________________
९२ wwwmmmmm
मूलाचारे
सर्वगुणाधारान् सुरेन्द्रः स्तुतान् परमगतिगतान् परमशुद्धज्ञानदर्शनचारित्रपरिणतानुत्तीर्णपरान् संसारमहोदधिं समुलंध्य स्थिताँस्त्रिप्रकारैर्मनोवचनकायैरहं प्रणिपतामि सम्यक् प्रणमामीति ॥ १२१ ॥
अनगारभावनायोः प्रयोजनमाह;एवं चरियविहाणं जो काहदि संजदो ववसिदप्पा। णाणगुणसंपजुत्तो सो गाहदि उत्तमं ठाणं ॥ १२२ ॥
एवं चर्याविधानं यः करोति संयतो व्यवसितात्मा। ज्ञानगुणसंप्रयुक्तः स गच्छति उत्तमं स्थानं ॥ १२२ ॥
टीका-एवमनेन प्रकारेण चर्याविधानं दशसूत्रैः कथितं यः करोति व्रतादिसंपन्नो व्यवसितात्मा तपस्युद्योगपरो ज्ञानेन मूलगुणैश्च संप्रयुक्तः संयतो गच्छत्त्युत्तमं स्थानमिति ॥ १२२ ॥
यः शृणोतीममनगाराणां स्तवं तस्यापि फलमाह;भत्तीए मए कहियं अणयाराण त्थवं समासेण । जो सुणदि पयदमणसो सो गच्छदि उत्तमं ठाणं॥१२३॥ भक्त्या मया कथितं अनगाराणां स्तवं समासेन । यः शृणोति प्रयत्नमनाः स गच्छति उत्तमं स्थानं ॥१२३ ॥
टीका-भक्त्या मया कथितमिममनगारस्तवं संक्षेपेण यः शृणोति प्रयतमनाः संयतात्मा सन् स गच्छत्युत्तमं स्थानमिति ॥ १२३॥
तथा चएवं संजमरासिं जो काहदि संजदो ववसिदप्पा। दसणणाणसमग्गो सो गाहदि उत्तमं ठाणं ॥ १२४ ॥
१ अनगारभावनायां । १२ तथा क्षेति पाठः ख-ग-पुस्तके नास्ति ।