SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मूलाचारे ~~~rmmmmmmmmmmmmmmmmmmmmmmm तत्र स्थिताः परीषहाँश्च जयंतीत्याह;वादं सीदं उण्हं तण्हं च छुधं च दंसमसयं च । सव्वं सहंति धीरा कम्माण खयं करेमाणा ॥ १०० ॥ वातं शीतं उष्णं तृष्णां च क्षुधां च दशमशकं च । सर्व सहते धीराः कर्मणां क्षयं कुर्वाणाः ॥ १० ॥ टीका-एवं त्रिकालयोगिनः संतो वातं विनाशिताशेषतरुसमूहं सहते तथा शीतं सहते तथोष्णं शोषिताशेषवनसरित्समुद्रं सहते तथा तृष्णां संतापिताशेषांगावयवां सहते तथा क्षुधां महाप्रलयकालसमुत्थिताग्निस्वरूपां सहते तथा दंशमशककृतोपद्रवं सहते तथा सर्पवृश्चिकपिपीलिकावराहादिकृतोपद्रवं च सहते, किं बहुना सर्वमप्युपसर्गजातं कर्मणां क्षयं कुर्वाणाः सहते न तंत्रमंत्रनिमित्तं नेहलौकिकसुखनिमित्तं नापि परलोकभोगाकांक्षयेति ॥ १०० ॥ एवं कायभवं क्लेशसहनं निरूप्य वाग्भवं क्लेशसहनं निरूपयन्नाह;-- दुजणवयण चडयणं सहति अच्छोड सत्थपहरं च । ण य कुप्पंति महरिसी खमणगुणवियाणया साहू॥१०१।। दुर्जनवचनं चटचटत् सहते पैशून्यं शस्त्रप्रहारं च । न च कुप्यंति महर्षयः क्षमणगुणविज्ञानकाः साधवः ॥१०१॥ टीका-दुष्टो जनो दुर्जनस्तस्य वचनं दुर्जनवचनं सर्वप्रकारेणापवादग्रहणशीलमिथ्यादृष्टिखरपरुषवचनं, चटचटत्तप्तलोहस्फुलिंगसमानं सर्वजीवप्रदेशतापकरं, सहते न क्षोभं गच्छन्ति, अछोडं पैशून्यवचनं असद्दोषोद्भावनप्रवणमथवा अछोडणं लोष्ठलगुडादिभिस्ताडनं, शस्त्रप्रहारं खड़ादिभिर्घातं च सहते, इति सर्वमेतत्सहंते न च तेभ्य उपद्रवकारिभ्यः कुप्यन्ति, महर्षयः क्षमागुणविज्ञानका: श्रमणाः सर्वप्रकारैः सहनशीलाः क्रोधादिवशं न गच्छन्तीति ॥ १०१॥ १ विसहन्ते ख. ग.।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy