमा असंख्यातवर्षायुषस्तिर्यचः भोगभूमिप्रतिभागजाः च शब्दान्म्लेच्छाश्व सर्वे एते स्त्रीलिंगपुंल्लिंगाभ्यां भवति नास्ति तृतीयं नपुंसकलिंगमिति ॥ ८८ ॥ , विशेषणं त्रिलिंगत्वं प्रतिपादयन्नाह ; - पंचेंद्रिया दु सेसा सण्ण असण्णीय तिरिय मणुसा य । ते होंति इत्थिपुरिसा णपुंसगा चावि वेदेहिं ॥ ८९ ॥ पंचेंद्रियास्तु शेषाः संज्ञिनोः असंज्ञिनश्च तिर्यंचो मनुष्याश्च । ते भवंति, स्त्रीपुरुषा नपुंसकाञ्चापि वेदैः ॥ ८९ ॥ टीका - पंचेंदिया दु-पंचेंद्रियास्तु, सेसा - शेषाः देवनारकभोगभूमिजभोगभूमिप्रतिभागजतिर्यम्लेच्छवर्ज्या अन्ये सण्णि संज्ञिनः असण्णीय १६ Page #247 -------------------------------------------------------------------------- ________________ २४२ : मूलाचार असंज्ञिनश्च, तिरिय-तिर्यंचः, मणुसा य-मनुष्याश्च ते होंति-ते सर्वे भवंति, इत्थिपुरिसा-स्त्रीपुरुषाः, णपुंसगा-नपुंसकाश्चापि, वेदेहि-वेदैर्वेदेषु वा । पूर्वोक्तानां शेषाः पंचेंद्रियाः संज्ञिनोऽसंज्ञिनश्च ये तिर्यंचो मनुष्यास्ते सर्वेऽपि स्त्रीपुंनपुंसकास्त्रिभिदैर्भवंति पुनर्वेदग्रहणं द्रव्यवेदप्रतिपादनार्थ भाववेदस्य स्त्रीपुनपुंसकग्रहणेनैव ग्रहणादिति ॥ ८९ ॥ ननु यथा तिर्यङ्कनुष्येषु सर्वत्र स्त्रीलिंगमुपलभ्यते किमेवं देवेष्वपि नेत्याह;आ ईसाणा कप्पा उववादो होइ देवदेवीणं । तत्तो परंतु णियमा उववादो होइ देवाणं ॥ ९ ॥ आ ईशानात् कल्पात् उपपादो भवति देवदेवीनां । ततः परं तु नियमात् उपपादो भवति देवानां ॥ ९० ॥ . टीका-नात्रोपपादकथनमन्याय्यं विषयभेदात्, देवेषु स्त्रीलिंगस्य भावाभावविषयककथनमेतत् नोपपादकथनं, आङयमभिविधौ गुह्यते ईसाणा-ईशानात् कप्पो कल्पात् उववादो-उपोदो, होइ-भवति, देवदेवीणं देवदेवीनां देवानां देवीनांच, ततस्तस्मादीशानात्परं तूर्द्ध सनत्कुमारादिषु उववादो उपपाद । उत्पत्तेःसंभवः, होइ-भवति, देवाणं-देवानां । आईशानात्कल्पादिति किमुक्तं भवति-भवनव्यंतरज्योतिष्केषु सौधर्मेशानयोश्च कल्पयोर्देवानां देवीनां चोपपादः स्त्रीलिंगपुंल्लिंगयोरुत्पत्तेः, परेषु कल्पेषु सनत्कुमारादिषु देवानामेवोत्पत्तेः संभवो न चात्र स्त्रीलिंगस्योत्पत्तेः संभव इति ॥ ९ ॥ अथ स्त्रीलिंगस्या ईशानादुत्पन्नस्यकियङ्करगमनमित्याशंकायामाह;जावदु आरणअचुद गमणागमणं च होइ देवीणं । तत्तो परं तु णियमा देवीणं णत्थि से गमणं ॥११॥ १ तदेवमन्येष्वपि किं प्रेस-पुस्तके । २ पातः ख-ग। परंतु परत ऊर्च ख-ग। Page #248 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकार। २४३ यावत् आरणाच्युतौ गमनागमनं च भवति. देवीनां। ततः परं तु नियमात देवीनां नास्ति तासां गमनं ॥ ११ ॥ टीका-यावदु-यावत्, आरणअच्चुद-आरणाच्युतौ, गमणं-गमनं, आगमणं-आगमनं चशब्दः समुच्चये, होदि-भवति, देवीणं-देवीनां, तत्तो-ततस्ताभ्यामूर्द्ध परंतु-परतः, णियमा-नियमात् निश्चयात्, देवीणंदेवीनां, णत्थि-नास्ति न विद्यते, से-तासां गमणं-गमनं । यावदारणाच्युतकल्पौ तावदागमनं च भवति देवीनां ततः परेषु नवग्रैवेयकनवानुत्तरपंचानुत्तरेषु नास्ति तासां देवीनां गमनं कुत एतत् पूर्वागमात् ॥ ९१ ॥ तमेवागमं प्रदर्शयतीति;कंदप्पमाभिजोगा देवीओ चावि आरण चुदोत्ति। .. लंतवगादो उवरि ण संति संमोहखिब्भिसया ॥९२॥ कांदा आभियोग्या देव्यश्चापि आरणाच्युतौ इति । लांतवकात् उपरि न संति संमोहाः किल्बिषिकाः ॥ ९२ ॥ टीका-कंदप्प-कंदर्पस्य भावः कांदर्प कांदर्प योगाद्देवाः कांदाः प्रहासोपप्लवशीलाः, अभिजोगा-अभियोग्या वाहनसुराः, देवीओ-देव्यः, चावि-चापि समुच्चयसंभावनार्थः, आरणच्चुदोत्ति आरणाच्युतौ चशब्देन यावच्छब्दः समुच्चीयते। तेनैवमभिसंबंधः क्रियते । कांदा आभियोग्या देव्योऽपि यावदारणाच्युतौ, अस्मादागमाज्ज्ञायते नास्ति देवीनामूद ममनं । लंतवगादो-लांतवका, उवरि-उपरि ऊर्द्ध न संति न विद्यते, संमोह-सम्मोहा भंडदेवा नित्यमैथुनसेविनः श्ववत् । खिब्भिसियाकिल्विषिकाः पाटहिकमौरविकादयः वादित्रवादनपराः । लांतवादुपरि किल्बिषिकाः संमोहाश्च न संतीति ॥ ९२ ॥ .१ आरणाच्युतकल्पी यावदागमनं भवति देवीनां ततः परस्मिन् ख-ग। २ तदेवागमनं प्रदर्शयतीति प्रेस-पुस्तके । ३ कादर्पयोगोद्भवाः प्रेस-पुस्तके । Page #249 -------------------------------------------------------------------------- ________________ २४४ मूलाचारे लेश्यानां स्वामित्वेन स्वरूपं प्रतिपादयन्नाह;काऊ काऊ तह काउणील णीला य णीलकिण्हाय । किण्हाय परमकिण्हा लेस्सी रदणादि पुढवीसु ॥ ९३॥ :: कापोती कापोती तथा कापोती नीलनीला च नीलकृष्णा च । कृष्णा च परमकृष्णा लेश्या रत्नादिष्टथिवीषु ॥ ९३॥ टीका-लेश्यायाः सर्वत्र संबंधः, काऊ काऊ-कापोती कापोती जघन्य कापोतलेश्या, तह-तथा, काऊ-कापोती मध्यम-कापोतलेश्या, णील-नीला जघन्यनीललेश्या उत्कृष्टकापोतलेश्या नीलाय-नीला च मध्यमनीला., नीलकिण्हाय-नीलकृष्णा चोत्कृष्ट-नीला जघन्यकृष्णा च, 'किण्हाय-कृष्णा च मध्यमकृष्णालेश्या परमकिण्णा-परमकृष्णा सर्वोत्कृष्टकृष्णलेश्या, लेस्सा-लेश्या कषायानुरंजिता योगप्रवृत्तिः, रदणादि, रत्नादिषु पुढवीसु-धरित्रीषु रत्नप्रभादिसप्तसु नरकेषु यथासंख्येन संबंधः । रत्नप्रभायां नारकाणां जघन्यकापोतलेश्या, द्वितीयायां शर्कराप्रभायां मध्यमकापोतलेश्या, तृतीयायां वालुकाप्रभायामुपरिष्टादुत्कृष्टकापोतीलेश्या आयो जघन्यनीला च, चतुझं पंकप्रभायां मध्यमनीललेश्या, पंचम्यां धूमप्रभायां उपरि उत्कृष्टनीला अधो जघन्यकृष्णा च, षष्ठ्यां तमः प्रभायां मध्यमकृष्णलेश्या, सप्तम्यां महातमः-प्रभायामुत्कृष्टलेश्या सर्वत्र नारकाणामिति संबंधः । स्वायुः-प्रमाणावधृता द्रव्यलेश्याः । भावलेश्यास्तु अंतर्मुहूर्तपरिवर्तिन्यः । न केवलमशुभलेश्याः नारकाणां किंतु अशुभपरिणामा अशुभस्पर्शरसगंधवर्णाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवो देहाश्च तेषामशुभनामोदयादत्यंताशुभतराः विकृताकृतयो इंडसंस्थाना इति ॥ ९३ ॥ देवानां लेश्याभेदमाह;तेऊ तेऊ तह तेऊ पम्म पम्मा य पम्मसुक्का य । सुक्का य परमसुक्का लेस्साभेदो मुणेयवो ॥ ९४ ॥ . १'काऊ-कापोती जघन्य कापोत लेश्या काऊ कापोती मध्यमकापोतलेल्या, तहतथा-काऊणीले-कपोतनिीले उत्कृष्टकापोतलेश्या, जघन्यनाललेश्या च इतिचैके। Page #250 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २४५ तेजस्तेजस्तथा तेजः पद्मा पद्मा च पद्मशुक्ला च । शुक्ला च परमशुक्ला लेश्याभेदो ज्ञातव्यः ॥ ९४॥ टीका-तेऊ तेऊ-तेजस्तेजः जघन्यतेजोलेश्या, तह-तथा, तेजतेजः मध्यमतेजोलेश्या पम्म-पद्मा जघन्यपद्मलेश्या उत्कृष्टतेजोलेश्या च, पम्मा य-पद्मा च मध्यमपद्मलेश्या, पम्मसुक्का य-पद्मशुक्ला च उत्कृष्टपद्मलेश्या जघन्यशुक्ललेश्या च, सुक्का य शुक्ला-च मध्यमशुक्ला, परमसुक्का परमशुक्ला सर्वोत्कृष्टशुक्ललेश्या, लेस्साभेदो-लेश्याभेदः, मुणेयव्वोज्ञातव्य इति ॥ ९४॥ ___ एते सप्त लेश्याभेदाः केषामित्याशंकायामाह;तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसहं च। एतो य चोदसण्हं लेस्सा भवणादिदेवाणं ॥९५॥ त्रयाणां द्वयोर्द्वयोः षण्णां द्वयोश्च त्रयोदशानां च । इतश्च चतुर्दशानां लेश्या भवनादिदेवानाम् ॥ ९५ ॥ टीका-तिह-त्रयाणां त्रिषु वा, दोण्हं-द्वयोः, पुनरपि दोण्हंद्वयोः, छह-षण्णां, दोण्हं च-द्वयोश्च, तेरसण्हं च-त्रयोदशानां त्रयोदशसु वा, एत्तो य-इतश्चोपरि चोदसण्हं चतुर्दशानां चतुर्दशसु वा लेस्सा-लेश्याः पूर्वोक्ताः सप्त लेश्याभेदाः, भवणादिदेवाणं-भवनादिदेवानां । भवनवानव्यंतरज्योतिष्केषु त्रिषु देवानां जघन्यतेजोलेश्या, सौधेमॆशानयोदेवानां मध्यमतेजोलेश्या, सनत्कुमारमाहेंद्रयोर्देवानामुत्कृष्टतेजोलेश्या जघन्यपद्मलेश्या च, ब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुकेषु षट्सु देवानां मध्यमपद्मलेश्या, शतारसहस्रारयोरुत्कृष्टपद्मलेश्या . जघन्यशक्ललेश्या च, आनतप्राणतारणाच्युतसहितेषु नवसु ग्रैवेयकेषु त्रयोदशसंख्यकेषु मध्यमशुक्ललेश्या, नवानुत्तरेषु पंचानुत्तरेषु चतुर्दशसंख्येषु परमशुक्ललेश्या, सर्वत्र देवानामिति यथासंख्येन संबंध इति ॥ ९५ ॥ .१ अत्रापि पूर्ववत्पाठेन भाव्यं केवलं कापोतस्थाने तेजोलेश्या पठनीया। Page #251 -------------------------------------------------------------------------- ________________ २४६ मूलाचारे तियङ्मनुष्याणां लेश्याभेदमाह;एइंदियवियलिंदियअसण्णिणो होति असुहाओ . संखादीदाउणं तिण्णि सुहा छप्पि सेसाणं ॥ ९६ ॥ • एकेंद्रियविकलेंद्रियासज्ञिनां तिस्रो भवंत्यशुभा। संख्यातीतायुष्काणां तिस्रः शुभाः षडपि शेषाणां ॥ ९६ ॥ - टीका-एइंदिय-एकेंद्रियाणां पृथिवीकायिकादिवनस्पतिकायिकांतानां, वियलिंदिय-विकलेंद्रियाणा द्वीन्द्रियत्रींद्रियचतुरिंद्रियाणां, असण्णिणो-असंज्ञिनां शिक्षाऽऽलापादिग्रहणायोग्यानां पंचेंद्रियाणां, तिण्णि-तिस्रः, होति-भवंति, असुहाओ-अशुभाः कापोतनीलकृष्णलेश्याः। संखादी दाऊणां-संख्यातीतायुष्काणां भोगभूमिजानां भोगभूमिप्रतिभागजानां च तिण्णि तिस्रः शुभाः तेजः शुक्लपद्मलेश्याः, छप्पि-षडपि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्याः, सेसाणं-शेषाणां कर्मभूमिजानां कर्मभूमिप्रतिभागजानां पंचेंद्रियाणां संज्ञिनां । एकद्रियविकलेंद्रियसंजिनां तिस्रोऽशुभलेश्या भवंति, भोगभूमिजानां भोगभूमिप्रतिभागजानां च तिर्यजनुष्याणां तिस्रः शुभा लेश्या भवंति, शेषाणां पुनः कर्मभूभिजानां कर्मभूमिप्रतिभागजानां च तिर्यमनुष्याणां षडपि लेश्या भवंति । अत्रापि केषांचिद्र्व्यलेश्याः स्वायुः प्रमाणावधृता । भावलेश्याः पुनः सर्वेषामंतमुहूर्तपरिवर्तिन्यः कषायाणां हानिवृद्धीभ्या तासा हानिवृद्धी वेदितव्ये इति ॥ ९६ ॥ प्रवीचारकारणेंद्रियविषयभेदे प्रतिपादयन्नाह;कामा दुवे तरु भोग इंदियत्था विदूहिँ पण्णत्ता। कामो रसो य फासो सेसा भोगेति आहीया ॥ ९७ ॥ कामौ द्वौ त्रयो भोगा इंद्रियार्था विद्वद्भिः प्रज्ञप्ताः। कामो रसश्चं स्पर्शः शेषाः भोगा इति आहिताः ॥ ९७ ॥ Page #252 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २४७ .. टीका-कामा-कामः स्त्रीपुंनपुंसकवेदोदयकृततद्विषयाभिलाषस्तस्य कारणात्वात्कामौ कारणे कार्योपचारात्, दुवे-दौ, तओ-त्रयः, भोगभोगाः, इंदियत्था-इंद्रियार्था इन्द्रियविषयाः स्पर्शरसरूपगंधशब्दाः । अथवेंद्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि तद्विषयाश्च, विदूहिंविद्वद्भिः प्रत्यक्षदर्शिभिः पण्णत्ता-प्रज्ञप्ताः कथिताः दृष्टा वा । कामोकामौ, रसोये-रसश्च, फासो-स्पर्शश्च, सेसा-शेषाः गंधरूपशब्दाः भोगेत्ति-भोगा इति, आहिता-आहिताः प्रतिपादिताः ज्ञाता वा । स्पर्शनेंद्रियप्रवृत्तिकारणत्वात् रूपशब्दौ भोगौ रसनेंद्रियस्य प्रवृत्तिहेतोः स्पर्शनेंद्रियस्य च घाणं भोगोऽत: यत एवं कामौ रसस्पर्शी गंधरूपशब्दा भोगाः कथिताः, अत इंद्रियार्थाः सर्वेपि कामौ भोगाश्च विद्वद्भिः प्रज्ञप्ता इति ॥ ९७ ॥ इंद्रियैर्वेदनाप्रतिकारसुखं देवानामाह;आईसाणा कप्पा देवा खलु होंति कायपडिचारा । फासप्पडिचारा पुण सणक्कुमारे य माहिंदे ॥ ९८॥ आ ईशानात् कल्पात् देवाः खलु भवंति कायप्रतीचाराः। . स्पर्शप्रतीचाराः पुनः सनत्कुमारे च माहेन्द्रे ॥ ९८॥ . . टीका-आङयमभिविधौ द्रष्टव्यः असंहिततैया निर्देशोऽसंदेहार्थः तिर्यजनुष्यभवनवासिव्यंतरज्योतिःसौधर्माणां ग्रहणं लब्धं भवति, ईसाणा-ईशानात्, कप्पा-कल्पाः, देवा-देवाः, खलु-स्फुटं, होंति-भवंति, कायपडिचारा-कायप्रतीचाराः “ प्रतीचारो मैथूनोपसेवनं वेदोदयकृतपीडाप्रतीकारः " काये कायेन वा प्रतीचारो येषां ते कायप्रतीचारास्तिर्यङ्मनुष्या भवनवासिवानव्यंतरज्योतिष्कासौधर्मेशाना देवा देव्यश्च - १ 'घ्राणं, श्रोत्रं, चक्षुश्च' इति प्रेस-पुस्तके पाठ। २ 'असंनिहिततयां' इति प्रेसपुस्तके । संहिता सन्धि । सौधर्माणा... खलु सवनं व Page #253 -------------------------------------------------------------------------- ________________ २४८ मूलाचार स्फुटं भवंति कायप्रतीचाराः संक्लिष्टकर्मकलंकत्वान्मनुष्यवस्त्रीसुखमनुभवंतीति । अवधिग्रहणादितरेषां सुखविभागे प्रतिज्ञाते तत्प्रतिज्ञानायाहफासपडिचारा-स्पर्शप्रतीचाराः स्पर्शे स्पर्शनेन वा प्रतीचारो विषयसुखानुभवनं येषां ते स्पर्शप्रतीचाराः, पुण–पुनरन्येन प्रकारेण सणकुमारे यसनत्कुमारे च कल्पे, माहिंदे-माहेंद्रे कल्पे देवा इत्यनुवर्तते । सनत्कुमारे कल्पे माहेंद्रे कल्पे च ये देवास्ते स्पर्शप्रतीचाराः-देवांगनास्पर्शमात्रकामकृतप्रीतिसुखमुपलभंते तथा देव्योऽपीति ॥ ९८॥ तथा शेषाणां सुखप्रतिपादनार्थमाह;वंभे कप्पे वंभुत्तरे य तह लंतवे य कापिहे। एदेसु य जे देवा वोधधा रूवपडिचारा ॥ ९९ ॥ ब्रह्मे कल्पे ब्रह्मोत्तरे च तथा लांतवे च कापिष्ठे। एतेषु च ये देवा बोद्धव्या रूपप्रतीचाराः ॥ ९९ ॥ . . . टीका-बंभे कप्पे-ब्रह्मकल्पे, बंभुत्तरे य-ब्रह्मोत्तरे च कल्पे, तहतथा, लंतवे य-लांतवकल्पे, काविटे-कापिष्ठकल्पे एदेसुय एतेषु च कल्पेषु चान्येषु तत्प्रतिबद्धेषु, जे देवा-ये देवाः, बोधव्वा-बोद्धव्याः ज्ञातव्याः, रूवपडिचारा-रूपे रूपेण वा प्रतीचारो येषां ते रूपप्रतीचाराः । ब्रह्मब्रह्मोत्तरलांववकापिष्ठेषु कल्पेषु ये देवास्ते रूपप्रतीचाराः दिव्यांगनानां शृंगारचतुरमनोज्ञवेषरूपालोकनमात्रादेव परं सुखं प्राप्नुवंति देव्योऽपि चेति ॥ ९९ ॥ शब्दप्रतीचारान् प्रतिपादयन्नाह,सुकमहासुक्केसु य सदारकप्पे तहा सहस्सारे । कप्पे एदेसु सुरा बोधव्वा सद्दपडिचारा ॥ १०॥ शुक्रमहाशुक्रयोश्च शतारकल्पे तथा सहस्रारे । कल्पे एतेषु सुरा बोव्याः शब्दप्रतीचाराः ॥ १०॥ ५ प्रवीचार ख-ग। Page #254 -------------------------------------------------------------------------- ________________ पर्यास्यधिकारः। टीका-सुक्कमहासुक्केसु य-शुक्रमहाशुक्रयोश्च, सदारकप्पे-शतारकल्पे, तहा-तथा, सहस्सारे-सहस्रारे च, कप्पे-कल्पे, एतेसु-एतेषु, सुरासुरा, देवाः, बोधव्वा-बोद्धव्याः, सद्दपडिचारा-शब्दप्रतीचाराः, शब्बे शब्देन वा प्रतीचारो येषां ते शब्दप्रतीचाराः । एतेषु शुक्रमहाशुक्रशतारसहस्रारकल्पेषु ये देवा देव्योऽपि च ते शब्दप्रतीचाराः, देववनितानां मधुरसंगीतमृदुललितकथितभूषणारवश्रवणमात्रादेवपरांप्रीतिमास्कंदंतीति॥१०॥ मनः प्रवीचारान् प्रतिपादयन्नाहः,आणदप्राणदकप्पे आरणकप्पे य अच्चुदे य तहा। मणपडिचारा णियमा एदेसु य होंति जे देवा ॥१०१॥ आनतप्राणतकल्पयोः आरणाकल्पे चाच्युते य तथा । मनः प्रतीचारा नियमादेतेषु च भवंति ये देवाः ॥१०१॥ टीका-आणदपाणदकप्पे-आनतप्राणतकल्पयोः, आरणकप्पेआरणकल्पे, अच्चुदे य तहा-अच्युते च तथैव देव्योऽपि, मणपडिचारामनः प्रतीचाराः, णियमा-नियमान्निश्चयेन एदेसु य-एतेषु च, होतिभवंति, जे देवा-ये देवाः । एतयो आनतप्राणतकल्पयोरारणाच्युतकल्पयोर्देवा मनः प्रतीचारा मानसिककामाभिलाषप्राप्तसुखाः स्वांगनामनःसंकल्पमात्रादेव परमसुखमवाप्नुवंतीति ॥ १०१॥ .. ___ अथोत्तरेषां किंप्रकारं सुखमित्युक्ते तंन्निश्चयार्थमाह; तत्तो परं तु णियमा देवा खलु होति णिप्पडीचारा। सप्पडिचारेहिं वि ते अणंतगुणसोक्खसंजुत्ता ॥१०२॥ ततः परतो नियमात् देवाः खलु भवति निःप्रतीचाराः। सप्रतिचारेभ्योपि ते अनंतगुणसौख्यसंयुक्ताः ॥ १०२॥ Page #255 -------------------------------------------------------------------------- ________________ २५. मूलाचारे . टीका-तत्तो-ततस्तेभ्यो भवनाद्यच्युतांतेभ्यः, परं तु-परत ऊर्द्ध, णियमा-नियमान्निश्चयादसंदेहात् देवा-अहमिंद्रादयः, खलु स्फुटं व्यक्तमेतत्प्रत्यक्षज्ञानिदृष्टमतत्, होंति-भवंति, णिप्पडीचारा-निष्प्रतीचारा प्रतीचारनिर्गता निष्प्रतीचाराः कामाग्निदाहविनिर्मुक्ताः । वनिता विषयपंचेंद्रियसुखरहिताः। यद्येवं किं तेषां सुखमित्याशंकायामाह,-सप्पडिचारेहिं वि-सप्रतीचारेभ्योऽपि कायस्पर्शरूपशब्दमन:प्रवीचारेभ्योऽपि ते नवप्रवेयकादिकेऽहमिंद्राः, अणंतगुणसोक्खसंजुत्ता-अनंतगुणसौख्ययुक्ता । अनंतो गुणो गुणकारो यस्य तदनंतगुणं अनंतगुणं च तत्सोख्यं चानंतगुणसौख्यं स्वायत्तसर्वप्रदेशानंदप्रीणनं तेन संयुक्ताः सहिताःतेभ्यो भवनायच्युतांतभ्यः परेषु नवग्रैवेयकनवानुत्तरेषु ये देवास्ते निश्चयेनाप्रतीचाराः सप्रतीचारेभ्योऽनंतगुणसंयुक्ताः, व्यक्तमेतत् प्रतीचारो हि वेदनाप्रतीकारस्तदभावे तेषां परमसुखमनवरतमिति ॥ १०२॥ कुतो यतः,जं च कामसुहं लोए जं च दिव्वं महासुहं। वीतरागसुहस्सेदे णंतभागंपि नग्धंदि ॥ १०३ ॥ . यच्च कामसुखं लोके यच्च दिव्यं महासुखं । - वीतरागसुखस्यैते अनंतभागमपि नाहति ॥ १०३॥ टीका-जं च-यच्च, कामसुहं-कामसुखं विषयोत्थजीवप्रदेशालादकारणं मनुष्यादिभवं लोए लेके तिर्यगू_धोभागेषु, जं च दिव्व महासुहं-दिवि भवं दिव्यं दिव्यं च तन्महासुखं च दिव्यमहासुखं भवनाद्यच्युतांतदेवोत्थं, वीदरागसुहस्स-वीतरागसुखस्य निर्मूलितमोहनीयादिकर्मकलंकस्य, एदे एतानि तिर्यङमनुष्यदेवजनितानि सुखानि, णंतभागांप-अनंतभागस्यापि वीतरागसुखस्यानंतराशिना भागे कृते यल्लब्धं नम्यानंतभागस्यापि णग्घति नार्घन्ति नार्हति सदृशानि न तानि तस्य मूल्यं Page #256 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकाराः। २५१ वा नार्हति । यतः सर्वाणि देवमनुष्यभोगभूमिजादिसर्वसुखानि वीतरागसुखस्यानंतभागमपि नार्हति, अतःनिष्प्रतीचारेषु देवेषु महत्सुखं सर्वान सप्रतीचारानपेक्ष्यति ॥ १०३ ॥ स्पर्शरसौ कामाविति व्याख्यातो तत्र स्पर्शः कामो देवानामवगतो रस:कामो नाद्यापीत्युक्ते तदर्थमाह;जदि सागरोवमाओ तदि वाससहस्सियादु आहारो। पक्खेहिं दु उस्सासो सागरसमयेहिं चेव भवे ॥ १०४॥ ___ यावत् सागरोपमायुः तावत् वर्षसहस्रैः आहारः । पक्षैस्तु उच्छ्रासः सागरसमयैश्चैव भवेत् ॥ १०४॥ ____टीका~जदि-यावत् यन्मात्रं, सागरोवमाऊ-सागरोपमायुः यावन्मात्रैः सागरोपमायुः तदि-तावन्मात्रैः, वाससहस्सिया-वर्षसहस्रैरतिक्रांतैराहारो *भोजनेच्छा आहाराभिलाषः यावन्मात्राणि सागरोपमाण्यायुस्तावन्मात्रर्षसहस्रैरतिकांतैराहारो *देवानां भवति । अथ गंधस्य कथमित्युक्तेऽत आह;-पक्खेहिंदु-पक्षैस्तु पंचदशाहोरात्रैः, उस्सासो-उच्छासो निःश्वासश्च गंधद्रव्याघ्राणं, सायरसमयहि-सागरसमयसमानैः सागरोप. मप्रमाणैः, चेव-चैव, भवे-भवेत् । यावन्मात्राणि सागरोपमाणि जीवंति देवास्तावन्मात्रैः पक्षैर्गतरुच्छासनिःश्वासौ भवतः । सौधर्मेशानयोर्देवानामा-- हारसंज्ञा भवति द्वयोर्वर्षसहस्रयोः साधियोर्गतयोस्तथा मासे साधिके गते उच्छासो भवेत् , सनत्कुमारमाहेंद्रयोर्देवानां सप्तभिर्वर्षसहस्रैः साधिकैगंतराहारच्छा जायते तावद्भिः पक्षैश्चोच्छासः साधिकैश्चशब्दाद्देवीनामंतर्मुहूर्तपृथक्त्वेनैवमुत्तरत्रापि सर्वत्र योज्यमिति ॥ १०४ ।। अथ येषां पल्योपमायुस्तेषामित्थाशंकायामाह;उक्कस्सेणाहारो वाससहस्साहिएण भवणाणं । जोदिसियाणं पुण भिण्णमुहुत्तेणेदि सेस उक्कस्सं ॥१०५॥ • पुष्पमध्यगतौ पाठौ. ख-ग-पुस्तको नेस्तः। Page #257 -------------------------------------------------------------------------- ________________ मूलाचारे उत्कष्टेन आहारो वर्षसहस्राधिकेन भवनानां । ज्योतिष्काणां पुनः भिन्नमुहूर्तेन इति शेषाणामुत्कृष्टं ॥ १०५ ॥ टीका - उक्कस्सेण - उत्कृष्टेनाहारी भोजनाभिप्रायः, वाससहस्स - वर्षसहस्रेण अहिएण - अधिकेन पंचदशवर्षशतैरित्यर्थः भवणाणां-भवनानां भवनवास्यसुराणां जोदिसियाणं - ज्योतिष्काणां चंद्रादित्यादीनां पुणपुनः भिण्णमुहुत्तेण भिण्णमुहूर्त्तेनेति, एवं सेस - शेषाणां नवानां भवनवासिकुमाराणां सर्वदेवीनां च, किंतु केषांचिन्मुहूर्त्त पृथक्त्वेन उक्कसं- उत्कृष्टं । असुराणां वर्षसहस्रेण साधिकेनाहारग्रहणं भवति, ज्योतिषां शेषकुमाराणां · व्यंतराणां सर्वदेवीनां चांतर्मुहूर्त्तेन, केषांचिदन्तर्मुहूर्त्त पृथक्त्वेनेति ॥ १०५ ॥ अथोच्छ्रासः कथं तेषामित्याशंकायामाह; -- उक्कस्सेणुस्सासो पक्खेणहिएण होइ भवणाणं । मुहुत्तपुधत्तेण तहा जोइसणागाण भोमाणं ॥ १०६ ॥ उत्कृष्टेन उच्छ्रासः पक्षेणाधिकेन भवनानां । २५२ , मुहूर्तपृथक्त्वेन तथा ज्योतिष्क नागभौमानां ॥ १०६ ॥ टीका -- उक्कस्से - उत्कृष्टेन, उस्सासो - उच्छ्रासः, पक्खेण पक्षेण, पंच'दशाहोरात्रेण अहिएण अधिक्रेन, होइ - भवति भवणाणं - भवनानामसुराणां मुहुत्त धत्तेण - मुहूर्त्त पृथक्त्वेन यद्यप्यत्र मुहूर्त्त पृथक्त्वमुक्तं तथाप्यत्रान्तमुहूर्त्त पृथक्त्वं ग्राह्यं तथोपदेशात् त्रैराशिकन्यायाद्भिन्नमुहूर्त्तानुवर्त्तनाच्च, तहा तथा तेनैव प्रकारेण, जोइसणागाण भोमाणं - ज्योतिष्क नागभौमानां तथाशब्देन शेषकुमाराणां । सुराणां पक्षेण साधिकेनोच्छासो नागानां कल्पवासिदेवीनां च, अंतर्मुहूर्त्त पृथक्त्वेन भिन्नमुहूर्त्त पृथक्त्वैव ज्योतिष्क भौमानां शेषकुमाराणां तद्देवीनां भिन्नमुहूर्त्तेनेति ॥ १०६ ॥ इंद्रिय विषयद्वारेणैव देननारकाणामवधिविषयं प्रतिपादयन्नाह - सक्कीसाणा पढमं विदियं तु सणक्कुमारमाहिंदा । बंभालं तव तदियं सुक्कसहस्सारया चउत्थी दु ॥ १०७ ॥ Page #258 -------------------------------------------------------------------------- ________________ पर्याप्स्यधिकारः। २५३ wwwwwwwwwwwwwwwwwmmmmmmmmmmmmwwwww शकैशानाः प्रथमं द्वितीयं तु सनत्कुमारमाहेंद्राः। ब्रह्मलांतवाः तृतीयं शुक्रसहस्रारकाः चतुर्थी तु ॥ १०७॥ टीका-पश्यंतीति क्रियापदमुत्तरगाथायां तिष्ठति तेन सह संबंधो द्रष्टव्यः । सक्कीसाणा शनशानाः सौधर्मेशानयोर्वा ये देवाः पढमं प्रथम प्रथमपृथिवीपर्यंतं यावत्, विदियंतु द्वितीयं तु द्वितीयपृथिवीपर्यंत सणकुमारमाहिंदा सनत्कुमारमाहेंद्रयो र्ये देवाः, बंभालंतव ब्रह्मलांतवा ब्रह्मब्रह्मोत्तर लांतवकापिष्ठेषु ये देवास्ते तदियं तृतीयां तृतीयपृथिवीपर्यन्तं, सुक्कसहस्सारया शुक्रसहस्रारकाः शुक्रमहाशुक्रशतारसहस्रारेषु ये देवास्ते चउत्थी हु चतुर्थपृथिवीपर्यंतमेव । सौधर्मेशानयोर्देवाः स्वावासमादिं कृत्वा प्रथमपृथिवीपर्यंतं यावदवधिज्ञानेन पश्यंति, तथा सनत्कुमारमाहेंद्रयोर्देवाः स्वावासमारभ्य यावद्वितीयावसानं तावत्पश्यंति, ब्रह्मब्रह्मोत्तरलांतवकापिष्ठेषु देवाः स्वविमानमादिं कृत्वा तावत्पश्यंति यावत्तृतीयपृथिवीपर्यन्तं, शुक्रमहाशुक्रशतारसहस्रारेषु सुराः स्वदेशमारभ्य तावत्पश्यति यावच्चतुर्थीसमाप्तिरिति ॥ १०७॥ ... तथा,पंचमि आणदपाणद छट्ठी आरणच्चुदा य पस्संति। णवगेवज्जा सत्तमि अणुदिस अणुत्तरा यलोगंत्तं॥१०८॥ पंचमी आनतप्राणताः षष्ठी आरणाच्युताश्च पश्यति । नवग्रैवेयकाः सप्तमी अनुदिशा अनुत्तराश्च लोकांतं ॥ १०८ ॥ टीका-पंचमि पंचमीं पृथिवीं आणादपाणद आनतप्राणांताः आनतप्राणतकल्पयोर्देवाः, छट्टी षष्ठी पृथिवीआरणाच्चदायआरणाच्युतांश्चारणाच्युतयों कल्पयार्ये देवास्ते पस्संति पश्यंति अवधिज्ञानेन सम्यगवलोकयंति, णवगवेज्जा नव ग्रैवेयका नवग्रैवेयकविमानेषु देवाः सत्तमि सप्तमीं पृथिवीं, अणुदिस अनुदिशेषु नवानुत्तरेषु देवाः अनुत्तरा य अनुत्तराश्च पंचानुत्तरेषु देवा Page #259 -------------------------------------------------------------------------- ________________ २५४ मूलाचारे लोगंतं लोकांतं अधोवातपर्यंत । आनतप्राणतकल्पोर्दवाः स्वविष्टरमारभ्य यावत्पंचमपृथिवीपर्यंतं तावत्पश्यति आरणाच्युतकल्पयोः पुनर्देवाः स्वावस्थानमारभ्य यावच्छष्ठपृथिवीपर्यंतं तावत्पश्यति, नवग्रैवेयकेषु देवाः स्वविमानमारभ्य यावत्सप्तमी तावत्पश्यंति, नेवानुदिशेषु पंचानुत्तरेषु च देवाः स्वदेवगृहमारभ्य यावल्लोकांतं पश्यंति, ऊर्द्ध पुनः सर्वे स्वविमानध्वजामं यावत्पश्यंत्यसंख्यातयोजनानि वा तिर्यक पुनरसंख्यातानि योजनानि पश्यंतीत्यर्थः ॥ १०८॥ व्यंतरादीनामवधिविषयमाहः-पणवीस जोयणाणं ओही वितरकुमारवग्गाणं । संखेजजायणोही जोदिसियाणं जहण्णं तु ॥ १०९ ॥ पंचविंशति योजनानां अवधिः व्यंतरकुमारवर्गाणां । संख्यातयोजनान्यवधिः ज्योतिषां जघन्यं तु ॥ १०९ ॥ टीका-पणवीस पंचविंशतिः जोयणाणं योजनानां ओही अवधिज्ञानं भवप्रत्ययजं वितर व्यंतराणां किंनराधष्टप्रकाराणां कुमारवग्गाणं कुमारवगाणां नागकुमारादिनवानां संखेज्जजोयण संख्यातयोजनानि सप्ताष्टादीनि ओही अवधिः जोदिसियाणं ज्योतिषां चतुः प्रकाराणां जहण्णं हु जघन्य एव । व्यंतराणां नागादिनवकुमाराणां च पंचविंशतियोजनान्यवधिर्जघन्यो भवति, ज्योतिष्काणां पुनर्जघन्यतोऽवधिः संख्यातयोजनानि, एतावन्मात्रं वस्तु परिछिंदंतीति ॥ १०९ ॥ __ असुरचंद्रादित्यादीनां जघन्यं सर्वेषामुत्कृष्टं चावधि प्रतिपादयन्नाह,:असुराणमसंखेज्जा कोडी जोइसिय सेसाणं। संखादीदा य खलु उक्कस्सोहीयविसओ दु॥ ११० ॥ असुराणामसंख्याताः कोट्यो ज्योतिडकाणां शेषाणां । संख्यातीताश्च खलु उत्कृष्टः अवधिविषयस्तु ॥ ११॥ Page #260 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २५५ टीका-असुराणं असुराणां प्रथमभवनवासिनां असंखेज्जा असंख्याताः कोडी कोट्यो योजनानामिति संबंधः, जघन्योवधिरसुराणां चंद्रादीनां चासंख्याता योजनकोट्यः, इत उत्कृष्टं ज्योतिष्कादीनामाह,जोइसिय ज्योतिष्काणां चंद्रादीनां सेसाणं शेषाणां भवनवासिव्यंतराणां निकृष्टकल्पवासिनां च संखादीदा य संख्यातीताश्च संख्यामतिक्रांताः 'असंख्याता योजनकोटीकोट्यः खलु स्फुटं उक्कस्सोही उत्कृष्टावधिः विस ओ विषयः । भवनवासिवानव्यंतरज्योतिष्काणामुत्कृष्टावधिविषयोऽसंख्याता योजनानां कोटीकोट्यः निकृष्टकल्पवासिनां च मिथ्यादृष्टीनां पुनर्विभंगज्ञानं संख्यातयोजनविषयमसंख्यात योजनविषयं चेति ॥ ११० ॥ नारकाणामवधिविषयं निरूपयन्नाहःरयणप्पहाए जोयणमेयं ओहीविसओ मुणेयव्यो। पुढवीदो पुढवीदो गाऊ अद्धद्ध परिहाणी ॥ १११ ॥ रत्नप्रभायां योजनमेकं अवधिविषयो ज्ञातव्यः। पृथिवीतः पृथिवीतो गव्यूतस्यार्धाध परिहानिः ॥ १११ ॥ टीका-रयणप्पहाय रत्नप्रभायां प्रथमपृथिव्यां जोयणमेयं योजनमेकं चत्वारि गव्यूतानि ओहीविसओ अवधिविषय अवधिज्ञानस्य गोचरो मुणेयव्वो ज्ञातव्यः, प्रथमपृथिव्यां नारकाणामवधिविषयो योजनप्रमाणं स्वस्थानमादिं कृत्वा यावद्योजनमात्रं पश्यति, मिथ्या दृष्टीनां विभंगज्ञानं स्तोकमानं ततोऽधः पुढवीदो पुढवीदो पृथिवीतः पृथिवीतः पृथिवीं प्रति पृथिवीं प्रति गाऊ गव्यूतस्य अद्धद्ध अर्द्धस्यार्द्धस्य परिहाणी परिहानिः गव्यूतार्द्धस्य परिक्षयः। द्वितीयायां पृथिव्यां त्रीणि गव्यूतानि गव्यूतार्द्ध च, सर्वत्र नारकाणामवधेर्विषयः संबंधनीयः; तृतीयायां त्रीणि गव्यूतानि, चतुझं द्वे ग-यूते साढे, पंचम्यां द्वे गव्यूते, षष्ठ्यां गव्यूतमेकं सार्द्ध, सप्तम्यामेकं गव्यूतं सम्यग्दृष्टीनामेतत् मिथ्यादृष्टीनां पुनर्विभंगाज्ञानमस्मान्यूनमिति । १११॥ Page #261 -------------------------------------------------------------------------- ________________ २५६ मूलाचारे पढमं पुढविमसण्णी पढमं विदियं च सरिसवा जंति। पक्खी जावदु तदियं जाव चउत्थी दु उरसप्पा॥११२॥ प्रथमां पृथिवीमसंज्ञिनः प्रथमां द्वितीयां च सरीसृपा यांति। पक्षिणो यावत् तृतीयां यावच्चतुर्थी तु उरःसर्पाः ॥ ११२ ॥ टीका-यांतीति क्रियापदं तेन सह संबंधः, प्रथमां पृथिवीमसंज्ञिनोऽमनस्का यांति प्रथमां द्वितीयां च पृथिवीं कृकलासादयो यांति, पक्षिणो सरीसृपगोध भेरुंडादयः प्रथमामारभ्य यावत्तृतीयां पृथिवीं यांति प्रथमामारभ्य यावच्चतुर्थी पृथिवीमुरः सर्पा अजगरादयो यांति।अत्र पापं कृत्वा तत्र च गत्वा दुःखमनुभवंतीति ।। ११२ ॥ . तथाःआ पंचमिति सीहा इत्थीओ जति छद्विपुढवित्ति। गच्छंति माघवीत्तिय मच्छा मणुया य ये पावा॥११३॥ आपंचामिति सिंहाः स्त्रियो यांति षष्ठीपृथिवीमिति । गच्छंति माधवीमिति च मत्स्या मनुजाश्च ये पापाः॥ ११३ ॥ टीका-आङभिविधौ द्रष्टव्यः आ पंचम्या इति । प्रथमामारभ्य यावत्पंचमी सिंहव्याघ्रादयो गच्छंति, स्त्रियः पुनर्महापापपरिणताः प्रथमामारभ्य षष्ठीपृथिव्यंतं यांति, मत्स्याः मनुष्याश्च ये पापा महाहिंसादिपरिणताः माधवीं सप्तमी पृथिवीं प्रथमामारभ्य गच्छंति । अयं पापशब्दः सर्वेषामभिसंबध्यते । यदि रौद्रध्यानेन हिंसादिक्रियायां परिणताः स्युस्तदा ते पापानुरूपं नरकं गत्वा दुःखमनुभवंतीति ॥ ११३ ॥ ____नारकाणामुपपादं प्रतिपाद्य तेषामुद्वर्त्तनं प्रतिपादयन्नाह,-- उव्वद्दिदाय संता रइया तमतमादु पुढवीदो। ण लहंति माणुसत्तं तिरिक्खजोणीमुवणयंति ॥ ११४॥ Page #262 -------------------------------------------------------------------------- ________________ पर्याप्स्यधिकारः। २५७ उद्वर्तिताः संतो नारकास्तमस्तमसः पृथिवीतः। नं लभंते मानुषत्वं तिर्यग्योनिमुपनयंति ॥ ११४॥ टीका-तमस्तमः पृथिव्या नारका उद्घर्त्तिताः संतः सप्तमनरकादगताः संतो मानुषत्वं मनुष्यभवं न लभंते न प्राप्नुवति सुष्ठु संक्लेशकारणं यतस्ततस्तिर्यग्योनमपनयंति सिंहव्याघ्रादिकं पुनः पापकारणं प्राप्नुवति ॥ ११४॥ - अथ केषु तिर्यसूत्पद्यत उत्पन्नाश्च क गच्छंतीत्याशंकायामाहः,वालेसु य दाढीमु य पक्खीसु य जलचरेसु उववण्णा। संखेजआउठिदिया पुणेवि णिरयावहा होंति ॥११५॥ व्यालेषु च दंष्ट्रीसु च पक्षिषु च जलचरेषु उत्पन्नाः। - संख्यातायुःस्थितिकाः पुनरपि निरयावहा भवंति ॥११५॥ - टीका-वालीसु व्यालेषु श्वापदभुजगेषु चशब्दादन्येष्वपि तत्समानेषु दाढीसु य दंष्ट्रिषु च सिंहव्याघ्रवराहादिषु पक्खीसु य पक्षिषु च गृध्रभेरुंडादिषु च जलयरेसु जलचरेषु तिमितिमिंगलादिमत्स्यमकरादिषु उववण्णा उत्पन्नाः संखेज्जाउहिदिया संख्यातायुःस्थितिर्येषां ते संख्यातायु:स्थितिकाः कर्मभू मिकर्मभूमिप्रतिभागजाः संतः पुणेवि पुनरपि पापवशात् णिरयावहा नरकावहा नारका होति भवंति नारककर्मसमानका भवंति । सप्तमपृथिव्या आगत्य व्यालदंष्ट्रिपक्षिजलचरेषूत्पद्य पुनरपि नरकं गच्छंतीति ॥ ११५ ॥ अथ षष्ठया आगताः कोत्पद्यते किं लभते किं च न लभंत इत्याशंकायामाहः,छट्ठीदो पुढवीदो उबट्ठिदा अणंतर भवम्हि ।। मज्जा माणुसलंभे संजमलंभेण दु विहीणा ॥ ११६ ॥ षष्ठ्याः पृथिव्या उद्वर्तिता अनंतर भवे। भाज्या मनुष्यलाभे संयमलाभेन तु विहीनाः ॥ ११६ ॥ टीका-षष्ठयाः पृथिव्या षष्ठनरकादुर्त्तिता आगताः संतोऽनंतरभवे तस्मिन् भाज्या विकल्पयुक्ताः मनुष्यलाभेन सम्यक्त्वलाभेन च, संयमलाभेन Page #263 -------------------------------------------------------------------------- ________________ २५८ मूलाचार तु विहींनाः । षष्ठनरकादागतानां तस्मिन् भवे कदाचिन्मनुष्यलाभः सम्यक्त्वलाभश्च भवति नापि भवति, संयमलाभस्तु निश्चयेन न भवतीति ॥११६॥ पंचमपृथिव्या आगता यल्लभंते यच्च न लभंते तदाह;होजदु संजमलामो पंचमखिदिणिग्गतस्स जीवस्स। णत्थि पुण अंतकिरिया णियमा भवसंकिलेसेण ॥११७॥ भवतु संयमलाभः पंचमक्षितिनिर्गतस्य जीवस्य । नास्ति पुनः अंतक्रिया नियमात् भवसंक्लेशेन ॥ ११७॥ टीका-पंचमपृथिव्या निर्गतस्य जीवस्य भवत्येव संयमलाभः, अंतक्रिया मोक्षगमनं पुनर्नियमान्नास्ति भवसंक्लेशदोषेणेति । यद्यपि पंचमनरकादागतस्य संयमलाभो भवति तथापि मोक्षगमनं नास्ति भवसंक्केशदोषेणेति ॥ ११७॥ चतुर्थ्या आगतस्य यद्भवति तदाह;होजदु णिव्वुदिगमणं चउत्थिखिदिणिग्गदस्स जीवस्स। णियमा तित्थयरत्तं णत्थित्ति जिणेहिं पण्णत्तं ॥११८॥ भवतु निर्वृतिगमनं चतुर्थीक्षितिनिर्गतस्य जीवस्य । नियमात्तीर्थकरत्वं नास्तीति जिनैः प्रज्ञप्तम् ॥ ११८॥ टीका-चतुर्थक्षितेरागतस्य जीवस्य भवत्येव निर्वृतिगमनं, तीर्थकरत्वं पुनर्निश्चयेन नास्ति जिनैः प्रज्ञप्रमेतत् । चतुर्थनरकादागतस्य यद्यपि निर्वृतिगमनं भवति जीवस्य तथापि तीर्थकरत्वं नास्ति, नात्र संदेहो जिनैः प्रतिपादितत्वादिति ॥ ११८॥ __ तत ऊर्द्धमाह;तेण परं पुढवीसु भयणिज्जा उवररिमा हु परइया। णियमा अणंतरभवे तिस्थयरत्तस्स उत्पत्ती ॥ ११९ । Page #264 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २५९ तेन परं पृथिवीषु च भजनीया उपरितमास्तु नारकाः। नियमादनंतरभवेन तीर्थकरत्वस्योत्पत्तिः॥ ११९ ॥ टीका--तेन परं तस्माश्च पृथिव्या ऊर्दू पुढवीसु य पृथिवीषु च प्रथमद्वितीयतृतीयप्रभासु भयणिज्जा भाज्या विभाज्या उवरिमा उपरितमा णेरइया नारकाः नियमादनंतरभवेन तीर्थकरत्वस्योत्पत्तिः । तृतीयद्वितीयप्रथमभ्यो नरकेभ्य आगतानां नारकाणां तेनैव भवेन संयमलाभो मोक्षगतिस्तीर्थकरत्वं च संभवति नात्र प्रतिषेध इति ॥ ११९ ॥ सप्तभ्यः पृथिवीभ्य आगतास्तेनैव भवेन यन्न लभते तदाह;णिरयेहिं णिग्गदाणं अणंतरभवम्हि णत्थि णियमादो। बलदेववासुदेवत्तणं च तह चक्कवदित्तं ॥ १२० ॥ नरकेभ्यो निर्गतानां अंतरभवे नास्ति नियमात् । बलदेववासुदेवत्वं च तथा चक्रवर्तित्वम् ॥ १२० ॥ टीका-नरकेभ्यो निर्गतानामनंतरभवे नास्ति नियमात् बलदेवत्वं वासुदेवत्वं तथा सकलचक्रवर्त्तित्वं च । नरकादागतस्य तेनैव भवेन बलदेववासुदेवचक्रवर्तिभावा न संभवंति संयमपूर्वका यतः नरके च संयमेन गमनं नास्तीति ॥ १२० ॥ नारकाणां गत्यागतिस्वरूपमुपसंहरन् शेषाणां च सूचयन्नाह;उववादोवदणमा णेरइयाणं समासदो भणिओ। एत्तो सेसाणं पिय आगदिगदिमो पवक्खामी १२१ ॥ उपपादोद्वर्त्तने नारकाणां समासतो भणिते । इतः शेषाणामपि च आगतिगती प्रवक्ष्यामि ॥ १२१ ॥ .... टीका-उपपादोदर्तने गत्यागती नारकाणां समासतो भणिते अति- . पादिते, इत ऊर्दू शेषाणां तिर्यजनुष्यदैवानां च ये संभक्तो गत्यागती ने प्रवक्ष्याम्यागमबलाद्भणिष्मामीति ॥ १२१ ॥ Page #265 -------------------------------------------------------------------------- ________________ मूलाचारे २६० wwwwwwwwwwwwwwwwwwwwwwwww सव्वमपज्जत्ताणं सुहुमकायाण सव्वतेऊणं । वाऊणमसण्णीणं आगमणं तिरियमणुसेहिं ॥ १२२ ॥ सर्वापर्याप्तानां सूक्ष्मकायानां सर्वतेजसा । वायूनामसंज्ञिनामागमनं तिर्यजनुष्येभ्यः ॥ १२२ ॥ टीका-सव्व सर्वेषां अपज्जत्ताणं अपर्याप्तानां सुहुमकायाणं सूक्ष्मकायानां सव्वतेऊणं सर्वतेजस्कायानां वाऊणं वायुकायानां असणीणं असंज्ञिनां अत्रापि सर्वशब्दः संबंधनीयः सर्ववायुकायानां सर्वासंज्ञिनां चागमनमागतिः तिरियमणुसेहिं तिर्यअनुष्यैः । पृथिवीकायिकाप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिका द्वीन्द्रियत्रीन्द्रियचतुरािंद्रयपंचेंद्रियाणां ये लब्ध्यपप्तिास्तेषु मध्यषु तिर्यंचो मनुष्याश्चोत्पद्यते तथा पृथिवीकायिकादिवनस्पतिपर्यन्तेषु सर्वसूक्ष्मेष्वपर्याप्तेषु तथा तेजःकायिकवायुकायिकेषु बादरेषु पर्याप्तापर्याप्तेषु असंशिषु च तिर्यजनुष्या एवोत्पद्यते न देवा नापि नारका न चैव भोगभूमिजा भोगभूमिप्रतिभागजाश्चति ॥ १२२ ॥ अतः पृथिवीकायादयो गत्वा क्वोत्पद्यत इत्याशंकायामाह;तिण्हं खलु कायाणं तहेव विगलिंदियाण सब्वेसिं। अविरुद्धं संकमणं माणुसतिरिएसु य भवेसु ॥ १२३॥ त्रयाणां खलु कायानां तथैव विकलेंद्रियाणां सर्वेषाम् । ।। अविरुद्धं संक्रमणं मानुषतिर्यक्षु च भवेषु ॥ १२३॥ टीका-तिण्हं त्रणायां खलु स्फुटं कायाणं कायानां पृथिवीकायाप्कायवनस्पतिकायानां तहेव तथैव विगलिंदियांणं सर्वेषां विकलेंद्रियाणां पर्यातापर्याप्तानां अविरुद्धं अप्रतिषिद्धं संक्रमणं गमनं माणुस मनुष्यभवे तिरिय तिर्यग्भवे । पृथिवीकायिकाप्कायिकवनस्पतिकायिकाः सर्वे विकलोंद्रियाश्चागत्य तिर्यक्षु मनुष्येषु चोत्पद्यते नात्र विरोध इति ॥ १२३ ॥ Page #266 -------------------------------------------------------------------------- ________________ पर्याप्यधिकार। २६१ .. तेजोवायूनां संक्रमणमाह;सब्वेवि तेउकाया सव्वे तह वाउकाइया जीवा। ण लहंति माणुसत्तं णियमादु अणंतरभवहिं॥१२४ ॥ सर्वेपि तेजाकायाः सर्वे तथा वायुकायिका जीवाः । न लभते मानुषत्वं नियमात् अनंतरभवेन ॥ १२४ ॥ टीका-सर्वेऽपि वादरसूक्ष्मपर्याप्तापर्याप्ता तेजस्कायिकास्तथैव सर्वे वादरसूक्ष्मपर्याप्तापर्याप्ताः वायुकायिका जीवा न लभंते न प्राप्नुवंति मनुध्यत्वं नियमात्तु अनंतरभवेन तेनैव भवेनेति ॥ १२४ ॥ प्रत्येकवनस्पतिपृथिवीकायाप्कायबादरपर्याप्तानामागमनमाह;पत्तेयदेहा वणप्फइ वादरपज्जत्त पुढवि आऊय । माणुसतिरिक्खदेवेहि चेवाइंति खलु एदे ॥ १२५॥ प्रत्येकदेहा वनस्पतयो बादराः पर्याप्ताः पृथिवी आपश्च। मानुषतिर्यग्देवेभ्यः एव आयांति खलु एते ॥ १२५ ॥ .. टीका-प्रत्येकदेहाः नालिकेरादिवनस्पतयः बादराः पर्याप्ता पृथिवीकायिका आपूायिकाश्चैतेऽपि बादराः पर्याप्तापर्याप्ताश्च मनुष्यतिर्यग्देवेभ्य एवायांति स्फुटमेतत् नान्येभ्य इति । मनुष्यतिर्यग्देवाः संक्लिष्टा आर्तध्यानपरा मिथ्यादृष्टय आगत्य प्रत्येकवनस्पतिपृथिवीकायिकापायिकषूत्पयंत इति ।। १२५॥ __ असंज्ञिपर्याप्तानां संक्रमणमाह;अविरुद्धं संकमणं असण्णिपज्जत्तयाण तिरियाणं । माणुसतिरिक्खसुरणारएसुण दु सब्यभावेसु ॥ १२६ ।। अविरुद्धं संक्रमणं असंज्ञिपर्याप्तकानां तिरश्चां। मानुषतिर्यक्र नारकेषु न तु सर्वभावेषु ॥ १२६ ॥ Page #267 -------------------------------------------------------------------------- ________________ २६२ मूलाचारे टीका-असज्ञिपर्याप्तकानां तिरश्चां संक्रमणमविरुद्धं न विरोधमुपयाति क मनुष्यतिर्यक्सुरनारकेषु चतसृषु गतिष्वपि व्रजंति न तु सर्वभावेषु नैव सर्वेषु नारकतिर्यङ्मनुष्यदेवपर्यायेषु यतः प्रथमायामेव पृथिव्यामुत्पद्यतेऽसंज्ञिनस्तथा देवेषु भवनवासिव्यंतरज्योतिष्कघूत्पद्यते नान्यत्र तथा भोगभूमिजेषु तत्प्रतिभागजेष्वन्येष्वपि पुण्यवत्सु तिर्यङ्मनुष्येषु नोत्पद्यते ॥ १२६ ॥ __ अथासंख्यातायुषः केभ्य आगच्छंतीत्याह,संखादीदाओ खलु माणुसतिरिया दु मणुयतिरियेहिं । संखिज्जआउगेहिं दुणियमा सण्णीय आयंति ॥१२७ ।। संख्यातीतायुषः खलु मानुषतिर्यंचस्तु मनुष्यतिर्यग्भ्यः । संख्यातायुष्केभ्यस्तु नियमात् संज्ञिभ्यः आयान्ति ॥ १२७ ॥ टीका-संख्यातीतायुषः भोगभूमिजा भोगभूमिप्रतिभागजाश्च मनुष्यस्तिर्यंचः संख्यातायुष्केभ्यो मनुष्यतिर्यग्भ्यः संज्ञिभ्योऽपि नियमनायांति व्यक्तमतत् नान्यत्र दानानुमोदोऽदत्तादानफलं च यत इति ॥ १२७ ॥ __ अथ संख्यातीतायुषो मृत्वा कां गतिं गच्छंतीत्याशंकयामाह,-- संखादीदाऊणं संकमणं णियमदो दु देवेसु । पयडीए तणुकसाया सबसि तेण बोधव्वा ॥ १२८ ।। संख्यातीतायुषां संक्रमणं नियमस्तु देवेषु । प्रकृत्या तनुकषायाः सर्वेषां तेन बोद्धव्याः ॥ १२८ ।। टीका-संख्यातीतायुषां भोगभूमिजानां भोगभूमिप्रतिभागजानां च संक्रमणं मृत्वोत्पादः नियमतस्तु देवेषु, कुत एतत् यतः प्रकृत्या स्वभावेन तेषां तनवोल्पाः कषायाः क्रोधमानमायालोभास्तेन ते देवेषूत्पद्यत इति ज्ञातव्यं नात्र शंका कर्त्तव्येति ॥ १२८॥ Page #268 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २६३ __ अथ केभ्य आगत्य शलाका पुरुषा भवंति केभ्यश्च न भवंतीत्याशंका यामाह;माणुस तिरियाय तहा सलागपुरिसा ण होंति खलु णियमा। तेसिं अणंतरभवे भयणिज्ज णिव्वुदीगमणं ॥ १२९॥ मनुष्या स्तिय॑चश्च तथा शलाकापुरुषा न भवंति खलु नियमात् । तेषां अनंतरभवे भजनीयं निवृतिगमनं ॥ १२९॥ टीका-मनुष्यास्तथा तिर्यचश्च शलाकापुरुषास्तीर्थकरचक्रवर्त्तिबलदेववासुदेवा न भवंति नियमात् निर्वतिगमनं तु भाज्यं तेषां कदाचिदनंतर भवे न तेनैव भवे नवा भवति मनुष्याणां, न तु तिरश्चां युक्तमेतत् निर्वृतिगमनकारणं तु भवत्येव तिरश्चामपि सम्यत्कादिकं तेन न दोष इति ॥१२९॥ अथ मिथ्योपपादः के इत्याशंकायामाह;सण्णि असण्णीण तहा वाणेसु य तह य भवणवासीसु। उववादो वोधव्वो मिच्छादिट्ठीण णियमादु ॥ १३०॥ संज्ञिनां असंज्ञिनां तथा वानेषु च तथा च भवनवासिषु । उपपादो बोद्धव्यो मिथ्यादृष्टीनां नियमात् ॥ १३०॥ टीका-संज्ञिनामसंज्ञिनां च मिथ्यादृष्टीनां उपपादो मृत्वोत्पत्तिः कदाचिदानव्यंतरेषु कदाचिद्भवनवासिषु च वोद्धव्यो नियमेन, नात्र विरोध एतेषूत्पद्यतेऽन्यत्र च परिणामवशादिति ॥ १३०॥ अथ ज्योतिकिषु क उत्पद्यत इत्याशंकायामाह;संखादीदाऊणं मणुयतिरिक्खाण मिच्छभावेण । उववादो जोदिसिए उक्कस्सं तावसाणं दु ॥ १३१ ॥ संख्यातीतायुषां मनुष्यतिरश्चां मिथ्यात्वभावेन । उपपादो ज्योतिष्केषु उत्कृष्टस्तापसानां तु ॥ १३१ ॥ १ क्व इति भाति । Page #269 -------------------------------------------------------------------------- ________________ २६४ - मूलाचारे टीका-संख्यातीतायुषामसंख्यातवर्षप्रमाणायुषां मनुष्याणां तिरश्चा च मिथ्यात्वभावेनोपपादः भवनवास्यादिषु ज्योतिष्कदेवेषु कंदफलायाहाराणां तापसानां चोत्कृष्ट उपपाद स्तेष्वेवं ज्योतिष्केषु शुभपरिणामेनान्येनेति ॥ १३१॥ अथाजीवकपरिव्राजकानां शुभपरिणामेन कियदूरगमनमित्याशंकायामाह;परिवायगाण णियमा उक्कस्सं होदि वंभलोगम्हि । उक्कस्स सहस्सारत्ति होदि य आजीवगाण तहा॥१३२॥ परिव्राजकानां नियमात् उत्कृष्टो भवति ब्रह्मलोके । उत्कृष्टः सहस्रार इति भवति च आजीवकानां तथा ॥ १३२ टीका-परिव्राजकानां संन्यासिनां शुभपरिणामेन नियमात् उत्कृष्ट उपपादो भवनवास्यादिब्रह्मलोके भवंति, आजीवकानां तथोपपादो भवन वास्यादि सहस्रारं यावद्भवति सर्वोत्कृष्टाचरणेन मिथ्यात्वभावेन शुभपरिणामेनेति वक्तव्यं नान्यथेति । अन्येषां च लिंगिनां भवनादिषु च द्रष्टव्यं शुभपरिणामेनेति ॥ १३२ ॥ __ अथोज़ क उप्तयंत इत्याह;तत्तो परं तु णियमा उवावादो णत्थि अण्णलिंगीणं । णिग्गंथसावगाणं उववादो अच्चुदं जाव ॥ १३३ ॥ ततः परं तु नियमात् उपपादो नास्ति अन्यलिंगिनां । निर्ग्रथश्रावकाणां उपपादः अच्युतं यावत् ॥ १३३ ॥ टीका-ततः सहस्रारादूर्ध्व परेषु कल्पेषु नियमादुपपादो नास्त्यन्यलिंगिनां परमोत्कृष्टाचरणेनापि, निग्रन्थानां श्रावकाणां आर्यिकाणां च शुभ परिणामेनोत्कृष्टाचरणेनोपपादः सौधर्ममादिं कृत्वा यावदच्युतकल्पः निश्चि. तमेतदिति ॥ १३३ ॥ Page #270 -------------------------------------------------------------------------- ________________ पर्याप्स्यधिकारः। २६५ - अथाभव्या जिनलिंगेन कियडूरं गच्छंतीत्याशांकायामाह;जाउवरिमगेवेज्ज उववादो अभवियाण उक्कस्सो। उक्कद्वेण तवेण दुणियमा णिग्गंथलिंगेण ॥ १३४ ॥ यावत् उपरिमौवेयकं उपपादः अभव्यानां उत्कृष्टः। उत्कृष्टेन तपसा तु नियमान्निलिंगेन ॥ १३४॥ टीका--अभव्यानां निर्ग्रन्थलिंगेनोत्कृष्टतपसा निश्चयेनोत्पाद उत्कृष्टः भवनवासिनमादिं कृत्वोपरिमौवेयकं यावन्मिथ्यात्वभावेन शुभपरिणामेन रागद्वेषाद्यभावेनेति वक्तव्यं ॥ १३४ ॥ अथोपरि के न गच्छंतीत्याशंकायामाह;तत्तो परंतु णियमा तवदंसणणाणचरणजुत्ताणं । णिग्गंथाणुववादो जावदु सवठसिद्धित्ति ॥ १३५ ॥ ततः परं तु नियमात् तपोदर्शनज्ञानचरणयुक्तानाम् । निर्ग्रथानामुपपादः यावत् सर्वार्थसिद्धिरिति ॥ १३५॥ टीका-ततः सर्वोत्कृष्टय़वेयकादूर्ध्व परेषु नवोनुत्तरादिषु सौधर्मादिषु च निम्रन्थानां सर्वसंगपरित्यागिनां तपोदर्शनज्ञानचरणयुक्तानां चरमदेहिनां शुभपरिगामिनां निश्चयेनोपपादः सर्वार्थसिद्धिर्यावत् । सर्वार्थसिद्धिमंतं कृत्वा सर्वेषु सौधर्मादिषूत्पद्यंत इति ॥ १३५ ॥ __ अथ देवा आगत्य कोत्पद्यंत इत्याशंकायामाह; आईसाणा देवा चएत्तु एइंदिएत्तणे भज्जा । तिरियत्तमाणुसत्ते भयणिज्जा जाव सहसारा ॥ १३६ ॥ आ ईशानात् देवाः च्युत्वा एकेंद्रियत्वेन भाज्याः। तिर्यक्त्वमानुषत्वेन भजनीया यावत् सहस्रारं ॥ १३६ ॥ टीका-भवनवासिनमादिं कृत्वा आ ईशानात् ईशानकल्पो यावत् देवाश्च्युत्वा एकेंद्रियत्वेन भाज्याः कदाचिदार्तध्यानेनागत्य पृथिवीकायिकाप्कायिकप्रत्येकवनस्पतिकायिकेषु बादरेषूत्पयंत परिणामवशेनान्येषु पंचें Page #271 -------------------------------------------------------------------------- ________________ २६६ मूलाचारे द्रियपर्याप्ततिर्यङ्मनुष्येषु भोगभूमिजादिवर्जितेषु तत ऊर्द्ध सहस्रारं यावत् देवाश्च्युत्वा तिर्यक्तेन मनुष्यत्वेन च भाज्याः नैते एकेंद्रियेषूत्पद्यते पुनस्तिर्यग्ग्रहणान्नारकदेवविकलेंदियासंज्ञिसूक्ष्मापर्याप्तसर्वतेजोवासुभोगभूमिजादिषु सर्वे देवा नोत्पद्यंत इति च द्रष्टव्यं ॥ १३६ ॥ __ उपरितनानामाह;तत्तो परंतु णियमा देवावि अणंतरे भवे सब्वे । उववज्जति मणुस्से ण तेसिं तिरिएमु उववादो ॥१३७॥ ततः परं तु नियमात् देवा अपि अनंतरे भवे सर्वे । उत्पद्यते मानुष्ये न तेषां तिर्यक्षु उपपादः ॥ १३७ ॥ टीका-ततः सहस्रारादुपरि नियमाद्देवाः सर्वेऽपि अनंतरभवेन मनुष्येघूत्पद्यते न तेषां तिर्यसूपपादः च्यवनकाले महतः संक्लेशस्याभावो यत इति ॥ १३७ ॥ ___ शलाकापुरुषा आगत्य ये देवा न भवंति तान्प्रतिपादयन्नाह; आजोदिसित्ति देवा सलागपुरिसा ण होंति तेणियमा। तेसिं अणंतरभवे भयणिज्जं णिव्वुदीगमणं ॥१३८॥ आज्योतिष इति देवा शलाकापुरुषा न भवंति ते नियमात् । तेषामनंतरभवे भाज्यं निर्वृतिगमनं ॥ १३८ ॥ टीका-आ ज्योतिषो देवा भवनवासिन आदौ कृत्वा ज्योतिष्का यावद्देवाः शलाकापुरुषा न भवंति तीर्थकरचक्रवर्तिबलदेववासुदेवा न भवंतीति निश्चयेन निवृतिगमनं पुनस्तेषामनंतरभवे भाज्यं कदाचिद्भवति कदाचिन्नेति तस्य सर्वथा प्रतिषेध्योनास्तीति ॥ १३८ ॥ अथ के शलाकापुरुषा भवंतीत्याशंकायामाह;तत्तो परंतु गेवेजं भयणिज्जा सलागपुरिसा दु । तेसिं अणंतरभवे भयणिज्जा णिव्वुदीगमणं ॥ १३९॥ .१ गेवनं इत्यपि पाठः। Page #272 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकाराः। २६७ ततः परं तु गैवेयकं भजनीयाः शलाकापुरुषास्तु । तेषामनंतरभवे भजनीयं निर्वृतिगमनं ॥ १३९ ॥ टीका-ततः परं सौधर्मप्रारभ्य नवौवयेकं यावत्तेभ्यो देवा आगत्य शलाकापुरुषा भवंति न भवंतीति भाज्यास्तेषामनंतरभवेन च निवृतिगमन.. भाज्यं कदाचिद्भवति कदाचिन्नेति ॥ १३९ ॥ तत ऊर्ध्वं वासुदेवा आगत्य भवंतीति प्रतिपादयन्नाह;णिव्वुदिगमणे रामत्तणे य तित्थयरचक्कवट्टित्ते । अणुदिसणुत्तरवासी तदो चुदाहोंति भयणिज्जा॥१४०॥ निवृत्तिर्गमनेन रामत्वेन च तीर्थकरचक्रवर्तित्वेन । अनुदिशानुत्तरवासिनः तेभ्यः च्युता भवंति भजनीया ॥ १४०॥ टीका-निर्वृतिगमनेन रामत्वेन तीर्थकरत्वेन चक्रवर्तित्वेन च भाज्याः अनुदिशानुत्तरवासिनो देवास्तेभ्यो विमानेभ्यश्च्युताः संतः कदाचित्तीर्थकररामचक्रवर्तिनो मुक्ताश्च भवंति न भवंति च, वासुदेवाः पुनर्न भवंति. एवेति ॥ १४० ॥ ये पुनर्निश्चयेन निवृतिं गच्छंति तान् प्रतिपादयन्नाह;सव्वट्ठादो य चुदा भज्जा तित्थयरचक्कवद्वित्ते । रामत्तणेण भज्जा णियमा पुण णिव्वुदि जति ॥१४१॥ सर्वार्थाच च्युता भाज्याः तीर्थकरचक्रवर्तित्वेन । रामत्वेन भाज्या नियमात् पुननिर्वृतिं यांति ॥ १४१ ॥ टीका-सर्वार्थात्सर्वार्थसिद्धेश्च्युता देवास्तीर्थकरत्वेन चक्रवर्तित्वेन रामत्वेन च भाज्याः, निर्वृतिं पुनर्निश्चयेन यांत्येव न तत्र विकल्पः सर्वे त आगत्य चरमदेहा भवंति तीर्थकरचक्रवर्तिगमविभूतिं भुक्का मंडलिकदिविभूतिं च संयममादाय नियमान्मुक्तिं गच्छति ॥ १४१॥ Page #273 -------------------------------------------------------------------------- ________________ २६८ मूलाचारे पुनरपि निश्चयेन ये ये सिद्धिं गच्छंति तान् प्रतिपादयन्नाह;सक्को सहग्गमहिसी सलोगपाला य दक्खिणिंदा य ॥ लोगतिगा यणियमा चुदादु खलुणिव्वुदि जंति ॥१४२॥ शक्रः सहायमहिषी सलोकपालाश्च दक्षिणेंद्राश्च । लोकांतिकाश्च नियमात् च्युतास्तु खलु निर्वृतिं यांति । १४२ ॥ टीका-शक्रः सौधर्मेंद्रः सहाग्रमहिषी अग्रमहिषी शची तया सह वर्तत इति साग्रमहिषी सलोकपालाः लोकान् पालयंतीति लोकपालाः चरारक्षिकसमानास्तैः सह वर्तन्त इति सलोकपालाः दक्षिणेंद्राश्च दक्षिणशब्दः प्रथमोच्चरणे वर्त्तते तेन सनत्कुमारब्रह्मलांतवशतारानतारणेन्द्राणां ग्रहणं च शब्देनान्येषां च, लोकांतिकाश्च सारस्वतादित्यवह्नयरुणन्द्रगर्दतोयतुषिताव्याबाधारिष्टाश्चाष्टप्रकारा ब्रह्मलोकवासिनो देवर्षयो नियमात् च्युता मनुष्यक्षेत्रमागता निवृतिं यांति । सौधर्मो मनुष्यभवं प्राप्य मोक्षं याति तथा तस्याग्रमहिषी लोकपालाश्च मनुष्यत्वं प्राप्य नियमतो निर्वृति यांति तथा दक्षिणेद्रा लौकांतिकाश्च चरमदेहतां प्राप्य निश्चयेन मुक्तिं गच्छांते स्फुटमेतन्नात्र संदेह इति ॥ १४२ ॥ ___ गत्यागत्यधिकारं समुच्चयन्नाह;एवं तु सारसमए भणिदा दु गदीगदी मया किंचि । णियमादु मणुसगदिए णिव्वुदिगमणं अणुण्णादं॥१४३॥ एकेन्द्रियादयः प्राणाः चतुर्दश तु भवंति जीवस्थानानि । गुणस्थानानि च चतुर्दश मार्गणास्थानान्यपि तथैव ॥ १४३॥ टीका--एवं तु अनेन प्रकारेण सारसमये ब्याख्याप्रज्ञप्तयां सिद्धांते तस्माद्वा भणिते गत्यागती गतिश्च भणिता आगतिश्च भणिता मया किंचित् स्तोकरूपेण । सारसमयादुद्धृत्य गत्यागतिस्वरूपं स्तोकं मया प्रतिपादितमित्यर्थः । निर्वृतिगमनं पुनर्मनुष्यगत्यामेव निश्चयेनानुज्ञातं जिनवरैर्नान्यासु गतिषु तत्र संयमाभावादिति ॥ १४३ ॥ Page #274 -------------------------------------------------------------------------- ________________ पर्याप्तत्यधिकारः । अथ कैः किंभूताः कैः कृत्वा निर्वृतिं यांतीत्याशंकायामाह; -- सम्मर्द्दसणणाणेहिं भाविदा सयलसंजमगुणेहिं । fugविसव्वकम्मा णिग्गंथा णिव्वुदिं जंति ॥ १४४ ॥ सम्यग्दर्शनज्ञानाभ्यां भाविताः सकलसंयमगुणैः । निष्ठापितसर्वकर्माणो निर्मन्था निर्वृतिं यांति ॥ १४४ ॥ २६९ टीका - सम्यग्दर्शनज्ञानाभ्यां भाविताः सकलसंयम गुणैश्च भाविताःयथाख्यातसंयमविशुद्धिवर्द्धिता निष्ठापितसर्वकर्माणः विनाशितसर्वकर्मभूता संतो निर्ग्रथा अनंतचतुष्टयसहाया निर्वृतिं यांति नात्र संदेह इति ॥ १४४ ॥ अथ ते तत्र गत्वा कीदृग्भूतं सुखमनुभवंति कियंतं कालमधितिष्ठतीत्याशंकायामाह; - ते अजरमरुजममरमसरीर मक्खयमणुवमं सोक्खं । अव्वाबाधमर्णतं अणागदं कालमत्थंति ॥ १४५ ॥ ते अजरमरुजममर मशरीरमक्षयमनुपमं सौख्यं । अव्याबाधमनंतं अनागतं कालं तिष्ठति ॥ १४५ ॥ टीका - मुक्तिं प्राप्ता अजरं न विद्यते जरावस्था वृद्धत्वं यत्र तदजरं, न विद्यते रुजा रोगों यत्र तदरुजं; न म्रियते यत्र तदमरं, अशरीरं औदारिकादिपंचशीररहितं, अक्षयं क्षयरहितं शाश्वतं सुखं अनंतज्ञानदर्शनसुखवीर्यरूपं, अव्याबाधं अन्योपघातविनिर्मुक्तं, अनंतमनागतं कालमधितिष्ठंति भविष्यत्कालपर्यंतं परमसुखे निमग्नास्तिष्ठतीति ॥ १४५ ॥ गत्यागतिस्वरूपं निरूप्य स्थानाधिकारं प्रतिपादयन्नाह; - एइंदियादि पाणा चौद्दस दु हवंति जीवठाणाणि । गुणठाणाणि य चौदस मग्गणठाणाणिवि तहेव १४६ ॥ Page #275 -------------------------------------------------------------------------- ________________ २७० मूलाचारे एकेंद्रियादयः प्राणाः चतुर्दश तु भवंति जीवस्थानानि । गुणस्थानानि च चतुर्दश मार्गणास्थानान्यपि तथैव १४६ ___टीका-जीवस्थानान्याधारभूतानकेंद्रियादीन् प्रतिपादयति एकेंद्रियादय एकं सूत्रं प्राणो द्वितीयं सूत्रं चतुर्दश जीवस्थानानि भवंति तृतीयं सूत्रं गुणस्थानानि चतुर्दश चतुर्थ सूत्रं मार्गणास्थानानि चतुर्दश भवांत पंचमं सूत्रं पंचत्रिःसंग्रहस्तत्र संग्रहस्थानसूत्रं व्याख्यायते-जीवास्तिष्ठति येषु तानि जीवस्थानानि, गुणा मिथ्यात्वादयो निरूप्यंते येषु तानि गुणस्थानानि, जीवा मृग्यते येषु यैर्वा तानि मार्गणास्थानानि इति ॥ १४६ ॥ अथ का मार्गणाऽऽदौ जीवगुणमार्गणा का इत्याशंकायामाह;गदिआदिमग्गणाओ परूविदाओ य चोदसा चेव । एदेसिं खलु भेदा किंचि समासेण वोच्छामि ॥ १४७॥ गत्यादिमार्गणाः प्ररूपिताश्च चतुर्दश चैव । एतेषां खलु भेदाः कियंतः समासेन वक्ष्यामि ॥ १४७ ॥ टीका-गत्यादिमार्गणाश्चतुर्दश एवागमे निरूपिताः, चशब्दाद्वादरेकेंद्रियादीनि जीवस्थानानि चतुर्दश मिथ्यादृष्ट्यादीनि गुणस्थानानि चतुदशेत्येतेषां भेदान्कियतः समासेन संक्षेपेण प्रवक्ष्यमीति ॥ १४७ ॥ एवं सर्वमाक्षिप्यकेंद्रियादिभेदाँस्तावत्प्रातिपादयन्नाह;एइंदियादि जीवा पंचविधा भयवदा दु पण्णत्ता। पुढवीकायादीया विगला पंचेंदिया चेव ॥१४८॥ एकेंद्रियादयः जीवाः पंचविधा भगवता दु प्रज्ञप्ताः । पृथिवीकायादयः विकलाः पंचेंद्रिया एव ॥ १४८ ॥ टीका-ये एकेंद्रियादयो जीवाः संग्रहसूत्रेण सूचितास्ते पंचविधाः पंचप्रकारा एव भगवता प्रज्ञप्ताः । के ते पंचप्रकारा इत्याशंकाथामाह; Page #276 -------------------------------------------------------------------------- ________________ minnnnnnnnnnnarrammarrrrrrrrrrrrrrrrrrrry पर्याप्त्यधिकारः। २७१ mammmmmmmmm पृथिवीकायिकादय एकः प्रकारः, विकलेंद्रिया द्वितीयः प्रकारः, त्रींद्रिया: स्तृतीयः प्रकारः, चतुरिंद्रियाः चतुर्थः प्रकारः, तथा पंचेंद्रियाः पंचमः प्रकारः । पंचप्रकारा एव न षट्प्रकार नापि चत्वार इति ॥ १४८॥ पृथिवीकायादिभेदा उत्तरत्र प्रबंधेन प्रतिपाद्यंत इति कृत्वा द्वीन्द्रियादीन प्रतिपादयन्नाह;संखो गोभी भमरादिया दु विगलिंदिया मुणेदव्वा । पंचेंदिया दु जलथलखचरा सुरणारयणरा य ॥१४९ ॥ शंखो गोभी भ्रमरादयस्तु विकलेंद्रिया ज्ञातव्याः । पंचेंद्रियास्तु जलस्थलखचराः सुरनारकनराश्च ॥ १४९ ।। टीका--आदिशब्दः प्रत्येकमभिसंबध्यते; शंखादयःभ्रमरादयः,गोभ्यादयः विकलेंद्रिया द्वीन्द्रियाःत्रीन्द्रियाश्चतुरिंद्रिया यथासंख्येनाभिसंबध्यते। एते शंखकृम्यक्षवराटकक्षुल्लगंडूपदादयः द्वीन्द्रिया ज्ञातव्याः, गोभीकुंथुपिपीलिकामत्कुणवृश्चिकयूकेंद्रगोपादयस्त्रीन्द्रिया ज्ञातव्याः, भ्रमरमधुकरीदंशकपतंगमक्षिकादयश्चतुरिंद्रिया ज्ञातव्याः, पंचेंद्रियास्तु जलचराः स्थलचराः खचराः सुरा नारका नराश्च ज्ञातव्या इति ॥ १४९ ॥ प्राणान् प्रतिपादयन्नाह;पंचय इंदियपाणा मणवचकाया दु तिण्णि बलपाणा। आणप्पाणप्पाणा आउगपाणेण होते दस पाणा १५० . पंचैव इंद्रियाणि प्राणा मनोवचनकायास्तु त्रयो बलप्राणाः। आनप्राणः प्राणः आयुःप्राणेन भवंति दश प्राणाः ॥ १५० ॥ टीका--पंचेंद्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पंच , प्राणाः मनोवचः कायास्तु बलरूपास्त्रयः प्राणाः आनप्राणावुच्छासनिःश्वासलक्षण एकः प्राणा आयुर्भवधारणलक्षणं पुद्गलप्रचय एकः प्राणा एवमेते दश प्राणा भवंतीति ॥ १५० ।। Page #277 -------------------------------------------------------------------------- ________________ २७२ मूलाचारे एकेंद्रियादीनां प्राणानां च स्वस्वामिसंबंध प्रतिपादयन्नाह;-- इंदिय बल उस्सासा आऊ चदु छक्क सत्त अद्वैव । एगिदिय विगलिंदिय असण्णि सण्णीण णव दस पाणा ॥ १५१ ॥ इंद्रियं बलं उच्छ्रास आयुः चत्वारः षट् सप्त अष्ट्रैव। एकेंद्रियस्य विकलेंद्रियस्य असंज्ञिनः संज्ञिनो नव दश प्राणाः॥ टीका-इंद्रियं स्पर्शनेंद्रियमेकः प्राणः, बलं कायबलं द्वितीयः प्राणः, उच्छासस्तृतीयः प्राणः, आयुश्चतुर्थः प्राणः, एते चत्वारः प्राणा एकेंद्रियस्य पर्याप्तस्य भवंति पर्याप्तिरहितस्य पुनरुच्छ्वासरहिता भवंति । द्वीन्द्रियस्य पर्याप्तस्य स्पर्शनरसनकायबलवाग्बालोच्छासायूंषि षट् प्राणा भवंति, अपर्याप्तस्य त एव वागुच्छ्वासरहिताश्चत्वारः । त्रीन्द्रियस्य पर्याप्तस्य स्पर्शनरसनघाणकायबलवाग्बलोच्छ्वासायूंषि षट् प्राणा भवंति, त एव वागुच्छ्वासरहिताः पंचापर्याप्तस्य । स्पर्शनरसनघ्नाणचक्षुः कायबलवाग्वलोच्छ्रासायूंष्यष्टौ प्राणाश्चतुरिंद्रियस्य पर्याप्तस्य भवंति वागुच्छासरहिंतास्त एव षडपर्याप्तस्य भवंति । पंचेंद्रियस्य कायबलवाग्बलोच्छ्वासायूंषि चासंज्ञिनः पर्याप्तस्य नव प्राणा भवंति त एव वागुच्छ्वासरहिताः सप्त भवंत्यपर्याप्तस्य । संज्ञिनः पर्याप्तस्य पुनः सर्वेऽपि दश प्राणा भवंति, अपर्याप्तस्य मनोवागुच्छासरहितास्त एव सप्त भवंति ॥ १५१ ॥ जीवसमासान्निरूपयन्नाह;मुहमा वादरकाया ते खलु पज्जत्तया अपज्जत्ता । एइंदिया दु जीवा जिणंहिं कहिया चदुवियप्पा ॥ १५२ सूक्ष्मा बादरकायास्ते खलु पर्याप्तका अपर्याप्तकाः। .. एकेंद्रियास्तु जीवा जिनैः कथिताः चतुर्विकल्पाः ॥ १५२ ॥ : Page #278 -------------------------------------------------------------------------- ________________ पर्याप्यधिकारः । २७३ टीका - ते पुनरेकेंद्रिया बादर सूक्ष्मपर्याप्तभेदेन जिनैश्चतुर्विकल्पाः कथिता इति कृत्वा चत्वारो जीवसमासा भवतीति ॥ १५२ ॥ शेषजीवसमासान् प्रतिपादयन्नाह;-- पज्जत्तापज्जत्तां वि होंति बिगलिंदिया दु छठभेया । पज्जत्तापज्जत्ता सण्णि असण्णीय सेसा दु ॥ १५३ ॥ पर्याप्ता अपर्याप्ता अपि भवंति विकलेंद्रियास्तु षड्भेदाः । पर्याप्ता अपर्याप्ताः संज्ञिनः असंज्ञिनः शेषास्तु ॥ १५३ ॥ टीका — विकलेंद्रिया द्वीन्द्रियत्रींद्रियचतुरिंद्रियाः पर्याप्तापर्याप्तभेदेन षड्भेदा भवंति तथा पंचेंद्रियाः संज्ञिनोऽसंज्ञिनः पर्याप्तापर्याप्तभेदेन चतुविकल्पा भवति । एवमेते दश जीवसमासाः पूर्वोक्ताश्चत्वारः सर्व एते चतुदेश जीवसमासा भवतीति ॥ १५३ ॥ गुणस्थानानि प्रतिपादयन्ननंतरं सूत्रद्वयमाह; - मिच्छादिट्ठी सासादणी य मिस्सो असंजदो चेव । देसविरदो पमत्तो अपमत्तो तह य णायव्वो ॥ १५४ ॥ एत्तो अव्वकरणो अणियट्टी सुहुमसंपराओ य । उवसंतखीणमोहो सजोगिकेवलिजिणो अजोगी य १५५ मिथ्यादृष्टिः सासादनश्च मिश्रः असंयतश्चैव । देशविरतः प्रमत्तः अप्रमत्तः तथा च ज्ञातव्यः ॥ १५४ ॥ इतः अपूर्वकरणः अनिवृत्तिः सूक्ष्मसांपरायश्च । उपशांतक्षीणमोहौ सयोगिकेवलिजिनः अयोगी च ॥ १५५ ॥ टीका - मिथ्या वितथाऽसत्या दृष्टिर्दर्शनं विपरीतकांत विनयसंशयाज्ञानरूपमिथ्यात्वकर्मोदयजनिता येषां ते मिथ्यादृष्टयोऽथवा मिथ्या वितथं तत्र दृष्टी रुचिः श्रद्धा प्रत्ययो येषां ते मिथ्यादृष्टयोऽनेकांत तत्वपराङ्मुखा: । आसादनं सम्यक्त्वविराधनं सहासादनेन वर्त्तत इति सासादनो विनाशित १८ Page #279 -------------------------------------------------------------------------- ________________ २७५ मलाचारे सम्यद्गदर्शनः । अप्राप्तमिथ्यात्वकर्मोदयजनितपरिणामः मिथ्यात्वाभिमुखः । दृष्टिः श्रद्धा रुचिः एकार्थः समीचीना च मिथ्या च दृष्टिर्यस्यासौ सम्यमिथ्यादृष्टिः सम्यमिथ्यात्वोइयजनितपरिणामः सम्यक्त्वमिथ्यात्वयोरुदयप्राप्तस्पर्द्धकानां क्षयात् सतामुदयाभावलक्षणोपशमाञ्च सम्यमिथ्यादृष्टिः समीचीना दृष्टिः श्रद्धा यस्यासौ सम्यग्दृष्टिः असंयतश्चासौ सम्यग्दृष्टिश्चासंयतसम्यग्दृष्टिः क्षायिकक्षायोपशमिकौपशमिकदृष्टिभेदेन त्रिविधः सप्तप्रकृतीनां क्षयः क्षयोपशमेनोपशमेन च स्यात् । संयतश्च संयतासंयतः न चात्रविरोधः संयमासंयमयोरेकद्रव्यवर्तिनोः सस्थावरनिवंधनखात् अप्रत्याख्यानवरणस्य सर्वघातिस्पर्द्धकानामुदयक्षयात्सतां चोपशमात्प्रत्याख्यानवरणीयोदयाच्च संयमासंयमो गुणः । प्रकर्षेण प्रमादवंतः प्रमत्ताः सम्यक्यताः संयताः प्रमत्ताश्च ते संयताश्च प्रमत्तसंयताः नात्र विरोधो यतः संयमो नाम हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्नुप्तिसमित्यनुरक्षि तोऽसौ प्रमादेन (न) विनाश्यत इति,प्रमत्तवचनं अंतदीपकत्वात् शेषातीतसर्वगुणेषु प्रमत्ताश्रितत्वं सूचयति, प्रमत्तसंयतः संयमे(मो)ऽपि क्षायोपशमिकः संयमनिबंधनःसम्यक्त्वापेक्षया क्षायोपशमिकगुणनिबंधनः प्रमत्तसंयताः पूर्वोक्तलक्षणोनप्रमत्तसंयता अप्रमत्तसंयताः पंचदशप्रमादरहिताः एषोऽपि क्षायोपशमिकगुणः प्रत्याख्यानावरणस्य कर्मणः सर्वघातिस्पर्द्धकानां उदयक्षयात् तेषामेव सतां पूर्ववदुपशमात्संज्वलनोदयाच्च । प्रत्याख्यानात्पत्तेः आदिदीपकत्वाच्छेषाणां सर्वेषामप्रमत्तत्वं । करणाः परिणामा न पूर्वा अपूर्वा अपूर्वाः करणा यस्यासौ अपूर्वकरणः स विविधः उपशमः, क्षपककः, कर्मणामुपशमनक्षपणनिबंधनत्वात् । क्षपकस्य क्षीयिको गुणः, उपशमकस्य क्षायिक औपशमिकश्च दर्शनमोहनीयक्षयम 'क्षायिकौपशमिको गुणः' इति प्रेस-ख-1-पुस्तके पाठः। स च सिद्धान्तविरुद्धो दर्शनमोहनीयक्षयमविधाय इति हेतुविरुद्धश्चातो निःसार्य 'क्षायिको गुणः' इत्येव पाठो मुद्रितः। Page #280 -------------------------------------------------------------------------- ________________ २७५ NAMANNARAWRAN innram पर्याप्त्यधिकारः। m mmaaaaannamannannanaman विधाय क्षपकश्रेण्यारोहणानुपपत्तेर्दर्शनमोहनीयक्षयोपशमाभ्यां विनोपशमश्रेण्यारोहणानुपलंभाच्च । समानसमयस्थितजीवपरिणामानां निर्भेदेन वृत्तिरथवा निवृत्तिावृत्ति विद्यते निवृत्तिर्येषां ते निवृत्तयस्तैः सह चरितो गुणोऽनिवृत्तिर्गुणः वादरसांपरायः सोऽपि द्विविधः उपशमकः क्षपकः काश्चित्प्रकृतीपशमयति काश्चिदुपरिष्टादुपशमयिष्यतीति औपशमिकोऽयं गुणः काश्चित्प्रकृतीः क्षपयति काश्चित् क्षपयिष्यतीति क्षायिकोऽयं गुणः औपशमिकश्च क्षायिकः क्षायोपशमिकश्च सूक्ष्मःसांपरायः कषायो येषां ते सूक्ष्मसांपरायास्तैः सहचरितो गुणोऽपि सूक्ष्मसांपरायः स द्विविधः उपशमकः क्षपकः, सम्यक्त्वापेक्षया क्षपकः क्षपकस्य क्षायिको गुणः औपशमिकस्य क्षायिको गुण उपशमकस्य क्षायिकौपशमिकश्च काश्चिच्च प्रकृती: क्षपयति क्षपयिष्यति क्षपिताश्चैव क्षायिकः काश्चिदुपशमयति उपशमयिष्यति उपशमिताश्चेति औपशमिको मोहशब्दः प्रत्येकमभिसंबध्यते उपशांतो मोहो येषां ते उपशांतमोहास्तैः सहचरितो गुण उपशांतमोह उपशमिताशेषकषायत्वादौपशमिकः । क्षीणो विनष्टो मोहो येषां ते क्षीणमोहास्तैः सहचरितो गुणः क्षीणमोहःद्रव्यभाववैविध्यादुभयात्मकस्य निरन्वयविनाशात्क्षायिकगुणा एते सर्वेऽपि छद्मस्थाः । केवलं केवलज्ञानं तद्विद्यते येषां ते केवलिनः सह योगेन वर्तत इति सयोगाः सयोगाश्च ते केवलिनश्च सयोगकेवलिजिनास्तैः सह चरितो गुणः सयोगकेवली क्षपिताशेषघातिकर्मकत्वात् निःशक्तीकृतवेदनीयकर्मकत्वात् नष्टाष्टकर्माक्यवकत्वात् क्षायि. कगुणः केवलिजिनशब्द उत्तरत्राप्यभिसंवध्यते काकाक्षितारकवत् । न वियते योगो मनवचः सह कायपरिस्पंदोद्रव्यभावरूपो येषांतेऽयोगिनस्ते च ते केवलिजिनाश्चायोगिकेवलिजिनास्तैः सहचरितो गुणोऽ योगकेवलिनः क्षीणाशेषाघातिकर्मकत्वात् निरस्यमानघातिकर्मकत्वाच्च क्षायिको गुणः । च शब्दासिद्धा निष्ठिता निष्पन्ना निराकृताशेषकर्माणः वाह्यार्थ निरपेक्षानंतनुपमसहजाप्रतिपक्षसुखा निःशेषगुणनिधानाश्चरमदेहात् किचिन्न्यूनस्वदेहाः कोशविनिर्गतसायकोपमा लोकशिखरवासिनः ॥ १५४-१५५ ॥ Page #281 -------------------------------------------------------------------------- ________________ २७६ wwwwwwwwwwwwwwwwwwwwwwwww "मूलाचारे चतुर्दश गुणस्थानानि प्रतिपाद्य मार्गणास्थानानि निरूपयन्नाह;गइ इंदिये च काये जोगे वेदे कसाय णाणे य । संजमदंसण लेस्सा भविया सम्मत्त सण्णि आहारे॥१५६॥ गतिरिद्रियाणि च कायो योगो वेदः कषायो ज्ञानं च । संयमो दर्शनं लेश्या भव्यः सम्यक्त्वं संज्ञी आहारः ॥ १५६ ॥ टीका-गम्यत इति गतिः गतिकर्मोदयापादितचेष्टा भवाद्भवांतरसक्रांतिर्वा गतिः सा चतुर्विधा नरकगतितिर्यग्गतिमनुष्यगतिदेवगातिभेदेन, स्वार्थनिरंतानींद्रियाणि अथवा इन्द्र आत्मा तस्य लिंगमिंद्रियं इंद्रेण दृष्टमिति चेंद्रिय, तद्विविधं द्रव्योंद्रियं भावेन्द्रियं चेति, निर्वृत्युपकरणं द्रव्योन्द्रयं, लब्ध्युपयोगौ भावेंद्रियं, कर्मणा या निर्वय॑ते सा निवृत्तिः, सापि द्विविधा बाह्याभ्यंतरभेदेन, तत्र लोकप्रमितविशुद्धात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियस्थानेनावस्थितानामुत्सेधांगुलस्यासंख्येयभागप्रमितानां वृत्तिरभ्यंतरा निर्वृत्तिरात्मप्रदेशेष्विन्द्रियव्यपेदशभाक्यः प्रतिनियतचक्षुरादिसंस्थानो नाम कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा वाह्या निवृत्तिः, उपक्रियतेऽनेनेत्युपकरणं येन निवृत्तरुपकारः क्रियते तदुपकरणं, तदपि द्विविधं, वाह्याभ्यंतरभेदात्, अभ्यंतरं कृष्णशुक्लमंडलादिकं, वाह्यं आक्षिपक्ष्मपत्रद्वयादिः; इंद्रियनिवृत्तिहेतुः क्षयोपशमविशेषो लब्धिर्यत्सनिधानादात्मा द्रव्येंद्रियं प्रति व्याप्रियते, तन्निमित्तं प्रतीत्योत्पद्यमान आत्मनः परिणाम उपयोगः कार्ये कारणोपचारात्; तदिद्रियं पंचविध स्पर्शनादिभेदेन तानि विद्यते येषां ते एकद्रयादयः । आत्मवृत्त्युपचितपुद्गलपिंडः कायः पृथिवीकायादिनामकर्मजनितं परिणामो वा सः पृथिवीकायादिभेदेन षड्डिधः । आत्मप्रवृत्तिसंकोचविकोचो योगः मनोवाक्कायावष्टंभबलेन जीवप्रदेशपरिस्पंदो. वा योगः सः पंचदशभेदो मनवचनकायश्चतुश्चतुः सप्तभेदेन । आत्मप्रवृत्तिमैथुनसंमोहोत्पादो वेदः स्त्रीपुंनपुंसकभेदेन त्रिविधः । क्रोधादिपरिणामव Page #282 -------------------------------------------------------------------------- ________________ पर्याप्प्यधिकारः। २७७ mmmmmmmmmmmmmmmmmmmmmm wormmmrammmmmmmmmmmmmmmm शेन कषंतीति कषायाः क्रोधमांनमायालाभभेदेन चतुःप्रकासः । भूतार्थप्रकाशकं ज्ञानं आत्मार्थोपलंभकं वा तत्पंचविधं मतिश्रुतावधिमनःपर्ययकेवलभेदेनायथार्थोपलंभकमजानं तत् त्रिविधं मत्यज्ञानं श्रुताज्ञानं विभंगज्ञानभेदेन । व्रतसमितिकषायदंडेंद्रियाणां रक्षणपालनानग्रहत्यागजन्यः संयमः सः सप्तविधः सामायिकछेदोपस्थापनपरिहारशुद्धिसूक्ष्मसांपराययथाख्यातभेदेन असंयमासंयमासयमश्च । प्रकाशवृत्तिर्दर्शनं तच्चक्षुरचक्षुरवधिकेवलदर्शनभेदेन चतुर्विधं । आत्मप्रवृत्तिसंश्लेषकरी लेश्या कषायानुरंजिता योगप्रवृत्तिर्वा सा च षड्विधा कृष्णनीलकापोततेजःपद्मशुक्ललेश्या भेदेन । निर्वाणपुरस्कृतो भव्यः सम्यक्दर्शनादिग्रहणयोग्यस्तद्विपरीतोऽभव्यो ऽनाद्यनिधनकर्मवंधः । तत्वरुचिः सम्यक्त्वं प्रशमसंवेगानुकंपास्तिक्याभिव्यक्ति लक्षणं वा तत्क्षायिकक्षायोपशमिकौपशमिकभेदेन त्रिविधं मिथ्यात्वसासादुनसम्यमिथ्यात्वभेदेन च तद्विपतिं त्रिविधं । शिक्षाक्रियोपदेशालापग्राहिकः संज्ञी तद्विपरीतोऽसंज्ञी । शरीरप्रायोग्यपुद्गलपिंडग्रहणमाहारः स विद्यते यस्य स आहारी तद्विपरीतोऽनाहारी। अत्र सर्वोपि विभक्तिनिर्देशः प्रथमाविभक्त्यर्थे द्रष्टव्योऽथवा प्राकृतवलादेकारादयश्चशब्द सर्वविशेषसंग्रहार्थः समुच्चयार्थो वा ॥ १५६ ॥ एवं चतुर्दश मार्गणास्थानानि प्रतिपाद्य तत्रजीवगुणस्थानानि निरूप्पयन्नाहजीवाणं खलु ठाणाणि जाणि गुणसण्णिदाणि ठाणाणि। एवं मग्गणठाणेसुचेव परिमग्गदव्वाणि ॥१५७॥ . जीवानां खलु स्थानानि यानि गुणसंज्ञितानि स्थानानि । एते मार्गणास्थानेषु चैव परिमार्गयितव्यानि ॥ १५७ ॥ - टीका-जीवानां यानि स्थानानि मुणसंज्ञकानि च यानि स्थानानि तान्येतानि मार्गणास्थानेषु नान्येषु स्फुटं मार्गे कथयितव्यानि यथासंभवं द्रष्टव्यानीत्यर्थः ॥ १५७ ॥ Page #283 -------------------------------------------------------------------------- ________________ २७८ मूलाचारे तदेव दर्शयन्नाह;तिरियगदीए चोदस हवंति सेसासु जाण दो दो दु । मग्गणठाणस्सेदं णेयाणि समासठाणाणि ।। १५८ ॥ तिर्यग्गतौ चतुर्दश भवंति शेषासु जानीहि द्वौ द्वौ तु । मार्गणास्थानेषु एतानि यानि समासस्थानानि ॥ १५८ ॥ टीका--तिरश्चां गतिस्तिर्यग्गतिस्तस्यां तिर्यग्गतौ जीवसमासस्थानानि चतुर्दशैवापि भवंति सर्वेषामेकेंद्रियवादरसूक्ष्मपर्याप्तापर्याप्तीन्द्रियत्रीन्द्रिय- . चतुरािंद्रयपर्याप्तापर्याप्तपंचोंद्रयसंज्यसंज्ञिपर्याप्तापर्याप्तानां संभवात् शेषासु पुनर्नरकमनुष्यदैवगतिषु द्वौ संक्षिपर्याप्तापर्याप्तौ जीवसमासौं भवतः न तासु तृतीयं संभवति, एवं सर्वेषु मार्गणास्थानेषु इंद्रियादिषु एतानि जीवसमासस्थानानि परमागमानुसारेणानेतव्यान्यन्वेषितव्यानीति । तद्यथा-एके- . द्रियेषु वादरसूक्ष्मपर्याप्तापर्याप्ताश्चत्वारो जीवसमासाः, द्वीन्द्रियत्रीन्द्रियच-. तुरिंद्रियेषु पर्याप्तापर्याप्तौ द्वौ स्वकीयौ जीवसमासौ पंचेंद्रियेषु संश्यसज्ञिपर्यावापर्याप्ताश्चत्वारो जीवसमासाः, पृथिवीकायिकाप्कायिकतेजःकायिकवायुकायिकवनस्पतिकायेषु एकैकशो वादरसूक्ष्मपर्याप्तापर्याप्ताश्चत्वारस्त्र-. सकायिकेषु द्वीन्द्रियत्रीन्द्रियचतुरिंद्रियसंश्यसंज्ञिनः प्रत्येकं पर्याप्तापर्याप्ता दश जीवासमासाश्चतुर्पु मनोयोगेषु सत्यमनोयोगमृषामनोयोगसत्यमृषा मनोयोगेषुः, अनुभयमनोयोगेषु संक्षिपर्याप्तक एको जीवसमासः, त्रिषु वाग्योगेषु सत्यमृषोभयवाग्योगेषु संजीपर्याप्त एक अनुभयवाग्योगे द्वीन्द्रियत्रीदियचतुरिंद्रियासंज्ञिसंज्ञिनः पर्याप्ताः पंचौदारिककाययोगे वादरसूक्ष्म-. विकलेंद्रियसंश्यसंज्ञिनः पर्याप्ताः सप्तौदारिकमिश्रकाययोगे त एव किंत्वप-. प्तिाः संज्ञिपर्याप्ताश्चाष्टौ वैक्रियककाययोगे संज्ञी पर्याप्तः वैक्रियकमिश्रकाययोगे निवृत्तपर्याप्तापेक्षया संक्षिपर्याप्ता लब्ध्यपर्याप्तापेक्षया लब्ध्यपर्याप्तः आहारमिश्रयारेके एव संज्ञी पर्याप्तः कार्माणकाययोगे सप्तापर्याप्ताः अष्टम Page #284 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २७९ संज्ञी पर्याप्तः लोकपूरणस्था, स्त्रीवेदे च संश्यसंश्यपर्याप्तपर्याप्ताश्वत्वारः नपुंसकवेदे च चतुर्दशापि क्रोधमानमायालोभेषु चतुर्दशापि मतिश्रुतावधिज्ञानेषु द्वौ संज्ञिपर्याप्तापर्याप्तौ निर्वृत्यपर्याप्तापेक्षया केवलमनःपर्यय-- विभंगज्ञानेषु संज्ञी पर्याप्त एकः सामायिकछेदोपस्थापनपरिहारशुद्धिसूक्ष्मसांपराययथाख्यातसंयमेषु संयमासंयमे च संज्ञी पर्याप्त एक एव असंयमे च चतुर्दशापि; चक्षुर्दर्शने चतुरिंद्रियसंश्यसंज्ञिपर्याप्तापर्याप्ताः षट् अपप्तिकालेऽपि चतुर्दश क्षयोपशमस्य सद्भावादुपयोगः पुनस्त्येिव अचक्षु-- दर्शने चतुर्दशाप्यवधिदर्शने द्वौ संज्ञिपर्याप्तापर्याप्तौ केवलदर्शने संज्ञी पर्याप्त एक एव, कृष्णनीलकापोतलेश्यासु चतुर्दशापि तेजः पद्मशुक्ललेश्यासु द्वौ संक्षिपर्याप्तौ, भव्यसिद्धेषु चतुर्दशापि, क्षायोपशमिकक्षायिकसासादनसम्यक्त्वकेषु उपशमश्रेण्यपेक्षया औपशामिकसम्येक्त्वेचद्वौ संज्ञिपर्यातापर्याप्ता सम्यङ्गिथ्यात्वे प्रथमसम्यक्त्वे च पर्याप्तः संज्ञी एक एव मिथ्यात्वे चतुर्दशापि, संज्ञिषु संज्ञिपर्याप्तापर्याप्तौ दौ, आहारिषु चतुर्दशापि अनाहारिषु सप्तापर्याप्ताः अष्टमः संज्ञी पर्याप्तः केवली । सर्वत्र जीवसमासा. इति संबंधः ॥ १५८॥ मार्गणास्थानेषु जीवसमासान् प्रतिपाद्य गुणस्थानानि प्रतिपादयन्नाहमुरणारयेसु चत्वारि होति तिरियेसु जाण पंचेव । मणुसगदीएवि तहा चोद्दसगुणणामधेयाणि ॥ १५९ ॥ सुरनारकेषु चत्वारि भवंति तिर्यक्षु जानीहि पंचैव। .. मनुष्यगतावपि तथा चतुर्दश गुणनामधेयानि ॥ १५९ ॥ टीका-सुरेषु नारकेषु च मिथ्यादृष्ट्याद्यसंयतपर्यंतानि चत्वारि गुणस्थानानि भवंति, तिर्यक्षु तान्येव कथितानि संयतासंयतश्च पंच भवंति, मनुष्यगतौ पुनः चतुर्दशापि मिथ्यादृष्ट्याययोगपर्यंतानि गुणस्थानानि भवंति, इत्येवं सर्वासु मार्गणासु योज्यं । तद्यथा-एकेंद्रियद्वीन्द्रियत्रींद्रिय Page #285 -------------------------------------------------------------------------- ________________ २८० मूलाचारे चतुरािंद्रियासंज्ञिपंचेंद्रियेषु सर्वेषु मिथ्यादृष्टिगुणस्थानमकमेव, संज्ञिषु चतुदशापि गुणस्थानानीति सर्वत्र संबंधः । पृथिवीकायाप्कयतेजः कायवायुकायवनस्पतिकायेषु मिथ्यादृष्टिसंज्ञकमेकं, द्वीन्द्रियाद्यसंज्ञिपर्यतेध्वेकमेव मिथ्यादृष्टिगुणस्थानं संशिषु त्रसेषु चतुर्दशापि, सत्यमनोयोगासत्यमृषामनोयोगसत्यवाग्योगासत्यमृषावाग्योगेषु मिथ्यादृष्ट्यादिसयोगपर्यतानि, मृषामनोयोगसत्यमृषामनोयोगमृषावाग्योगसत्यमृषावाग्यागेषु मिथ्यादृष्टयादीनि क्षीणकषायांतानि, औदारिककाययोगे मिथ्यादृष्टयादिसयोग्यतानि, औदारिकमिश्रकार्माणकाययोगे मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टिसयोगकेवलिसंज्ञकानि चत्वारि, वैक्रियककाययोगे मिथ्यादृष्ट्याद्यसंयतांतानि, वैक्रियिकमिश्रकाययोगे तान्येव सम्यभिथ्यादृष्टिरहितानि, आहाराहारमिश्रयोगयोरेकं प्रमत्तगुणस्थानं पुवेदाभावापेक्षया स्त्रीवेदे नपुंसकवेदे च मिथ्यादृष्ट्याद्यानिवृत्तिपर्यंतानि स्त्रीनपुंसकयोर्द्रव्यापेक्षया मिथ्यादृष्ट्यादिसंयतासंयतांतानि, पुंल्लिंगे सर्वाणि, क्रोधमानमायासु तान्येव लोभकषायेषु सूक्ष्मसांपरायाधिकानि, मत्यज्ञानश्रुताज्ञानविभंगाज्ञानेषु मिथ्यादृष्टिसासादनसंज्ञके द्वे, मतिश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादिक्षीणकषायांतानि, मनःपर्ययज्ञाने प्रमत्तादिक्षीणकषायांतानि, केवलज्ञाने सयोग्ययोगिसंज्ञके द्वे अतीतगुणस्थानं च सामायिकछेदोपस्थानसंयमयोः प्रमत्तायनिवृत्त्यंतानिचत्वारि,परिहारविशुद्धिसंयमे प्रमत्ताप्रमत्तसंज्ञके द्वे सूक्ष्मसांपरायसंज्ञके संयमे सूक्ष्मसांपरायिकमेकं, यथाख्यातसंयमे उपशांताद्ययोगांतानि,संयमासंयम संयतासंयतमेकं, असंयमे भिथ्यात्वाद्यसंयतांतानि चक्षुदर्शनाचक्षुईर्शनयोमिथ्यादृष्ट्यादिक्षीणकषायांतानि, अवधिदर्शनेऽसंयतादिक्षीणकषायांतानि, केवलदर्शने संयोगायोगसंज्ञके द्वे अतीतगुणस्थानं च, कृष्णनीलकापोतलेश्यासु मिथ्यादृष्ट्यायसयतांतानि, तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्याद्यप्रमत्तांतानि शुक्ललेश्यायां मिथ्यादृष्ट्यादिसंयोगांतानि, कषाययसहचरितयोगप्रवृत्युपचारेण भव्यसिद्धिषु चतुर्दशापि अभव्यासिद्धेष्वेकं Page #286 -------------------------------------------------------------------------- ________________ पर्याश्यधिकारः। २८१ मिय्याष्टिसंज्ञकं, औपशमिकसम्यक्त्वेऽसंयताद्युपशांतकषायांतानि, वेदकसम्यक्त्वे असंयतायप्रमत्तांतानि, क्षायिकसम्यत्क्वेऽसंयताययोगांतानि, सासादनसंज्ञके ससादननामधेयमेकं, सम्यमिथ्यात्त्वे सम्यझिमिथ्यादृष्टिसंज्ञकं, संशिषु मिथ्यादृष्टयादिक्षीणकषायांतानि, असंज्ञिषु मिथ्यादृष्टिसंज्ञकमेक, आहारेषु मिथ्यादृष्ट्यादिसंयोगांतानि, नोकर्मापेक्षयैतन्ना कवलाहारापेक्षया तस्याऽभावात् नाहारिषु मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टिसयोग्ययोगिसंज्ञकानि विग्रहप्रतरलोकपूरणापेक्षयेति ॥ १५९ ॥ __ जीवगुणमार्गणास्थानानि प्रतिपाद्य तत्सूचितं क्षेत्रप्रमाणं द्रव्यप्रमाणं च प्रतिपादयन्नाह;एइंदियाय पंचेंदिया य उडूमहोतिरियलोएसु । सयलविगलिंदिया पुणजीवातिरियंमिहोयंमि॥१६॥ - एकेंद्रियाः पंचेंद्रियाश्च ऊर्ध्वमधस्तिर्यग्लोकेषु। .. सकलविकलेंद्रियाः पुनः जीवाः तिर्यग्लोके ॥ १६०॥ - टीका--एकेंद्रियाः पंचेंद्रियाश्च जीवा ऊर्ध्वलोके तिर्यग्लोके च भवंति विकलेंद्रियाः पुनः सकलाः समस्ताः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया असंज्ञिपंचेंद्रियाश्च तिर्यग्लोक एव नान्यत्र यतस्तेषां नरकादेव लोके सिद्धि क्षेत्रे चाभावः, यद्यपि पंचेंद्रिया ऊर्ध्वाधस्तिर्यग्लोकेषूक्ताः सामान्येन तथापि त्रयाणां लोकानामसंख्यातभागे तिष्ठतीति कैवल्यापेक्षया पुनर्लोकस्य संख्यातभागेऽसंख्यातभागेचासंज्ञिपंचेंद्रियेष्वपि तथैवेति ॥ १६०॥ __ 'पुनरप्यकेंद्रियाणां विशेषमाह;एइंदियाय जीवा पंचविधा वादरा य सुहुमा य । देसेहिं वादरा खलु मुहुमेहिं णिरंतरो लोओ ॥१६१ ॥ . एकेद्रिया जीवा: पंचविधा बादराश्च सूक्ष्माश। देशैः बादराः खलु सुक्ष्मः निरंतरो लोकः ॥ १६१ ॥ ' ' जीवगुणस्थानानीतिमाठान्तम् । - Page #287 -------------------------------------------------------------------------- ________________ २८२ मूलाचारे manna · टीका-एकेंद्रिया जीवाः पंचप्रकाराः पृथिवीकायादिवनस्पतिपर्यंतास्ते प्रत्येकं वादरसूक्ष्मभेदेन द्विप्रकारा एककशो वादराः सूक्ष्माश्च, लोकस्यैकदेशे वादरा यतो वातवलये पृथिव्यष्टकं विमानपटलानि वाश्रित्य तिष्ठतीति, सूक्ष्मैः पुनर्निरंतरो लोकः, सूक्ष्माः सर्वस्मिन् लोके तै रहितः काश्चदपि प्रदेशो नेति ॥ १६१ ॥ यस्मात्-- अस्थि अणंता जीवा जेहिं ण पत्तो तसाण परिणामो मावकलंकसु पउरा णिगोदवासं अमुंचंता ॥ १६२॥ सन्ति अनंता जीवा येः न प्राप्तः त्रसानां परिणामः । भावकलंकसु प्रचुरा निगोदवासं अमुंचंता ॥ १६२ ॥ टीका-संति विद्यतेऽनंता जीवास्ते यैः कदाचिदपि न प्राप्तस्त्रसपरिणामः द्वीन्द्रियादिस्वरूपं, भावकलंकप्रचुरा मिथ्यात्वादिकलुषिताः निगोदवासमत्यजंतः सर्वकालं । सूक्ष्मवनस्पतिस्वरूपेण व्यवस्थिता ये जीवास्तादृग्भूता अनंताः संतीति ॥ १६२ ॥ सर्वलोके तावत्तिष्ठति किंतु;एगणिगोदसरीरे जीवा दव्वप्पमाणदो दिट्ठा। सिद्धेहिं अणंतगुणा सव्वेण वितीदकालेण ॥ १६३ ॥ एकनिगोदशरीरे जीवा द्रव्यप्रमाणतो दृष्टाः । सिद्धैरनंतगुणाः सर्वेणाप्यतीतकालेन ॥१६३ ॥ टीका-एकनिगोदशरीरे गुडूच्यादिवनस्पतिसाधारणकाये जीवा अनंतकायिका द्रव्यप्रमाणतः संख्यया दृष्टाः जिनैः प्रतिपादिताः सिद्धैरनंतगुणाः सर्वेणाप्यतीतकालेन । एकनिगोदशरीरे ये तिष्ठति ते सिद्धैरनंतगुणा इत्यवगाह्यावगाहनमाहात्म्यादसंख्यातप्रदेशे लोके कथमनंतास्तिष्ठं Page #288 -------------------------------------------------------------------------- ________________ पर्याप्त्याधिकाराः। तीति नाशंकनीयमिति, एवं सर्वासु मार्गणास्वस्तित्वपूर्वकं क्षेत्रप्रमाणं द्रष्टव्यं स्पर्शनमप्यत्रापि द्रष्टव्यं यतोऽतीतविषयं स्पर्शनं वर्तमानविषयं क्षेत्र मिति ॥ १६३॥ द्रव्यप्रमाणं निरूपयन्नाह;एइंदिया अणंता वणप्फदीकायिगा णिगोदेसु । पुढवी आऊ तेऊ वाऊ लोया असंखिज्जा ॥ १६४॥ एकेंद्रिया अनंता वनस्पतिकायिका निगोदेषु । पृथ्वी आपः तेजः वायवः लोका असंख्याताः ॥ १६४॥ टीका-निगोदेषु ये वनस्पतिकायिककेंद्रिया जीवास्तेऽनंतास्तथा पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिकाः सर्व एते सूक्ष्मा:: प्रत्येकमसंख्यातलोकप्रमाणा असंख्याता लोकानां यावन्तः प्रदेशास्ताव-- न्मात्रा वादराः पुनः प्रतरा असंख्यातभागमात्रा विशेषः परमागमतो. द्रष्टव्य इति ॥ १६५॥ त्रसकायिकानां संख्यामाह;तसकाइया असंखा सेढीओ पदरछेदणिप्पण्णा! सेसासु मग्गणासुवि णेदव्वा जीव समासेज्ज ॥ १६५॥॥ त्रसकायिका असंख्याताः श्रेण्यः प्रतरछेदनिष्पन्नाः । शेषासु मार्गणास्वपि नेतव्या जीवाः समाश्रित्य ॥ १६५॥ टीका-त्रसकायिका द्वीन्द्रियत्रीन्द्रियचतुरिंद्रियपंचेंद्रियाः प्रत्येकमसं-- ख्याताः श्रेणयः प्रतरच्छेदनिष्पन्नाः प्रतरासंख्येयभागप्रमिता: त्रसकायिकाःप्रतरासंख्येयभागमात्राः स च प्रतरासंख्यातभागः असंख्याताः श्रेणयः प्रतरांगुलस्यासंख्यातभागेन जगच्छ्रेणेः भागे हृते यल्लब्धं तावन्मात्राः श्रेणय. इति एवं शेषास्वपि मार्गणासु जीवानाश्रित्य प्रमाणं नेतव्यं ज्ञातव्यमितिः आगमानसारेण । तयथानरकगतौ नारकाः प्रथमपृथिव्यां मिथ्यादृष्टयोऽसं Page #289 -------------------------------------------------------------------------- ________________ मूला चारे - ख्याताः श्रेणयः घनांगुलंकिंचिन्न्यूनाद्वितीयवर्गमूलमात्राः, द्वितीयादिषु सप्तम्यतासु श्रेण्यसंख्येयभागमात्राः, द्वितीयादिषु सर्वासु पुनः सासादनस· म्यंमिथ्यादृष्ट्यसंयताः पत्योपमासंख्यातभागमात्राः, तिर्यग्गतौ मिथ्यादृष्टोऽनंतानंता सासादनादिसंयतासयतांताः पल्योपमासंख्येयसागरप्रमिताः मध्यगतौ मिथ्यादृष्टयो मनुष्याः श्रेण्यसंख्येयभागप्रमिताः स चासंख्येयभागः असंख्याताः योजनकोट्यः, सासादनसम्यग्दृष्टयो द्विपंचाशत्कोटीमात्राः सम्यङ्गमिथ्यादृष्टयश्वतुरुत्तरैककोटीशतमात्राः, असंयतसम्यग्दृष्टयः सप्तकोटीशतमात्राः संयतात्रयोदशकोटीमात्राः प्रमत्ताः पंचकोटयस्त्रिनवतिलक्षाधिका अष्टानवातिसहस्राधिकाः षडुत्तरद्विशताधिकाश्च, अप्रमत्ता दे कोट्य षण्णवतिलक्षाधिके नवनवतिसहस्रधिके शतत्र्यधिके च, चत्वार उपशमकाः प्रत्येकं प्रवेशेन एको वा द्वौ वा त्रयो वोत्कर्षेण चतुःपंचाशत्स्वकालेन समुदिता द्वे शते नवत्यधिके चत्वारः क्षपका अयोगिकेवलिनश्च प्रत्येकं एको वा द्वौ वा त्रयो वोत्कृष्टेनाष्टोत्तरशतं स्वकालेन समुदिताः पंचशतान्यष्टानवत्यधिकानि सयोगिकेवलिनः अष्ट शतसहस्राणि अष्टानवतिसहस्राधिकानि द्व्यधिक पंच - शताधिकानि च अष्ट मिद्धसमया भवंति तत्रोपशमश्रेण्यां प्रवेशन जघन्येनैकेनादिं कृत्वोत्कृष्टेनैकैकसमये षोडश चतुर्विंशतिस्त्रिंशत् षटत्रिंशद्विचत्वारिंशदष्टचत्वारिंशच्चतुःपंचाशदिति, एवं क्षपकश्रेण्यां एतदेव द्विगुणं द्वात्रिंशदष्टचत्वारिंशच्छष्टिः द्वासप्रतिश्चतुरशीतिः षण्णवतिरष्टोत्तरशतं च वेदितव्यं प्रत्येकं सिद्धसमयं प्रति । देवगतौ देवा मिथ्यादृष्टय ज्योतिष्कव्यंतरा असंख्याताः श्रेणयः प्रतरासंख्येयभागप्रमिताः श्रेणेः संख्येयप्रमितांगुलैर्भागे हृते यल्लब्धं तावन्मात्राः श्रेणयः भवनवासिन असंख्याताः श्रेणयः घनांगुलप्रथम वर्गमूलमात्राः सौधर्मा देवा मिथ्यादृष्टोऽसंख्येयाः श्रेणयः घनांगुलततीयवर्गमूलमात्राः सनत्कुमारा २८४ षु मिथ्यादृष्टयः श्रेय: संख्येयभागप्रमिता असंख्यातयोजनकोटीप्रदेशमात्राः सर्वेष्वेतेषु सासादन सम्यङ्किथ्यादृष्ट्यसयताः प्रत्येकं पत्योपमासंख्येयभाग प्रमिताः शेषासु मार्गणास नपुंसकमत्यज्ञानश्रुताज्ञान काययोग्यचक्षुर्दर्शनक Page #290 -------------------------------------------------------------------------- ________________ २८५ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmwwwwwm . पर्याप्त्यधिकारः। ष्णनीलकापोतलेश्यासंयमक्रोधमानमायालोभमिथ्यादृष्टिभव्याहार्यनाहारिणः प्रत्येकमनंतानंताः केवलज्ञानिकेवलदर्शनिनोनंताश्चक्षुर्दर्शनिनः स्त्रीपुंवेदिनः मनोवाग्योगिसंज्ञिविभंगज्ञानितेजोलेश्यापद्मलेश्याः प्रतरासंख्येयभागप्रमिता:शेषाः क्षायिकक्षायोपशमिकौपशमिकसम्यग्दृष्टिसासादनसम्यमिथ्यादृष्टिसयंतासंयतशुक्ललेश्याः पल्योपमासंख्ययभागप्रमिताः, आहाराहारमिश्रसामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातसंयताः संख्याता भवंतीति ॥ १६५ ॥ ___कुलानि प्रतिपादयन्नाह;वावी सत्त तिण्णि य सत्त य कुलकोडि सदसहस्साइं। णेया पुढविदगागणिवाऊकायाण परिसंखा ॥१६६ ॥ कोडिसदसहस्साई सत्तट्ठ व णव य अट्ठवीसं च । वेइंदियतेइंदियचउरिदियहरिदकायाणं ॥ १६७ ॥ अद्धत्तरेस वारस दसयं कुलकोडि सदसहस्साई। . . जलचर पक्खिचउप्पउरपरिसप्पेसु णव होति ॥१६॥ छव्वीसं पणवीसं चउदस कुलकोडिसदसहस्साई। सुरणेरइयणराणं जहाकम होइ णायव्वं ॥ १६९ . टीका-एतानि गाथासूत्राणि पंचाचारे व्याख्यातानि अतो नेह पुनर्व्याख्यायते पुनरुक्तत्वादिति । १६६-१६७-१६८-१६९ एतेषां संस्कृतच्छाया अपि तत एव ज्ञेयाः ॥ ___ अल्पबहुत्वं प्रतिपादयन्नाह;मणुसगदीए थोवा तेहिं असंखिज्जसंगुणा णिरये। तेहिं असंखिज्जगुणा देवगदीए हवे जीवा ॥१७॥ मनुष्यगतौ स्तोकाः तेभ्यः असंख्येयसंगुणा नरके । ---- तेभ्यः असंख्येयगुणा देवगतौ भवेयुः जीवाः ॥ १७० ॥ Page #291 -------------------------------------------------------------------------- ________________ २८६ मूलाचारे टीका-मनुष्यगतौ सर्वस्तोका मनुष्या श्रेण्यसंख्येयभागमात्राः।१३। तेभ्यो मनुष्येभ्योऽसंख्यातगुणाः श्रेणयः । २ । नारकाः तेभ्यश्च नारकेभ्यो देवगतौ देवा असंख्यातगुणाः प्रतरासंख्येयभागमात्राः । ४९ । इति ॥१७॥ तथा;तेहिंतो गंतगुणा सिद्धिगदीए भवंति भवरहिया । तेहिंतो णंतगुणा तिरयगदीए किलेसंता ॥ १७१ ॥ तेभ्योऽनंतगुणाः सिद्धिगतौ भवति भवरहिताः।। तेभ्योऽनंतगुणा तिर्यग्गतौ क्लिश्यतः ॥ १७१॥ टीका-तेभ्यो देवेभ्यः सकाशासिद्धिगतौ भवरहिताः सिद्धा अनंतगुणास्तेभ्यः सिद्धेभ्यस्तिर्यग्गतौ तिर्यश्चः क्लिश्यतोऽनंतगुणाः ॥ १७१ ॥ सामान्येनाल्पबहुत्वं प्रतिपाद्य विशेषेण प्रतिपादयन्नाह;-- थोवा दु तमतमाए अणंतराणंतरे दु चरमासु । होति असंखिजगुणा णारइया छासु पुढवीसु ॥ १७२॥ स्तोकास्तु तमस्तमायां अनंतरारंतरे तु चरमासु । भवंति असंख्येयगुणा नारका षद्सु पथिवीषु ॥ १७२ ॥ टीका-स्वस्थानगतमल्पवहुत्वमुच्यते-सप्तमपृथिव्यां नारकाः सर्वस्तोकाः श्रेण्यसंख्ययभागप्रमिताः श्रेणिद्वितीयवर्गमूलेन खंडिता श्रोण । तेभ्यश्च सप्तमपृथिवीनारकेभ्य षष्टीपृथिवीनारका असंख्यातगुणाः श्रेणितृतीयवर्गमूलेनाहतश्रेणिमात्राः । तेभ्यश्च षष्ठपृथिवीनारकेभ्यः पंचमपृथिवीनारका असंख्यातगुणाः श्रेणिषहर्गमूलापहतश्रेणिलब्धमात्राः है । तेभ्यश्च पंचमपृथिवीनारकेभ्यश्चतुर्थपृथिवीनारका असंख्यातगुणाः श्रेण्यष्टवर्गमूलापहृतश्रेणिपरिमिताः १ । तेभ्यश्चतुर्थपृथिवीनारकेभ्यस्तृतीयपृथिवीनारका असंख्यातगुणाः श्रेणिदशवर्गमूलापहतश्रेणिलब्धमात्राः । तेभ्यस्तृतीयपृथिवीनारकेभ्यो द्वितीयपृथिवीनारका असंख्येयगुणाः श्रोणदशवर्गमूलखं Page #292 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। •rmavinmarrrrrrndhrrrrrrrrrrrr mmmmmmmmmmmmmmmm डितश्रेण्येकभागमात्राः १३ । तेभ्यश्च द्वितीयपृथिवीनारकेभ्यः प्रथमपृथिवीनारका असंख्यातगुणा घनांगुलद्वितीयवर्गमूलमात्राः श्रेणयः३ इति ॥१७२॥ तिर्यग्गतावल्पवहुत्वमाहःथोवा तिरिया पंचदिया दुचउरिदिया विसेसहिया। वेइंदिया दु जीवा तत्तो अहिया विसेसेण ॥१७३॥ तत्तो विसेसअहिया जीवा तेइंदिया दु णायव्वा । तेहिंतोणंतगुणा भवंति एइंदिया जीवा ॥ १७४ ॥ स्तोकाः तिर्यंचः पंचेंद्रियास्तु चतुरिंद्रिया विशेषाधिकाः । द्वींद्रियास्तु जीवाः ततः अधिका विशेषेण ॥ १७३ ॥ ततो विशेषाधिका जीवाः त्रींद्रियास्तु ज्ञातव्याः । तेभ्योऽनंतगुणा भवंति एकेंद्रिया जीवाः ॥ १७४ ॥ टीका-तिर्यंचः पंचेंद्रियाः स्तोकाः प्रतरासंख्यातभागमात्राः ३ । तेभ्यश्च पंचेंद्रियेभ्यश्चतुरिंद्रिया विशेषाधिकाः स्वराश्यसंख्यातभागमात्राः | तेभ्यश्चतुरिंद्रियेभ्यो वीन्द्रिया विशेषाधिकाः GON विशेषाः पुनः स्वराश्यसंख्यातभागमात्राः || तेभ्यश्च द्वीन्द्रियेभ्यस्त्री न्द्रिया विशेषाधिकाः विशेषः पुनः स्वराश्यसंख्यातभागमात्रः futodaal Loodoo तेभ्यश्च त्रीन्द्रियेभ्योऽनंतगुणाः भवंत्येकेंद्रिया जीवा ज्ञातव्याः इति ॥ १७३-१७४ ॥ Page #293 -------------------------------------------------------------------------- ________________ २८८ मूलाचारे मनुष्यगतावल्प वहुत्वमाह, अंतरदवे मणुया थोवा मणुयेसु होंति णायव्वा । कुरुवसु दस माया संखेज्जगुणा तहा होंति ॥ १७५ ॥ तत्तो संखेज्जगुणा मणुया हरिरम्मएस वस्सेसु । तत्तो संखिज्जगुणा हेमवदहरिण्णवस्साय ॥ १७६ ॥ भररावदमणुया संखेज्जगुणा हवंति खलु तत्तो । तत्तो संखिज्जगुणा नियमादु विदेहगा मणुया ॥ १७७ ॥ सम्मुच्छिमाय मणुया होंति असंखिज्जगुणा य तत्तो दु ते चैव अपज्जत्ता सेसा पज्जत्तया सव्वे ॥ १७८ ॥ अंतर्द्वषेषु मनुजाः स्तोका मनुजेषु भवंति ज्ञातव्या : । कुरुषु दशसु मनुजा: संख्येयगुणाः तथा भवंति ॥ १७५ ॥ ततः संख्येयगुणा मनुजा हरिरम्यकेषु वर्षेषु । ततः संख्येगुणा हैमवत हैरण्यवर्षयोः ॥ १७६ ॥ भरतैरावतमनुजाः संख्येयगुणा भवंति खलु ततः । ततः संख्येयगुणाः नियमात् विदेहका मनुजाः ॥ १७७ ॥ संमूहिमाश्च मनुजा भवंति असंख्येयगुणाश्च ततस्तु । एते एव अपर्याप्ताः शेषाः पर्याप्ताः सर्वे ॥ १७८ ॥ टीका - मनुष्यगतौ सर्वे स्तोकाः संख्याताः सर्वांतद्वीपेषु मनुष्याः ऊ । तेभ्यश्च दशसु कुरुषूपभोगभूमिषु मनुष्याः संख्यातगुणा भवति ज्ञातव्याः । ऊऊ । तेभ्यश्च दशसु भोगभूमिषु हरिरम्यकवर्षेषु मनुष्याः संख्यातगुणाः । ऊऊऊ । तेभ्यश्च दशसु जघन्य भोगभूमिषु हैमवत हैरण्यवतसंज्ञकासु मनुष्याः संख्यातगुणाः । ऊऊऊऊ । तेभ्यश्व पंचसु भरतेषु पंचस्वैरावतेषु च मनुष्याः संख्यातगुणाः । ऊऊऊऊऊ। तेभ्यश्च निश्वयेन मनुष्या विदेहेषु संख्यातगुणा भवंति । ऊ ऊ ऊ ऊ ऊ । Page #294 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २८९ ज्ञातव्याः स्फुटं, तेभ्यश्च सम्मूर्च्छनजा मनुष्या असंख्यातगुणाः श्रेण्यसंख्यातैकभागमात्राः सर्वश्रेण्यसंख्यातभागाः ऊनकोटीकोटीप्रदेशमात्राः सूच्यंगुलप्रथमवर्गमूलेन सूच्यंगुलतृतीयवर्गमूलगुणितेन श्रेणे गे हते यल्लब्धं तावन्मात्रा १ त एते अपर्याप्ता लब्ध्यपर्याप्ता एव, शेषाः पुनः संख्याता ये मनुष्यास्ते सर्वे पर्याप्ता नास्ति तेषां लब्ध्यपर्याप्तत्वं । एवं देवनारकाणामपि सर्वेषां लब्ध्यपर्याप्तत्वं नास्ति निवृत्यपर्याप्तत्वं पुनर्विद्यत एवेति ॥ १७५-१७६-१७७-१७८ ॥ देवगतावल्पबहुत्वमाह;थोवा विमाणवासी देवा देवी य होंति सव्वेवि । तेहिं असंखेजगुणा भवणेसु य दसविहा देवा ॥१७९ ॥ तेहिं असंखेनगुणा देवा खलु होति वाणवेतरिया। तेहिं असंखेजगुणा देवा सब्वेवि जोदिसिया ॥१८०॥ स्तोका विमानवासिनो देवा देव्यश्च भवंति सर्वेऽपि । तेभ्यः असंख्येयगुणा भवनेषु च दशविधा देवाः ॥ १७९ ॥ तेभ्यः असंख्येयगुणा देवाः खलु भवंति वानव्यंतराः। तेभ्यः असंख्येयगुणा देवाः सर्वेपि ज्योतिष्काः ।। १८० ॥ टीका-देवगतौ देवा देव्यश्च सर्वे स्तोकाः सौधर्मादिविमानवासिनः असंख्याताः श्रेणिमात्रा घनांगुलतृतीयवर्गमूलमात्राः साधिकाः श्रेणयः । तेभ्यश्चासंख्यातगुणा भवनेषु दशविधा भवनवासिन असंख्याताः श्रेणयः घनांगुलप्रथमवर्गमूलमात्राः श्रेणयः । तेभ्यश्चासंख्यातगुणाः स्फुटमष्टप्रकारा व्यंतराः प्रतरासंख्यातभागमात्राः संख्यातप्रतरांगुलैः श्रेणेर्भागे हृते यल्लब्धं तावन्मात्राः श्रेणयः । तेभ्यश्च पंचप्रकारा ज्योतिष्का असंख्यातगुणाः प्रतरासंख्यातभागमात्राः पूर्वोक्तासंख्यागुणितैरतंख्येयप्रतरांगुलैः श्रेणे गे १९ Page #295 -------------------------------------------------------------------------- ________________ २९० मूलाचार हृते यल्लब्धं तावन्मात्राः श्रेणयः । अथ वा सर्वतः स्तोकाः सर्वार्थसि द्धिदेवाः संख्याताः ततो विजयवैजयन्तजयन्तापराजितनवानुत्तरस्था असंख्यातगुणाः पल्योपमासंख्यातभागप्रमितास्ततो नव ग्रैवेयका आनतप्राणतारणाच्युताश्चासंख्यातगुणाः पल्योपमासंख्यातभागप्रमिताः ९ । ततः शतारसहस्रारदेवा असंख्यातगुणाः श्रेणिचतुर्थवर्गमूलखंडितश्रेण्येकभागमात्राः १ । ततः शुक्रमहाशुक्रदेवाः असंख्यातगुणाः श्रेणिपंचमवर्गमूलखंडितश्रेण्यकभागमात्राः ५ । ततो लांतवकापिष्ठदेवाः असंख्यातगुणाः श्रेणिसप्तमवर्गमलखंडितश्रेण्येकभागमात्राः १ । ततो ब्रह्मब्रह्मोत्तरदेवा असंख्यातगुणाः श्रेणिनवमवर्गमूलगुणाः श्रोणिचतुर्थवर्गमूलखंडितश्रेण्येकभागमात्राः १ । नवमवर्गमूलखांडतश्रण्यभागमात्राः । ततः सनत्कुमारमाहेंद्रदेवा असंख्यातगुणाः श्रेण्येकादशवर्गमूलखंडितश्रेण्येकभागमात्राः । ततः सोधर्मेशानदेवा असंख्यातगुणाः । शेषं पूर्ववत् द्रष्टव्यमिति । अथ वा सर्वस्तोका अयोगिनश्चत्वार उपशमकाः संख्यातसंगुणाः ततः सयोगिनः संख्यातगुणास्ततोऽप्रमत्ताः संख्या तगुणास्तत: संयतासंयतास्तिर्यमनुष्या असंख्यातगुणाः पल्योपमासंख्यातभागमात्राः ५९९ ९९ । ततश्चतसृषु गतिषु सासादनसम्यग्दृष्टयोऽसख्यातगुणाः पं० । ततश्चतसृषु गतिषु सम्यमिथ्यादृष्टयः संख्यातगुणाः पल्य ९० । ततश्चतसृषु गतिषु असंयतसम्यग्दृष्टयोऽसंख्यातगुणा एतैः सिद्धा अनंतगुणास्ततः सर्वे मिथ्यादृष्टयोऽनंतानंतगुणाः स्युरिति ॥ १७९-१८० ॥ पुनरपि देवान् गुणेन निरूपयन्नाह;अणुदिसणुत्तरदेवा सम्मादिट्ठीय होति बोधव्या। तत्तो खलु हेट्ठिमया सम्मामिस्सा य तह सेसा ॥१८१॥ अनुदिशानु तरदेवाः सम्यग्दृष्टयो भवंति बोद्धव्याः । ततःखलु अधस्तनाः सम्यमिश्राश्च तथा शेषाः॥ १८१ ॥ Page #296 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २९१ टीका-पंचानुत्तरनवानुदिशदेवाः सम्यग्दृष्टयो निश्चयेन ज्ञातव्या भवंति तेभ्यः पुनरधो मिथ्यादृष्टयः सासादनाः सम्यतिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयो भवंति तथा शेषाश्च नारकतिर्यनुष्या मिश्रा भवंतीति॥१८१॥ अल्पबहुत्वं प्रतिपाद्य बंधकारणं प्रतिपादयन्नाह;- . मिच्छादसणअविरदिकसायजोगा हवंति बंधस्स । आऊसज्झवसाणं हेदव्यो ते दु णायव्वा ॥ १८२ ॥ मिथ्यादर्शनाविरतिकषाययोगा भवंति बंधस्य । आयुषोऽध्यवसानं हेतवस्ते तु ज्ञातव्याः ॥ १८२॥ टीका-भिथ्यात्वाविरतिकषाययोगास्त एव हेतवो वंधस्यायुषो भवंति पुनरध्यवसायः परिणामः हेतुर्भवतीति ज्ञातव्याः । पंच मिथ्यात्वानि पंचेंद्रियाणि मनः षट्कायविराधनानि त्रयोदश योगाः षोडश कषाया नव नोकषायाश्च सर्वे एते पंचपंचाशत्प्रत्ययाः कर्मवंधस्य हेतवो वोद्धव्या भवंति; अन्ये भेदा अत्रैवांतर्भवंतीति ॥ १८२ ॥ बंधस्वरूपं प्रतिपादयन्नाह;जीवो कसायजुत्तो जोगादो कम्मणो दु जे जोग्गा। गेण्हइ पोग्गलदवे बंधो सो होदि णायव्यो ।। १८३॥ जीवः कषाययुक्तो योगात् कर्मणस्तु यानि योग्यानि । गृह्णाति पुद्गलद्रव्याणि बंधः स भवति ज्ञातव्यः ॥ १८३॥ टीका-जीवः कषाययुक्तः क्रोधादिपरिणतः योगान्मनोवाक्कायकियाभ्यः कर्मणो योग्यानि यानि पुद्गलद्रव्याणि गृहाति स बंधः कषाययुक्त इति पुनर्हेतुनिर्देशस्तीव्रमंदमध्यमकषायानुरूपस्थित्यनुभवविशेषप्रतिपत्त्यर्थमाह-स्वक आत्मा कषति कर्मादत्त इति चेत् नैष दोषो जीवत्वात् जीवो Page #297 -------------------------------------------------------------------------- ________________ मूलाचारे नामप्राणधारणादायुःसंबंधात्, न पुनरायुर्विरहाज्जीवो येन आत्मना पुरतः पुद्गलानादत्ते कर्मयोग्यानिति लघु निर्देशात्सिद्धः कर्मणा योग्यानिति पृथग्विभक्त्युच्चारणं वाक्यांतरज्ञापनार्थं किं पुनस्तद्वाक्यांतरमत आह, कर्मणो जीवः सकषायो भवतीत्येवं वाक्यं एतदुक्तं भवति कर्मण इति हेतुनिर्देशः, कर्मणो हेतोर्जीवः कषायपरिणतो भवति अकर्मकस्य कषायलोपोऽस्ति ततो जीवः कर्मणो योग्यानिति, तयोरनादिसंबंध इत्युक्तं भवति ततोऽमूर्त्तः जीवः मूर्त्तेन कर्मणा कथं वध्यत इति वोध्यमपाकृतं भवति, इतरथा हि वंधस्यादिमत्त्व आत्यंतिकीं शुद्धिं दधतः सिद्धस्यैव बंधाभावः प्रसज्येत इति द्वितीयवाक्यं योग्यान् पुद्गलान् गृह्णातीति । अर्थवशाद्विभक्तिपरिणाम इति पूर्व हेतुसंबंधं त्यक्त्वा षष्टीसंबंधमुपैति कर्मणो याग्यानिति । पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थं तेनात्मगुणो दृष्टो निराकृतो भवति संसारहेतुर्न भवति यतो गृण्हातीति हेतुहेतुमद्भावख्यापनार्थः अतो मिथ्यादर्शनाया वेशादार्द्रीकृतस्यात्मनः सर्वयोगविशेषसूक्ष्मैकक्षेत्रावगाहिनामनंतप्रदेशानां पुद्गलानां कर्मभावयोग्यानामविभागेनोपश्लषो बंध इत्याख्यायते, यथा भाजनविशेषक्षिप्तानां विविधरसपुष्पफलानां मदिराभावेन परिणामस्तथा पलानामप्यात्मनि स्थितानां योगकषायवशात्कर्मभावेन परिणामो वेदितव्यः । स वचनमन्यनिर्वृत्त्यर्थं स एष बंधो नान्योऽस्ति तेन गुणगुणिबंध निर्वर्त्तितो भवति तुशब्दोऽवधारणार्थः । कर्मादिसाधनो बंधशब्दो व्याख्यात इति ॥ १८३ ॥ २९२ आह, किमयं बंध एकरूप एवाहोस्वित्प्रकारा अस्य, तदुच्यते;पयडिट्ठिदिअणुभागप्पदेसबंधो य चदुविहो होइ । दुविहो य पयडिबंधो मूलो तह उत्तरी चेव ॥ १८४ ॥ प्रकृतिस्थित्यनुभागप्रदेशबंधश्च चतुर्विधो भवति । द्विविधश्च प्रकृतिबंधो मूलस्तथोत्तरश्चैव ॥ १८४ ॥ Page #298 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । २९३ टीका - बंधशब्दः प्रत्येकमभिसंबध्यते । प्रकृतिबंधः, स्थितिबंधः, अनुभागबंधः, प्रदेशबंधः इति चतुर्विधो बंधो भवति । प्रकृतिबंधस्तु द्विविधः मूलस्तथोत्तरी, मूलप्रकृतिबंध उत्तरप्रकृतिबंधश्चेति । प्रकृतिः स्वभावः निवस्य का प्रकृतिस्तिक्तता गुडस्य का प्रकृतिर्मधुरता तथा ज्ञानावरणस्य का प्रकृतिरर्थानवगमः, दर्शनावरणस्यार्थानालोकनं, वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनं, दर्शनमोहस्य तत्वार्थाश्रद्धानं, चारित्रमोहस्यासंयमः, आयुषो भवधारणं, नाम्नो नरकादिनामकारणं, गोत्रस्योच्चैर्नीचैः स्थानसंशब्दनं, अंतरायस्य दानादिविघ्नकरणं । तदेव लक्षणं कार्यं प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावाप्रच्युतिः स्थितिः यथाऽजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः यथाऽजागोमहिष्यादिक्षीराणां तीव्रमंदादिभावेन रसविशेषस्तथा कर्मपुहलानां स्वगतसामर्थ्यविशेषोऽनुभवः। इयत्तावधारणं प्रदेशः कर्मभावपरिणतपुद्गलस्कंधानां परमाणुपरिच्छेदेनावधारणं प्रदेश इति । एवं चतुर्विध एव बंध इति ॥ १८४ ॥ तत्रायस्य मूलप्रकृतिबंधस्य भेददर्शनार्थमाह - णाणस्स दंसणस्स य आवरणं वेदणीय मोहणियं । आउगणामा गोदं तहंतरायं च मूलाओ ॥ १८५ ॥ ज्ञानस्य दर्शनस्य च आवरणं वेदनीयं मोहनीयं । आयुर्नाम गोत्रं तथांतरायं च मूलाः ॥ १८५ ॥ टीका - आवृणोत्या व्रियतेनेनेति वाऽऽवरणं तत्प्रत्येकमभिसंवध्यते ज्ञानस्थावरणं दर्शनस्यावरणं । वेदयति विद्यतेऽनेनेति वा वेदनीयं । मोहयति मुह्यतेऽनेनेति वा मोहनीयं । एत्यनेन नरकादिभवमित्यायुः । नमयत्यात्मानं म्यतेऽनेनेति वा नाम । उच्चैर्नीचैश्च गूयते शब्दयते इति गोत्रं । दातृदेयादीनामंतरं मध्यमे यातीत्यंतरायः । तथा तेन प्रकारेण मूला उत्तरप्रकृत्याधारभूता अष्टौ प्रकृतयो भवतीति । स एष मूलः प्रकृतिबंध इति ॥ १८५ ॥ Page #299 -------------------------------------------------------------------------- ________________ २९४ मूलाचारे __इदानीमुत्तरप्रकृतिबंधमाह,पंच णव दोणि अट्ठावीसं चदुरो तहेव वादालं । दोण्णि य पंच य भणिया पयडीओ उत्तरा चेव ॥१८६॥ पंच नव द्वे अष्टाविंशतिः चतस्रः तथैव द्वाचत्वारिंशत् । द्वे च पंच च भणिताः प्रकृतय उत्तराश्चैव ॥ १८६ ॥ टीका-ज्ञानावरणस्य पंच प्रकृतयः, दर्शनावरणस्य नव प्रकृतयः, वेदनीयस्य द्वे प्रकृती, मोहनीयस्याष्टाविंशतिः प्रकृतयः, आयुषश्चतस्रः प्रकृतयः, नाम्नो द्विचत्वारिंशत्प्रकृतयः, गोत्रस्य द्वे प्रकृती, अंतरायस्य पंच प्रकृतयः । अथवा पंचप्रकृतयो ज्ञानावरणमित्येवमादि । इत्येवं नामत्रिनवत्यपेक्षयाऽष्टचत्वारिंशच्छतमुत्तरप्रकृतयो भवंतीति वेदितव्यम् ॥ १८६ ॥ के ते ज्ञानावरणस्य पंच भेदा इत्याशंकायामाह;-- आभिणिबोहियसुदओहीमणपज्जयकेवलाणं च । आवरणं णाणाणं णाव्वं सवभेदाणं ॥ १८७॥ आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलानां च । आवरणं ज्ञानानां ज्ञातव्यं सर्वभेदानां ॥ १८७ ॥ टीका-अभिमुखो नियतो बोध अभिनिबोधः स्थूलवर्तमानांतरिता अर्था अभिमुखाश्चक्षुरिंद्रिये रूपं नियमितं श्रोत्रंद्रिये शब्दः घ्राणेंद्रिये गंधः रसनेंद्रिये रसः स्पर्शनेंद्रिये स्पर्शः नोइंद्रिये दृष्टश्रुतानुभूता नियमिताः, आभिमुखेषु नियमितेष्वर्थेषु यो बोधः स अभिनिबोध अभिनिबोध एवाभिनिबोधकं ज्ञानमत्र विशेषस्य सामान्यरूपत्वात्, आभिनिबोधिकं विशेषेणान्येभ्योऽवच्छेदकमतो न पुनरुक्तदोषः । श्रुतं मतिपूर्वमिंद्रियगृहीतार्थात्पृथग्भूतमर्थग्रहणं यथा घटशब्दात् घटार्थप्रतिपत्तिधूमाच्चान्युपलंभ इति । अवधानादवधिः पुद्गलमर्यादावबोधः । परकीयमनोगतार्थं मन इत्युच्यत Page #300 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। २९५ तत्परि समंतादयत इति मनःपर्ययः । त्रिकालगोचरानंतपर्यायाणां अववोधः केवलं सर्वथा शुद्धः । ज्ञानशब्दः प्रत्येकमभिसंबध्यते । अभिनिवोधिकज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्ययज्ञानं, केवलज्ञानं चेति । आवरणशब्दोऽपि प्रत्येकमंभिसंवध्यते; आभिनिवोधिकज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरणं, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणं चेति । एतेषां सर्वभेदानामावरणं ज्ञातव्यं । अभिनिबोधिकं ज्ञानमवग्रहहावायधारणामेदेन चतुर्विधं, विषयविषयिसन्निपातानंतरमवग्रहणमवग्रहः, सोऽप्यर्थव्यंजनावग्रहभेदेन द्विविधः, प्राप्तार्थग्रहणमवग्रहः यथा चक्षुरिन्द्रियेण रूपग्रहणं प्राप्तार्थग्रहणं व्यंजनावग्रहो यथा स्पर्शनेंद्रियेण स्पर्शग्रहणं । गृहीतस्यार्थस्य विशेषाकांक्षणमीहा योऽवग्रहेण गृहीतोऽर्थस्तस्य विशेषाकांक्षणं भवितव्यता प्रत्ययं यथा कंचित् दृष्ट्वा किमेषो भव्य उत अभव्यः भव्येन भवितव्यमिति विशेषाकांक्षणमीहा । ईहितस्यार्थस्य भवितव्यतारूपस्य संदेहापोहनमवायः भव्य एवायं नाभव्यः भव्यत्वाविनामाविसम्यग्दर्शनज्ञानचरणानामुपलंभात् । निर्णीतस्यार्थस्य कालांतरेष्वविस्मृतिर्धारणा यस्याज्ज्ञानात्कालांतरेऽप्यविस्मरणहेतुभूतो जीवे संस्कार उत्पद्यते तज्ज्ञानं धारणा । न चैतेषांमवग्रहादीनां चतुर्णा सर्वत्र क्रमेणैवोत्पत्तिस्तथानुपलंभात् ततः क्वचिदवग्रह एव, क्वचिदवग्रहो धारणा च, क्वचिदवग्रह ईहा च, क्वचिदवग्रहहावायधारणा इति । तत्र बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवसेतरभेदेनैकैको द्वादशविधः । तत्र बहूनामेकवारेण ग्रहणं बढवग्रहः युगपत्पंचांगुलिग्रहणवत् । बहुप्रकाराणां हस्त्यश्वगोमहिष्यादानां नानाजातीनां ग्रहणं बहुविधावग्रहः । एकजातिग्रहणमेकविधावग्रहः । आशु ग्रहणं क्षिप्रावग्रहः । चिरकालग्रहणमक्षिप्रावग्रहः । अभिमुखार्थग्रहणं निःसृतावग्रहः । अनभिमुखार्थग्रहणमनिःसृतावग्रहः । अथवोपमानोपमेयभावन ग्रहणं निःसृतावग्रहस्तद्विपरीतोऽन्यथा, यथा कमलदलनेत्रात्तद्विपरीतो वा । नियमितगुणविशिष्टार्थग्रहणमुक्तावग्रहः यथा चक्षुरिंद्रियेण धवलग्रहणं । अनियमितगुणविशिष्टद्रव्य ग्रहणमनुक्तावग्रहः यथा Page #301 -------------------------------------------------------------------------- ________________ २९६ मूलाचारे चक्षुरिंद्रियेण द्रव्यांतरस्य । निर्णयेन ग्रहणं ध्रुवावग्रहस्तद्विपरीतोऽध्रुवावग्रहः । एवमीहादीनामपि द्वादशभेदा ज्ञातव्याः । “ यथा चक्षुरिंद्रियस्याष्टचत्वारिंशद्भेदास्तथा पंचानामिंद्रियाणां षष्ठस्य मनसश्चैवमष्टाशीत्युत्तरदिशतभेदा भवंति तेषु व्यंजनावग्रहस्याष्टचत्वारिंशद्भेदानां मिश्रणे कृते सति षट्रिंशदुत्तरत्रिशतभेदा आभिनिवोधिकस्य ज्ञानस्य भवंति " ज्ञानभेदादावरणस्यापि भेदो द्रष्टव्य इति । अतज्ञानमपि पर्यायादिभेदेन विंशतिभेदं । पर्यायः, पर्यायसमासः अक्षरं, अक्षरसमासः, पदं, पदसमासः संघातः संघातसमासः प्रतिपत्तिः, प्रतिपत्तिसमासः, अनियोगः, अनियोगसमासः, प्राभृतकः, प्राभृतकसमासः, प्राभृतकप्राभृतकः, प्राभृतकप्राभृतकसमासः, वस्तुः, वस्तुसमासः, पूर्व, पूर्वसमासः । तत्राक्षराणां भावादक्षरं केवलज्ञानं तस्यानंतभागः पर्यायलव्ध्यक्षरसंज्ञकं केवलज्ञानमिव निरावरणं सूक्ष्मनिगोदस्य तदपि भवति तत्स्वकीयानंतभागेनाधिकं पर्यायसंज्ञकं भवति ज्ञानं तस्मादुत्पन्नं श्रुतमपि पर्यायसंज्ञकं कार्य कारणोपचारात् । ततस्तदेवानंतभागेन स्वकीयेनाधिकं पर्यायसमासः । एवमनंतभागासंख्यातगुणानंतगुणवृद्ध्या चैकाक्षरं भवति वृद्धीरीदृशीः असंख्यातलोकमात्राः षड्बृद्धीरतिक्रम्य पर्यायाक्षरसमासस्य सर्वपाश्चमो विकल्पो भवति तदनंतभागाधिकमक्षरं नाम श्रुतज्ञानं भवति । कथं १ द्रव्यश्रुतप्रतिवद्धैकाक्षरोत्पन्नस्योपचारेणाक्षरव्यपदेशात् । तस्योपर्येकाक्षरे वृद्धिं गतेऽक्षरसमासः अक्षरस्यानंतभागे वा वृद्धि गतेऽक्षरसमासो भवति एवं यावत्पदं न प्राप्तं तावदक्षरसमासं । तस्योपर्येकाक्षरे वृद्धिं गते पदं षोडशशतचतुस्त्रिंशत्कोटीभिस्त्रयशीतिलक्षाधिकाभिरष्टसप्ततिशताधिकाभिरष्टाशीत्यक्षराधिकाभिश्चाक्षराणां गृहीताभिरेकं द्रव्यं श्रुतपदं तस्मादुत्पन्नज्ञानमप्युपचारेण पदसंज्ञकं श्रुतं । तस्योपर्येकाक्षरे वृद्धिं गते पदसमासः। एवमेकैकाक्षरवृद्धिक्रमेण यावत्संघातं १-" अस्माञ्चिह्नादारभ्य ” एतचिह्नान्त न वर्तते उपलब्धलिखितपुस्तके पाठः परंतु विज्ञायावश्यकं लिखितो मया। निवेदकः-इंद्रलालजैनः । Page #302 -------------------------------------------------------------------------- ________________ पर्याप्तत्यधिकारः । न प्राोति तावत्सर्वं पदसमासः । तत एकाक्षरे वृद्धिं गते संघातः । संघातः पदैर्यावद्भिर्नरकगतिः प्ररूप्यते तावद्भिर्भवाते तस्मादुत्पन्नं ज्ञानमपि संघातसंज्ञकं, एतस्योपर्येकाक्षरे वृद्धिं गते संघातसमासः । एकाक्षरे प्रविष्टे प्रतिपत्तिः स्यात् यावद्भिः पदैरेकगतींद्रिय काययोगादयः प्ररूप्यते तावद्भिः पदैर्गृहीतः प्रतिपत्तिश्रुतं भवति तस्योपर्येकाक्षरे वृद्धिं गते प्रप्तिपत्तिसमासः यावदनुयोगो न भवति । एकाक्षरे वृद्धिं गतेऽनियोगो भवति चतुर्दशमार्गणाप्ररूपकस्तत एकाक्षरे वृद्धेऽनियोगसमासः । एकाक्षरेण प्राभृतकप्राभृतकं भवति संख्यातानियोगद्वारस्तत एकैकाक्षरवृद्धिक्रमेण यावत्प्राभृतकं न परिपूर्ण तत्सर्वं प्राभृतकसमासस्तत एकाक्षरेण प्राभृतकप्राभृतकं भवति तत एकाक्षरेण वृद्धिर्यावद्वस्तु एकाक्षरेणोनं तत्सर्वं प्राभृतकप्राभृतकसमासः एकाक्षरेण वस्तु विंशतिप्राभृतकैस्तत एकाक्षरवृद्धया नेतव्यं यावत्सर्वमेकाक्षरेणोनं तत्सर्वं वस्तुसमासः । तत एकाक्षरेण पूर्व भवति संख्यातवस्तुभिस्तत एकैकाक्षरवृद्ध्या तावन्नेतव्यं यावल्लोकविंदुसारश्रुतं । एकाक्षरेणोनं तेनाधिकं पूर्वं पूर्वसमासः । एतस्य श्रुतस्यावरणं श्रुतावरणं श्रुतज्ञानभेदावरणस्यापि भेद इति ॥ अवधिज्ञानं देशावधिपरमावधिसर्वावधिभेदेन त्रिविधमेकैकमपि जघन्योत्कृष्टभेदेन द्विविधं । तत्र जघन्यदेशावधिद्रव्यत एकजीवौदारिकशरीरस्य लोकोनभागे हत एकभागं जानाति, क्षेत्रतः घनांगुलस्यासंख्यातभागं जानाति, कालत आवल्या असंख्यातभागं जानाति, भावतो जघन्यद्रव्यपर्यायेषु आवल्य संख्यातभागेषु कृतेषु तत्रैकखंडं जानाति । उत्कृष्टदेशावधिर्द्रव्यतः कार्माणवर्गणाया मनोवर्गणानंतभागेन भागे हते तत्रैकखंडं जानाति क्षेत्रतः संख्यात लोकं जानाति कालतः पल्योपमं जानाति भावतोऽसंख्यात लोकपर्यायान् जानाति । तत्र परमावधिर्जघन्यद्रव्यतो देशायुत्कृष्टद्रव्यस्य मनोवर्गणानंतभागस्यानंतभागेन २९७ भागे हते तत्रैकभागं जानाति क्षेत्रतोऽसंख्यातलोकं जानाति कालत पल्योपमं जानाति भावतोऽसंख्यातलोकपर्यायान् जानाति । उत्कृष्टो द्रव्यतो Page #303 -------------------------------------------------------------------------- ________________ २९८ मूलाचारे मनोवर्गणाया अनंतभागं जानाति क्षेत्रतोऽसंख्याताँल्लोकान् जानाति कालतोऽसंख्यातलोकसमयान् भावतोऽसंख्यातलोकपर्यायान् जानाति । सर्वावधिद्रव्यत एकं परमाणुं जानाति क्षेत्रतोऽसंख्याताँल्लोकान् जानाति कालतोऽसंख्यातलोकसमयान जानाति भावतोऽसंख्यातलोकपर्यायान जानाति । सर्वत्रासंख्यातगुणो गुणकारो द्रष्टव्यः पूर्वपूर्वापेक्षयाऽनुगाम्यननुगामिवर्द्धमानहीयमानावस्थितभेदात् षडिधो वावधिः, एतस्यावधिज्ञानस्यावरणमवधिज्ञानावरणं । मनःपर्ययज्ञानमृजुविपुलमतिभेदेन द्विविधमृजुमतिमनःपर्ययज्ञानं विपुलमतिमनःपर्ययज्ञानं चेति । ऋज्वी प्रगुणा निर्वर्तिता वाक्कायमनस्कृतार्थस्य परमनोगतस्य विज्ञानं निर्वर्तिता कुटिला विपुला च मतिविपुलमतिर्निवर्तिता वाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात्, अथवा ऋज्वी मतिर्यस्य ज्ञानविशेषस्यासौ ऋजुमतिविपुला मतिर्यस्यासौ विपुलमतिः। ऋजुमतिर्विपुलमतिश्च मनःपर्ययः । तत्र ऋजुमतिद्रव्यतो जघन्यनैकसामयिकी सौदारिकशरीरनिर्जरां जानात्युत्कृष्टत एकसामयिकी चक्षुरिंद्रियनिर्जरां जानाति, क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वं, उत्कृष्टतो योजनपृथक्त्वं जानाति, कालतो जघन्येन द्वौ वा त्रीन्वा भवान्, उत्कृष्टतः सप्ताष्टौ भवान् जानाति, भावतो जघन्येनोत्कृष्टेन चासंख्यातभावान् जानाति किं तु जघन्यादुत्कृष्टानां साधिकत्वं इति । विपुलमतिद्रव्यतो जघन्येनैकसमयिकी चक्षुरिन्द्रियनिर्जरां जानाति उत्कृष्टेनैकसमयप्रबद्धकर्मद्रव्यस्य मनोवर्गणाया अनंतभागेन भागे हृते एकखंडं जानाति, क्षेत्रतो जघन्येन योजनपृथक्त्वं साधिकं जानाति उत्कृष्टतो मनुध्यक्षेत्रं जानाति, कालतो जघन्येन सप्ताष्टभवान् जानात्युत्कृष्टतोऽसंख्यातान् भवान् जानाति, भावतो जघन्येनासंख्यातपर्यायान जानाति उत्कृष्टतस्ततोऽधिकान् पर्यायान् जानाति । एतस्य मनःपर्ययस्यावरणं मनःपर्ययावरणं । केवलंज्ञानमसहायमन्यनिरपेक्षं तस्यावरणं केवलज्ञानावरणं । एवं पंचप्रकारमावरणं; ज्ञानावारकः पुद्गलस्कंधनिचयः प्रवाहस्वरूपेणानादिबद्धः ज्ञानावरणमिति ॥ १८७ ॥ Page #304 -------------------------------------------------------------------------- ________________ पर्याप्त्याधिकाराः। २९९. दर्शनावरणप्रकृतिभेदानाह;णिदाणिद्दा पयलापयला तह थीणगिद्धि णिद्दा य । पयला चक्खु अचक्खू ओहीणं केवलस्सेदं ॥ १८८ ॥ निद्रानिद्रा प्रचलाचला तथा स्त्यानगृद्धिः निद्रा च । प्रचला चक्षुः अचक्षुः अवधीनां केवलस्येदं ॥ १८८ ॥ टीका-आवरणमित्यनुवर्तते तेन सह संबंधः । निद्रानिद्रा प्रचलाप्रचला स्त्यानगृद्धिः निद्रा प्रचला अत्र दर्शनावरणं सामानाधिकरण्येन दृश्यते निद्रानिद्रा चासौ दर्शनावरणं च एवं प्रचलाप्रचला दर्शनावरणं स्त्यानगृद्धिदर्शनावरणं निद्रा दर्शनावरणं प्रचला दर्शनावरणं, उत्तरत्र वैयधिकरण्येन चक्षुर्दर्शनावरणमक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणं चेति नवविधं दर्शनावरणमेतदिति । तत्र मदस्वेदक्लमविनोदार्थ स्वापो निद्रा तस्या उपर्युपरि वृत्तिनिद्रानिद्रा, स्वापक्रिययात्मानं प्रचलयति सा प्रचला शोकश्रममदादिप्रभवा आसीनस्यापि नेत्रगात्रविकृतिसूचिकासौ च पुनः पुनर्वतमाना प्रचलाप्रचला, स्वप्ने वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिःस्त्यायतेरनेकार्थत्वात् स्वापार्थ इह गृह्यते गृधेरपि दृप्तिः स्त्याने स्वप्ने गृध्यते दृप्यते यदुदयादात्मा रौद्रं बहुकर्म करोति स्त्यानगृद्धिः । तत्र निद्रानिद्रादर्शनावरणोदयेन वृक्षाग्रे समभूमौ यत्र तत्र देशे घोरं खं घोरयन्निर्भरं स्वपिति, प्रचलाप्रचलातीवोदयेन आसीन उत्थितो वा गलल्लालामुखं पुनः शरीरं शिरः कंपयन् निर्भरं स्वपिति, स्त्यानगृद्धिदर्शनावरणोदयेन उत्थितोऽपि पुनः स्वपिति सुप्तोऽपि कर्म करोति दंतान् कटकटायमानः शेते इति । निद्रायास्तीवोदयेनाल्पकालं स्वपिति उत्थाप्यमानः सोऽपि शीघ्रमुत्तिष्ठति अल्पशब्देन चेतयते । प्रचलायास्तीवोदयेन वालुकाभृते इव लोचने भवतः गुरुभारावष्टब्धमिव शिरो भवति पुनः पुनर्लोचने उन्मीलयति स्वपंतमात्मानं वारयति । चक्षुर्ज्ञानोत्पादकप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालोचनं Page #305 -------------------------------------------------------------------------- ________________ ३०० मूलाचारे चक्षुदर्शनरूपं दर्शनक्षमं तस्यावरणं चक्षुर्दर्शनावरणं । शेषेद्रियज्ञानोत्पादकप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालोचनमचक्षुर्दर्शनं तस्यावरणमचक्षुदर्शनावरणं । अवधिज्ञानोत्पादकप्रयत्नानुविद्धसन्निपातगुणीभूतविशेषरूपिवस्तुसामान्यालोचनमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं । युगपत्सर्वद्रव्यपर्यायसामान्यविशेषप्रकाशकं केवलं केवलं जानाति भाविकेवलदर्शनं तस्यावरणं केवलदर्शनावरणं । मिथ्यात्वासंयमकषाययोगेकरूपेण परिणतो जीवसमवेतदर्शनगुणप्रतिबंधकस्तदर्शनावरणामिति ॥ १८८ ॥ वेदनीयमोहीययोरुत्तरप्रकृतीः प्रतिपादयन्नाह;सादमसादं दुविहं वेदणियं तहेव मोहणीयं च ! दसणचरित्तमोहं कसाय तह णोकसायं च ॥१८९ ॥ सातमसातं द्विविधं वेदनीयं तथैव मोहनीयं च । दर्शनचरित्रमोहः कषायस्तथा नोकषायश्च ॥ १८९॥ टीका-सातमसातं द्विविधं वेदनीयं, तथैव मोहनीयमपि द्विविधं दर्शनमोहनीयं चरित्रमोहनीयं च, द्विविधमुत्तरत्र भणति तेन सह संबंधः । चरित्रमोहनीयमपि द्विविधं कषायमोहनीयनोकषायमोहनीयभेदेन सातं सुखं सांसारिकं तद्भोजयति वेदयति जीवं सातवेदनीयं, असातं दुःखं तद्भोजयति वेदयति जीवमसातवेदनीयं ! यदुदयाद्देवादिगतिषु शारीरिकमानसिकसुखप्राप्तिस्तत्सातवेदनीयं, यदुदयान्नरकादिगतिषु शारीरमानसदुःखानुभवनं तदसातवेदनीयं । एवं वेदनीयकर्मणो द्वे प्रकृती सुखदुःखानुभवननिवंधनः पुद्गलस्कंधचयो मिथ्यात्वादिप्रत्ययवशेन कर्मपर्यायपरिणतो जीवः समवेतो वेदनीयमिति । अप्राप्तसमयपदार्थेषु रुचिः श्रद्धा दर्शनं तन्मोहयति परतंत्रं करोति दर्शनमोहनीयं, पापक्रियानिवृत्तिश्चारित्रं तत्र घातिकर्माणि पापं तेषां क्रिया मिथ्यात्वासंयमकषायास्तेषामभावश्चारित्रं दुःखसस्यं कर्मक्षेत्रं कृषति फलवत्कुर्वतीति कषायाः, ईषत्कषाया नोक Page #306 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । ३०१ षायाः, स्थित्यनुभागोदये कषायेम्य एतेषां स्तोकत्वं यत ईषत्कषायत्वं युक्तमिति ॥ १८९ ॥ दर्शनमोहनीयस्य कषायनोकषायाणां च भेदानाह; तिण्णिय दुवेय सोलस णवभेदा जहाकमेण णायव्वा । मिच्छत्तं सम्मत्तं सम्मामिच्छत्तमिदि तिण्णि ॥ १९० ॥ त्रयो द्वौ षोडश नव भेदा यथाक्रमेण ज्ञातव्याः । मिथ्यात्वं सम्यक्त्वं सम्य मिथ्यात्वमिति त्रयः ॥ १९० ॥ टीका-त्रयो, द्वौ - षोडश नव भेदा यथाक्रमेण ज्ञातव्याः । दर्शनमोहनीयस्य त्रयो भेदाः । चारित्रमोहनीयस्य द्वौ भेदौ, चारित्रकषायमोहनीयस्य षोडश भेदाः चारित्रनोकषायमोहनीयस्य नव भेदाः । अथ दर्शनमोहनीयस्य के ते त्रयो भेदा इत्याशंकायामाह ; - मिथ्यात्वं सम्यक्त्वं सम्यङ्घ्रिथ्यात्वमिति त्रयो भेदाः दर्शनमोहनीयस्य यस्योदयेनाप्तागमपदार्थेषु श्रद्धा न भवति तन्मिथ्यात्वं कोद्रवतुषरूपं, यस्योदयेनाप्तागमपदार्थेषु श्रद्धायाः शैथिल्यं तत्सम्यक्त्वं कोद्रवतंदुलसदृशं यस्योदयेनाप्तानाप्तागमपदार्थषु अक्रमेण श्रद्धे उत्पद्यते तत्सम्यनिथ्यात्वं, दर्शनमोहनीयस्यं पूर्वादिकरणैर्दलितस्य कोद्रवस्येव त्रिधा गतिर्भवति । तच्च बंधं प्रत्येकं सत्ताकर्म प्रति त्रिविधं तत्सम्यङ् मिथ्यात्वस्यैककारणत्वादिति ॥ १९० ॥ षोडशकषायभेदं प्रतिपादयन्नाह; - कोहो माणो माया लोहोणंताणुबंधिसण्णा य । अप्पच्चक्खाण तहा पच्चक्खाणो य संजलणो ॥ १९९ ॥ क्रोधो मानो माया लोभोऽनंतानुबंधिसंज्ञा च । अप्रत्याख्यानं तथा प्रत्याख्यानं च संज्वलनः ॥ १९९ ॥ टीका - क्रोधो रोषसंरंभ: मानो गर्वः स्तब्धत्वं माया निकृतिर्वेचना अनु Page #307 -------------------------------------------------------------------------- ________________ ३०२ मूलाचारे जुत्वं लोभो गृहमूर्छा अनंतानुभवान्मिथ्यात्वासंयमादौ अनुबंधः शीलं येषां तेऽनंतानुबंधिनस्ते च ते क्रोधमानमायालोभा अनंतानुवंधिक्रोधमानमायालोभाः, अथ वाऽनंतेषु भवेष्वनुवंधो विद्यते येषां तेऽनंतानुबंधिनः संसारापेक्षयानंतकालत्वं एते सम्यक्त्वचारित्रविरोधिनः शक्तिद्वयापनोदायेति, अथ वाऽनंतानुवंधिन इति संज्ञा भवंति एत इति । प्रत्याख्यानं संयम ईषत्प्रत्याख्यानं संयमासंयम इत्यर्थः, अत्रावरणशब्दो द्रष्टव्यः, अप्रत्याख्यानमावपवंतीत्यप्रत्याख्यानावरणाः । प्रत्याख्यानं संयममावृण्वंतति प्रत्याख्यानावरणाः । अथवा येषु सत्सु प्रत्याख्यानसंयमादिरहितं सम्यक्त्व भवतीति अप्रत्याख्यानसंज्ञाः क्रोधमानमायालोभास्तादात्ताच्छब्द्यमिति । तथा येषु सत्सु प्रत्याख्यानं सम्यक्त्वसहितः संयमासंयमो भवति क्रोधमानमायालोमाः प्रत्याख्यानसंज्ञा भवंत्यत्रापि तादर्थ्यात्ताच्छब्यमिति । तथा संयमेन सहकीभूय संज्वलंति संयमो वा ज्वलत्येषु सस्विति वा संज्वलनाः क्रोधमानमायालोभा इति । आयाः सम्यत्क्वसंयमघातिनः, द्वितीया देशसंयमघातिनः, तृतीयाः संयमघातिनः, चतुर्थाः, यथाख्यातसंयमघातिन इति ॥ १९१ ॥ नोकषायभेदान्प्रतिपादयन्नाह;-- इत्थीपुरिसणउंसयवेदा हास रदि अरदि सोगो य । भयमेतोय दुगंछा णवविह तह णोकसायभेयं तु ॥१९२।। स्त्रीपुरुषनपुंसकवेदाः हासो रतिः अरतिः शोकश्च । भयमेतस्मात् जुगुप्सा नवविधस्तथा नोकषायभेदस्तु ॥१९२॥ टीका-स्तृणाति छादयति दोषैरात्मानं परं च स्त्री । पुरौप्रकृष्टे कर्मणि शेते प्रमादयति तानि करोतीति वा पुरुषः । न पुमान् न स्त्री नपुंसकं । येषां पुद्गलस्कंधानामुदयेन पुरुष आकांक्षोत्पद्यते तेषां स्त्रीवेद इति संज्ञा । येषामुदयेन पुद्गलस्कंधानां वनितायामाकांक्षा जायते तेषां पुंवेद इति संज्ञा । येषां च युद्गलस्कंधानामुदयेनेष्टकाग्निसदृशेन द्वयोराकांक्षा जायते तेषां नपुंसकवेद Page #308 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। इति संज्ञा । हसनं हासो यस्य कर्मस्कंधस्योदयेन हास्यनिमित्तो जीवस्य राग उत्पद्यते तस्य हास इति संज्ञा कारणे कार्योपचारात् । रम्यतेऽनयेति रमणं वा रतिः कुत्सिते रमते येषां कर्मस्कंधानामुदयेन द्रव्यक्षेत्रकालभावेष रतिरुत्पद्यते तेषां रतिरिति संज्ञा । न रमते न रम्यते वा यया साऽरतिर्यस्य पुद्गलस्कंधस्योदयेन द्रव्यादिष्वरतिर्जायते तस्यारतिरितिसंज्ञा । शोचनं शोचयतीति वा शोकः यस्य कर्मस्कंधस्योदयेन शोकः समुत्पद्यते जीवस्य तस्य शोक इति संज्ञा । भीतिर्यस्मादिभेति वा भयं य: कर्मस्कंधैरुदयमागतैर्जीवस्य भयमुत्पद्यते तेषां भयमिति संज्ञा । जुगुप्सनं जुगुप्सा येषां कर्मस्कंधानामुदयेन द्रव्यादिषु जुगुप्सा उत्पद्यते तेषां जुगुप्सेति संज्ञा । एवं नवविधमेव नोकषायवेदनीयं ज्ञातव्यमिति । कषायवेदनीयाख्यभेदास्तूर्द्धमेतस्माच्चागमाज्ज्ञातव्या इति ॥ १९२ ॥ आयुषो नाम्नश्च प्रकृतेर्भेदान् प्रतिपादयन्नाहःणिरियाऊ तिरियाऊ माणुसदेवाण होंति आऊणी। गदिजादिसरीराणि य बंधणसंघादसंठाणा ॥ १९३॥ नारकायुः तैरश्चायुः मानुषदेवानां भवंति आयूंषि । गतिजातिशरीराणि च बंधनसंघातसंस्थानानि ॥ १९३॥ टीका-नारकादिषु संबंधत्वेनायुषो भेदव्यपदेशः क्रियते नारकेषु भवं नारकायुः, तिर्यक्षु भवं तैरश्चायुः, मनुष्येषु भवं मानुष्यायुः, देवेषु भवं दैवायुः, एवमायूंषि चत्वारि । येषां कर्मस्कंधानामुदयन जीवस्याधोगतिस्वभावेषु नरकेषु तीव्रशीतोष्णवेदनेषु दीर्घजीवनेनाधः स्थानं भवति तेषां नारकायुरिति संज्ञा, येषां पुद्गलस्कंधानामुदयेन तिर्यङ्मनुष्यदेवभवानामेव स्थानं भवति तेषां तैरश्चमानुषदैवायूंषि इति संज्ञेति । गतिर्भवः संसार; यदुदयादात्मा भातरं गच्छति सा गतिर्यदि गतिनाम कर्म न स्यात्तदाऽगति वः स्यात् । यस्मिन् जीवभावे सत्यायुःकर्मणो यथावस्थानं शरारादीनि कर्माणि Page #309 -------------------------------------------------------------------------- ________________ ३०४ मूलाचारे उदयं गच्छंति स भावो यस्य पुद्गलस्कंधस्य मिथ्यात्वादिकारणैः प्राप्तकर्मण उदयाद्भवति तस्या गतिरिति संज्ञा । सा चतुर्विधा-नरकगतिः, तिर्यग्गतिः, मनुष्यगतिः, देवगतिश्चेति । येषां कर्मस्कंधानामुदयादात्मना नारकादिभवस्तेषां नरकगत्यादयः संज्ञाश्चतस्रो भवंति नरकादिगतिषु । तदव्यभिचारिणा सादृश्यनेनैकीकृतात्मा जातिर्जीवानां सदृशःपरिणामः यदि जातिनामकर्म न स्यात्तदा मत्कुणा मत्कुणैवृश्चिका वृश्चिकै/हयो बीहिभिः समाना न जायेरन्, दृश्यते च सादृश्यं तस्माद्यतः कर्मस्कंधाच्च याति सादृश्यं तस्य जातिरिति संज्ञा । सा च पंचविधा, एकेंद्रियद्वीन्द्रियत्रीन्द्रियचतुरािंद्रियपंचेंद्रियजातिभेदेन । यदुदयादात्मा एकेंद्रियः स्यात्तदेकेंद्रियजातिनामकर्म एवं शेषेष्वपि योज्यं । यदुदयादात्मनः शरीरनिर्वृतिस्तच्छरीरनाम, यस्य कर्मस्कंधस्योदयेनाहारतेज:कार्माणवर्गणापुद्गलस्कंधाः शरीरयोग्यपरिणामैः परिणता जीवेन संबध्यते तस्य शरीरमिति संज्ञा । यदि शरीरनामकर्म न स्यादात्मा विमुक्त: स्यात् । तच्छरीरं पंचविधं, औदारिकवैक्रियिकाहारकतैजसकार्माणशरीरभेदेन । यदुदयादाहारवर्गत णागतपुद्गलस्कंधा जीवगृहीता रसरुधिरमांसास्थिमज्जाशुक्रस्वभावौदारिकशरीरं भवंति तदौदारिकशरीरनाम, एवं सर्वत्र यदुदयादाहारवर्गणापुद्गलस्कंधाः सर्वशुभावयवाहारशरीरस्वरूपेण परिणमंति तदाहारकशरीरं नामकम, तथा यदुदयात्तैजसवर्गणापुद्गलस्कंधा निःसरणानिःसरणप्रकामप्राप्तसमस्तप्रत्येकस्वरूपेण भवंति तत्तैजसशरीरं नाम, तथा यदुदयादाहारवर्गणागतपद्लस्कंधा अणिमादिगुणोपलक्षितास्तद्वौक्रियकं शरीरं, यदुदयात्कूठमांडफलवंताकफलवृतवत्सर्वकर्माश्रयभूतं तत्कार्माणाशरीरं । शरीरार्थागतपुद्गलस्कंधानां जीवसंबंधानां यैः युगलस्कंधैः प्राप्तोदयैरन्योन्यसंश्लेषणसंबंधो भवति तच्छरीरबंधनं नामकर्म । यदि शरीरबंधननामकर्म न स्याहालकाकृतपुरुषशरीरमिव शरीरं स्यात् तदौदारिकशरीरबंधनादिभेदेन पंचविधं । यदुदयादौदारिक शरीराणां विवरविरहितान्योन्यप्रवेशानुप्रवेशेन Page #310 -------------------------------------------------------------------------- ________________ पर्याप्तत्यधिकारः i कत्वापादनं भवति तत्संघातनाम । यदि संघातनामकर्म न स्यात्तिलमोदक इव जीवशरीरं स्यात् । तञ्च्चौदारिकशरीरसंघातादिभेदेन पंचविधं । यदुदयादौदारिकादिशरीराकृतेनिर्वृतिर्भवति तत्संस्थाननाम, येषां कर्मस्कंधानामुदयेन जातिकर्मोदयपरतंत्रेण शरीरस्य संस्थानं क्रियते तच्छरीरसंस्थानं । यदि तन्न स्याज्जीवशरीरम संस्थानं स्यात् । तच्च षोढा विभज्यते - समचतुरस्रसंस्थाननाम, न्यग्रोधपरिमंडल संस्थाननाम, सातिशरीरसंस्थाननाम, वामनसंस्थाननाम, कुब्जसंस्थाननाम, हुंडकसंस्थाननाम । समचतुरस्रं समचतुरस्रमिव विभक्तमित्यर्थः । न्यग्रोधो वृक्षस्तस्य परिमंडलमिव परिमंडलं यस्य तन्न्योग्रोधपरिमडलं नाभेरूर्ध्वं सर्वावयवपरमाणु बहुत्वं न्यग्रोधपरिमंडलमिव न्यग्रोधपरिमंडलशरीरसंस्थानमायतवृत्तमित्यर्थः । साति वाल्मीकं शाल्मलिर्वा तस्य संस्थानमिव संस्थानं यस्य तत्सातिशरीरसंस्थानं नाभेरधोवयवानां विशालत्वमूर्ध्न सौक्ष्म्यं । कुब्जस्य शरीरं कुब्जशरीरं तस्य संस्थानमिव संस्थानं यस्य तत्कुब्जशरीरसंस्थानं यस्योदयेन शाखानां दीर्घत्वं भवति तत्कुब्ज शरीरसंस्थाननाम । वामनस्य शरीरं वामनशरीरं तस्य संस्थानं वामनशरीरसंस्थान नाम यस्योदयात् शाखानां ह्रस्वत्वं कायस्य च दीर्घत्वं भवति । विषमपाषाणभृताद्रिरिव विषमं हुंडं यस्य शरीरं तस्य संस्थानमिव संस्थानं यस्य तद्धुंडकशरीरसंस्थानं यस्योदयेन पूर्वोक्तपंच संस्थानेभ्योऽन्यवीभत्सं संस्थानं भवति । अथ बंधन संघातसंस्थानेषु को भेद इति चेन्नैष दोषो यस्य कर्मण उदयेनौदारिकशरीरपरमाणवोऽन्योन्यं वंधमागच्छंति तदौदारिकशरीरवंधनं नाम । यस्य कर्मण उदयेनौदारिकशरीरस्कंधानां शररिभावमुपगतानां बंधननामकर्मोदयेनैकवं घनवद्वानामौदर्यं भवति तदौदारिकशरीरसंघांत नाम । यस्य च कर्मण उदयेन शरीरस्कंधानामाकृतिर्भवति तत्संस्थानमिति महान्भेदो यत । एवं सर्वत्र द्रष्टव्यमिति ॥ १९३॥ २० ३०५ Page #311 -------------------------------------------------------------------------- ________________ ३०६ मुलाचारे तथा;संघडणंगोवंगं वण्णरसगंधफासमणुपुब्वी । अगुरुलहुगुवघादं परघादमुस्सास णामं च ॥ १९४॥ संहमनमंगोपांगं वर्णरसगंधस्पर्शा आनुपूर्वी । अगुरुलधूपघाताः परघात उच्छ्रास नाम च ॥ १९४ ॥ टीका - यस्योदयादस्थिसंधिबंधविशेषो भवति तत्संहननं नाम, एतस्याभावे शरीरसंहननं न भवेत् । तत् षड्धिं; वज्रर्षभनाराच संहननं, वज्रनाराच संहननं, नाराचसंहननं, अर्द्धनाराचसंहननं, कीलकसंहननं, असंप्राप्तास्पाटिका संहननं चेति । अस्थिसंचयं ऋषभवेष्टनं वज्रवद भेद्यत्वादृषभः वज्रश्च नाराचश्च वज्रनाराचौ तौ द्वावपि यस्य शरीरसंहननं तद्वर्षभनाराच संहननं यस्य कर्मण उदयेन वज्रास्थीनि वज्रवेष्टनेन वेष्टितानि वज्रनाराचेन च कीलितानि भवंति । एष एवास्थिवंघो ऋषभरहितो यस्योदयेन भवति तत् द्वितीयं । यस्य कर्मण उदयेन वज्रविशेषणरहितोऽस्थिबंधो नाराचकीलितो भवति तत्तृतीयं । यस्य कर्मण उदयेनास्थिसंचयो नाराचेनार्द्धकीलितो तच्चतुर्थं । यस्य कर्मण उदयेन वज्रास्थीनि वज्रवेष्टनेन वेष्टितानि वज्रनाराचेनैव कीलितानि न भवंति तत्पंचमं । यस्य कर्मण उदयेनान्योन्यसंप्राप्तानि असृपाटिका णिराबद्धानि भवंति तत् षष्ठ मिति ॥ यदुदयादंगोपांगविवेकनिष्पत्तिः तदांगोपांग नाम यस्य कर्मण उदयेनानलकवाहूरूदर नितंवोरःपृष्ठ शिरांस्यष्टावंगानि उपांगानि च मूर्द्धकरोटिमस्तकललाटसंधिभुजकर्णनासिकानयनाक्षिकूप हनुकपोलाधरौष्ठसक्तालुजिह्वाग्रीवास्तनचुच्चुकांगुल्यादीनि भवति । तदंगोपांगं त्रिविधमौदारिकशरीरांगोपांगं, वैक्रियकशरीरांगोपांग, आहारकशरीरांगोपांगं चेति । यस्य कर्मण उदयेनौदारिकांगोपांगानि भवति तदौदारिकागोपांगं नामैवमन्यत्रापि योज्यम् ॥ यदुदयाच्छरीरे वर्णनिष्पत्तिस्तद्वर्णनाम स्यात्तदभावे शरी Page #312 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। wwwmmmm मवर्ण स्यात् तत्पंचविध; कृष्णवर्णनाम, नीलवर्णनाम, रक्तवर्णनाम, हरितवर्णनाम, शुक्लवर्णनाम चेति । यस्य कर्मण उदयेन शरीरपुद्गलानां कृष्णवर्णता भवति तत्कृष्णवर्णनामैव शेषाणामपि द्रष्टव्यं ॥ यस्य कर्मस्कंधस्योदयाज्जीवशरीरे जातिप्रतिनियततिक्तादिरसो भवति तद्रस इति संज्ञा, एतस्य कर्मणोऽभावे जातिप्रतिनियतरसो न भवेत् निवादीनां प्रतिनियतरसोपलंभात्। तत्पंचविधं; तिक्तनाम कटुकनाम, कषायनाम, आम्लनाम, मधुरनाम चेति । यस्य कर्मण उदयेन शरीरपुद्गलास्तिक्तरसस्वरूपेण परिणमंति तत्तिक्तनामैवं शेषाणामप्यर्थो वाच्य इति ॥ यस्य कर्मस्कंधस्योदयेन जीवशरीरे जातिप्रति नियतोगंध उत्पद्यते तस्य गंध इति संज्ञा, न च तस्याभावो हस्त्यजादिषु प्रतिनियतगंधोपलंभात् । तत् द्विविधं सुरभिगंधनामासुराभिगंधनाम चेति । यस्य कर्मस्कंधस्योदयेन शरीरपुद्गलाः सुरभिगंधयुक्ता भवंति तत्सुरभिगंधनाम, यस्य कर्मस्कंधस्योदयेन शरीरपुद्गला दुर्गंधा भवंति तदुर्गधनामेति ॥ यस्य कर्मस्कंधस्योदयेन जीवशरीरे जातिप्रतिनियतःस्पर्श उत्पद्यते तत्स्पर्शनाम न चैतस्याभावः सर्वोत्पलकमलादिषु प्रतिनियतस्पर्शदर्शनात्तदष्टविधं; कर्कशनाम, मृदुनाम, गुरुनाम, लघुनाम, स्निग्धनाम, रूक्षनाम, शीतनाम, उष्णनाम चेति । यस्य कर्मस्कंधस्योदयेन शरीरपुद्गलानां कर्कशभावो भवति तत्ककशनामैवं शेषस्पर्शानामप्यर्थो वाच्यः ॥ आनुपूयं; पूर्वोत्तरशरीरयोरंतराले एकद्वित्रिसमयेषु वर्तमानस्य यस्य कर्मस्कंधस्योदयेन जीवप्रदेशानां विशिष्टः संस्थानविशेषो भवति तदानुपूर्व्य नाम, न च तस्याभावो विग्रहगतौ जातिप्रतिनियतसंस्थानोपलंभात् उत्तरशरीरग्रहणं प्रति गमनोपलंभात् । तच्चतुर्विधं; नरकगतिप्रायोग्यानुपूर्व्य, तिर्यग्गतिप्रायोग्यानुपूर्व्य, मनुष्यगतिप्रायोग्यानुपूर्व्य, देवगीतप्रायोग्यानुपूर्व्य चेति । यस्य कर्मस्कंधस्योदयेन नरकगति गतस्य जीवस्य विग्रहगतौ वर्तमानस्य नरकगतिप्रायोग्यसंस्थानं भवति तन्नरकगतिप्रायोग्यानुपूर्णं नामैवं शेषाणामप्यर्थो वाच्य इति ॥ यस्य कर्मस्कंधस्योदयाज्जीवोऽनंतानंतपुद्गलपूर्णोऽयःपिंडवद्गुरुत्वान्नाधः पतति न Page #313 -------------------------------------------------------------------------- ________________ ३०८ मूलाचारे चार्कतूलवल्लघुत्वादूर्ध्व गच्छति तदगुरुलघुनाम ॥ उपेत्य घात उपघातयस्योदयात् स्वयंकृतोद्वंधनमरुत्पतनादिनिमित्त उपघातो भवति तदुपघातनाम, अथ वा यत्कर्म जीवस्य स्वपीडाहेतूनवयवान्महाशृंगलाध्वस्तानुदरादीन करोति तदुपघातं ॥ परेषां घातः परघातः यस्य कण उदयात्परघातहेतवः शरीरपुद्गलाः सर्पदंष्ट्रावृश्चिकपुच्छादिभवाः परशस्त्राद्याघाता वा भवंति तत्परघातनाम ॥ उच्चसनमुच्छासः यस्य कर्मण उदयेन जीव उच्छ्रासनिःश्वासकायोत्पादनसमर्थः स्यात्तदुच्छासनिःश्वासनाम ॥ अयं नामशब्दः सर्वत्राभिसंवध्यत इति ॥ १९४ ॥ तथा;आदावुज्जोदविहायगइजुयलतस सुहुमणामं च । पज्जतसाहारणजुग थिरसुह सुहगं च आदेजं ॥१९५॥ अथिरअसुहदुव्भगयाणादेज्जं दुस्सरं अजसकित्ती । सुस्सरजसकित्तीविय णिमिणं तित्थयरणामबादाकं१९६ आतपोद्योतविहायोगतियुगलनसाः सूक्ष्मनाम च । पर्याप्तसाधारणयुगं स्थिरंशुभं सुभगं च आदेयं ॥ १९५ ॥ अस्थिराशुभदुर्भगा अनादेयं दुःस्वरमयशस्कीर्तिः । सुस्वरयशःकीर्तिरपि च निर्माणं तीर्थकृत्वं नाम द्वाच त्वारिंशत् ॥ १९६ ॥ टीका-आतपनमातपः यस्य कर्मस्कंधस्योदयेन जीवशरीर आतपो भवति तदातापननाम, न च तस्याभावः सूर्यमंडलादिषु पृथिवीकायिकतापोपलंभात् ॥ उद्योतनमुद्योतः यस्य कर्मस्कंधस्योदयाज्जीवशरीर उद्योत १ संस्कृतीकाया लिखितपुस्तके "णिमिणं " इत्यस्य छाया " निमान"मिति कृता। निर्माणकर्मणो विख्यातत्वात् 'निर्माण"मिति छाया कृतास्ति । द्वयमपि शुद्धम्। Page #314 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। wwwwwwwwwww उत्पद्यते तदुद्यातनाम, न चास्याभावः चन्द्रनक्षत्रादिमंडलेषु खद्योतादिषु च पृथिवीकायिकशरीराणामुद्योतदर्शनात् ॥ विहाय आकाशं विहायसि गतिर्विहायोगतिर्येषां कर्मस्कंधानामुदयेन जीवस्याकाशे गमनं तद्विहायोगतिनाम, न चास्याभावो वितस्तिमात्रपादजीवप्रदेशैभूमिमवगाह्यसकलजीवप्रदेशानामाकाशे गमनोपलंभात्, तत् द्विविधं प्रशस्तविहायोगतिनामाप्रशस्तविहायोगतिभेदेन; यस्य कर्मण उदयेन सिंहकुंजरहंसवृषभादीनामिव प्रशस्ता गतिर्भवति तत्प्रशस्तविहायोगतिनाम ॥ यस्य कर्मण उदयेनोष्ट्रशृगालश्वादीनामिवाप्रशस्ता गतिर्भवति तदप्रशस्तविहायोगतिनाम ॥ यस्य कर्मण उदयेन जीवः स्थावरेषूत्पद्यते तत्स्थावरनामान्यथा स्यावराणामभावः स्यात् । यस्य कर्मण उदयादन्यवाधाकरशरीरेषूत्पद्यते जीवस्तद्वादरनामान्यथाऽप्रतिहतशरीरा जीवाः स्युः ॥ यस्य कर्मण उदयेन सूक्ष्मेषूत्पद्यते जीवस्तत् सूक्ष्मशरीरनिवर्तकं ॥ यदुदयादाहारादि षट्पर्याप्तिनिवृत्तिस्त त्पर्याप्तिनाम । तत् षड्डिधं तद्यथा-शरीरनामकर्मोदयात्पुद्गलविपाकिन आहारवर्गणागतपुद्गलस्कंधाः समवेतानंतपरमाणुनिष्पादिता आत्मावष्टब्धक्षेत्रस्थाः कर्मस्कंधसंवंधतो मूर्तीभूतमात्मानं समवेतत्वेन समाश्रयंति तेषामागतानां पुद्गलस्कंधानां खलरसपर्यायैः परिणमनशक्तिराहारपर्याप्तिः । सा च नांतमुहूर्त्तमंतरेण समयेनैकेन जायते शरीरोपादानात्प्रथमसमयादारभ्यांतर्मुहूर्तेनाहारपर्याप्तिर्निष्पाद्यते खलभागं तिलखलोपमास्थ्यादिस्थिरावयवैस्तिलतैलसमानं रसभागं रसरुधिरवसाशुकादिद्रव्यं तदवयवपरिणमनशक्तिनिष्पत्तिः शरीरपर्याप्तिः साहारपर्याप्तेः पश्चादतर्मुहूर्तेन निष्पद्यते । योग्यदेशस्थितरूपादिविशिष्टार्थग्रहणशक्तेर्निष्पत्तिरिन्द्रियपर्याप्तिः सापि ततः पश्चादंतर्मुहूर्तादुपजायते न चेंद्रियनिष्पत्तौ सत्यामपि तस्मिन् क्षणे बाह्यार्थज्ञानमुत्पद्यते तदा तदुपकरणाभावात् । उच्छासनिःसरणशक्तनिष्पत्तिरानपानपर्याप्तिरेषापि तदंतर्मुहूर्त्तकाले समतीते भवति । भाषावर्गणायाश्चतुर्विधभाषाकारपरिणमनशक्तेः परिसमाप्तिर्भाषापर्याप्तिरेषापि पश्चादंत Page #315 -------------------------------------------------------------------------- ________________ ३१० मूलाचारे मुहूर्त्तादुपजायते । मनोवर्गणाभिर्निष्पन्नद्रव्यमनोवष्टंभभेदानुभूतार्थस्मरणशक्तरुत्पत्तिर्मनःपर्याप्तिः । प्रारंभोऽक्रमेण जन्मसमयादारभ्य तासां सत्वाभ्युपगमान्निष्पत्तिस्तु पुनः क्रमणैतासामनिष्पत्तिरपर्याप्तिः । न च पर्याप्तिप्राणयोरभेदो यत आहारादिशक्तीनां निष्पत्तिः पर्याप्तिः प्राणत्येभिरात्मेति प्राणः । षड्विधपर्याप्तिहेतुर्यत्कर्मतत्पयाप्तिनाम ॥ शरीरनामकर्मोदयान्निर्वर्त्यमानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येकशररिनाम । बहूनामात्मनामुपभोगहेतुत्वेन साधारणशरीरं यतो भवति तत्साधारणशरीरनाम ।यस्य कर्मण उदयात् रसरुधिरमेदमज्जास्थिमांसशुक्राणां सप्तधातूनां स्थिरत्वं भवति तस्थिरनाम । यदुदयादेतेषामस्थिरत्वमुत्तरोत्तरपरिणामो भवति तदस्थिरनाम । यदुदयादंगोपांगनामकर्मजनितानामंगानामुपांगानां च रमणीयत्वं तच्छुभनाम, तद्विपरीतमशुभनाम । यदुदयात्स्त्रीपुंसयोरन्योन्यप्रीतिप्रभवं सौभाग्यं भवति तत्सुभगनाम । यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तदुर्भगनाम । चशब्दो नामशब्दस्य समुच्चयार्थः । यस्य कर्मणः उदयेनादेयत्वं प्रभोपेतशरीरं भवति तदादेयनाम । यदुदयादनादेयत्वं निष्प्रभशरीरं तदनादेयनाम, अथवा यदुदयादादेयवाच्यं तदादेयं विपरीतमनादेयमिति । शोभनः स्वरः मधुरस्वरः यस्योदयात्सुस्वरत्वं मनोज्ञस्वरनिर्वर्त्तनं भवति तत्सुस्वरनाम । यदुदयात् दुःस्वरताऽमनोज्ञस्वरनिर्वर्त्तनं तत् दुःस्वरनाम । पुण्यगुणाख्यापनकरणं यशःकीर्तिनाम, अथवा यस्य कर्मण उदयात्सद्भूतानां च ख्यापनं भवति तयश कीर्तनं नाम । तत्प्रत्यनीकमपरमयशस्कीर्तिनाम यदुदयात्सद्भूतानामसद्भूतानां चाप्यगुणानां ख्यापनं तदयशस्कीर्तिनाम । नियतं मानं निमानं तत् द्विविधं प्रमाणनिमानं स्थाननिमानं चेति यस्य कर्मण उदयेन द्वे अपि निमाने भवतस्तन्निमाननाम, अन्यथा कर्णनयननासिकादीनां स्वजातिप्रतिरूपणमात्मनः स्थानेन प्रमाणेन च नियमो न स्यात् । यस्य कर्मण उदयेन परममाहत्यं त्रैलोकपूजाहेतर्भवति तत्परमोत्कृष्टं तीर्थकरनाम । एवं पिंडप्रकृतीनां द्वाचत्वारिंशन्नाम्न एकैकापेक्षया त्रिनवतिर्वा भेदा भवंतीति ॥ १९५-१९६ ॥ Page #316 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। mmmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwm ___ गोत्रप्रकृतिभेदमंतरायप्रकृतिभेदं चाह;उच्चाणिचागोदं दाणं लाभंतराय भोगो य। परिभोगो विरियं चेव अंतरायं च पंचविहं ॥ १९७ ॥ उच्चैनीचैर्गोत्रं दानं लाभांतरायो भोगश्च ।। परिभोगो वीर्य चैव अंतरायश्च पंचविधः ॥ १९७ ॥ टीका-गोत्रशब्दः प्रत्येकमभिसंवध्यते; उच्चैर्गोत्रं, नीचैगोत्रं । यदुदयाल्लोकपूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रं, यदुदयाद्दर्हितेषु कुलेषु जन्म तन्नीचैर्गोत्रं ॥ अंतरायशब्दः प्रत्येकमभिसंबध्यते अनुग्रहार्थं स्वस्यातिसर्गोदानं तस्यांतरायः दातृदेयादीनामंतरायो दानांतरायः, । लाभः समीप्सितवस्तु तस्यांतरायो लाभांतरायः, सकृद्धज्यते भोगस्तस्यांतरायो भोगांतरायः, पुनर्भुज्यते परिभोगस्तस्यांतरायः परिभोगांतरायः, वीर्यः शक्तिरुत्साहस्तस्यांतरायोवी-तरायः । दानादिपरिणामव्याघातहेतुत्वात् तव्यपदेशः । यदुदयादातुकामोऽपि न ददाति, लब्धुकामोऽपि न लभते, भोक्तुमिच्छन्नपि न भुक्ते, उपभोक्तुमभिवांछन्नपि न परिभुंक्ते, उत्सहितुकामोऽपि नोत्सहते। इत्येवमंतरायः पंचविधो भवति उत्तरप्रकृतिभेदेन ॥१९७॥ एवमुत्तरप्रकृतिभेदोष्टचत्वारिंशच्छतं भवति ॥ प्रकृतिस्वामित्वं प्रतिपादयन्नाह;सयअडयालपईणं बंधं गच्छति वीसअहियसयं। सव्वे मिच्छादिठी बंधदि नाहारतित्थयरा ॥ १९८ ॥ शताष्टचत्वारिंशत्प्रकृतीनां बंधं गच्छति विंशत्यधिकशतं । सर्वा मिथ्यादृष्टिः बध्नाति नाहारतीर्थकराः ॥ १९८॥ टीका-अष्टचत्वारिंशच्छतप्रकृतीनां मध्ये शतं विंशत्युत्तरं बंधप्रकृतयो भवंति, अष्टाविंशतिरबंधप्रकृतयः । पंच शरीरबंधनानि पंच शरीरसं Page #317 -------------------------------------------------------------------------- ________________ ३१२ मूलाच,रे wwwwwwwwwwwwwwwwwwwwwwww. घातानि चत्वारो वर्णाः चत्वारो रसाः एको गंधः सप्त स्पर्शा सम्यक्त्वसम्यभिथ्यात्वे वे इत्येवमष्टाविंशतिः । एताभ्यः शेषाणां प्रकृतीनामाहारद्वयतीर्थकररहितानां सप्तदशाधिकं शतं मिथ्यादृष्टिर्वनाति । एतासां मिथ्यादृष्टिःस्वामीति । तीर्थकरं सम्यक्त्वेन आहारद्वयं च संयमेनातो न मिथ्यादृष्टिबन्नाति, आहारकाहारकांगोपांगतीर्थकरनामानीति ॥ १९८ ॥ सासादनादीनां बंधप्रकृतीः प्रतिपादयन्नाह;वज्जिय तेदालीसं तेवण्णं चेव पंचवण्णं च । बंधइ सम्भादिट्ठी दु सावओ संजदो तहा चेव ॥ १९९॥ वर्जयित्वा त्रिचत्वारिंशत् त्रिपंचाशत् चैव पंचपंचाशञ्च । बध्नाति सम्यग्दृष्टिस्तु श्रावकः संयतस्तथाचैव । १९९ ॥ टीका-चशब्देन सूचिताः सासादनसम्यग्दृष्टिमिथ्यादृष्टयोर्वधप्रकृतीस्तावन्निरूपयाम:-मिथ्वात्वनपुंसकवेदनरकायुर्नरकगत्येकद्वित्रिचतुरिंद्रियजातिहुंडसंस्थानासंप्राप्तासृपाटिकासंहनननरकगतिप्रायोग्यानुपूर्व्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणशरीरसंज्ञकाः षोडश प्रकृतीस्त्यक्त्वा शेषा मिथ्याष्टिबंधप्रकृतीरेकोत्तरशतं सासादनसम्यग्दृष्टिवनातीति । सम्यमिथ्यादृष्टिःसम्यग्दृष्टिबंधप्रकृतीस्तीर्थकरदेवमनुष्यायूरहिताश्चतुः सप्ततिसंख्याका बन्नातीति, निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्ध्यनंतानुबंधिक्रोधमानमायालोभस्त्रीवेदतियगायुस्तिर्यग्गतिमध्यमचतुः संस्थानमध्यमचतुः संहननतिर्यग्गतिप्रायोग्यानुपूर्योद्योताप्रशस्तविहायोगति दुर्भगदुःस्वरानादेयनीचैर्गोत्रसंज्ञकाः पंचविंशतिप्रकृतीः परिहृत्य तीर्थकरसहिताः सासादनवंधप्रकृतीर्वासप्तसप्ततिरसंयतसम्यग्दृष्टिर्वध्नाति । अप्रत्याख्यानावरणकोधमानमायालोभमनुष्यगत्यौदारिकशरीरांगोपांगमनुष्यायुर्वज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूर्व्यनाम्नी दशप्रकृतीः परिहृत्य शेषा असंयतसम्यग्दृष्टिबंधप्रकृतीस्त्रिपंचाशद्रहिततीर्थकराहारद्वयसहितमिथ्यादृष्टिप्रकृतीर्वा सप्तषष्टिसंज्ञकाः संयता Page #318 -------------------------------------------------------------------------- ________________ • पर्याप्यधिकारः । संयतो वन्नाति । प्रत्याख्यानावरणकोधमानमायालोभसंज्ञकाश्चतस्रः प्रकृतीः परिहृत्य शेषाः संयतासंयतबंधप्रकृतीः पंचपंचाशद्रहितमिथ्याष्टिबंधप्रकृतीर्वा तीर्थकराहारद्वयवंधसहिताः पंचषष्टिप्रकृतीः प्रमत्तसंयतो वनाति । तथा तेनैव प्रकारेणाप्रमत्तादीनां बंधप्रकृतयो द्रष्टव्यास्तद्यथाअसदेद्यारतिशोकास्थिराशुभायशस्कीर्तिसंज्ञकाः षट् प्रकृतीः परिहृत्य शेषा अप्रमत्तो वन्नातीति । अप्रमत्तप्रकृतीस्त्यक्तदेवायुः प्रकृतीरष्टापंचाशत्संज्ञका अपूर्वकरणो वन्नातीति । ता एव निद्राप्रचलारहिताः षट्पंचाशत्प्रकृतीः स एवापूर्वकरणसंख्यातभागेषु वन्नाति तत ऊर्ध्वं संख्येयभागे पंचेंद्रियजातिवैक्रियिकाहारतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियकाहारकशरीरोगोपांगवर्णगंधरसस्पर्शदेवगतिदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्वासविहायोगतित्रसवादरपर्याप्तकप्रत्येकशरीरस्थिरसुभगसुस्वरादेयनिर्माणतीर्थकराख्याः प्रकृतीः परिहृत्य शेषाः षड्रिंशतिप्रकृतीः स एवापूर्वकरणो वनाति ततोऽनिवृत्तिप्रथमभागे ता एव प्रकृतीहास्यरतिभयजुगुप्सारहिता द्वाविंशतिसंख्याका वघ्नाति, अनिवृत्तिवादरस्तत ऊर्ध्व पुंवेदरहिता एकविंशतिप्रकृतीरनिवृत्तिद्वितीयभागे वध्नाति ततः संज्वलनक्रोधरहिता विंशतिप्रकृतीस्तृतीयभागे वध्नाति ततः संज्वलनमानरहिता एकोनविंशतिप्रकृतीश्चतुर्थभागे वध्नाति तत ऊर्ध्व मायारहिता अष्टादशप्रकृतीः पंचमभागे वनाति । तत ऊर्ध्वं ता एव लोभरहिताः सप्तदशप्रकृतीः सूक्ष्मसांपरायो वध्नाति, ज्ञानांतरायदशकदर्शनचतुष्कोच्चैर्गोत्रयशः कीर्तिषोडशप्रकृतीमुक्त्वैकं सदेयं द्वितीयभागे सूक्ष्मसांपरायो वनाति, तत ऊर्ध्वं सातवेदनीयाख्यामेकां प्रकृतिमुपशांतकषायक्षीणकषाययोगकेवालिनो वनंति । अयोगकेवली अवंधको न किंचित्कर्म वनातीति ॥ १९९ ॥ व्याख्यातः प्रकृतिवंधविकल्पः, इदानी स्थितिवंधविकल्पो वक्तव्यः, सा च स्थितिििवधोत्कृष्टा जघन्या च; तत्र यासां कर्मप्रकृतीनामुत्कृष्टा Page #319 -------------------------------------------------------------------------- ________________ ३१४ मूलाचारेस्थितिः समाना तन्निर्देशार्थमुच्यते;तिण्हं खलु पढमाणं उक्कसं अंतराययस्सेव । तीसं कोडाकोडी सायरणामाणमेव ठिदी ॥ २००॥ त्रयाणां खलु प्रथमानां उत्कृष्टं अंतरायस्यैव । त्रिंशत् कोटीकोट्यः सागरनाम्नामेव स्थितिः ॥ २० ॥ टीका--त्रयाणां प्रथमानां ज्ञानावरणदर्शनावरणवेदनीयानां सामीप्यात्साहचर्यादा सर्वेषां प्रथमत्वमंतरायस्य च उत्कृष्टा स्थितिः सागरनाम्नां त्रिंशत्कोटीकोट्यो नाधिकाः । पंचानां ज्ञानावरणीयानां नवानां दर्शनावरणीयानां सातवेदनीयस्यासातवेदनीयस्य पंचांतरायारणां चोत्कृष्टः स्थितिवंधः स्फुटं त्रिंशत्सागरोपेमका कोट्यः । एत कर्मरूपपुद्गला एतावता कालेन कर्मस्वरूपाभावे क्षयमुपवजंतीति ॥ २० ॥ तथाःमोहस्स सत्तरि खलु बीसं णामस्स चेव गोदस्स । तेतीसमाउगाणं उवमाओ सायराणं तु ॥२०१॥ मोहस्य सप्ततिः खलु विंशतिः नाम्नश्चैव गोत्रस्य । त्रयस्त्रिंशत् आयुष उपमाः सागराणां तु ॥ २०१॥ टीका-मोहस्य मिथ्यात्वस्य सागरोपमानां कोटीकोटीनां सप्ततिरुत्कृष्टा स्थितिः, नामगोत्रयोः कर्मणोरुत्कृष्टस्थितिःसागराणां कोटीकोटीनां विंशतिः पूर्वोक्तेन सागरनाम्नां कोटीकोटी इत्यनेन संबंधः । आयुषः पुनः कोटीकोटीशब्दो नास्तीति संबंधस्तथानभिधानादागमे इत्यतः सागरशब्दनैव संबंधः । कुतः पुनः सागरोपमग्रहणादायुष उत्कृष्टस्थितिः उपमा सागराणां त्रयस्त्रिंशस्थितः सागरैस्त्रयास्त्रिंशद्भिरुपमा । तुशब्दः सर्वविशेषणसंग्रहार्थ Page #320 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। ३१५ स्तद्यथा, सातवेदनीयस्त्रीवेदमनुष्यगतिप्रायोग्यानुपूर्व्यनाम्नामुत्कृष्टा स्थितिर्दशसागरोपमकोटीकोट्यः, षोडशकषायाणामुत्कृष्टः स्थितिवंधश्चत्वारिंशकोटीकोट्यः सागराणां, पुंवेदहास्यरतिदेवगतिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननदेवगतिप्रायोग्यानुपूर्व्यप्रशस्तबिहायोगतिस्थिरसुभगशुभस्वरादेययशः कीर्तिरूंच्चैर्गोत्राणामुत्कृष्टः स्थितिबंधः दशसागरोपमकोटीकोट्यः, नपुंसकवेदारतिशोकमयजुगुप्सानरकगतितिर्यग्गत्यकेंद्रियपंचेंद्रियजात्यौदारिकवैक्रियिकतैजसकार्माणशरीरहुंडसंस्थानौदारिकवक्रियिकांगोपां-गासंप्राप्तास॒पाटिकासंहननवर्णरसगंधस्पर्शनरकगतितिर्यग्गातिप्रायोग्यानुपूर्व्यागुरुलधूपघातपरघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्याप्तप्रत्येकशरीरास्थिराशुभदुर्भगदुःस्वरानादेयायशस्कीर्तिनाम्नां नीचैर्गोत्राणामुत्कृष्टः स्थितिबंधो विंशतिसागरोपमकोटीकोट्यो नरकदेवायुषोस्त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टास्थितिः, तिर्यजनुष्यायुष उत्कृष्टा स्थितिस्त्रीणि पल्योपमानि द्वीन्द्रियत्रीन्द्रियचतुरािंद्रियजातिवामनसंस्थानकीलकसंहननसूक्ष्मापर्याप्तसाधारणनाम्नामुत्कृष्टस्थितिः अष्टादशसागरोपमकोटीकोट्यः, आहारशरीरांगोपांगतीर्थकरनाम्नामुत्कृष्टा स्थितिः अंतःकोटीकोट्यः न्यग्रोधसंस्थाननाराचसंहननयोरुत्कृष्टस्थितिश्चतुर्दशसागरोपमकोटीकोट्यः, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडशसागरोपमकोटीकोट्यः । सर्वत्र यावंत्यः सागरोपमकोटीकोट्यस्तावंति वर्षशतान्यावाधाकर्मस्थितिः कर्मनिषेधकः, येषां तु अंतःकोटीकोट्यः स्थितिस्तेषामर्मुहूर्त आवाधा, आयुषः पूर्वकोटीत्रिभाग उत्कृष्टावाधा आवाधानां कर्मस्थितिः कर्मस्थितिकर्मनिषेधक इति इयं संज्ञिपंचेंद्रियस्योत्कृष्टा स्थितिरेकेंद्रियस्य पुनर्मिथ्यात्वस्योत्कृष्टः स्थितिबंध एकं सागरोपमं । कषायाणां सप्त चत्वारो भागा ज्ञानावरणदर्शनावरणांतरायसातवेदनीयानामुत्कृष्टः स्थितिवंधः सागरोपमस्य त्रयः सप्त भागाः; नामगोत्रकषायाणां सागरोपमस्य द्वौ सप्तभागौ । एवं शेषाणां त्रैराशिकक्रमेणैकेंद्रियस्योत्कृष्टा स्थिति:: Page #321 -------------------------------------------------------------------------- ________________ ३१६ - मूलाचारेmmmmmmmmmmmmmmmmmmmarrior साध्या, तस्याः संदृष्टिरेवं ३ | २ || एवं द्वीन्द्रियाद्यसं १०० ४०० शिपंचेंद्रियपर्यंतानामुत्कृष्टा स्थितिः साध्या । द्वीन्द्रियस्य मिथ्यात्वस्योत्कृष्टा स्थितिः पंचविंशतिः सागरोपमाणां, त्रींद्रियस्य पंचाशत्, चतुरािंद्रियस्य शतं असंज्ञिपंचेंद्रियस्य सहस्रं । तद्विभागेनैव शेषकर्मणामप्युत्कृष्टा स्थितिः साध्या त्रैराशिकक्रमेण । तेषां संदृष्टयः । ____ २५ । १०० ७४ ४४ द्वीन्द्रियस्य मिथ्यात्वदीनां ५० २०० १५० १०० | १००० । ७ त्रीन्द्रियस्य मिथ्या- ४००० ३०० ०० | २०० / चतुर्रािया त्वादीनां ७ ७ ७ । ७ स्यमिथ्यात्वदीनां असज्ञि २००० पंचेंद्रियस्य मिथ्यात्वादीनामुत्कृष्टः स्थितिबंधः । सर्वत्र चाल्पः संख्यातभाग एव आवाधा इति ॥२०१॥ उत्कृष्टस्थितिबंध प्रतिपाद्य जघन्यस्थितिबंध प्रतिपादयन्नाह;बारस य वेदणीए णामागोदाणमट्ठय मुहुत्ता । भिण्णमुहुत्तं तु ठिदी जहण्णं सेस पंचण्हं ॥ २०२॥ द्वादश च वेदनीयस्य नामगोत्रयोरष्टौ मुहूर्ताः। भिन्नमुहूर्त तु स्थितिः जघन्या शेषाणां पंचानां ॥ २०२ ॥ टीका-वेदनीयस्य कर्मणो जघन्या स्थितिः द्वादश मुहूर्ताः, नामगोत्रयोः कर्मणोरष्टौ मुहूर्ताः जघन्या स्थितिः । शेषाणां पुनः पंचानां ज्ञानावरणदर्शनावरणमोहनीयायुरंतरायाणां जघन्या स्थितिरंतर्मुहूर्त्तमात्रेति च ॥ जघन्यस्थितविशेष प्रतिपादयन्नाह;-पंचज्ञानावरणचतुर्दर्शनावरणलोभसंज्वलनपंचांतरायाणां जघन्या स्थितिरन्तर्मुहूर्त्ता सातवेद्यस्य द्वादशमुहूर्ता यशः Page #322 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः । ३१७ कीर्त्यच्चगोत्रयोरष्टौ मुहूर्ताः क्रोधसंज्वलनस्य द्वौ मासौ मानसंज्वलनस्यैकमासः मायासंज्वलनस्यार्द्धमासः पुरुषवेदस्याष्टौ संवत्सराः निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिनिद्राप्रचलाऽसातवेदनीयानां सागरोपमस्य त्रयः सप्तभागा: पल्योपमासंख्यातभागहीनाः । मिथ्यात्वस्य सागरोपमस्य सप्तदशभागाः पल्योपमासंख्यातभागहीना अनंतानुवंध्यप्रत्याख्यानप्रत्याख्यानानां सागरोपमस्य चत्वारः सप्तभागाः पल्योपमासंख्यातभागहीना अष्टानां नोकषायाणां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्यातभागहीनौ नरकदेवायंषादशवर्षसहस्राणि तिर्यजनुष्यायुषोरंतर्मुहूर्तः नरकगतिवैक्रियिकशरीरांगोपांगदेवगतिप्रायोग्यानुपूर्व्याणां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्यातभागहीनौ आहाराहारांगोपांगतीर्थकराणां सागरोपमाणां कोटीकोटयोंऽतः कोटीकोटी शेषाणां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्यातभागहीनौ । सर्वत्र जघन्या स्थितिरिति संबंधनीया । सर्वत्र चांतर्मुहूर्त्तमावाघा आवाधो नाम कर्मस्थितिः कर्मनिषेधकः । सर्वोऽयं जघन्यस्थितिबंधः सामान्यापेक्षया संज्ञिपंचेंद्रियस्यैकेंद्रियद्दींद्रियत्रीन्द्रियचतुरिंद्रियासंज्ञिपंचेंद्रियाणां सर्वकर्मणां जघन्यस्थितिबंधः य एवोत्कृष्ट उक्तः स एव पल्योपमासंख्यातभागहीनो द्रष्टव्य इति ॥ २०२ ॥ अनुभागबंधं निरूपयन्नाह;कम्माणं जो दु रसो अज्झवसाणजणिद सुह असुहो वा बंधो सो अणुभागो पदेसबंधो इमो होइ ॥ २०३ ॥ कर्मणां यस्तु रस अध्यवसानजनितः शुभोऽशुभो वा । बंधः सः अनुभागः प्रदेशबंधः अयं भवति ॥ २०३॥ टीका-कर्मणां ज्ञानावरणादीनां यस्तु रसः सोऽनुभवोऽध्यवसानैः परिणामैर्जनितः क्रोधमानमायालोभतीवादिपरिणामभावतःशुभः सुखदः अशुभः असुखदः वा विकल्पार्थः सोऽनुभागबंधः । यथा अजागोमाहिध्यादीनांक्षीणतीबमंदादिभावेन रसविशेषस्तथा कर्मपुद्गलानां तीवादिभावेन स्वगतसाम-- Page #323 -------------------------------------------------------------------------- ________________ मूलाचारे ३१८ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmar र्थ्यविशेषः शुभोऽशुभो वा यः सोऽनुभागवंधः । शुभपरिणामानां प्रकर्षभावाच्छुभप्रकृतीनांप्रकृष्टोऽनुभवोऽशुभप्रकृतीनां निकृष्टः अशुभपरिणामानां प्रकृष्टभावादशुभप्रकृतीनां प्रकृष्टोऽनुभवः शुभप्रकृतीनां निकृष्टः । स एवं प्रकृतिवशादुपपन्नो रसविशेषः द्विधा प्रवर्त्तते स्वमुखेन परमुखेन चैवं सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभव: उत्तरप्रकृतीनां तुल्यजातीनां परमुखे नापि आयुर्दर्शनचारित्रमोहवानां, न हि नरकायुमुखेन तिर्यगायुर्मनुष्यायुर्वा विपच्यते नापि दर्शनमोहश्चारित्रमोहमुखेन चारित्रमोहो वा दर्शनमो हमुखेनेति । तथा देशघातिसर्वघातिभेदेनानुभागो द्विविधः, देशं घातयतीति देशघाती सर्व घातयतीति सर्वघाती। निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिप्रचलानिद्राः चतुः संज्वलनवा द्वादश कषाया मिथ्यात्वादीनां विंशतिप्रकृतीनामनुभागः सर्वघाती ज्ञानादिगुणं सर्व घातयतीति वनदाह इव । मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्ययज्ञानावरणपंचांतरायसंज्वलनक्रोधमानमायालोभनवनोकषायाणामुत्कृष्टानुभागबंधः सर्वघाती वा जघन्यो देशघाती सातासातचतुरायुः सर्वनामप्रकृत्युच्चैर्नीचर्गोत्राणामुत्कृष्टाद्यनुभागवंधः घातिनां प्रतिभागो देशघाती घातिविनाशे स्वकार्यकरणसामर्थ्याभावात् एता अघातिप्रकृतयः पुण्यपापसंज्ञाः शेषाः पुनः पूर्वोक्ता घातिसंज्ञाःपापा भवंतीति । अशुभप्रकृतीनां चत्वारि स्थानानि निवकांजीरविषकालकुटानीति, शुभप्रकृतीनां च चत्वारि स्थानानि गुड़खंडशर्करामृतानीति । मोहनीयांतरायवर्जितानां षण्णां कर्मणामुत्कृष्टानुभागवंधः चतुः स्थानिको जघन्यानुभागवंधो विस्थानिकः शेषः द्वित्रिचतुः स्थानिकः, मोहनीयांतराययोरुत्कृटानुभागवंधश्चतुः स्थानिको जघन्यानुभागवंध एकस्थानिकः शेषा एकदित्रिचतुः स्थानिकाः । चतुर्ज्ञानावरणत्रिदर्शनावरणपुंवेदचतुःसंज्वलनपंचांतरायाणां सप्तदशप्रकृतीनामुत्कृष्टानुभागवंधश्चतुःस्थानिको जघन्यानुभागबंध एकस्थानिकः । शेषाः सर्वेऽपि केवलज्ञानावरणसातासातमिथ्यात्वद्वादशकषायाप्टनोकषायचतुरायुःसर्वनामप्रकृत्युच्चैर्नीचेगौत्राणामुत्कृष्टानुभागवं Page #324 -------------------------------------------------------------------------- ________________ पर्याप्त्यधिकारः। ३१९ ~~~ धश्चतुःस्थानिक जघन्यो विस्थानिकः शेषो द्वित्रिचतुः स्थानिकः । घातिनामकस्थानं नास्ति । पुंवेदरहितानां नोकषायाणामेकस्थानं नास्ति निंबवदेकस्थानं कांजीरवत् द्विस्थानं विषवत् त्रिस्थानं कालकूटवत् चतुः स्थानं अशुभप्रकृतीनामेतत् । गुडवदेवस्थानं खंडवत् द्विस्थानं शर्करावत् त्रिस्थानं अमृतवत् चतुः स्थानं शुभप्रकृतीनामेतदिति । पंचशरिषट्संस्थानव्यंगोपांगषट्संहननपंचवर्णद्विगंधपंचरसाष्टस्पर्शागुरुलघूपघातपरघातातपोयोतनिमानप्रत्येकसाधारणस्थिरास्थिरशुभाशुभा एता प्रकृतयः पुद्गलविपाकाः पुद्गलपरिणामिन्यो यत इति चत्वार्यायूंषि भवविपाकानि भवधारणत्वाच्चत्वार्यानुपूर्व्याणि क्षेत्रविपाकानि क्षेत्रमाश्रित्य फलदानात् । शेषास्तु प्रकृतयो जीवविपाका जीवपरिणामनिमित्तत्वात् इति ॥ २०३ ॥ अनुभागवंधं व्याख्याय प्रदेशबंध प्रतिपादयन्नाह;सुहुमे जोगविसेसेण एगखेत्तावगाढठिदियाणं । एक्केके दु पदेसे कम्मपदेसा अणंता दु ॥ २०४॥ सूक्ष्मा योगविशेषात् एकक्षेत्रावगाहस्थिताः । एकैकस्मिन् तु प्रदेशे कर्मप्रदेशा अनंतास्तु ॥ २०४ ॥ टीका-सुहुमे सूक्ष्माः न स्थूलाः ओगविसेसेण योगविशेषेण मनोवचनकायविशिष्टव्यापारात् एकखेत्तोवगाढ एकक्षेत्रावगाहिनो न क्षेत्रांतरावगाहिनः यस्मिन्नेवात्मा कर्मादानरतस्ततः परस्मिन् क्षेत्रे ये पुद्गलास्ते इति ठिदियाणं स्थिताः न गच्छंतः एक्कक्के दु पदेसे सर्वात्मप्रदेशेषु कम्मपदेसा कर्मप्रदेशाः ज्ञानावरणादिनिमित्तपरमाणवः अणंता दु अनंतास्तु । सूक्ष्मग्रहणं ग्रहणयोग्यपुद्गलस्वभावानुवर्णनार्थं वर्णग्रहणयोग्याः पुद्गलाः सूक्ष्माः न स्थूलाः, एकक्षेत्रावगाहवचनं क्षेत्रांतरनिवृत्त्यर्थं एकक्षेत्रे कर्मादानशक्तियुक्तजीवसहचरितप्रदेशे अवगाहो येषां एकक्षेत्रावगाहः, स्थिता इति क्रियांतरनिवृत्त्यर्थ स्थिता न गच्छंतः, एकैकप्रदेशे इत्यत्र वीप्सानिर्देशेन सर्वात्मप्रदेशसंग्रहः कृतस्तेनाधारनिर्देशः कृतस्तेनैकप्रदेशादिषु न कर्मप्रदेशाः प्रवर्त्तते Page #325 -------------------------------------------------------------------------- ________________ ३२० मूलाचारेव तर्हि ऊर्ध्वमधः स्थितास्तिर्यक्च सर्वेष्वात्मप्रदेशेषु व्याप्य स्थिता इति । कर्मग्रहणं सर्वकर्मप्रकृतिसंग्रहार्थ अनेनोपादानहेतुसंग्रहः कृतः, प्रदेशा इति पुद्गलग्रहणं तेनाकाशादिप्रदेशनिवृत्तिः । अनंतानंत इति परिमाणः अनंतरव्यपोहाथै,तुशब्दः अनुक्तसविशेषसंग्रहार्थ, न संख्येया नचासंख्येयाः नाप्यनंतास्ते पुद्गलस्कंधाः किं तु अभव्यानंतगुणाः सिद्धानंतभागप्रमिताः घनांगुलस्य संख्येयभागावगाहिनः एकद्वित्रिचतुः समयस्थितिकाः पंचवर्णरसद्विगंधचतुःस्पर्शभवाः सूक्ष्मा अष्टविधकर्मप्रकृतियोग्या एकक्षेत्रावगाहिनः स्थिताः सवात्मप्रदेशेषु योगवशादात्मना प्रदेशा: कर्मरूपेणात्मसास्क्रियते । अयं प्रदेशबंधः । अथवाऽऽत्मनो योगवशादष्टविधकर्महेतवोऽनंतानंतप्रदेशा एकैकप्रदेशे ये स्थितास्ते प्रदेशबंधा इति । अष्टविधकर्मयोग्यपुद्गलानां एकैकसमयेन वंधनमागतानां आयुभीग एकः नामगोत्रयोरन्योन्यसमोऽधिक एकतरो भाग आयुर्भागात् ज्ञानावरणदर्शनावरणांतरायाणां भागोऽन्योन्यसदृश एकतरः नामगोत्रयोरेकतरभागाधिकः मोहस्य भाग आवरणांतरायैकतरभागादधिकः मोहभागादिनीयभागोऽधिकः । सर्वत्र आवल्याः संख्यातभागेन भागे त्दृते यल्लब्धं तेनाधिक इति । एवं सप्तविधवंधकानां षधिवंधकानां च ज्ञातव्यं । ज्ञानावरणादीनामात्मप्रदेशभाग आत्मात्मेतरप्रकृतयो यावंत्यस्तावद्भागैरभिगच्छंति ॥ २०४॥ ___ एवं बंधपदार्थो व्याख्यातः संक्षेपतः, इत उर्ध्वमुपशमनबिधिं क्षपणविधिं च प्रपंचयन्नाह;मोहस्सावरणाणं खयेण अह अंतरायस्स य एव । उववज्जइ केवलयं पयासयं सव्वभावाणं ॥ २०५॥ मोहस्यावरणयोः क्षयेण अथ अंतरायस्य चैव । उत्पद्यते केवलं प्रकाशकं सर्वभावानां ॥ २०५॥ टीका--मोहस्यावरणयोरंतरायस्य च क्षयेण विनाशेनैवोत्पद्यते केवलं केवलज्ञानं प्रकाशकं सर्वभावानां सर्वद्रव्यपर्यायपरिच्छेदकं अथशब्देन सूत्रेणैवमुपशमनविधिं तावत्प्रतिपादयामि-अनंतानुबंधिक्रोधमानमायालोभसम्यक्त्व Page #326 -------------------------------------------------------------------------- ________________ पर्याप्यधिकारः। ३२१ मिथ्यात्वसम्यज्निथ्यात्वानीत्येताः सप्त प्रकृतीः असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तादीनां मध्ये कोऽप्येक उपशमयति तत्राधःप्रकृवृत्यपूर्वकरणानिकरणानिकृत्वा अनिवृत्तिकरणकालस्य संख्येयेषु भागेषु गतेषु विशेषघातेन हन्यमानमनंतानुबंधिचतुष्कं स्थितिसत्कर्मोपशमं याति स्वस्वरूपं परित्यज्यान्यस्य प्रकृतिस्वरूपेण स्थानमनंतानुवंधिनामुपशमः पुनरधःप्रवृत्त्यपूर्वानिवृत्तिकरणानि कृत्वा अनिवृत्तिकरणकालस्य संख्येयेषु भागेषु गतेषु दर्शनमोहत्रिकस्योदयाभाव उपशमस्तेषामुपशांतानामप्युत्कर्षापकर्षपरप्रकृतिसंक्रमणानामस्तित्वं यत इति । अपूर्वकरणेनैकमपि कर्मोपशाम्यति किंवपूर्वकरणः प्रतिसमयमनंतगुणविशुद्ध्या वर्द्धमानः अंतर्मुहूर्तेनैकैकस्थितिखंडकं पातयन् संख्यातशतसहस्राणि स्थितिखंडकानि पातयति तावन्मात्राणि च स्थितिबंधापसरणानि करोति एकैकस्थितिबंधाभ्यतरे संख्यातसहस्राण्यनुभागखंडकानि पातयति प्रतिसमयमसंख्यातगुणश्रेण्या प्रदेशनिर्जरां करोति अप्रशस्तकौशान्न वनाति तेषां प्रदेशग्रमसंख्यातगुणश्रेण्या अन्यासु प्रकृतिषु वध्यमानस्ततिस्तिपरि संक्रामयति । पुनरपूर्वकरणमतिक्रम्यानिवृत्तिकरणं प्रविश्यांतर्मुहूर्त्तमात्रमनेन विधानेन स्थित्वा द्वादशानां कषायाणां नवानां नोकषायाणामंतरमंतर्मुहूर्तेन करोति।अंतरे क्षते प्रथमसमयादुपरि अंतर्मुहूर्त गत्वा असंख्येयगुणश्रेण्या नपुसंकवेदमुपशमयति ततोऽतर्मुहूर्त गत्वा नपुंसकवेदोपशमनविधिना स्त्रीवेदमुपशमयति ततोऽतर्मुहूर्तेन तेनैव विधिना षण्णां कषायाणां पुरुषवेदं चिरंतनसत्कर्मणा सह युगपदुपशमयति तत ऊर्ध्व समयोने द्वे आवल्यौ गावा पुंवेदनवकबंधमुपशमयति ततोऽतर्मुहूर्त गत्वा अप्रत्याख्यानप्रत्याख्यानसंज्ञको क्रोधौ क्रोधसंज्वलन चिरंतनसत्कर्मणा सह युगपदुपशमयति ततः समयोने द्वे आवल्यौ गत्वा क्रोधसंज्वलननवकवंधमुपशमयति ततोऽतर्मुहूर्त गत्वा अप्रत्याख्यान प्रत्याख्यानमानौअसंख्यातगुणश्रेण्या मानसंज्वलनं चिरंतनसत्कर्मणा सह युगपदुपशमयति, ततः समयोने द्वे आवल्यौ गत्वा मानसंज्वलननवकबंधमुपशमयति ततः प्रतिसमयमसंख्या २१ Page #327 -------------------------------------------------------------------------- ________________ ३२२ ' मूलाचारे तगुणश्रेण्या उपशमयन्नंतर्मुहूर्त गत्वा द्विप्रकारां मायां मायासंज्वलनं चिरतनसत्कर्मणा सह युगपदुपशमयति ततो वे आवल्यौ समयोने गत्वा मायासंज्वलननवकंबंधमुपशमयति ततोऽतर्मुहूर्त गत्वा द्विप्रकारं लोभं लोभसंज्वलनेन चिरंतनसत्कर्मणा सह लोभवेदकाद्वा द्वितीयत्रिभागे सूक्ष्मां किट्टिकां मुत्क्वा शेषं बादरलोभं स्पर्द्धकगतं सर्वनवकवंधोच्छिष्टावलिकवयं अनिवृत्तिचरमसमयैर्निवृत्तिरुपशयमति नपुंसकवेदमादिं कृत्वा यावल्लोभसंज्वलनं एतेषामनिवृत्तेरुपशमकं भवति ततोऽनंतरसमये सूक्ष्माकट्टिकास्वरूपं वेदलोभं वेदयन् नष्याऽनिवृत्तिसंज्ञो सूक्ष्मसांपरायो भवति ततश्चात्मनश्चरमसमये लोभसंज्वलनं सूक्ष्मकिट्टिकास्वरूपं निःशेषमुपशमयति तत उपशांतकषायः वीतरागछमस्थो भवति । उदयोदीरणात्कर्षणोपकर्षणपरप्रकृतिसंक्रमणस्थित्यनुभागखंडकघातैर्विना स्थानमपि समनाम्नैष मोहनीयोपशमनविधिः इति । अथ क्षपणविधिं वक्ष्ये । क्षपणं नाम अष्टकर्मणां मूलोत्तरभेद इति न प्रकृतिस्थित्यगुभागप्रदेशानां जीवा ज्योतिः शेषे विन्यास इति ? । अनंतानुवंधिक्रोधमानमायालोममिथ्यात्वसम्यनिथ्यात्वसम्यत्क्वाख्याः सप्रप्तकृतीरेता असंयतसम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतोऽप्रमत्तो वा क्षपयति, किमक्रमेण नेत्याह;-पूर्वमनंतानुवंधिचतुष्कं त्रीन करणान् कृत्वाऽनिवृत्तिकरणचरणमसमयेऽक्रमेण क्षपयति पश्चात्पुनरपि त्रीन करणान् कृत्वा अधः प्रवृत्तिकरणापूर्वकरणौ द्वावतिक्रम्यानिवृत्तिकरणकालसंख्ययभागं गत्वा मिथ्यात्वं क्षपयति ततोऽतर्मुहूर्तं गत्वा सम्यमिथ्यात्वं क्षपयति ततोऽतर्मुहूर्त गत्वा सम्यक्त्वं क्षपयति ततोऽधः प्रवृत्तिकरणं कृत्वांऽतर्मुहूर्तेनापूर्वकरणो भवति स एकमपि कर्म क्षपयति किंतु समयं प्रति असंख्येयगुणस्वरूपेण प्रदेशनिर्जरां करोति अंतर्मुहूर्तेनैकैकस्थितिखंडकं पातयन्नात्मनः कालाभ्यंतरे असंख्यातसहस्राणि स्थितिखंडकानि पातयति तावन्मात्राणि च स्थितिवंधापसरणानि करोति तेभ्यश्च संख्यातसहस्रगुणानुभागखंडकघातान् करोति यत एकानुभागखंडकोत्कीर्णकालादेकस्य स्थितिखंडकोत्कीर्णकालः संख्यातगुण Page #328 -------------------------------------------------------------------------- ________________ ३२३ इति । एवंविधं कृत्वाऽनिवृत्तिगुणस्थानं प्रविश्यानिवृत्तिसंख्यात भागोऽपूर्वकरणविधानेन गमयित्वाऽनिवृत्तिकाल संख्यातिभागे शेषे स्त्यानगृद्धित्रय नरकगतितिर्यग्गत्ये केंद्रियद्वीन्द्रियत्रींद्रियचतुरींद्रिय जाति नरकगतितिर्यग्गतिप्रायोग्यानुपूर्व्यातपोद्योत स्थावरसूक्ष्मसाधारणसंज्ञकाः षोडशप्रकृतीः क्षपयति ततोंतर्मुहूर्त्त गत्वा अप्रत्याख्यानावरणक्रोधमानमायालोभान् क्रमेण क्षपयति स एष कर्मप्राभृतस्योपदेशः, कषायप्राभृतापदेशः पुनः अष्टसु कषायेषु क्षीणेषु पश्चादन्तमुहूर्ते गत्वा षोडशकर्माणि द्वादश वा क्षपयत्यत उपदेशौ ग्राह्यौद्वावप्यवयभीरुभिरिति । ततऽतमुहूर्त्तं गत्वा चतुर्णां संज्वलनानां नवानां नोकषायाणां अंतरं करोति, सोदयानामंतमुहूर्तमात्रं प्रथमस्थितिं स्थापयति अनुदयानां समयोनाबलिकामात्रां प्रथमस्थितिं स्थापयति ततोंतरं कृत्वांतर्मुहूर्त्तेन नपुंसकवेदं क्षपयति ततोऽतर्मुहूर्ते गत्वा स्त्रीनेदं क्षपयति ततोऽतर्मुहूर्तं गत्वा षण्णो कषायाणां वेदं चिरंतनसत्कर्मणा सह वेदविद्विचरमसमये युगपत् क्षपयति ततं आवलीमात्रकालं गत्वा वेदं क्षपयति ततोऽतमुहूर्त्तेन क्रोधसंज्वलनं क्षपयति ततोऽतमुहूर्त्तेन मानसंज्वलनं क्षपयति ततोऽन्तर्भुहूर्तेन मायासंज्वलनं क्षपयति तततर्मुहूर्तं गत्वा सूक्ष्मसांपरायगुणस्थानं प्रतिपाद्यते एतेषु सोऽपि सूक्ष्मसांपरायमात्मनश्वरमसमये किट्टिकागतं सर्वं लोभसंज्वलनं क्षपयति ततोऽनंतरं क्षीणकषायो भवति सोऽप्यंत मुहूर्त गमयित्वा आत्मनो द्विचरमसमये निद्राप्रचलासंज्ञके द्वे प्रकृती क्षपयति ततोऽनंतरं चरमसमये पंचज्ञानावरणचतुर्दर्शनाबरणपंचांतर याख्याश्चतुर्दश प्रकृतीः क्षपयति एतेषु त्रिषष्टिकर्मसु क्षीणेषु सयोगिजिनो भवति ॥ २०५ ॥ पर्याप्तत्यधिकारः : । सयोगिकेवली भट्टारको न किंचिदपि कर्म क्षपयति ततः क्रमेण विहृत्य • योगनिरोधं कृत्वा अयोगिकेवली भवति स यत्कर्म क्षपयति तन्निरूपयन्नाह; तत्तोरा लियदेहो णामा गोदं च केवली युगवं । आऊण वेदणीयं चतुहिं खिविइत्तु णीरओ होइ ॥ २०६ ॥ Page #329 -------------------------------------------------------------------------- ________________ ३२४ मूलाचारे तत औदारिकदेहं नामगोत्रं च केवली युगपत् । आयुः वेदनीयं चत्वारि क्षपयित्वा नीरजा भवति । २०६ ॥ टीका-तत ऊर्ध्वं सयोगिकेवली औदारिकशरीरं सनिश्वास एवायं नामगोत्रे कर्मणी आयुर्वेदनीयं च युगपत् क्षपयित्वा नरिजाः सिद्धो भवति । विशेषमाह;-अयोगिकेवली आत्मकालद्विचरमसमयेऽनुदय वेदनीयदेवगतिपंचशरीरपंचसंघातपंचशरीरबंधनषट्संस्थानव्यंगोपांगषट्संहननपंचवर्णद्विगंधपंचरसाष्टस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छासद्विविहायोगत्यपर्याप्तस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिमाननीचैर्गोत्राणि एता द्वासप्ततिप्रकृतीः क्षपयति ततोनंतरं सोदयवेदनीयमनुष्यायुर्मनुष्यगतिपंचेंद्रियजातिमनुष्यगतिप्रायोग्यानुपूर्व्यत्रसवादरपर्याप्तोच्चैर्गोत्रप्रत्येकतीर्थकरनामादययशःकीर्तिसंज्ञकास्त्रयोदशप्रकृतीश्चरमसमये पयति, ततो द्रव्यरूपमौदारिकशरीरं त्यक्त्वा नीरजा निर्मलः सिद्धो निर्लेपः सर्ववंद्वरहितोऽनंतज्ञानदर्शनसुखवीर्यसमन्वितोऽक्षयो युगपत्सर्वव्यपर्यायावभासकोऽनंतगुणाधारः परमात्मा भवतीति ॥ २०६ ॥ इतिश्रीमदाचार्यवर्यवकेरिप्रणीतमूलाचारे श्रीवसुनंदिप्रणीतटी कासहिते द्वादशोऽधिकारः । स्रग्धरावृत्तम्। वृत्तिः सर्वार्थसिद्धिः सकलगुणनिधिः सूक्ष्मभावानुवृत्ति-- राचारस्यात्तनीतेः परमजिनपतेः ख्यातानिर्देशवृत्तेः । शुद्धैक्यैिः सुसिद्धा कलिमलमथनी कार्यसिद्धिमुनीनां स्थेयाज्जैनेंद्रमार्गे चिरतरमवनौ वासुनंदी शुभा वः ॥ इति ॥ इति मूलाचारविवृतौ द्वादशोऽध्यायः । कुन्दकुन्दाचार्यप्रणीतमूलाचारा ख्यविवृतिः । कृतिरियं वसुनन्दिनः श्रीश्रमणस्य । Page #330 -------------------------------------------------------------------------- ________________ प्रशस्तिपाठः। ३२५ . अथ प्रशस्ति-पाठः। प्रणमामि महावीरं सिद्धं शुद्धं जिग्नेश्वरं । यस्य ज्ञानाम्बुधौ भाति जगद्विन्दूपमं स्थितं ॥१॥ कृतात्मनो जना यत्र कर्म प्रक्षिप्य हेलया। रमन्ते मुक्तिलक्ष्मी तज्जैनं जयति शासनं ॥ २॥ जयन्तु गौतमस्वामिप्रमुखा गणनायकाः । सूरयो जिनचन्द्रान्ताः श्रीमन्तः क्रमदेशकाः ॥ ३॥ वर्षे षडेकपंचैकपूरणे विक्रमे नतः ( ?)। शुक्ले भाद्रपदे मासे नवम्यां गुरुवासरे ॥ ४ ॥ श्रीमढेरकाचार्यकृतसूत्रस्य सद्विधेः । मूलाचारस्य सद्वत्तेर्दातुर्नामावली ब्रुवे ॥ ५ ॥ अथ-- श्रीजंबूपपदे द्वीपे क्षेत्रे भरतसंज्ञके । कुरुजाङ्गलदेशोऽस्ति यो देशः सुखसम्पदां ॥६॥ तत्रास्ति हस्तिना नाम्ना नगरी मागरीयसी । शान्तिकुंवरतीर्थेशा यत्रासन्निन्द्रवंदिताः ॥ ७ ॥ विद्यते तत्समीपस्था श्रीमती योगिनीपुरी । यां पाति पातिसाहिश्रीर्बहलोलाभिधो नृपः ॥ ८॥ तस्याः प्रत्याग्दिशि ख्यातं श्रीहिसारपिरोजकं । नगरं नगरंभादिवल्लीराजिविराजितं ॥ ९ ॥ तत्र राज्यं करोत्यष श्रीमान् कुतबखानकः । तथा हैवतिखानश्च दाता भोक्ता प्रतापवान् ॥ १० ॥ अथ श्रीमूलसंघेऽस्मिन्नन्दिसंघेऽनघेऽजनि । बलात्कारगणस्तत्र गच्छः सारस्वतस्त्वभूत् ॥ ११ ॥ Page #331 -------------------------------------------------------------------------- ________________ ३२६ मूलाचारे तत्राजनि प्रभाचन्द्रः सूरिचन्द्रो जिताङ्गजः । दर्शनज्ञानचारित्रतपोवीर्यसमन्वितः ॥ १२॥ श्रीमान बभूव मार्तण्डस्तत्पट्टोदयभूधरे । पद्मनन्दी बुधानन्दी तमश्छेदी मुनिप्रभुः ॥ १३ ॥ तत्पट्टाम्बुधिसच्चन्द्रः शुभचन्द्रः सतां वरः । पंचाक्षवनदावाग्निः कषायमाधराशनिः ॥ १४ ॥ तदीयपट्टाम्बरभानुमाली क्षमादिनानागुणरत्नशाली । भट्टारकश्रीजिनचन्द्रनामा सैद्धान्तिकानां भुवि योऽस्ति सीमा ॥ १५ ॥ स्याद्वादामृतपानतृप्तमनसो यस्यातनोत् सर्वतः कीर्तिभूमितले शशाङ्कधवला सज्ज्ञानदानात् सतः । चार्वाकादिमतप्रवादितिमिरोष्णांशोर्मुनीन्द्रप्रभोः सूरिश्रीजिनचन्द्रकस्य जयतात् संघो हि तस्यानवः ॥ १६ ॥ तच्छिष्या बहुशास्त्रज्ञा हेयादेयविचारकाः । शमसंयमसम्पूर्णा मूलोत्तरगुणान्वितः ॥ १७ ॥ जयकीर्तिश्चारुकीर्तिजयनन्दी मुनीश्वरः । भीमसेनादयोऽन्ये च दशधर्मधरा वराः ॥ १८ ॥ युग्मं ॥ अस्ति देशवताधारी ब्रह्मचारी गणाग्रणीः । नरसिंहोऽभिधानेन नानाग्रन्थार्थपारगः ॥ १९ ॥ तथा भूरिगुणोपेतो भूरानामा महत्तमः । श्रीमानश्वपतिश्चान्यः सुमतिर्गुरुभक्तिकृत् ॥ २० ॥ अन्यो नेमाभिधानोऽस्ति नेमिर्द्धर्मरथस्य यः । परस्तीकमसंज्ञश्च ज्ञातयज्ञोऽस्तमन्मथः ॥ २१ ॥ Page #332 -------------------------------------------------------------------------- ________________ प्रशस्तिपाठः । ३२७ भवागभोगनिर्विण्णस्तिहुणाख्योऽपरो मतः । सम्यक्त्वादिगुणोपेतः कषायदववारिदः ।। २२ ।। ढाकाख्यो ब्रह्मचार्यस्ति संयमादिगुणालयः । सर्वे ते जिनचन्द्रस्य सूरेः शिष्या जयन्त्विह ॥ २३ ॥ श्रीमान् पंडितदेवोऽस्ति दाक्षिणात्यो द्विजोत्तमः । यो योग्यः सूरिमंत्राय वैयाकरणतार्किकः ॥ २४ ॥ अग्रोतवंशजः साधुलवदेवाभिधानकः । । तत्सुतो धरणः संज्ञा तद्भार्या भीषुही मता ॥ २५ ॥ तत्पुत्रो जिनचन्द्रस्य पादपकंजषट्पदः । मीहाख्यः पंडितस्त्वस्ति श्रावकवतभावकः ॥ २६ ॥ तदन्वयेऽथ खंडेलवंशे श्रेष्ठीयगोत्रके। पद्मावत्याः समाम्नाये यक्षाः पार्श्वजिनेशिनः ॥ २७ ॥ साधुः श्रीमोहणाख्योऽभूत् संघभारधुरंधरः । तत्पुत्रो रावणो नाम पंचाणुव्रतपालकः ॥ २८ ॥ तस्य पुत्रौ समुत्पन्नौ पार्श्वचोषाभिधानको । कल्पवृक्षसमौ दाने जिनपादाब्जषटपदौ ॥ २९ ॥ साधोः पार्श्वस्य भार्याऽभूदाया पद्मिनिसंज्ञिका । पद्मानघस्य पद्मेव सती पद्मानना मता ॥ ३० सूहोनाम्नी द्वितीयाभूद्या सौभाग्येन पार्वती । रतिं रूपेण शीलेन सीता जितवती सती ॥ ३१ ॥ सा धन्याः सन्ति पमिन्यास्त्रयः पुत्रा हितावहाः ।.... रूपवन्तः कलावन्तो दयावन्तः प्रियंवदः ॥ ३२॥ तत्रायः साधुभीमाख्यो निजवंशविभूषणः । .. उपार्जयति वित्तं यः पात्रदानाय केवलं ॥ ३३ ॥ Page #333 -------------------------------------------------------------------------- ________________ ३२८ मूलाचार रुक्मिणी नामनी तस्य गेहनी शीलशालिनी। स्ववाचा कोकिला जिग्ये कान्त्या भा सवितुर्यया ॥ ३४ ॥ चत्वारः सन्ति तत्पुत्रास्तोल्हातेजाभिधानको । भोजाषिउराजनामानौ प्रफुल्लकमलाननाः ॥ ३५ ॥ तोल्हाख्यस्य मता भार्या तोल्हश्रीः श्रीनिवासिनी । साढाभिधोऽस्ति तत्पुत्रो दीर्घायुः स भवेदिह ॥ ३६ ॥ पत्नी तेजाभिधानस्य तेजश्रीर्लज्जयान्विता । भोजाख्यस्य तथा भार्या भोजश्रीभक्तिकारिणी ॥ ३७॥ पार्श्वसाधोद्वितीयोऽस्ति खेतानामा तनूद्भवः । श्रीमानविनयसम्पन्नः सज्जनानन्ददायकः ॥ ३८ ॥ गेहिनी तस्य नीकाख्या रतिर्वा मन्मथस्य वै । या जिगाय स्वनेत्राभ्यां स्फुरद्भ्यां चकितां मृगीं ॥ ३९ ॥ तस्याः पुत्रोऽस्ति वीझाख्यो विद्याधारः प्रियंवदः । ज्ञातीनानन्दयामास विनयादिगुणेन यः ॥ ४० ॥ पार्श्वपुत्रस्तृतीयोऽस्ति नेमाख्यो नियमालयः । देवपूजादिषटूर्मपद्मिनीखंडभास्करः ॥ ४१ ॥ साभूनाम्नी तु तज्जाया रूपलज्जावती सती । वस्तासुरजनौ तस्याः सुतौ जनमनोहरौ ॥ ४२ ॥ पार्श्वभार्या द्वितीया या सूहोनाम्नीति तत्सुतः । ईश्वराह्वो कलावासः कलुषापेतमानसः ॥ ४३ ॥ साधुचोषाभिधानस्य स्ववंशाम्बरभास्करः ( स्वतः )। माऊनाम्न्यास्ति सद्भार्या शीलानेककलालंया ॥ ४४ ॥ तस्या अङ्गहौ ख्यातौ सत्यभूषाविभूषितौ । लक्ष्मीवंतौ महान्तौ तौ पात्रदानरतौ हितौ ॥ ४५ ॥ Page #334 -------------------------------------------------------------------------- ________________ प्रशस्तिपाठः । तयोरायोऽस्ति संघेशो नृसिंहः पद्मसिंहकः । चकार नेमिनाथस्य यात्रां यो दुःखहारिणीं ॥ ४६॥ तत्कलत्रं लसद्गात्रं पद्मश्री म कामदं । गृहे पात्रे समायाते यदानन्दयते चिरं ॥ ४७ ॥ तस्य पुत्रास्त्रयः सन्ति दीर्घायुषो भवन्तु ते । हेमराजो गजमल्लोऽपरः श्रवणसंज्ञकः ॥ ४८॥ चोषापुत्रो द्वितीयोऽस्ति रूल्हानामा गुणाकरः । रूल्हश्रीमहिला तस्य देवराजाख्य अंगजः ॥ ४९ ॥ एतैः श्रीसाधुपार्श्वस्य चोषाख्यस्य च कायजैः । वसद्भि झणूस्थाने रम्ये चैत्यालयैवरैः ॥ ५० ॥ चाहमानकुलोत्पन्ने राज्यं कुर्वति भूपतौ । श्रीमत्समसखानाख्ये (?) न्यायान्यायविचारके ॥ ५१ ॥ सूरिश्रीजिनचन्द्रस्य पादपंकजषट्पदैः । साधुभीमादिभिः सर्वैः साधुपद्मादिभिस्तथा ॥ ५२ ॥ कारितं श्रुतपंचम्यां महदुद्यापनं च तैः । श्रीमदेशव्रताधारिनरसिंहोपदेशतः ॥ ५३॥ चतुष्कलं । तदा तैर्जिनबिम्बानामभिषेकपुरस्सरा । कारितार्चा महाभक्त्या यथायुक्ति च सोत्सवा ॥ ५४ ॥ भुंगारकलशादीनि जिनावासेषु पंचसु । क्षिप्तानि पंच पंचैव चैत्योपकरणानि च ॥ ५५ ॥ एतच्छास्त्रादिभक्त्या तैनिदानमदायि च । ब्रह्मश्रीनरसिंहाख्यतिहुणादियतीशिने ॥ ५६ ॥ चतुर्विधाय संघाय सदाहारश्चतुर्विधः । प्रादाय्यौषधदानं च वस्त्रोपकरणादि च ॥ ५७ ॥ Page #335 -------------------------------------------------------------------------- ________________ ३३० मूलाचारे मित्रयाचकहीनेभ्यः प्रीतितुष्टिकृपादि च । दानं प्रदत्तमित्यादि धन्यव्ययो व्यधायि तैः ॥ ५८ ॥ इत्थं सप्तक्षेत्र्यां वपते यो दानमात्मनो भक्त्या । लभते तदनन्तगुणं परत्र सोऽत्रापि पूज्यः स्यात् ॥ ५९ ॥ एतच्छास्त्रं लेखयित्वा हिसारादानाय्य स्वोपार्जितेन स्वराया । संघेशश्रीपद्मसिंहेन भक्त्या सिहान्ताय श्रीनराय प्रदत्तं ॥ ६० ॥ यो दत्ते ज्ञानदानं भवति हि स नरो निर्जराणां प्रपूज्यो, भुक्त्वा देवाङ्गनाभिर्विषयसुखमनुप्राप्यमांनुष्यजन्म । भक्त्वा राज्यस्य सौख्यं भवतनुष ( ? ) सुखान्निस्पृहीकृत्य चित्तं, लात्वा दीक्षां च बुध्वा श्रुतमपि सकलं ज्ञानमन्त्यं लभेत॥६१ ॥ ज्ञानदानाद्भवेज्ज्ञानी सुखी स्याद्भोजनादिह । निर्भयोऽभयतो जीवो नीरुगौषधदानतः ॥ ६२॥ धर्मतः सकलमंगलावली धर्मतो भवति मुंडकेवली। धर्मतो जिनसुचक्रभृद्धली नाथतद्रिपुमुखो नरो बली ॥६३ ॥ ज्ञात्वेति कुर्वन्तु जनाः सुधर्म सदैहिकामुष्मिकसौख्यकामाः । देवार्चनादानतपोव्रताद्यैर्धान्यं न लभ्यं कृषिमन्तरेण ॥ ६४ ॥ खंडेलान्वयमंडनेन्दुवदन त्वं पद्मसिंहाख्य भो, __ हेमाद्यैस्त्रिभिरंगजैगतिमितैीमादिभिर्बन्धुभिः । भव्यांभोरुहखंडवासरमणेश्चारित्रचूडामणेः सूरिश्री जिनचन्द्रकस्य वचनान्नन्याश्चिरं भूतले ॥६५॥ शास्त्रं शस्त्रं पापवैरिक्षयेदः शास्त्रं नेत्रं त्वन्तरार्थप्रदृष्टौ । शास्त्रं पात्रं सर्वचंचद्गुणानां शास्त्रं तस्माद्यत्नतो रक्षणीयं ॥ ६६ ॥ श्रुत्वा शास्त्रं पापशत्रु हिनस्ति श्रुत्वा शास्त्रं पुण्यमित्रं धिनोति । श्रुत्वा शास्त्रं सद्विवेकं दधाति तस्माद्भव्यो यत्नतस्तद्धि पाति ॥६७॥ Page #336 -------------------------------------------------------------------------- ________________ प्रशस्तिपाठः । यावत्तिष्ठति भूतले सुरनदी रत्नाकरो भूधरः । कैलाशः किल चक्रिकारितजगद्वन्द्यज्ञचैत्यालयः । यावद्व्योम्नि शशाङ्कवासरमणी प्रस्फेटयन्तौ तमस्तावत्तिष्ठतु शास्त्रमेतदमलं सम्पद्यमानं बुधैः ॥ ६८ ॥ सूरिश्रीजिनचन्द्रां ह्रिस्मरणाधीन चेतसा । प्रशस्तिर्विहिता चासौ मीहाख्येन सुधीमता ॥ ६९ ॥ यत्र क्वाप्यवद्यं स्यादर्थे पाठे मयाहतं । तदाशोध्य बुधैर्वाच्यमनन्तः शद्ववारिधिः ॥ ७० ॥ इति श्रीभव्यकुमुदचन्द्रस्य सूरे: श्रीजिनचन्द्रस्य पादांभोरुहषट्पदेन पंडितश्रीमेधाविसंज्ञेन काव्यबन्धेन विरचिता प्रशस्ताप्रशस्तिः समाप्ताः । ( इति पर्यन्तः ख - ग - पुस्तकीयः पाठः सदृशः । ) ३३१. ख - पुस्तकीयपाठः - संवत् १८८७ का पोषमासे कृष्णपक्षतिथौ ६ रविवासरे लिषाइतं पंडितसरूपचन्द तत्शिष्य सदासुषलिप्यकृतं म्हात्मा संभुराम सवाईजैपुरमध्ये । सं. १८८७ ऋषिवसुसिद्धन्दियुते पोषमासे कृष्णपक्षे दशमीगुरुवासरे अनेक शोभाशोभिते श्रीसपादजयपुराह्वये नगरे श्रीमन्महाराजाधिराजराजराजेन्द्र श्रीसवाई जयसिंह जिद्राज्य प्रवर्तमाने नानाविधिवादित्रशोभिते विचित्रवेदिकान्विते मं.......... ग- पुस्तकीयपाठः - लिषितं भारतीपुरवास्तव्यपंडितपुरुषोत्तमपुत्र धाराधरसंज्ञेन ॥ ६ ॥ शुभं भूयात् लेखकपाठकयोः ॥ ॥ ६ ॥ ६ ॥ श्रीः ॥ ॥ ६ ॥ शुभं भवतु ॥ ६ ॥ Page #337 --------------------------------------------------------------------------  Page #338 -------------------------------------------------------------------------- ________________ माणिकचन्द दि० जैन-ग्रन्थमालामें प्रकाशित ग्रंथोंकी सूची। 1 लघीयस्त्रय दिसंग्रह ( लघी- / 16 नयचक्रसंग्रह ( लघुनय यरूयत पयवृत्ति, स्वरूपसंबोधन, चक्र, द्रव्यस्वभावप्रकाशक नयचक्र, सर्वज्ञसिद्धि) आलापपद्धति) ) 2 सागारधर्मामृतसटीक // ) 17 षट्रनाभृतादि संग्रह (अप्राप्य ) (षट्प्राभृत सटाक, लिंगप्राभृत, 3 विक्रान्तकौरव (नाटक ) ) | शीलप्राभृत, रयणसार, द्वाद४ पार्श्वनाथचरित (काव्य) // ) शानुप्रेक्षा) 5 मैथिलीकल्याण ( नाटक ) / ) 18 प्रायश्चित्तसंग्रह-( छंदाड, 6 आराधनासार सटीक // छेदशास्त्र, प्रायश्चित्त-चूलिका, 7 जिनदत्तचरित (काव्य) / ) | प्रायश्चित्त) 10) 8 प्रद्युम्नचरित ( काव्य ) // )-19 मूलाचार पूर्वार्द्ध सटीक 2 // ) 9 चारित्रकार 20 भावसंग्रहादि-(प्राकृत 10 प्रमाणनिर्णय ( न्याय ) / -) भासंग्रह, संस्कृत भावसंग्रह, 11 आचारसार भावत्रिभंगी, आश्रवत्रिभंगी 2 / ) 12 त्रैलोक्यसार ( सटीक ) 1m) 21 सिद्धान्तसारादिसंग्रह- 1 // ) 13 तत्त्वानुशासनादि संग्रह 22 नीतिवाक्यामृत सटीक (अप्राप्य ) ) ( राजनीतिशास्त्र ) 1 // ) 14 अनगारधर्मामृत(सटीक)३॥) 23 मूलाचार ( उत्तरार्द्ध) सटीक 15 युक्त्यनुशासन सटीक -)| 24 रत्नकरंडश्रावकाचार सटीक मिलनेका पताजैन-ग्रन्थ रत्नाकर कायालय, हीराबाग बम्बई नं. 4. =)