SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः। त इंद्रियेषु पंचसु न कदाचित् रागं पुनरपि बघ्नंति। उष्णेन इव हारिद्रो नश्यति रागः सुविहितानां ॥ १०६॥ . टीकाते पूर्वोक्ताः श्रमणा इन्द्रियेषु पंचसु रागं कदाचिदपि न पुनर्बनंति यतस्तेषां सुविहितानां शोभनानुष्ठानानां नश्यति रागो यथोष्णेन हारिद्रो रागः । किमुक्तं भवति ? यद्यपि कदाचिद्रागः स्यात्तथापि पुनरनुबन्धं न कुर्वन्ति पश्चात्तापेन तत्क्षणादेव विनाशमुपयाति हरिद्रारक्तवस्त्रस्य पीतप्रभारविकिरणस्पृष्टेवोत ॥ १०६ ॥ तपःशुद्धिं निरूप्य ध्यानशुद्धिं निरूपयस्तावत्तदर्थमिन्द्रियजयमाह;विसएसु पधावंता चवला चंडा तिदंडगुत्तेहिं । इंदियचोरा घोरा वसम्मि ठविदा ववसिदेहिं ॥१०७॥ विषयेषु प्रधावंतश्चपलाञ्चंडाः त्रिदंडगुप्तः। इंद्रियचौरा घोराः वशे स्थापिता व्यवसितैः ॥ १०७ ॥ टीका-विषयेषु रूपरसगन्धस्पर्शशब्देषु प्रधावंतः प्रसरन्तः, चपलाः स्थैर्यवर्जिताः, चंडाः कोपं गच्छन्तः, इन्द्रियचौरास्त्रिदंडगुप्तैर्मनोवाक्कायसंयुतैः व्यवसितैश्चारित्रयोगतन्निष्टैर्वशे व्यवस्थापिता: स्ववशं नीताः सुष्ठु घोरा यद्यपि तथापि प्रलयं प्रापिता मुनिभिरिति ॥ १०७ ॥ दृष्टान्तद्वारेण मनोनिग्रहस्वरूपमाह;जह चंडो वणहत्थी उद्दामो णयररायमग्गम्मि । तिक्खंकुसेण धरिदो णरेण दिढसत्तिजुत्तेण ॥ १०८॥ यथा चंडो वनहस्ती उद्दामो नगरराजमार्गे । तीक्ष्णांकुशेन धृतः नरेण दृढशक्तियुक्तेन ॥ १०८ ॥ टीका-यथा येन प्रकारेण चंडो गलत्रिगंडप्रजातप्रकोपो वनहस्ती उद्दामः
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy