________________
अनगारभावनाधिकारः।
rrrrrrrrrrrrrrra
rrrrrrrriarrorm
त्पतद्धिमं। किंविशिष्टं तद्विमरजः ? नलिनीवनविनाशकं पद्मिनीखंडदहनसमर्थ, उपलक्षणमात्रमेतत् तेन सर्वभूतविनाशकरणसमर्थं सहन्त इति ॥ ९७ ॥ ' अभ्रावकाशं व्याख्यायातापनस्वरूपमाह;जल्लेण मइलिदंगा गिटे उण्णादवेण ढंगः । चेट्ठति णिसिटुंगा सूरस्स य अहिमुहा सूरा ॥ ९८ ॥
जल्लेन मलिनांगा ग्रीष्मे उष्णातपेन दग्धांगाः। तिष्ठति निसृष्टांगा सूर्यस्य च अभिमुखं शूराः ॥ ९८॥
टीका-जलं सर्वांगोद्भूतमलं तेन मलिनांगा वल्मीकसमाना निःप्रतीकारदेहाः; ग्रीष्मे प्रचंडमार्तडगभस्तिहस्तशोषिताशेषाभावे दवदहनसमानतृष्णाक्रांतसमस्तजीवराशौ उष्णातपेन दीप्यमानकिरणजालैर्दग्धांगा दग्धकाष्ठसमानशरीरास्तिष्ठति । निसृष्टांगाः कायोत्सर्गेणाचलितशरीरावयवाः सूरस्य धगधगायमानादित्यस्याभिमुखं शूरा मनागपि न संक्लेशमुद्दहति शीतहदे प्रविष्टा इव संतिष्ठंत इति ॥ ९८॥ • वृक्षमूलं निरूपयन्नाह;धारंधयारगुविलं सहति ते वादवादलं चंडं। रतिदियं गलंतं सप्पुरिसा रुक्खमूलेसु ॥ ९९ ॥ धारांधकारगहनं सहते ते वातवार्दलं चंडं । रात्रिंदिवं गलत् सत्पुरुषा वृक्षमूलेषु ॥ ९९ ॥
टीका-तथा प्रावृट्काले जलपूरिताशेषमार्गे गर्जत्पर्जन्यघोराशनिरववधिरितदिगंते वृक्षमूलेऽनेकसर्पाकीर्णे चंडं रौद्रं वातं वाईलं च प्रवर्षणशीलं मेघजालं च सहते सम्यगध्यासते। किंविशिष्टं ? जलधारांधकारगहनं। पुनरपि किंविशिष्टं ? रात्रिंदिवं च क्षरन्मुशलप्रमाणपतद्धाराभिर्वर्षवृक्षमूले वसंति सहंते च सत्पुरुषाः, न मनागपि चित्तक्षोभं कुर्वन्तीति ॥ ९९ ॥