SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः । ९१ अनगाराणां पर्यायनामान्याह;समणोत्ति संजदोत्ति य रिसि मुणि साधुत्ति वीदरागोत्ति। णामाणि सुविहिदाणं अणगार भदंत दंतोत्ति ॥१२०॥ श्रमण इति संयत इति च ऋषिमुनिः साधु इति वीतराग इति। नामानि सुविहितानां अनगारो भदंतः दांतो यतिः ॥ १२० ॥ टीका-*यत्किंचन्मुनयः क्वचिदृषय इत्येवमादिप्रतिपादितास्तेषां कथं पर्यायनामान्यत आह -श्रमण इति श्रमयंत्यात्मानं तपोभिरिति श्रमणाः, संयता इति संयमयंतीन्द्रियाणि कषायाँश्च संयताः,ऋषय इति चार्षयन्ति गमयंति सर्वपापानि ते ऋषयोऽथवार्षयन्ति प्राप्नुवंति सप्तर्झरिति ऋषयः, मन्यते बुध्यते स्वपरार्थसिद्धिमिति मुनयोऽथवा मतिश्रुतावधिमनःपर्ययकेवलज्ञानयुक्ताः मुनयः, साधव इति सम्यग्दर्शनज्ञानचारित्राणि साधयंतीति साधवः, वीतरागा इति वीतो विनष्टो रागो येषां ते वीतरागाः, नामान्येतानि संज्ञारूपाणि सुविहितानां सुचारित्राणां । अनगारा न विद्यतेऽगारादिकं येषां तेऽनगारा विमुक्तसर्वसंगाः, भदंताः सर्वकल्याणानि प्राप्तवंतः, दांताः पंचेन्द्रियाणां निग्रहपराः, त्रयोदशविधे चारित्रे यतंत इति यतयोऽथवोपशमक्षपकश्रेण्यारोहणपरा यतयः । एवं प्रकाराणि यतीनां नामानीति ॥ १२० ॥ एवं दशसूत्राणि व्याख्यायेदानीमनगाराणां स्तवमाह;अणयारा भयवंता अपरिमिदगुणा थुदा सुरिंदेहिं । तिविहेणुत्तिण्णपारे परमगदिगदे पणिवदामि ॥१२॥ अनगारान् भगवतः अपरिमितगुणान् स्तुतान सुरेंद्रैः। त्रिविधैरुत्तीर्णपारान् परमगतिगतान् प्रणिपतामि ॥ १२१ ॥ टीका-एवमनगारान् भगवतोऽनंतचतुष्टयं प्राप्तान प्राप्तवंतश्चापरिमितगुणान् * पुष्पमध्यगतः पाठः ख-ग-पुस्तके अधिकः। .
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy