________________
८४
मूलाचारे
पुनरपि कषायविजयमाह; -
लखूण इमं सुदणिहिं ववसायविरज्जियं तह करेह | जह सुग्गइचोराणं ण उवेह वसं कंसायाणं ॥ १०४ ॥ लब्ध्वा इमं श्रुतनिधि व्यवसायद्वितीयं तथा कुरुत । यथा सुगतिचौराणां नोपेत वशं कषायाणां ॥ १०४ ॥
टीका - लब्ध्वा सम्यगवाप्येमं श्रुतनिधिं द्वादशांगचतुर्दशपूर्वरत्ननिधानं व्यवसायेन चारित्रतपसोद्योगेन सह द्वितीयं तथा कुरुत तेन प्रकारेण यतध्वं, यथा सुगतिचौराणां मोक्षमार्गविनाशकोनां कषायाणां वशं नोपेत तथा यतध्वं येषाञ्च रत्नत्रयविनाशकानां क्रोधादीनां वशं न गच्छेतेति ॥ १०४ ॥
तपःशुद्धिस्वामिनः प्रतिपादयन्नाह ;पंचमहव्वयधारी पंचसु समिदीसु संजदा धीरा । पंचिंदियत्थविरदा पंचमगइमग्गया सवणा ।। १०५ ॥
पंचमहाव्रतधारिणः पंचसु समितिषु संयता धीराः । पंचेंद्रियार्थविरताः पंचमगतिमार्गकाः श्रमणाः ॥ १०५ ॥ टीका - पंच महाव्रतधारिणो जीवदयादिगुणकलिताः पंचसु समितिषु संयताः पंचसमितिसंयुक्तास्तासु वा व्यवस्थिता धीरा अकंपभावमुपगताः पंचेन्द्रियार्थेभ्यो विरता जितेन्द्रियाः पंचमगतिं सिद्धगतिं मृगयमाणा अनंतचतुष्टयेनात्मानं योजयंतः श्रवणा इत्थंभूतास्तपः शुद्धेः कर्त्तारो भवन्ति ॥ १०५ ॥
तथा;
ते इंदिए पंचसु ण कयाइ पुणो वि बंधंति । उण्हेण व हारिद्दं णस्सदि राओ सुविहिदाणं ॥ १०६ ॥
१ विनाशिनां ख. ग. । २ गच्छन्ति ग. गच्छन्तु प्रेस - पुस्तके |