________________
१५४
मूलाचारे
टीका--पुढवि-पृथिवी । दग-आपो जलं । अगाण-आग्निः । मारुद-मारुत: वातः । पतेय—प्रत्येक एकं जीवं प्रति कारणं शरीरहेतुपुद्गलप्रचयः प्रत्येकमसाधारणं ।अणंत-अनंतः साधारणं । कायिया चेवकायिकाश्चैव । पृथिवी कायो विद्यते येषां ते पृथिवीकायिकाः, आपः कायो विद्यते येषां ते अप्कायिकाः, तेजः कायो विद्यते येषां ते तेजःकायिकाः, मारुतः कायो विद्यते येषां ते मारुतकायिकाः, प्रत्येकः कायो विद्यते येषां ते प्रत्येककायिकाः पूगफलनालिकेरादयः, अनंतः कायो विद्यते येषां तेऽनंतकायिका गुडूचीमूलकादयः, चशब्द उक्तसमुच्चयार्थः, एवकारोऽवधारणार्थः । पृथिवीकायिकादयः स्वभेदभिन्ना बादराः सूक्ष्माः पर्याप्ता अपर्याप्ताश्चैवेति । विगतिगचदुपंचेंदिय-इन्द्रियशब्दः प्रत्येकमभिसंबध्यते दीन्द्रियाः कृम्यादयः, त्रीन्द्रिया मत्कुणादयः, चतुरिंद्रिया भ्रमरादयः, पंचेंद्रिया मंडूकादयः । भोम्मादि-भूम्यादयः । हवंति-भवंति । दस-दश । एदे-एते पृथिवीकायिकादयः पंचेंद्रियपर्यंता दशैव भवति नान्य इति ॥४॥
श्रमणधर्मस्य भेदं स्वरूपं च प्रतिपादयन्नाह;खंती मद्दव अज्जव लाघव तव संजमो अंकिचणदा । तह होदि बंभचेरं सच्चं चागो य दस धम्मा ॥ ५॥
क्षांतिः मार्दवमार्जवं लाघवं तपः संयमः अकिंचनता। तथा भवति ब्रह्मचर्य सत्यं त्यागश्च दश धर्माः॥ ५॥
टीकाः-खंती-उत्तमक्षमा शरीरस्थितिहेतुमार्गणार्थ परकुलान्युपयतस्तीर्थयात्राद्यर्थं वा पर्यटतो यतेर्दुष्टजनाक्रोशोत्प्रहसनावज्ञाताडनभर्त्सनशरीरव्यापादनादीनां सन्निधाने स्वांते कालुष्यानुत्पत्तिः क्षांतिः । मद्दव-मृदोर्भावो मार्दवं जात्यादिमदावेशादभिमानाभावः । अज्जव-जोर्भाव आर्जवं मनोवाक्कायानामवक्रता । लाघव-लघो वो लाघवं अनतिचारत्वं शौचं । १ स्वान्तः ग।