________________
शीलगुणाधिकारः।
१५५
प्रकर्षप्राप्तौ लोभनिवृत्तिः । तव-तपः कर्मक्षयार्थ तप्यंते शरीरेन्द्रियाणि तपस्तद्द्वादशविधं पूर्वोक्तमवसेयं । संजमो-संयमो धर्मोपबृंहणार्थ समितिषु वर्तमानस्य प्राणीन्द्रियदयाकषायनिग्रहलक्षणः । अकिंचणदा-नास्य किंचनास्त्याकंचनोऽकिंचनस्य भाव आकिंचन्यमकिंचनता उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसंबंधनिवृत्तिः । तह होदि-तथा भवति तथ तेनैव प्रकारणे दशाब्रह्मपरिहारेण , बंभचेरं-ब्रह्मचर्य अनुज्ञातांगनास्मरणकथाश्रवणस्त्रीसंसक्तशयनादिवर्जनं स्वतंत्रवृत्तिनिवृत्यर्थो वा गुरुकुलवासो ब्रह्मचर्य । सच्चं-सत्यं परोपतापादिपरिवर्जितं कर्मादानकारणानिवृत्तं साधुवचनं सत्यं । चागो-त्यागः संयतस्य योग्यज्ञानादिदानं त्यागः चशब्दः समुच्चयार्थः । दस धम्मा-दशैते धर्मा दशप्रकारोऽयं श्रमणधर्मो व्याख्यात इति ॥ ५॥
शीलानामुत्पत्तिनिमित्तमक्षसंक्रमणाच्चारणक्रममाह;-- मणगुत्ते मुणिवसहे मणकरणोम्मुक्कसुद्धभावजुदे । आहारसण्णविरदे फासिंदियसंपुडे चेव ॥६॥ पुढवीसंजभजुत्ते खंतिगुणसंजुदे पढमसीलं। अचलं ठादि विसुद्धे तहेव सेसाणि णेयाणि ॥७॥ मनोगुप्तस्य मुनिवृषभस्य मन:करणोन्मुक्तशुद्धभावयुक्तस्य । आहारसज्ञाविरतस्य स्पर्शनेंद्रियसंवृतस्य चैव ॥ ६ ॥ पृथिवीसंयमयुक्तस्य क्षतिगुणसंयुक्तस्य प्रथमशीलं । अचलं तिष्ठति विशुद्धस्य तथैव शेषाणि ज्ञेयानि ॥७॥ टीका-मणगुत्ते-मनसा गुप्तो मनोगुप्तस्तस्य तस्मिन्वा मनोगुप्तस्य मनोगुप्ते । मुणिवसहे-मुनिवृषभस्य मुनिवृषभे वा, मणकरणोम्मुक्कसुद्धभावजुदे-मनःकरणोन्मुक्तशुद्धभावयुतः, मनःकरणोन्मुक्तश्चासौ शुद्धभावश्च तेन युतः मनःकरणोन्मुक्तशुद्धभावयुतस्तस्य मनःकरणोन्मुक्तशुद्धभा