________________
९४
मूलाचारे
समयसाराधिकारः।
सर्वस्यागमस्य स्वसमयपरसमयानां च सारभूतं समयसाराख्यमधिकार प्रतिपादयस्तावदादाविष्टदेवतानमस्कारपूर्विकां प्रतिज्ञामाहवंदित्तु देवदेवं तिहुअणमहिदं च सव्वसिद्धाणं । वोच्छामि समयसारं सुण संखेवं जहावुत्तं ॥ १ ॥ वंदित्वा देवदेवं त्रिभुवनमहितं च सर्वसिद्धान् । वक्ष्यामि समयसारं शृणु संक्षेपं यथावृत्तं ॥ १ ॥
टीका-वंदित्तु-वंदित्वा मनोवाक्कायैः प्रणम्य, देवानां देवो देवदेवस्तं सुराधीश्वरं सर्वलोकनाथं, त्रिभुवनमहितं त्रिभुवनैर्भवनवासिवाणव्यंतरज्योतिष्ककल्पवासिमर्त्यप्रधानैर्महितं तथा सर्वसिद्धाँश्च सर्वकर्मविमुक्तांश्च वंदित्वा प्रणम्य वक्ष्ये प्रवक्ष्यामि वक्तुं प्रारभे समयसारं द्वादशांगचतुर्दशपूर्वाणां सारं परमतत्वं मूलगुणोत्तरगुणानां च दर्शनज्ञानचारित्राणां शुद्धिविधानस्य च भिक्षाशुद्धश्च
3
१ एतद्दशमपरिच्छेदारंभेऽधोलिखितं श्लोकद्वयमपि वर्तते; तच्च;
नरेन्द्रकीर्ते. ! मलहारिदेव ! सदाननं पश्यति तावकं यः । श्रिया विहीनोऽपि स विष्णुभायः कृती भवेत्स श्रमणप्रधानः ॥ १॥
जनयति मुदमन्तव्यपाथोल्हाणां, ___ हरति तिमिरराशिं या प्रभा भानवीव । कृतनिखिलपदार्थद्योतना भारतीद्धा,
वितरतु धुतदोषा साहती भारती वः ॥ २ ॥ एतच्छ्रोकद्वये द्वितीयः श्लोकस्तु सुभाषितरत्नसंदोहस्याद्यः श्लोकः-सम्पादकः । ग-पुस्तके भाषापुस्तके चेमौ श्लोकौ न स्तः।-संशोधकः । २ तं देवदेवं सुराधीश्वरं ख-ग-पुस्तके।