SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५६ मूलाचारे वयुतस्य मनःकरणोन्मुक्तशुद्धभावयुते वा । आहारसण्णविरदे-आहारसंज्ञया विरत आहारसंज्ञाविरतस्तस्य आहारसंज्ञाविरतस्य आहारसंज्ञाविरते वा । फासिंदियसंपुडे-स्पर्शेनेन्द्रियं संवृतं यस्यासौ स्पर्शनेन्द्रियसंवृतस्तस्य स्पर्शनेंद्रियसंवृतस्य स्पर्शनेन्द्रियसंवृते वा । चेव-निश्चयेन । पुढवीसंजमजुत्तेपृथिवीसंयमेन युक्तः पृथिवीसंयमयुक्तस्तस्य पृथिवीसंयमयुक्तस्य पृथिवीसंयमयुक्ते वा । खंतिगुणसंजुदे-शांतिगुणेन संयुक्तः क्षांतिगुणसंयुक्तस्तस्य क्षांतिगुणसंयुक्तस्य क्षांतिगुणसंयुक्त वा । पढमसीलं-प्रथमं शीलं तस्येत्थंभूतस्य मुनिवृषभस्येत्थंभूते वा मुनिवृषभे प्रथमं शीलमचलं स्थिररूपं तिष्ठति । शुद्धे चारित्राढ्ये मुनौ शुद्धस्य चारित्राट्यस्य मुनेति संबंधः । यतो गुप्तिभिर्गुप्तोऽशुभपरिणामैर्विमुक्तः संज्ञादिभिश्च रहितः संयमादिसहितोऽत एव शुद्धः । तहेव-तथैव तेनैव प्रकारेण अनेन वा प्रकारेण । सेसाणि-शेषाण्यपि द्वितीयादीनि शीलानि । णेयाणि-ज्ञातव्यानि । अथवा विशुद्धेषु भंगेषु यावदचलं तिष्ठत्यक्षः, तथा वाग्गुप्ते मुनिवृषभे मनःकरणोन्मुक्तशुद्धभावयुक्त आहारसंज्ञाविरते स्पर्शनेन्द्रियसंवृते पृथिवीसंयमयुक्ते शांतिगुणसंयुक्ते च शुद्धे मुनौ द्वितीयं शीलं तिष्ठति । तथा कायगुप्ते मुनिवृषभे एवं शेषाण्युच्चारणविधानान्युच्चार्य तृतीयं शीलं व्रतपरिरक्षणमचलं तिष्ठति । विशुद्धे तत आदि गते अक्षे एवमुच्चारणा कर्त्तव्या । मनोगुप्ते मुनिवृषभे वाक्करणोन्मुक्तशुद्धभावयुते आहारसंज्ञाविरते स्पर्शनेन्द्रियसंवृते पृथिवीसंयमयुक्ते क्षांतिगुणसंयुक्ते च मुनिवृषभे चतुर्थशीलं । तथा वाग्गुप्ते मुनिवृषभे वाक्करणोन्मुक्तशुद्धभावयुक्त आहारसंज्ञाविरते स्पर्शनेन्द्रियसंवृते पृथिवीसंयमयुक्ते शांतिगुणसंयुक्ते च मुनिवृषभे पंचमं शीलं । तथा कायगुप्ते वाक्करणोन्मुक्त शेषाण्यप्युच्चार्य षष्ठं शीलं ब्रूयात् । तिस्रो गुप्तीः पंक्त्याकारेण व्यवस्थाप्य तत ऊर्द्ध त्रीणि करणानि पंक्त्याकारेण स्थापनीयानि तत ऊर्द्ध आहारादिसंज्ञाः संस्थाप्य ततः पंचेंद्रियाणि ततः पृथिव्यादयः कायास्ततश्च श्रमणधर्माः स्थाप्याः । एवं संस्थाप्य पूर्वोक्तक्रमण शेषाणि
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy