________________
अनगारभावनाधिकारः ।
टीका-ततो दान्तेन्द्रियाः संतो महर्षयः शुद्धोपयोगयुक्ताः समीचीनध्यानोपगता रागं द्वेषं विकृतिं च क्षपयित्वा प्रलयं नीत्वा क्षपितमोहाः संतः कर्माणि क्षपयति सर्वाणि यतः कषायमूलत्वात्सर्वेषामिति ॥ ११५॥
तदेवमाचष्टेऽनया गाथया;अट्ठविहकम्ममूलं खविद कसाया खमादिजुत्तेहिं । उद्धदमूलो व दुमो ण जाइदव्वं पुणो अत्थि॥ ११६॥
अष्टविधकर्ममूलं क्षपिताः कषायाः क्षमादियुक्तैः। उद्भूतमूल इव द्रुमो न जनितव्यं पुनरस्ति ॥ ११६ ॥ • टीका-अष्टविधस्य कर्मणो मूलं कारणं । किं ते? कषायाः क्रोधादयस्तेषु सत्सु सर्वकर्मप्रकृतीनामवस्थानं ते चे कषायाः क्षमादियुक्तैः क्षमामार्दवार्जवसंतोषपरैः क्षपिता विनाशिताः पुनस्तेषामुत्पत्तिर्नास्ति यथोद्भूतमूलस्य द्रुमस्य निर्मूलितस्य वृक्षस्येव जनितव्यं नास्ति, यथोद्धृतमूलो वृक्षो न जायते कारणाभावात्तथा कर्मनिचयो न पुनरागच्छति कारणाभावादिति ॥ ११६ ॥
तस्मात्;अवहट्ट अट्ट रुई धम्म सुक्कं च झाणमोगाढं । ण च एदि पधंसेदुं अणियट्टी सुक्कलेस्साए ॥११७॥
अपहृत्य आर्त रौद्रं धर्म शुक्लं च ध्यानमवगाढं। न च यति प्रधर्षयितुं अनिवृत्ति शुक्ललेश्यया ॥ ११७॥
टीका-तस्मात्कषायनिर्मूलनायार्त्तव्यानं रौद्रध्यानं चापहृत्य परित्यज्य धर्मध्यानं शुक्लध्यानं च चिन्तयेति शेषः यतः समीचीनध्यानावगाढं शोभनध्याने निविष्टमानसं यतिं शुक्ललेश्यया सहितं शुद्धयोगवृत्या समन्वितं अनिवृत्तिगुणस्थानगतं कषाया न शक्नुवंति न किंचित्कुर्वन्ति प्रधर्षयितुं कदर्थयितुं । अथ
१ तेन प्रेस-पुस्तके । २ एवं ख-ग ।