________________
५४
मूलाचारे
गर्भवसतिभ्यो भीताः संतः किमिच्छंतीति;दिट्ठपरमट्ठसारा विण्णाणवियक्खणाय बुद्धीए । णाणकयदीवियाए अगब्भवसदी विमगंति ॥४१॥
दृष्टपरमार्थसारा विज्ञानविचक्षणया बुद्ध्या ॥ ज्ञानकृतदीपिकया अगर्भवसतिं विमृगयन्ते ॥४१॥ टीका-ते साधवो दृष्टपरमार्थसाराः संसारस्य शरीरस्य भोगानां च दृष्टज्ञातं सारं परमार्थरूपं यैस्ते तथाभूताः, विज्ञानेन विचक्षणया बुझ्या मतिज्ञाना दिना सुष्टु कुशलतया विज्ञानविचक्षणया बुझ्या ज्ञानकृतदीपिकया श्रुतज्ञानदीपेन चागर्भवसतिं विशेषेण मृगयंते समीहंत इति ॥ ४१ ॥
विहरतः किं भावयतीत्याह;भावेति भावणरदा वइरग्गं वीदरागयाणं च । णाणेण दंसणेण य चरित्तजोएण विरिएण ॥ ४२ ॥ भावयति भावनारता वैराग्यं वीतरागाणां च । ज्ञानेन दर्शनेन च चारित्रयोगेन वीर्येण ॥ ४२॥ टीका-भावनायां रता वीतरागाणां ज्ञानदर्शनचारित्रयोगैवीर्येण च सह वैराग्यं भावयन्तीति ॥ ४२ ॥
तथा;देहे णिरावयक्खा अप्पाणं दमरुई दमेमाणा। । धिदिपग्गहपग्गहिदा छिदंति भवस्स मूलाई ॥४३॥
देहे निरपेक्षा आत्मानं दमरुचयः दमयंतः। धृतिप्रग्रहप्रगृहीता छिंदंति भवस्य मूलानि ॥४३॥