________________
अनगारभावनाधिकारः ।
सत्पुरुषेभ्यः अवस्थानमभिवांछंति सत्पुरुषाः सत्वाधिकाः श्वापदबहुघोरगंभीरा वसतय इत्यभिसंबंध: सिंहव्याघ्रसर्पनकुलादिबाहुल्येन रौद्रगहनस्थानेष्वावासमभिवांछंतीति ॥ २३॥
४७
तथा;—
एयंतम्मि वसंता वयवग्घतरच्छ अच्छभल्लाणं । आगुंजयमारसियं सुणंति सद्दं गिरिगुहासु ॥ २४ ॥ एकांते वसंतो वृकव्याघ्रतरक्षुक्रक्षभल्लानां । आगुंजितमारसितं शृण्वंति शब्द गिरिगुहासु ॥ २४ ॥ टीका - एकान्ते गिरिगुहासु वसंतः संतिष्ठमाना वृकव्याघ्रतरक्षऋक्षभल्लादीनामागुंजितमारसितं शब्दं शृण्वंति तथाऽपि सत्वान्न विचलंतीति ॥ २४ ॥
तथा;——
रत्तिंचरसउणाणं णाणारुद्ररसिदभीदसद्दझलं । उणावेंति वर्णतं जत्थ वसंता समणसीहा ॥ २५ ॥ रात्रिचरशकुनानां नानारुतरसितभीतशब्दालं । उन्नादयंति वनांतं यत्र वसति श्रमणसिंहाः ॥ २५ ॥
टीका — रात्रौ चरन्तीति रात्रिंचरा उल्कादयस्तेषां शकुनीनां नानारुतानि नानाभातिशब्दांश्च * अलमत्यर्थ उण्णावेंति * उन्नादियंति प्रतिशब्दयन्ति वनातं वनमध्यं, उद्गतशब्दं सर्वमपि वनं गह्वराटवीं कुर्वन्ति यत्र वसन्ति श्रमणसिंहा इति ॥ २५ ॥
तथा;
सीहा व णरसीहा पव्वयतडकडयकंदरगुहासु । जिणवयणमणुमणंता अणुविग्गमणा परिवसति ॥ २६ ॥
* पुष्पमध्यगतः पाठः प्रेस - पुस्तके नास्ति ।