________________
पर्याश्यधिकारः।
२८१
मिय्याष्टिसंज्ञकं, औपशमिकसम्यक्त्वेऽसंयताद्युपशांतकषायांतानि, वेदकसम्यक्त्वे असंयतायप्रमत्तांतानि, क्षायिकसम्यत्क्वेऽसंयताययोगांतानि, सासादनसंज्ञके ससादननामधेयमेकं, सम्यमिथ्यात्त्वे सम्यझिमिथ्यादृष्टिसंज्ञकं, संशिषु मिथ्यादृष्टयादिक्षीणकषायांतानि, असंज्ञिषु मिथ्यादृष्टिसंज्ञकमेक, आहारेषु मिथ्यादृष्ट्यादिसंयोगांतानि, नोकर्मापेक्षयैतन्ना कवलाहारापेक्षया तस्याऽभावात् नाहारिषु मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टिसयोग्ययोगिसंज्ञकानि विग्रहप्रतरलोकपूरणापेक्षयेति ॥ १५९ ॥ __ जीवगुणमार्गणास्थानानि प्रतिपाद्य तत्सूचितं क्षेत्रप्रमाणं द्रव्यप्रमाणं च प्रतिपादयन्नाह;एइंदियाय पंचेंदिया य उडूमहोतिरियलोएसु । सयलविगलिंदिया पुणजीवातिरियंमिहोयंमि॥१६॥ - एकेंद्रियाः पंचेंद्रियाश्च ऊर्ध्वमधस्तिर्यग्लोकेषु। ..
सकलविकलेंद्रियाः पुनः जीवाः तिर्यग्लोके ॥ १६०॥ - टीका--एकेंद्रियाः पंचेंद्रियाश्च जीवा ऊर्ध्वलोके तिर्यग्लोके च भवंति विकलेंद्रियाः पुनः सकलाः समस्ताः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया असंज्ञिपंचेंद्रियाश्च तिर्यग्लोक एव नान्यत्र यतस्तेषां नरकादेव लोके सिद्धि क्षेत्रे चाभावः, यद्यपि पंचेंद्रिया ऊर्ध्वाधस्तिर्यग्लोकेषूक्ताः सामान्येन तथापि त्रयाणां लोकानामसंख्यातभागे तिष्ठतीति कैवल्यापेक्षया पुनर्लोकस्य संख्यातभागेऽसंख्यातभागेचासंज्ञिपंचेंद्रियेष्वपि तथैवेति ॥ १६०॥ __ 'पुनरप्यकेंद्रियाणां विशेषमाह;एइंदियाय जीवा पंचविधा वादरा य सुहुमा य । देसेहिं वादरा खलु मुहुमेहिं णिरंतरो लोओ ॥१६१ ॥ . एकेद्रिया जीवा: पंचविधा बादराश्च सूक्ष्माश।
देशैः बादराः खलु सुक्ष्मः निरंतरो लोकः ॥ १६१ ॥ ' ' जीवगुणस्थानानीतिमाठान्तम् ।
-