________________
मूलाचारे
"
वा “ अणियट्टी” पदस्थाने " परीसहा ” इति पाठस्तेन परीषहा न शक्नुवंति प्रधर्षयितुं ध्यानप्रविष्टं मुनिमिति ॥ ११७ ॥
पुनरपि ध्यानस्य स्थैर्यमाह; -
जह ण चलइ गिरिराजो अवरुत्तरपुव्वक्खिणेवाए । एवमचलिदो जोगी अभिक्खणं झायदे झाणं ॥ ११८ ॥ यथा न चलति गिरिराजः अपरोत्तरपूर्वदक्षिणवातैः । एवमचलितो योगी अभीक्ष्णं ध्यायति ध्यानं ॥ ११८ ॥ टीका -- यथा न चलति न स्थानाच्च्युतो भवति गिरिराजो मेरुः पूर्वपश्चिमदक्षिणोत्तरवातैः एवमचलितो योगी सर्वोपसर्गादिभिरकंप्यभावोऽभीक्ष्णं निरन्तरं समयं समयं प्रत्यसंख्यातगुणश्रेणिकर्मनिर्जरां कुर्वन् ध्यायेत् ध्यानं समाधिमिति, यद्यप्यत्रैकवचनं जात्यपेक्षया तथापि बहुवचनं द्रष्टव्यं ध्यायंति ध्यानमिति ॥ ११८ ॥
तत एवं ध्यानं प्रध्याय; -
द्विविदकरणचरणा कम्मं णिदुद्वंदं धुणित्ताय । जरगरणविष्पमुक्का उवेंति सिद्धिं धुद किलेसा ॥ ११९ ॥
निष्ठापितकरणचरणाः कर्म निधत्तोद्धतं धूत्वा । जरामरणविप्रमुक्ता उपयांति सिद्धिं धुतक्लेशाः ॥ ११९ ॥
टीका - ततो ध्यानं संचिंत्य निष्ठापितकरणचरणाः परमोत्कर्षं प्रापिताः पंचमहाव्रतपंचसमितित्रिगुप्तिपंचनमस्कार षडावश्यकासिकानिषयका यैस्ते मुनयः कर्म निधत्तोद्धतं बद्धपुष्टं बद्धनिकोचितं सुष्ठु स्निग्धं सुष्ठु दुःखदायकं निर्धूतं निर्मूलतः सम्यक् धूत्वा प्रक्षिप्य जातिजरामरणमुक्ताः सिद्धिमनंतज्ञानदर्शनसुखवीर्यरूपामवस्थामुपयांति धुतक्लेशाः संत इति ॥ ११९ ॥
१ बद्धपुष्टबद्धनिकाचितं ग । बद्धपुष्टनिकाचितं ख. ।