________________
५०
मूलाचारे
विहारशुद्धिं विवृण्वन्नाह;मुत्ता णिराववेक्खा सच्छंदविहारिणो जहा वादो। हिंडंति णिरुबिग्गा जयरायरमंडियं वसुहं ॥ ३१॥
मुक्ता निरपेक्षाः स्वच्छंदविहारिणः यथा वातः। हिंडते निरुद्विग्ना नगराकरमंडितायां वसुधायां ॥ ३१ ॥
टीका-मुक्ताः सर्वसंगरहिताः, निरपेक्षाः किंचिदम्यनीहमानाः, स्वच्छन्दविहारिणः स्वतंत्रा यथा वातो वात इव नगराकरमंडितायां वसुधायां पृथिव्यां हिण्डंते भ्रमंतीति ॥ ३१॥
ननु विहरतां कथं नेर्यापथकर्मबन्ध इत्याशंकायामाह;वसुधम्मि वि विहरंता पडि ण करेंति कस्सइ कयाई। जीवेसु दयावण्णा माया जह पुत्तभंडेसु ॥ ३२॥ वसुधायामपि विहरंतः पीडां न कुर्वति कस्यचित् कदाचित् । जीवेषु दयापन्ना माता यथा पुत्रभांडेषु ॥ ३२॥ टीका-वसुधायां विहरंतोऽपि पृथिव्यां पर्यटतोऽपि पीडां व्यथां न कुर्वति नोत्पादयति कस्यचिज्जीवविशेषस्य कदाचिदपि जीवदयायां प्रवृत्ताः, यथा माता जननी पुत्रपुत्रीषु दयां विदधाति तथैव तेऽपि न कुर्वति कस्यापि कदापि पीडामिति ॥ ३२ ॥
ननु नानादेशेषु विहरतां कथं सावधपरिहार इत्याशंकायामाह;जीवाजीवविहत्तिं णाणुजोएण सुटु णाऊण । तो परिहरंति धीरा सावज जत्तियं किंचि ॥ ३३॥
१'जीवदयायामापन्नाः सर्वप्राणिदयापरा यतः यथा माता जननी पुत्रभांडेषु, जननी यथा पुत्रविषयेऽतीव हितमाचरति तथा तेऽपि साधवः सर्वजीवविषयदयायां प्रवृत्ताः, इति ख-पुस्तके पाठः । ग-पुस्तकेऽप्ययमेव पाठः।