________________
... शीलगुणाधिकारः।
१५७
शीलानि वक्तव्यानि यावत्सर्वेऽक्षा अचलं स्थित्वा विशुद्धा भवंति तावदष्टादशशीलसहस्राण्यागच्छंतीति । अथवा मनोगुप्ते मुनिवृषभे इत्यादि तावदुच्चार्य यावद्दशप्रकारश्रमणधर्मातेऽक्षस्तिष्ठति तदाऽचलं स्थित्वा विशुद्धेऽक्षे ततः शेषा अप्यक्षा अनेन क्रमेण तं प्राप्य स्थापयितव्या यावन्मनो गुप्तयक्षः कायगुप्तौ निश्चलः स्थितस्ततोऽष्टादशशीलसहस्राणि मुनिवृषभस्य पूर्णानि भवंतीति । अथवा मनोगुप्तिं ध्रुवां व्यवस्थाप्य मनःकरणादिना सह षट्सहस्राणि शीलान्युत्पाद्य ततः शेषेषु भंगेष्वचलं स्थित्वा विशुद्धेषु मनोगुप्तिर्विशुद्धा भवति ततः पुनर्वाग्गुप्तिं ध्रुवां कृत्वा षट्सहस्राणि शीलानामुत्पादनीयानि ततः सर्वे भंगा अचलं तिष्ठति ततो वाग्गुप्तिर्विशुद्धा भवति ततः कायगुप्तिं ध्रुवां कृत्वा षट्सहस्राणि शीलानामत्पादनीयानि ततः सर्व भंगा अचलं तिष्ठति कायगुप्तिश्च विशुद्धा भवति शीलानां चाष्टादशसहस्राणि संपूर्णानि भवंति । एवमेकैकं स्थिरं कृत्वा भंगानामुत्पादनक्रमो वेदितव्य इति ॥ ६-७ ॥
इदानीं गुणानामुत्पत्तिकारणक्रमं प्रतिपादयन्नाह;इगिवीस चतुर सदिया दस दस दसगा य आणुपुवीय । हिंसादिक्कमकायाविराहणालोयणासोही ॥८॥
एकविंशतिश्चत्वारः शतं दश दश दश च आनुपूर्व्या । .
हिंसातिक्रमकायविराधनाऽऽलोचनाशुद्धयः॥ ८॥ .. . टीका-इगिवीस-एकेनाधिका विंशतिरेकविंशतिः । चदुर-चत्वारः । सदिया-शतं । दश दश दश त्रयो दशानां भेदाः । आणुपुवीय-आनुपूर्व्या । हिंसा-प्रमादतः प्राणव्यपरोपणं हिंसा, अत्रादिशब्दो द्रष्टव्यस्तेन हिंसादय एकविंशतिसंख्या भवंति । अदिक्कम-अतिक्रमोः विषयाणामुपरि समीहा, अत्रापि आदिशब्दो द्रष्टव्योऽतिक्रमादय उपलक्षणत्वादिति ।
१ प्रमादवतः ख-ग-पुस्तके ।