________________
मूलाचारे
.....mmmmm
इदानीं ध्यानरथं प्रकटयन्नाह;एदे इंदियतुरया पयडीदोसेण चोइया संता । उम्मग्गं णिति रहं करेह मणपग्गहं वलियं ॥ ११३ ॥ एते इंद्रियतुरगाः प्रकृतिदोषेण चोदिताः संतः । उन्मार्ग नयंतिं रथं कुरुत मनःप्रग्रहं दृढं ॥ ११३॥
टीका-एते इन्द्रियतुरगा इमानीन्द्रियाण्येवाश्वाः प्रकृत्या स्वभावेन दोषेण रागद्वेषाभ्यां च चोदिताः प्ररिताः संत उन्मार्ग विषयाकुलाटवीं नयंति प्रापयति धर्मध्यानरथं कुरुत मनःप्रग्रहं दृढं । यथा रश्मिनाऽश्वा नियंत्र्यंते वशीक्रियते तथेन्द्रियाणि वशं स्थापयतैकाग्रमनोनिरोधप्रग्रहेण येन ध्यानं मार्गस्थं भवतीति ॥ ११३॥
रागद्वेषादीनां प्रतिपक्षभावनामाह;रागो दोसो मोहो विदीय धीरेहि णिज्जिदा सम्म । पंचेंदिया य दंता वदोववासप्पहारोह ॥ ११४ ॥
रागो द्वेषो मोहो वृत्या धीरौनिर्जिताः सम्यक् । पंचेद्रियाणि च दांतानि व्रतोपवासप्रहारैः ॥ ११४॥
टीका-धीरैः संयतै रागद्वेषमोहाः प्रीत्यप्रीतिमिथ्यात्वानि वृत्त्या दृढरत्नत्रयभावनया निर्जिताः' प्रहताः सम्यग्विधानेन पंचेन्द्रियाणि दांतानि स्ववशं नीतानि व्रतोपवासप्रहारैरिति ॥ १४ ॥
ततः किम्दंतेंदिया महरिसी रागं दोसं च ते खवेदूणं । झाणोवजोगजुत्ता खवेंति कम्मं खविदमोहा ॥ ११५॥ दातेंद्रिया महर्षयो राग द्वेषं च ते क्षपयित्वा । ध्यानोपयोगयुक्ताःक्षपयंति कर्माणि क्षपितमोहाः ॥ ११५ ॥