SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः । एवं संयमराशिं यः करोति संयतो व्यवसितात्मा । दर्शनज्ञानसमग्रः स गच्छति उत्तमं स्थानं ॥ १२४ ॥ ९३ टीका - यः पुनरेवं संयमराशिं करोति संयतो व्यवसितात्मा दर्शनज्ञानसमग्रः स गच्छत्युत्तमं स्थानमित्यत्र किमत्राद्भुतमस्तीति ॥ १२४ ॥ अनगारभावनां संक्षेपयन्मंगलं च कुर्वन्नाह; - - एवं मए अभिशुदा अणगारा गारवेहिं उम्मुक्का । धरणिधरेहिं य महिया देंतु समाधिं च बोधिं च ॥ १२५ ॥ एवं मया अभिस्तुता अनगारा गौरवैः उन्मुक्ताः । धरणिधरैः च महिता ददतु समाधिं च बोधिं च ॥ १२५ ॥ टीका - एवमनेन प्रकारेण मयाभिष्टुता अनगारा गौरवैरुन्मुक्ता धरणीधरैः पृथिवीपतिभिश्व महिताः पूजिता ददतां प्रयच्छंतु समाधिं मरणकालेऽन्यस्मिँश्च काले संयमपूर्विका भावपंचनमस्कारपरिणतिं बोधिं च दर्शन-विशुद्धिं च नान्यत्किंचिदपि याचेऽहमिति ॥ १२५ ॥ इति श्रीमद्वर्याचार्यवर्यप्रणीते मूलाचारे वसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहिते नवमः परिच्छेदः ॥, १ किमत्राद्भुतमिति ख. ग. २ अपि नास्ति ख. ग. ३ इत्याचार्यश्रीवसुनन्दिविरचितायां आचारवृत्तौ नवमः परिच्छेद समाप्त इति ग - पुस्तके । ख- पुस्तके - ऽप्ययमेव पाठः, तत्र आचार्यशब्दो नास्ति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy