________________
द्वादक्षानुप्रेक्षाधिकारः। तीनां च परिवर्तनक्रमो वेदितव्यस्तदेतत्सर्व समुदितं भावपरिवर्तनमिति । चशब्देन सूचितं भवपरिवर्तनमुच्यते-नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि तेनायुषा तत्र कश्चिदुत्पन्नः पुनः परिभ्राम्य तेनैवायुषा तत्रैव जात एवं दशवर्षसहस्राणां यावन्तः समयास्तावत्कृत्वस्तत्रैव जातो तत्रैव मृतश्च पुनरेकैकसमायधिकभावेन त्रयस्त्रिंशत्सागरोपमाणि परिसमापितानि, ततः प्रच्युत्त्य तिर्यग्गतावन्तर्मुहूर्तायुः समुप्तन्नः पूर्वोक्तेनैव क्रमेण त्रीणि पल्योपमानि तेनैव परिसमापितानि, तथैवं मनुष्यगतौ देवगतौ च नरकगतिवत्, अयं तु विशेषः-एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावद्भवपरिवर्तनमिति । एवं चतुर्विध: पंचविधो वा संसारः चतुर्गतिगमननिबद्धो नरकतिर्यअनुष्यदेवगतिभ्रमणहेतुको बहुप्रकारैः षट्सप्तादिभेदैर्ज्ञातव्य इति ॥ १४॥
तथा षड्डिधसंसारमाह,-. किं केण कस्स कत्थ व केवचिरं कदिविधो य भावो य । छहिं अणिओगद्दारे सव्वे भावाणुगंतव्वा ॥१५॥
का केन कस्य कुत्र वा कियच्चिरं कतिविधः च भावश्च । षइभिरनियोगद्वारैः सर्वे भावा अनुगंतव्याः ॥ १५॥ टीका-कः संसारः ? संसरणं संसारश्चतुर्गतिगमनरूपः, केन भावेन संसारः? औदयिकौपशमिकक्षायोपशमिकपारिणामिकादिभावेन, कस्य ? संसारिजीव स्याष्टविधकर्मावष्टब्धनारकतिर्यअनुष्यदेवरूपस्य, क संसारः ? मिथ्यात्वासंयमकपाययोगेषु तिर्यग्लोके वा, कियच्चिरं संसारः ? अनाद्यनिधनोऽनादिसनिधनः, कतिविधः ? कतिप्रकार इति । अनेन प्रकारेण संसार एकविधो द्विविधस्त्रिविधश्चतुर्विधः षड्विधः पंचविध इत्यादि, न केवलं संसारः षड्भिरनियोगद्वारैर्ज्ञायते किन्तु सर्वेऽपि भावाः पदार्था अनुगंतव्या इत्यर्थः ॥ १५॥