________________
अनगारभावनाधिकारः ।
www
७९
इवागाधा अक्षोभाच, नियमेषु षडावश्यकादिक्रियासु दृढवतिनोऽभग्नगृहीतानवग्रहविशेषाः, पारत्र्यविमार्गकाः परलोकं प्रति सूयतसमस्तकार्या इहलोकं निरतिचारं परलोकं सम्यग्विधानेनात्मनः परेषां च निरूपयंतीति ॥ ९३ ॥
कथंभृतास्तर्हि कथाः कुर्वन्तीत्याशंकायामाह; — जिणवयणभासिदत्थं पत्थं च हिदं च धम्मसंजुत्तं । समओवयारजत्तं पारत्तहिदं कथं करेंति ॥ ९४ ॥
जिनवचनभाषितार्थी पथ्यां च हितां च धर्मसंयुक्तां । समयोपचारयुक्तां पारत्र्यहितां कथां कुर्वति ॥ ९४ ॥
टीका - जिनवचनेन वीतारागागमेन भाषितः प्रतिपादितोऽर्थो विषयो यस्याः सा जिनवचनभाषितार्था रत्नत्रयप्रतिपादनसमर्था तां कथां कुर्वते । पुनरपि पथ्यां हितां च धर्मसंयुक्तां समयोपचारयुक्तामागमविनयसहितां परलोकं प्रति हितां कुर्वते । * यद्यपि विषयसुखविवर्जनेन कापुरुषाणामनिष्टा तथापि विपाककाले पथ्यौषधवत् । तथा * यद्यपि जीवप्रदेशसंतापकरणेन न हिता तथापि सम्यगाचरणनिरता । तथा यद्यपि विनयतन्निष्ठा तथापि श्रुतज्ञानप्रतिकूला न भवति तर्कव्याकरणसिद्धांतचरितपुराणादिप्रतिपादिका वा कथा तां कुर्वत इति ॥ ९४ ॥
ये कथामेवंविधां कुर्वन्ति ते किम्भूता इत्याशंकायामाह; — सत्ताधय सप्पुरिसा मग्गं मण्णांत वीदरागाणं । अणयारभावणाए भावेंति य णिञ्चमप्पाणं ॥ ९५ ॥
सत्त्वाधिकाः सत्पुरुषा मार्गे मन्यंते वीतरागाणां । अनगारभावनया भावयंति च नित्यमात्मानम् ॥ ९५ ॥ टीका - सत्वाधिकाः सर्वोपसर्गेरप्यकंप्यभावाः, सत्पुरुषाः यथोक्तचरित'