SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २८२ मूलाचारे manna · टीका-एकेंद्रिया जीवाः पंचप्रकाराः पृथिवीकायादिवनस्पतिपर्यंतास्ते प्रत्येकं वादरसूक्ष्मभेदेन द्विप्रकारा एककशो वादराः सूक्ष्माश्च, लोकस्यैकदेशे वादरा यतो वातवलये पृथिव्यष्टकं विमानपटलानि वाश्रित्य तिष्ठतीति, सूक्ष्मैः पुनर्निरंतरो लोकः, सूक्ष्माः सर्वस्मिन् लोके तै रहितः काश्चदपि प्रदेशो नेति ॥ १६१ ॥ यस्मात्-- अस्थि अणंता जीवा जेहिं ण पत्तो तसाण परिणामो मावकलंकसु पउरा णिगोदवासं अमुंचंता ॥ १६२॥ सन्ति अनंता जीवा येः न प्राप्तः त्रसानां परिणामः । भावकलंकसु प्रचुरा निगोदवासं अमुंचंता ॥ १६२ ॥ टीका-संति विद्यतेऽनंता जीवास्ते यैः कदाचिदपि न प्राप्तस्त्रसपरिणामः द्वीन्द्रियादिस्वरूपं, भावकलंकप्रचुरा मिथ्यात्वादिकलुषिताः निगोदवासमत्यजंतः सर्वकालं । सूक्ष्मवनस्पतिस्वरूपेण व्यवस्थिता ये जीवास्तादृग्भूता अनंताः संतीति ॥ १६२ ॥ सर्वलोके तावत्तिष्ठति किंतु;एगणिगोदसरीरे जीवा दव्वप्पमाणदो दिट्ठा। सिद्धेहिं अणंतगुणा सव्वेण वितीदकालेण ॥ १६३ ॥ एकनिगोदशरीरे जीवा द्रव्यप्रमाणतो दृष्टाः । सिद्धैरनंतगुणाः सर्वेणाप्यतीतकालेन ॥१६३ ॥ टीका-एकनिगोदशरीरे गुडूच्यादिवनस्पतिसाधारणकाये जीवा अनंतकायिका द्रव्यप्रमाणतः संख्यया दृष्टाः जिनैः प्रतिपादिताः सिद्धैरनंतगुणाः सर्वेणाप्यतीतकालेन । एकनिगोदशरीरे ये तिष्ठति ते सिद्धैरनंतगुणा इत्यवगाह्यावगाहनमाहात्म्यादसंख्यातप्रदेशे लोके कथमनंतास्तिष्ठं
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy