SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ___अनगारभावनाधिकारः । भवन्ति, मध्यस्थाः समदर्शिनः, निभृताः संकुचितकरचरणाः कूर्मवत्, अलोला निराकांक्षाः, अशठा मायाप्रपंचरहिताः, आविस्मिताः कामभोगेषु कामभोगविषये विस्मयरहिताः कृतानादरा इति ॥ ३८ ॥ तथा; जिणवयणमणुगणेता संसारमहब्भयं हि चिंतता। गब्भवसदीसु भीदा भीदा पुण जम्ममरणेसु ॥ ३९ ॥ जिनवचनमनुगणयंतः संसारमहाभयं हि चिंतयंतः। गर्भवसतिषु भीता भीताः पुनः जन्ममरणेषु ॥ ३९॥ टीका-जिनवचनमनुगणयंतोऽहंदागमरांजितमतयः, संसारान्महद्भय : चिन्तयंतः संत्रस्तमनसः, गर्भवसतिषु गर्भवासविषये भीताः सुष्टु त्रस्ताः, पुनरपि जन्ममरणेषु भीता जातिजरामरणविषये च सम्यग्भीता इति ॥ ३९ ॥ कथं कृत्वा गर्भवसतिषु भीता इत्याशंकायामाह;घोरे णिरयसरिच्छे कुंभीपाए सुपञ्चमाणाणं । रुहिरचलाविलपउरे वसिदव्वं गब्भवसदीसु ॥ ४०॥ घोरे नरकसदृशे कुंभीपाके सुपच्यमानानां । रुधिरचलाविलप्रचुरे वस्तव्यं गर्भवसतिषु ॥४० ॥ टीका-घोरे भयानके नरकसदृशे कुंभीपाके “ व्यथां कृत्वा संदहनं कुंभीपाकः” तस्मिन् सुपच्यमानानां सुष्ठु संतप्यमानानां “ कर्तरि षष्ठी" तेन सुपच्यमानैरित्यर्थः, रुधिरचलाविलप्रचुरे रुधिरेण चले आविले वीभत्सेऽथवा वीभसेन प्रचुरे वस्तव्य स्थातव्यं, उदरे गर्भे, एवं विशिष्टे गर्भे या वसतयस्तासु वस्तव्यमस्माभिरहो इति ॥ ४०॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy