SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्याधिकाराः। तीति नाशंकनीयमिति, एवं सर्वासु मार्गणास्वस्तित्वपूर्वकं क्षेत्रप्रमाणं द्रष्टव्यं स्पर्शनमप्यत्रापि द्रष्टव्यं यतोऽतीतविषयं स्पर्शनं वर्तमानविषयं क्षेत्र मिति ॥ १६३॥ द्रव्यप्रमाणं निरूपयन्नाह;एइंदिया अणंता वणप्फदीकायिगा णिगोदेसु । पुढवी आऊ तेऊ वाऊ लोया असंखिज्जा ॥ १६४॥ एकेंद्रिया अनंता वनस्पतिकायिका निगोदेषु । पृथ्वी आपः तेजः वायवः लोका असंख्याताः ॥ १६४॥ टीका-निगोदेषु ये वनस्पतिकायिककेंद्रिया जीवास्तेऽनंतास्तथा पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिकाः सर्व एते सूक्ष्मा:: प्रत्येकमसंख्यातलोकप्रमाणा असंख्याता लोकानां यावन्तः प्रदेशास्ताव-- न्मात्रा वादराः पुनः प्रतरा असंख्यातभागमात्रा विशेषः परमागमतो. द्रष्टव्य इति ॥ १६५॥ त्रसकायिकानां संख्यामाह;तसकाइया असंखा सेढीओ पदरछेदणिप्पण्णा! सेसासु मग्गणासुवि णेदव्वा जीव समासेज्ज ॥ १६५॥॥ त्रसकायिका असंख्याताः श्रेण्यः प्रतरछेदनिष्पन्नाः । शेषासु मार्गणास्वपि नेतव्या जीवाः समाश्रित्य ॥ १६५॥ टीका-त्रसकायिका द्वीन्द्रियत्रीन्द्रियचतुरिंद्रियपंचेंद्रियाः प्रत्येकमसं-- ख्याताः श्रेणयः प्रतरच्छेदनिष्पन्नाः प्रतरासंख्येयभागप्रमिता: त्रसकायिकाःप्रतरासंख्येयभागमात्राः स च प्रतरासंख्यातभागः असंख्याताः श्रेणयः प्रतरांगुलस्यासंख्यातभागेन जगच्छ्रेणेः भागे हृते यल्लब्धं तावन्मात्राः श्रेणय. इति एवं शेषास्वपि मार्गणासु जीवानाश्रित्य प्रमाणं नेतव्यं ज्ञातव्यमितिः आगमानसारेण । तयथानरकगतौ नारकाः प्रथमपृथिव्यां मिथ्यादृष्टयोऽसं
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy