________________
मूलाचारे
सिंहा इव नरसिंहाः पर्वततटकटककंदरगुहासु। जिनवचनमनुमन्यंतो अनुद्विग्नमनसः परिवसंति ॥ २६ ॥
टीका-सिंहा इव सिंहसदृशा नरसिंहा नरप्रधानाः पर्वततटकटके "पर्वतस्याधोभागस्य सामीप्य तटं ऊर्श्वभागस्य सामीप्यं कटकं” पर्वततटकटककन्दरागुहासु जिनवचनमनुगणयन्तो जिनागमं तत्त्वेन श्रद्दधाना अनुद्विग्नमनस उत्कंठितमानसा: परि-समन्ताद्वसंतीति ॥ २६ ॥
तथा;सावदसयाणुचरिये परिभयभीमंधयारगंभीरे। धम्माणुरायरत्ता वसंति रत्तिं गिरिगुहासु ॥ २७ ॥
श्वापदसदानुचरिते परिभयभीमे अंधकारगंभीरे । धर्मानुरागरक्ता वसंति रात्रौ गिरिगुहासु ॥ २७ ॥ टीका-श्वापदसदानुचरिते सिंहव्याघ्रादिभिः सर्वकालं परिसेविते परिभयभीमे समंताद्भयानकेऽन्धकारे आदित्यकिरणानामपि दुष्प्रवेशे गंभीरे सुष्टु गहने वने इति संबंध: । धर्मानुरागरक्ताश्चारित्रानुष्ठानतत्परा रात्रौ वसंति गिरिगुहास्विति ॥ २७॥
तादृग्भूते वने रात्रौ केन विधानेन वसंतीत्त्याशंकायामाह;सज्झायझाणजुत्ता रत्तिं ण सुवंति ते पयामं तु । सुत्तत्थं चिंतंता णिदाय वसं ण गच्छति ॥ २८॥ . स्वाध्यायध्यानयुक्ता रात्रौ न स्वपंति ते प्रयामं तु ।
सूत्रार्थ चिंतयंतः निद्राया वशं न गच्छति ॥ २८॥ टीका-स्वाध्यायध्यानयुक्ताः श्रुतभावनायां युक्ता एकाग्रचिंतानिरोधे ध्याने च तत्परमानसा रात्रौ न स्वपंति ते मुनयः, प्रयामं प्रचुर-प्रथमयाम पश्चिमयाम