________________
८०
मूलाचारे
चारित्रा मार्ग सम्यग्दर्शनज्ञानचारित्राणि मन्यतेऽभ्युपगच्छन्ति । केषां मार्गे ? वीतरागाणां निर्दग्धमोहनीयरजसामनगारभावनया च कथितस्वरूपया भावयंति चात्मानमिति ॥ ९५ ॥ .
वाक्यशुद्धिं निरूप्य तपःशुद्धिं च निरूपयन्नाह; —
णिचं च अप्पमत्ता संजमसमिदीसु झाणजोगेसु । तवचरणकरणजुत्ता हवंति सवणा समिदपावा ॥ ९६ ॥ नित्यं च अप्रमत्ताः संयमसमितिषु ध्यानयोगेषु । तपश्चरणकरणयुक्ता भवंति श्रमणाः शमितपापाः ॥ ९६ ॥
टीका - नित्यं च सर्वकालमपि अप्रमत्ताः पंचदशप्रमादरहिताः संयमें प्राणरक्षणे इन्द्रियनिग्रहे समितिषु ध्याने धर्मध्याने शुक्लध्याने च योगेषु नाना विधावग्रहविशेषेषु द्वादशविधे तपसि त्रयोदशविधे चरणे * करणे च त्रयोदशविधे *शमितपापाः संतः श्रमणा उद्युक्ता भवति । * एवंविशिष्टे सम्यग्ज्ञानदर्शन-चारित्रतपोविषये तदुपकरणे च सर्वपापक्रियानिवृत्ताः सन्तोऽभीक्ष्णमायुक्तत्र भवतीति* ॥ ९६ ॥
बाह्यतपसां मध्ये दुश्वरं तावत्कायक्लेशं तपः प्रतिपादयन्नाह;--
हेमंते धिदिमंता सहति ते हिमरयं परमघोरं । अंगेसु विडमाणं णलिणीवणविणासयं सीयं ॥ ९७ ॥ हेमंते धृतिमंतः सहते ते हिमरजः परमघोरं । अंगेषु निपतत् नलिनीवनविनाशकं शीतं ॥ ९७ ॥
टीका - हेमंते हिमवत्काले परमघोरे दग्धाशेषवनस्पतिविशेषे प्रचंडवातसमूहकंपिताशेषजंतुनिवहे धृतिमतः परमधैर्यप्रावरणसंवृताः, सहन्ते ते मुनयो हिमरजः पतत्प्रालेयसमूहं परमघोरं सुष्ठु रौद्रमंगेषु निपतदाचरणान्मस्तकं याव