________________
अनगारभावनाधिकारः।
३
अन्यच्च,जइ पंचिंदियदमओ होज्ज जणो रूसिव्वय णियत्तो। तो कदरेण कयंतो रूसिज्ज जए मणूयाणं ॥ १०२॥
यदि पंचेंद्रियदमको भवेत् जनः रोषादिभ्यः निवृत्तः । ततः कतरेण कृतांतः रुष्येत् जगति मनुजेभ्यः ॥ १०२॥
टीका-यदि पंचेन्द्रियदमकः पंचेन्द्रियनिग्रहरतो भवेज्जनस्तदा स रोषादिभ्यो निवृत्तश्च जनो भवेत्तत: कतरेण कारणेन कृतांतो मृत्यू रुष्येत् कोपं कुर्याज्जगति मनुष्येभ्योऽथवा कृतांत आगमस्तत्साहचर्यायतिरपि कृतांत इत्युच्यते तत एवं संबंधः क्रियते यदि सामान्यजनोऽपि पंचेन्द्रियनिग्रहरतो भवेत्तत रोषान्निवृत्त: क्रोधादिकं न करोति कृतांतो यतिः पुन: कतरेण कारणेन सूपद्रवकारिभ्यो मनुष्येभ्यो रुष्यत्कोपं कुर्यात् ? तस्मात्क्षमागुणं जानता चारित्रं सम्यग्दर्शनं चाभ्युपगच्छता न रोषः कर्त्तव्यः ॥ १०२ ॥ .. अन्यच्च;-- जदि वि य करेंति पावं एदे जिणवयणबाहिरा पुरिसा । तं सव्वं सहिदव्वं कम्माण खयं करतेण ॥ १०३ ॥
यद्यपि च कुर्वति पापं एते जिनवचनबाह्याः पुरुषाः । तत् सर्व सोढव्यं कर्मणां क्षयं कुर्वता ॥ १०३ ॥ टीका-यद्यपि च पूर्वकर्मोदयवशात्कुर्वन्ति पापं वधबन्धनादिकं रौद्रं कमते जिनवचनबाह्याः पुरुषा मिथ्यात्वासंयमकषायाभिरताः सर्वमदगर्विताः, तत्सर्वमुपसर्गजातं सहनीयं सम्यग्विधानेनाध्यासितव्यमध्यासयेत् । कर्मणां क्षयं । पूर्वार्जितकर्मफलक्षयं कुर्वताऽऽत्मना सह कर्मणां विश्लेषं कुर्वता सम्यग्दर्शनादिभिरात्मानं भावयतेति ॥ १०३ ॥ १-२ ख-ग-पुस्तके न स्तः ।