________________
८६
मूलाचारे
शंखलादिबंधनरहितो नगरराजमार्गे दृढशक्तियुक्तेन नरेण तीक्ष्णाकुशेन करणभूतेन धृत आत्मवशे स्थापित इति ॥ १०८॥
एवम्;तह चंडो मणहत्थी उद्दामो विषयराजमग्गम्मि। णाणंकुसेण धरिदो रुद्धो जह मत्तहत्थिव्व ॥ १०९ ॥ तथा चंडो मनोहस्ती उद्दामो विषयराजमार्गे । ज्ञानांकुशेन धृतो रुद्धो यथा मत्तहस्ती खलु ॥ १०९॥ टीका-तथा तेनैव प्रकारेण चंडो नरकगत्यादिषु नराणां प्रक्षेपणपरो मनोहस्ती उद्दामः संयमादिखलादिरहितो विषयराजमार्गे रूपादिविषयराजवमनि धावन् ज्ञानांकुशेन पूर्वापरविवेकविषयावबोधांकुशेन धृत आत्मवशं नीतः, यथा मत्तहस्ती रुद्धः सन्न किंचित्कर्तुं समर्थो यत्र नीयते हस्तिपकेन तत्रैव याति एवमेव यतिना मनोहस्ती रुद्धः सन् यत्र व्यवस्थाप्यते तत्रैव तिष्ठति . वशीभूतः सन्निति ॥ १०९ ॥
तथा;ण च एदि विणिस्सरिदुं मणहत्थी झाणवारिबंधणिदो । बद्धो तह य पयंडो विरायरज्जूहि धीरेहिं ॥ ११० ॥
न चैति विनिस्सतु मनोहस्ती ध्यानवारिबंधनीतः। बद्धस्तथा च प्रचंडः विरागरज्जुभिः धीरैः ॥ ११० ॥
टीका-यथा रुद्धः सन् मत्तहस्ती वारिबंधेन न शक्नोति विनिःसर्तु निर्गन्तुं न समर्थस्तथा मनोहस्ती ध्यानवारिबंधनं नीतः प्रापितोऽतिशयेन प्रचंडो विरागरज्जुभिर्बद्धो वैराग्यादिवरत्राभिर्धारैः संयमितो निर्गन्तुं न शकोतीति ॥ ११०॥