________________
अनगारभावनाधिकारः ।
च वर्जयन्तीत्यर्थः, सूत्रार्थ च सूत्रमर्थं तदुभयं च चिंतयंतो भावयतो निद्रावशं न गच्छंति-न निद्रा-राक्षस्याः पीड्यंत इति ॥ २८ ॥
तत्रासनविधानं च प्रतिपादयन्नाह;पलियंकणिसिज्जगदा वीरासणएयपाससाईया । ठाणुक्कडेहिं मुणिणो खवंति रत्तिं गिरिगुहासु ॥२९॥
पर्यकनिषद्यागता वीरासनैकपार्श्वशायिनः। ... स्थानोत्कुटिकाभ्यां मुनयःक्षपयंति रात्रि गिरिगुहासु ॥ २९॥
टीका-गतशब्दः प्रत्येकमभिसंबध्यते, पर्यंकं गताः पर्यङ्कण स्थिताः, निषद्यां गताः सामान्येनोपविष्टाः, वीरासनं च गता वीराणामासनेन स्थितास्तथैकपार्श्वशायिनस्तथा स्थानेन कायोत्सर्गेण स्थिता उत्कुटिकेन स्थितास्तथा हस्तिशुंडमकरमुखायासनेन च स्थिता मुनयः क्षपयंति नयंति गमयंति रात्रिं गिरिगुहासु नान्यथेति समाधानताऽनेन प्रकारेण प्रतिपादिता भवतीति ॥ २९ ॥
प्रतीकाररहितत्वं निष्काश्त्वं च प्रतिपादयन्नाह;उवधिभरविप्पमुक्का वोसटुंगा णिरंबरा धीरा। णिकिंचण परिसुद्धा साधू सिद्धिं वि मग्गंति ॥ ३०॥
उपधिभरविप्रमुक्ता व्युत्सृष्टांगा निरंबरा धीराः । निष्किचनाः परिशुद्धाः साधवः सिद्धिं आप मृगयंते ॥ ३०॥ टीका-उपधिभरविप्रमुक्ताः श्रामण्यायोग्योपकरणभारेण सुष्ठ मुक्ताः, व्युत्सृटांगास्त्यक्तशरीराः, निरंबरा नाग्न्यमधिगताः, धीरा सुष्ठु शूराः, निष्किचना निर्लोभाः, परिशुद्धाः कायवाङ्गनोभिः शुद्धाचरणाः साधवः, सिद्धिं कर्मक्षयं समिच्छंति मृगयंते, तेनेहलोकाकांक्षा परलोकाकांक्षा च परीषहप्रतीकारश्च न विद्यते तेषामिति ख्यापितं भवति । वसतिशुद्ध्या तपःसूत्रसत्वैकत्वधृतिभावनाश्च प्रतिपादिता इति ॥ ३०॥