________________
अनगारभावनाधिकारः।
__ ध्यानार्थ नगरं प्राकारादिसमन्वितं रचयन्नाह;धिदिधणिदणिच्छिदमदी चरित्त पायार गोउरं तुंगं । खंतीसुकहकवाडं तवणयरं संजमारक्खं ॥१११ ॥ धृत्यतिशयनिश्चितमतिः चारित्रं प्राकारं गोपुरं तुंगं । क्षांतिसुकृतकपाटं तपोनगरं संयमारक्षम् ॥ १११ ॥
टीका-धृतिः संतोषादिस्तस्यामत्यर्थ निश्चितं मतिज्ञानं धृत्यतिशयनिश्चितमतिर्धेर्योत्साहतत्वरुचिसमन्वितविवेकः चारित्रं त्रयोदशप्रकारपापक्रियानिवृत्तिः, प्राकारः पाषाणमय इष्टकामयो वा परिक्षेपः, गोपुरं तुंगं नगरस्य महदरमुत्तुङ्गकटं यथासंख्येन संबंधः । धृत्यतिशयितनिश्चितमतिरेव प्राकारो यत्र नगरे तत्तथाभूतं तथा चा रित्रमेव गोपुरमुत्तुंगं यत्र तच्चारित्रगोपुरोत्तुंगं । क्षांतिरुपशमः सुकृतं धर्मः क्षांतिसुकृते कपाटे यस्य तत् क्षांतिसुकृतकपाटमथवा शान्तिरेव सुयंत्रितकपाटं तत्र, तपोनगरं, संयमो द्विप्रकार आरक्षः कोट्टपालो यत्र तत्संयमारक्षं इन्द्रियसंयमप्राणसंयमाभ्यामारक्षकाभ्यां पाल्यमानमिति ॥ १११॥ ___ कथं तद्रक्ष्यत इत्याशंकायामाह;रामो दोसो मोहो इंदियचोरा य उज्जदा णिचं । ण च यति पहंसे, सप्पुरिससुरक्खियं णयरं ॥११२॥
रागः द्वेषः मोहः इंद्रियचौराश्चोद्यता नित्यं । न शक्नुवन्ति प्रध्वंसयितुं सत्पुरुषसुरक्षितं नगरं ॥ ११२॥ टीका-यद्यपि तन्नगरं प्रध्वंसायितुं विनाशयितुमुद्यताः सर्वकालं रागद्वेषमोहेन्द्रियचौरास्तथापि तत्तपोनगरं पूर्वोक्तविशेषणविशिष्टं न शक्नुवंति प्रध्वंसयितुं सत्पुरुषसुरक्षितनगरवत्, यथा महायोधैः सुरक्षितं सुदुर्ग सुयंत्रितं नगरं विनाशयितुं समर्थ न परचक्रमेवं तपोनगरं रागादयो न विनाशयितुं समर्था इति ॥ ११२॥