SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८० मूलाचारे चतुरािंद्रियासंज्ञिपंचेंद्रियेषु सर्वेषु मिथ्यादृष्टिगुणस्थानमकमेव, संज्ञिषु चतुदशापि गुणस्थानानीति सर्वत्र संबंधः । पृथिवीकायाप्कयतेजः कायवायुकायवनस्पतिकायेषु मिथ्यादृष्टिसंज्ञकमेकं, द्वीन्द्रियाद्यसंज्ञिपर्यतेध्वेकमेव मिथ्यादृष्टिगुणस्थानं संशिषु त्रसेषु चतुर्दशापि, सत्यमनोयोगासत्यमृषामनोयोगसत्यवाग्योगासत्यमृषावाग्योगेषु मिथ्यादृष्ट्यादिसयोगपर्यतानि, मृषामनोयोगसत्यमृषामनोयोगमृषावाग्योगसत्यमृषावाग्यागेषु मिथ्यादृष्टयादीनि क्षीणकषायांतानि, औदारिककाययोगे मिथ्यादृष्टयादिसयोग्यतानि, औदारिकमिश्रकार्माणकाययोगे मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टिसयोगकेवलिसंज्ञकानि चत्वारि, वैक्रियककाययोगे मिथ्यादृष्ट्याद्यसंयतांतानि, वैक्रियिकमिश्रकाययोगे तान्येव सम्यभिथ्यादृष्टिरहितानि, आहाराहारमिश्रयोगयोरेकं प्रमत्तगुणस्थानं पुवेदाभावापेक्षया स्त्रीवेदे नपुंसकवेदे च मिथ्यादृष्ट्याद्यानिवृत्तिपर्यंतानि स्त्रीनपुंसकयोर्द्रव्यापेक्षया मिथ्यादृष्ट्यादिसंयतासंयतांतानि, पुंल्लिंगे सर्वाणि, क्रोधमानमायासु तान्येव लोभकषायेषु सूक्ष्मसांपरायाधिकानि, मत्यज्ञानश्रुताज्ञानविभंगाज्ञानेषु मिथ्यादृष्टिसासादनसंज्ञके द्वे, मतिश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादिक्षीणकषायांतानि, मनःपर्ययज्ञाने प्रमत्तादिक्षीणकषायांतानि, केवलज्ञाने सयोग्ययोगिसंज्ञके द्वे अतीतगुणस्थानं च सामायिकछेदोपस्थानसंयमयोः प्रमत्तायनिवृत्त्यंतानिचत्वारि,परिहारविशुद्धिसंयमे प्रमत्ताप्रमत्तसंज्ञके द्वे सूक्ष्मसांपरायसंज्ञके संयमे सूक्ष्मसांपरायिकमेकं, यथाख्यातसंयमे उपशांताद्ययोगांतानि,संयमासंयम संयतासंयतमेकं, असंयमे भिथ्यात्वाद्यसंयतांतानि चक्षुदर्शनाचक्षुईर्शनयोमिथ्यादृष्ट्यादिक्षीणकषायांतानि, अवधिदर्शनेऽसंयतादिक्षीणकषायांतानि, केवलदर्शने संयोगायोगसंज्ञके द्वे अतीतगुणस्थानं च, कृष्णनीलकापोतलेश्यासु मिथ्यादृष्ट्यायसयतांतानि, तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्याद्यप्रमत्तांतानि शुक्ललेश्यायां मिथ्यादृष्ट्यादिसंयोगांतानि, कषाययसहचरितयोगप्रवृत्युपचारेण भव्यसिद्धिषु चतुर्दशापि अभव्यासिद्धेष्वेकं
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy